सूतः-
स चापि च्यवनो ब्रह्मन् भार्गवोऽजनयत्सुतम् ।
सुकन्यायां महाभागं प्रमतिं दीप्ततेजसम् ॥
प्रमतिस्तु रुरुं नाम घृताच्यां समजीजनत् ।
रुरुः प्रमद्वरायां तु शुनकः समपद्यत ॥
शौनकस्त्वं महाभागश् शुनकस्य सुतोऽभवत् ।
शौनकस्त्वं महासत्वः सर्वभार्गवनन्दनः ।
इज्यातपस्वी तीव्रे वै स्थिरः स्थितिवशः श्रुतः ॥
तस्य ब्रह्मन्रुरोः सर्वं चरितं भूरितेजसः ।
विस्तरेण प्रवक्ष्यामि तच्छृणु त्वमशेषतः ॥
ऋषिरासीन्महान्पूर्वं तपोविद्याविशारदः ।
स्थूलकेश इति ख्यातः सर्वभूतहिते रतः ॥
एतस्मिन्नेव काले तु मेनकायां प्रजज्ञिवान् ।
गन्धर्वराजो विप्रर्षेर् विश्वावसुरिति श्रुतः ॥
अथाप्सरा मेनका सा तं गर्भं भृगुनन्दन ।
उत्ससर्ज यथाकालं स्थूलकेशाश्रमं प्रति ॥
उत्सृज्य चैव तं गर्भं नद्यास्तीरे जगाम सा ।
कन्याममरगर्भाभां ज्वलन्तीमिव च श्रिया ।
तां ददर्श समुत्सृष्टां नदीतीरे महानृषिः ॥
स्थूलकेशः सुतेजस्वी विजने बन्धुवर्जिताम् ।
स तां दृष्ट्वा तदा कन्यां स्थूलकेशो द्विजोत्तमः ॥
जग्राहाथ मुनिश्रेष्ठः कृपाविष्टः पुपोष च ।
ववृधे सा वरारोहा तस्याश्रमपदे शुभा ॥
प्रमदाभ्यो वरा सा तु सर्वरूपगुणैर्युता ।
ततः प्रमद्वरेत्यस्या नाम चक्रे महानृषिः ॥
तामाश्रमपदे तस्य रुरुर्दृष्ट्वा प्रमद्वराम् ।
बभूव किल धर्मात्मा मदनानुगतात्मवान् ॥
पितरं सखिभिः सोऽथ याचयामास भार्गवः ।
प्रमतिश्चाभ्ययाच्छ्रुत्वा स्थूलकेशं यशस्विनम् ॥
ततः प्रादात्तदा कन्यां रुरवे तां प्रमद्वराम् ।
विवाहं कल्पयामास नक्षत्रे भगदैवते ॥
ततः कतिपयाहस्सु विवाहे समुपस्थिते ।
सर्वाभिः सखिभिस्तत्र क्रीडन्ती वरवर्णिनी ॥
नापश्यत्तं प्रसुप्तं वै भुजङ्गं तिर्यगायतम् ।
पदा शीर्षे समाक्रामन् मुमूर्षुः कालचोदिता ॥
स तस्याः सम्प्रमत्तायाश् चोदितः कालधर्मणा ।
विषोपलिप्तैर्दशनैर् न्यदंशच्च न्यपातयत् ॥
सा दष्टा सहसा भूमौ पपात गतचेतना ।
व्यसुरप्रेक्षणीया च प्रेक्षणीयतमाकृतिः ॥
प्रसुप्तेवाभवच्चापि भुवि सर्पविषार्दिता ।
भूयो मनोहरतरा बभूव तनुमध्यमा ॥
तां ददर्श पिता चैव ये चैवान्ये तपस्विनः ।
विवेष्टमानां पतितां भूतले पद्मवर्चसम् ॥
ततः सर्वे द्विजवराः समाजग्मुः कृपान्विताः ।
स्वस्त्यात्रेयो महाजानुः कुशिकः शङ्खमेखलः ॥
उद्दालकः कठश्चैव श्वेतकेतुस्तथैव च ।
भरद्वाजः कौणकुत्स्य आर्ष्टिषेणोऽथ गौतमः ॥
प्रमतिः सह पुत्रेण तथान्ये वनवासिनः ।
तां ते कन्यां व्यसुं दृष्ट्वा भुजङ्गस्य विषार्दिताम् ॥
रुरुदुः कृपयाऽऽविष्टा रुरुस्त्वार्तो बहिर्गतः ।
ते च सर्वे द्विजश्रेष्ठास् तत्रैवोपाविशंस्तदा ॥ ॥