सूतः-
तेषु तत्रोपविष्टेषु ब्राह्मणेषु समन्ततः ।
रुरुः शोकसमापन्नः प्ररुरोद सुदुःखितः ॥
शोकेनाभिहतः सोऽथ विलपन्करुणं बहु ।
अब्रवीद्वचनं शोचन् प्रियां चिन्त्य प्रमद्वराम् ॥
शेते सा भुवि तन्वङ्गी मम शोकविवर्धिनी ।
बान्धवानां च सर्वेषां किं नु दुःखमतःपरम् ॥
यदि दत्तं तपस्तप्तं गुरवो वा मया यदि ।
सम्यगाराधितास्तेन सा जीवतु मम प्रिया ॥
तथा च जन्मप्रभृति यतात्माऽहं धृतव्रतः ।
प्रमद्वरा तथाद्यासौ उत्तिष्ठतु मम प्रिया ॥
प्रलपन्तमतीवार्तं रुरुं दीनतरं तदा ।
देवदूतः समागम्य वचनं चेमब्रवीत् ॥
देवदूतः-
अभिधत्सेभवान्वाचा रुरो दुःखेन तन्मृषा ।
न तु मर्त्यस्य धर्मात्मन् आयुरस्तु गतायुषः ॥
गतायुरेषा कृपणा गन्धर्वाप्सरसोः सुता ।
तस्माच्छोके मनस्तात मा कृथास्त्वं कथञ्चन ॥
उपायश्चात्र विहितः पूर्वं देवैर्महात्मभिः ।
तं यदीच्छसि कर्तुं त्वं लप्स्यसीमां प्रमद्वराम् ॥
रुरुः-
क उपायः कृतो देवैर् बूहि तत्त्वेन खेचर ।
करिष्येऽहं तथा श्रुत्वा त्रातुमर्हति मां भवान् ॥
देवेदूतः-
आयुषोऽर्धं प्रयच्छस कन्यायै भृगुनन्दन ।
एवमुत्थास्यति रुरो तव भार्या प्रमद्वरा ॥
रुरुः-
आयुषोऽर्धं प्रयच्छामि कन्यायै खेचरोत्तम ।
शृङ्गाररूपाभरणा सोत्तिष्ठतु मम प्रिया ॥
सूतः-
ततो गन्धर्वराजश्च देवदूतश्च सत्तम ।
धर्मराजमुपेत्येदं वचनं प्रत्यभाषताम् ॥
देवदूतः-
धर्मराजायुषोऽर्धेन रुरोर्भार्या प्रमद्वरा ।
समुत्तिष्ठतु कल्याणी मृतैव यदि मन्यसे ॥
धर्मराजः-
प्रमद्वरा रुरोर्भार्या देवदूत यदीच्छसि ।
उत्तिष्ठत्वायुषोऽर्धेन रुरोरेव समन्विता ॥
सूतः-
एवमुक्ते ततः कन्या सोदतिष्ठत् प्रमद्वरा ।
रुरोस्तस्यायुषोऽर्धेन सुप्तेव वरवर्णिनी ॥
एतद्दृष्टं महात्कर्म रुरोरुत्तमतेजसः ।
तपसातिप्रवृद्धस्य भार्यार्थेऽर्धं प्रयच्छतः ॥
तत इष्टेऽहनि तयोः पितरौ चक्रतुर्मुदा ।
विवाहं तौ च रेजाते परस्परहितैषिणौ ॥
स लब्ध्वा दुर्लभां भार्यां पद्मकिञ्जल्कसप्रभाम् ।
मतिं चक्रे विनाशाय जिह्मगानां धृतव्रतः ॥
स दृष्ट्वा जिह्मगान् सर्वांस् तीक्ष्णकोपसमन्वितः ।
अभिहन्ति यथासन्नं गृह्य प्रहरणं तदा ॥
स कदाचिद्वनं विप्रो रुरुरभ्यागमन्महत् ।
शयानं तत्र चापश्यड् डुण्डुभं वयसान्वितम् ॥
तत उद्यम्य दण्डं स कालदण्डोपमं तदा ।
अहनत् कुपितो विप्रस् तमुवाचाथ डुण्डुभः ॥
नापराध्यामि ते किञ्चिद् अहमद्य तपोधन ।
संरम्भाोऽत्र किमर्थं वै मा मा हंसि रुषान्वितः ॥
रुरुः-
मम प्राणसमा भार्या दष्टासीद्भुजगेन वै ।
तत्र मे समयो घोर आत्मनोरग वै कृतः ॥
भुजङ्गमान् समाहन्यां यान् यान् पश्येयमित्युत ।
ततोऽहं त्वां जिघांसामि जीवितेन विमोक्ष्यसे ॥
डुण्डुभ-
अन्ये ते भुजगा प्रिय ये दशन्तीह मानवान् ।
डुण्डुभानहिशब्देन न त्वं हिंसितुमर्हसि ॥
एकानर्थान्पृथग्धर्मान् एकदुःखान्पृथक्सुखान् ।
डुण्डुभानाहिशब्देन न त्वं हिंसितुमर्हसि ॥
सूतः-
इति श्रुत्वा वचस्तस्य भुजगस्य रुरुस्तदा ।
