किमर्थं राजशार्दूलः स राजा जनमेजयः।
सर्पसत्रेण सर्पाणां गतोऽन्तं तद्वदस्व मे॥
अस्तीकस्तु द्विजश्रेष्ठः किमर्थं जपतां वरः।
मोक्षयामास भुजगान् दीप्तात्तस्माद्धुताशनात् ॥
कस्य पुत्रः स राजासीत् सर्पसत्रं य आहरत्।
स च द्विजातिप्रवरः कस्य पुत्रो वदस्व तत्॥
श्रोतुमिच्छाम्यशेषेण कथामेतां मनोहराम्।
अस्तीकस्य पुराणस्य ब्राह्मणस्य तपस्विनः ॥