सूतः-
एतस्मिन्नेव काले तु भगिन्यौ ते तपोधन।
अपश्यतां समायान्तं उच्चैःश्रवसमन्तिकात्॥
यं ते देवगणाः सर्वे हृष्टरूपाह्यपूजयन्।
मथ्यमानेऽमृते जातं अश्वरत्नमनुत्तमम्॥
महौघबलमश्वानां दिव्यं जववतां वरम्।
श्रीमन्तमजरं दिव्यं सर्वलक्षणलक्षितम्॥
शौनकः
कथं तदमृतं देवैर् मथितं क्क च शंस मे।
यत्र जज्ञे महावीर्यः सोऽश्वराजो महाद्युतिः॥
सूतः-
ज्वलन्तमचलं मेरुं तेजोराशिमनुत्तमम्।
आक्षिपन्तं प्रभां भानोः स्वशृङ्गैः काञ्चनोज्ज्वलैः॥
कञ्चनाभरणं चित्रं देवगन्धर्वसेवितम्।
अप्रमेयमनाधृष्यं अधर्मबहुलैर्जनैः॥
व्यालैराचरितं घोरैर् दिव्यौषधिविदीपितम्।
नाकमावृत्य तिष्ठन्तम् उच्छ्रयेण महागिरिम्॥
अगम्यं मनसाप्यन्यैर् नदीवृक्षगणान्वितम्।
नानापतगसङ्घैश्च नादितं सुमनोहरैः॥
तस्य पृष्ठं समारुह्य बहुरत्नाचितं शुभम्।
अनन्तकल्पमद्वन्द्वं सुराः सर्वे महौजसः॥
ते मन्त्रयितुमारब्धास् तत्रासीना दिवौकसः।
अमृतार्थे समागम्य सर्वे चन्द्रपुरोगमाः॥
तत्र नारायणो देवो ब्रह्माणमिदमब्रवीत्।
चिन्तयत्सु सुरेष्वेवं मन्त्रयत्सु च सर्वशः॥
देवैरसुरसङ्घैश्च मथ्यतां कलशोदधिः।
भविष्यत्यमृतं तत्र मथ्यमाने महोदधौ॥
सर्वोषधीः समावाप्य सर्वरत्नानि चैव ह।
मन्थध्वमुदधिं देवा वेत्स्यध्वममृतं ततः॥॥