शौनकः-
सौते कथय तत्वेन विस्तरेण कथामिमाम्।
अस्तीकस्य कवेःसाधोः शुश्रूषा परमा हि नः॥
मधुरं कथ्यते सौम्य श्लक्ष्णाक्षरपदं त्वया।
प्रीयामहे भृशं तात पितेवेदं प्रभाषसे॥
अस्मच्छुश्रूषणे नित्यं पिता हि निरतस्तव।
आचष्टे तद्यथाऽऽख्यानं पिता ते त्वं तथा वद॥
सूत-
आयुष्मन्निदमाख्यानं आस्तीकं कथयामि ते।
यथाश्रुतं कथयतः सकाशाच्च पितुर्मया॥
पुरा देवयुगे ब्रह्मन् पितामहसुते शुभे।
आस्तां भगिन्यौ रूपेण समुपेतेऽद्भुते तदा ॥
ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता तथा।
प्रादात्ताभ्यां वरौ प्रीतः प्रजामहसमः पतिः॥
काश्यपो धर्मपत्नीभ्यां परया च मुदान्वितः।
वरातिसर्गं श्रुत्वैव काश्यपादुत्तमं च ते॥
हर्षादप्रतिमां प्रीतिं प्रापतुः स्म वरस्त्रियौ।
वव्रे कद्रूः सुतान्नागान् सहस्रं तुल्यतेजसः॥
द्वौ पुत्रौ विनता वव्रे कद्रूपुत्राधिकौ बले।
ओजसा तेजसा चैव विक्रमेणाधिकौ सुतौ॥
तस्यै भर्ता वरं प्रादाद् ईदृशौ तौ भविष्यतः।
एवमस्त्विति तं चाह काश्यपं विनता तदा॥
कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ।
कद्रूश्च लब्ध्वा पुत्राणां सहस्रं तुल्यतेजसाम्॥
धार्यौ प्रयत्नतो गर्भाौ इत्युक्त्वा स महातपाः।
ते भार्ये वरसंहृष्टे कश्यपो वनमाविशत्॥
कालेन महता कद्रूरण्डानां दशतीर्दश
जनयामास विप्रेन्द्र द्वे त्वण्डे विनता तदा ॥
ततोऽप्यण्डानि निदधुः प्रहृष्टाः परिचारिकाः।
सोपवस्तुषु कुण्डेषु पञ्चवर्षशतानि च॥
ततः पञ्चशते वर्षे कद्रूपुत्रा विनिस्सृताः।
अण्डाभ्यां विनतायास्तु मिथुनं न नाप्यदृश्यत ॥
ततः पुत्रार्थिनी देवी व्रीडिता सा तपस्विनी।
अण्डं बिभेद विनता तत्र पुत्रमदृश्यत॥
पूर्वार्धकायसम्पन्नं इतरेणाप्रकाशितम्।
स पुत्रो रोषसम्पन्नः शशापैनामिति श्रुतम्॥
सोऽहमेवं कृतो मातस्त्वया लोभपरीतया।
शरीरेणासमग्रोऽद्य तस्माद्दासी भविष्यसि ॥
पञ्च वर्षशतान्यस्या यया विस्पर्धसे सह।
एष च त्वां सुतो मातर्दास्यकान्मोक्षयिष्यति॥
यद्येनमपि मातस्त्वं मामिवाण्डविभेदनात्।
न करिष्यस्यदेहं वा व्यङ्गं वापि तपस्विनम्॥
प्रतिपालयितव्यस्ते जन्मकालोऽस्य धीरया।
विशिष्टं फलमीप्सन्त्या पञ्चवर्षशतात्परम्॥
सूतः-
एवं शप्त्वा ततः पुत्रो विनतामन्तरिक्षगः।
अरुणो दृश्यत ब्रह्मन् प्रभातसमये तदा॥
गरुडोऽपि यथाकालं जज्ञे पन्नगसूदनः।
स जातमात्रो विनतां परित्यज्य खमाविशत्॥
आदास्यन्नात्मनो भोज्यं अन्नं विहितमस्य यत्।
विधात्रा भृगुशार्दूल क्षुधितस्य बुभुक्षतः॥॥