नावधीद्भयसंविग्न ऋषिं मत्त्वा च डुण्डुभम् ॥
उवाच चैनं भगवान् रुरुस्तं भुजगं तदा ।
केन त्वं भुजग ब्रूहि कोऽसीमां विक्रियां गतः ॥
डुण्डुभः-
अहं पुरा रुरो नाम्ना ऋषिरासं सहस्रपात् ।
सोऽहं शापेन विप्रस्य भुजगत्वमुपागतः ॥
रुरुः-
किमर्थं शप्तवान्कुद्धो द्विजस्त्वां भुजगोत्तम ।
कियन्तं चैव कालं ते वपुरेतद्भविष्यसि ॥
डुण्डुभः-
सखा बभूव मे पूर्वं खगमो नाम वै द्विजः।
भृशं संशितवाक्तात तपोबलसमन्वितः॥
स मया क्रीडता सर्पं कृत्वा तृणमयं तदा ।
अग्निहोत्रे प्रमत्त सन् भीषितः प्रमुमोह वै॥
लब्ध्वा च स पुनः सञ्ज्ञां मामुवाच तपोधनः।
निर्दहन्निव कोपेन सत्यवाक्संशितव्रतः॥
यथावीर्यः कृतः सर्पस् त्वयायं मद्बिभीषया।
तथा वीर्यो भुजङ्गस्त्वं मम आत्मकोपाद्भविष्यसि॥
तस्याहं तपसो वीर्यं जानमानस्तपोधन।
भृशमुद्विग्नहृदयस् तमवोचं तपोधनम् ॥
प्रणतः सन् प्रमादाच्च प्राञ्जलिः प्रणतः स्थितः।
सखेति साहसं तात हास्यार्थं वै कृतं मया॥
क्षन्तुमर्हसि मे ब्रह्मञ् शापोऽयं विनिवर्त्यताम्।
स तु मामब्रवीद्दृष्ट्वा भृशमुद्विग्नचेतसम्॥
मुहुरुष्णं विनिश्चस्य सुसम्भ्रान्तस्तपोधनः।
नानृतं वै मया प्रोक्तं भवितेदं कथञ्चन॥
यत्तु वक्ष्यामि ते सर्वं शृणु तत् संशितव्रत।
श्रुत्वा च हृदि मे वाक्यं इदमस्तु तवानघ॥
उत्पत्स्यति रुरुर्नाम प्रमतेरात्मजः शुचिः।
तं दृष्ट्वा शापमोक्षस्ते भविता न चिरादिव ॥
स त्वं रुरुरिति ख्यातः प्रमतेरात्मजः शुचिः।
स्वरूपं प्रतिलभ्याहं अद्य वक्ष्यामि ते हितम्॥
अहिंसा परमो धर्मः सर्वप्राणभृतां वर।
तस्मात्प्राणभृतः सर्वान् न हिंसेद्ब्राह्मणः क्कचित्॥
ब्राह्मणः सौम्यभावेन जायतेति पुरा श्रुतिः।
वेदवेदाङ्गवित्तात सर्वभूताभयप्रदः॥
अहिंसा सत्यवचनं क्षमा चेति विनिश्चितम्।
ब्राह्मणस्य परो धर्मो वेदानां धारणादपि॥
क्षत्रियस्य च यो धर्मः स नेहेष्यति वै तव।
दण्डधारणमुग्रत्वं प्रजानां परिपालनम्॥
तदिदं क्षत्रियस्यासीत् कर्मणा शृणु मे रुरो।
जनमेजयस्य धर्मात्मन् सर्पाणां हिंसने पुरा॥
परित्राणं च भीतानां सर्पाणां ब्राह्मणादपि।
तपोवीर्यबलोपेताद् वेदवेदाङ्गपारगात्।
आस्तीकाद्द्विजमुख्याद्वै सर्पसत्रे द्विजोत्तम॥
रुरुः-
कथं हिंसितवान्सर्पान् क्षत्रियो जनमेजयः।
सर्पा वा हिंसितास्तेन किमर्थमृषिसत्तम॥
किमर्थं मोक्षितास्तेेन पन्नगाश्चैव शसं मे।
आस्तीकेन तदाचक्ष्व श्रोतुमिच्छाम्यशेषतः॥
ऋषि-
श्रोष्यसि त्वं रुरो वत्स अस्तीकचरितं महत्।
ब्राह्मणानां कथयतां इत्युक्त्वान्तरधीयत॥
सूत-
रुरुस्त्वथ वनं सर्वं पर्यधावत्समन्ततः।
तमृषिं द्रष्टुमन्विच्छन् संश्रान्तो न्यपतद्भुवि॥
लब्धसञ्ज्ञो रुरुः सोऽथ तच्चाचख्यौ पितुस्तदा।
पित्रे तु सर्वमाख्याय डुण्डुभस्य वचोऽर्थवत्॥
अपृच्छत्पितरं भूयः सोऽस्तिकस्य वचस्तदा।
आख्यातवांस्तदाऽऽख्यानं डुण्डुभेनाथ कीर्तितम्॥
तत्कीर्त्यमानं भगवञ् श्रोतुमर्हसि तत्त्वतः।
पिता चास्य तदाख्यानं पृष्टः सर्वं न्यवेदयत्॥