सूतः
महदाक्यानमास्तीकं यथैतत्प्रोच्यते बुधैः।
सर्वमेतदशेषेण शृणु मे वदतां वर॥
इतिहासमिमं वृद्धाः पुराणं परिचक्षते।
कृष्णद्वैपायनप्रोक्तं नैमिषारण्यवासिभिः॥
पूर्वं प्रचोदितः सूतः पिता मे रोमहर्षणः।
शिष्यो व्यासस्य मेधावी ब्राह्मणैरिदमुक्तवान्॥
तस्मादहमुपश्रुत्य प्रवक्ष्यामि यथातथम्।
इदमास्तीकमाख्यानं तुभ्यं शौनक पृच्छते॥
आस्तीकस्य पिता ह्यासीत् पितिमहसमो भुवि।
ब्रह्मचारी यताहारस्तपस्युग्रे रतस्तदा॥
जरत्कारुरिति ख्यात ऊर्ध्वरेता महानृषि।
यायावराणां धर्मज्ञः सततं संशितव्रतः॥
अटमानः कदाचित्स स्वान् ददर्श पितामहान्।
लम्बमानान्महागर्ते पादैरूर्ध्वैरवाङ्मुखान्॥
जरत्कारु-
तानब्रवीत्स दृष्ट्वै जरत्कारुः प्रतापवान्।
के वै भवन्तो लम्बन्ते गर्तेऽस्मिन्वै ह्यधोमुखाः॥
वीरणस्तम्बके लग्नाः सर्वतः परिभक्षिते।
मूषकेन निगूढेन गर्तेऽस्मिन्नित्यवासिना॥
पितरः-
यायावरा नाम वयं ऋषयः संशितव्रताः।
संतानप्रक्षयाद्ब्रह्मन् अधो गच्छाम मेदिनीम्॥
अस्माकं सन्ततिस्त्वेको जरत्कारुरिति श्रुतः।
मन्दभाग्योऽल्पभाग्यानां तप एव समाश्रितः॥
न स पुत्राञ्जनयितुं दारान्मूढश्चिकीर्षति।
तेन लम्बामहे गर्ते सन्तानप्रक्षयादिह॥
अनाथास्तेन नाथेन यथा दुष्कृतिनस्तथा।
कस्त्वं बन्धुरिहास्माकमनुशोचसि सत्तम ॥
ज्ञातुमिच्छामहे ब्रह्मन् को भवानिह तिष्टति।
किमर्थं चैव नः शोच्यान् अनुकम्पितुमुच्छति॥
जरत्कारु-
मम पूर्वे भवन्तो वै पितरः सपितामहाः।
ब्रूत किं करवाण्यद्य जरत्कारुरहं स्वयम्॥
पितरः-
यतस्व यत्नवांस्तात सन्तानाय कुलस्य नः।
आत्मनोऽर्थेऽस्मदर्थे वा गृहमेधी भवाद्य भो॥
न हि धर्मफलैस्तात न तपोभिः स्वसञ्चितैः।
तां गतिं प्राप्नुवन्तीह पुत्रिणो यां व्रजन्ति च ॥
तद्दारग्रहणे यत्नं सन्तत्यर्थे मनः कुरु।
पुत्रक त्वां नियोक्ष्याम एतन्नः परमं हितम्॥
जरत्कारुः-
न दारान्वै करिष्येऽहं इति मे भाषितं मनः।
भवतां तु हितार्थाय करिष्ये दारसङ्ग्रहम्॥
समयेन च कर्ताऽहं अनेन विधिपूर्वकम्।
तथा यद्युपलप्स्यामि करिष्ये नान्यथा त्वहम्॥
सनाम्नी या भवित्री मे दित्सिता चैव बन्धुभिः।
भैक्ष्यवत्तामहं कन्यां उपयंस्ये विधानतः॥
दरिद्राय हि मे कन्यां को दास्यति विशेषतः।
प्रतिग्रहीष्ये भिक्षां तु यदि कश्चित्प्रदास्यति॥
एवं दारक्रियायोगे प्रयतिष्ये पितामहाः।
अनेन विधिना शश्वत् करिष्ये नाहमन्यथा॥
तत्रोत्पत्स्यति चेज्जन्तुर् भवतां तारणाय वै।
शाश्वतं स्थानमासाद्य मोदन्तु पितरो मम॥
सूतः-
ततो निवेशाय तदा स विप्रः संशितव्रतः।
महीं चचार दारार्थी न च दारांस्त्वविन्दत॥
स कदाचिद्वनं गत्वा विप्रः पितृवचः स्मरन्।
चुक्रोश कन्याभिक्षोति तिस्रो वाचः शनैः शनैः॥
तं वासुकिः प्रत्यगृह्णाद् उद्यम्य भगिनीं तदा।
न स तां प्रतिजग्राह न सनाम्नीति चिन्तयन्॥
सनाम्नीमुत्तमां भार्यां गृह्णीयामिति तस्य हि।
मनो निविष्टमभवज् जरत्कारोर्महात्मनः॥
तमुवाच महाप्राज्ञो जरत्कारुर्महातनाः।
किन्नाम्नी भगिनीयं ते ब्रूहि स त्वं भुजङ्गम॥
वासुकिः-
जरत्कारो जरत्कारुः स्वसेयमनुजा मम।
त्वदर्थं रक्षिता पूर्वं प्रतीच्छेमां द्विजोत्तम॥
सूतः
मात्रा हि भुजगाः शप्ताः पूर्वं ब्रह्मविदां वर।
जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः॥
तस्य शापस्य शान्त्यर्थं प्रददौ पन्नगोत्तमः।
स्वसारमृषये तस्मै सुवृत्ताय महात्मने॥
स च तां प्रतिजग्राह विधिदृष्टेनं कर्मणा।
आस्तीको नाम पुत्रश्च तस्यां जज्ञे महामनाः॥
तपस्वी च महात्मा च वेदवेदाङ्गपारगः।
समः सर्वस्य लोकस्य पितृमातृभयापहः॥
अथ कालस्य महतः पाण्डवेयो नराधिपः।
आजहार महायज्ञं सर्पसत्रमिति श्रुतिम्॥
तस्मिन्प्रवृत्ते सत्रे तु सर्पाणामन्तकाय वै।
मोचयामास ताञ्शापाद् आस्तीकः स महातपाः॥
नागांश्च मातुलांश्चैव तथा सम्बन्धिबान्धवान्।
पितॄंश्च तारयामास सन्तत्या तपसा तथा॥
व्रतैश्च विविधैर्ब्रह्मन् स्वाध्यायैश्चानृणोऽभवत्।
देवांश्च तर्पयामास यज्ञैर्विविधदक्षिणैः॥
ऋषींश्च ब्रह्मचर्येण सन्तत्या च पितामहान्।
अपहृत्य गुरं भारं पितॄणां संशितव्रतः॥
जरत्कारुर्गतः स्वर्गं सहितः स्वैः पितामहैः।
आस्तीकं च सुतं प्राप्य धर्मं चानुत्तमं मुनिः।
जरत्कारुः सुमहता कालेन स्वर्गमेयिवान्॥
एतदाख्यानमास्तीकं यथावत्कथितं मया।
प्रब्रूहि भृगुशार्दूल किं भूयः कथ्यामिति॥