शप्तस्तु भृगुणा वह्निः क्रुद्धो वाक्यमथाब्रवीत् ।
किमिदं साहसं ब्रह्मन् कृतवानसि साम्प्रतम् ॥
धर्मे प्रयतमानस्य सत्यं च वदतः समम् ।
पृष्टो यदब्रवं सत्यं व्यभिचारोऽत्र को मम ॥
पृष्टो हि साक्षी यः साक्ष्यं जानमानोऽन्यथा वदेत् ।
स पूर्वानात्मनः सप्त कुले हन्यात्तथाऽपरान् ॥
यश्च कार्यार्थतत्त्वज्ञो जानमानो न भाषते ।
सोऽपि तेनैव पापेन लिप्यते नात्र संशयः ॥
शक्तोऽहमाभिशप्तुं त्वां मान्यास्तु ब्राह्मणा मम ।
जानतोऽपि च ते व्यक्तं कथयिष्ये निबोध तत् ॥
एकोऽहं बहुधाऽऽत्मानं कृत्वा तिष्ठामि मूर्तिषु ।
अग्निहोत्रेषु सत्रेषु क्रियासु च मखेषु च ॥
वेदोक्तेन विधानेन मयि यद्धूयते हविः ।
देवताः पितरश्चैव तृप्तास्तेन भवन्ति वै ॥
आपो देवगणाः सर्वे आपः पितृगणास्तथा ।
दर्शश्च पौर्णमासश्च देवानां पितृभिः सह ॥
देवताः पितृभिस्तस्मात् पितरश्चापि देवताः ।
एकीभूताश्च पूज्यन्ते पृथक्त्वेन च पर्वसु ॥
देवाश्च पितरश्चैव जुह्वते मयि यत्सदा।
त्रिदशानां पितॄणां च मुखमेवमहं स्मृतम् ॥
अमावास्यां च पितरः पौर्णमास्यां च देवताः ।
मन्मुखेनैव हूयन्ते भुञ्जते यद्धुतं हविः ॥
सर्वभक्षः कथं त्वेषां भविष्यामि मुखं त्वहम् ।
चिन्तयित्वा ततो वह्निश् चक्रे संहारमात्मनः ॥
द्विजानामग्निहोत्रेषु यज्ञसत्रक्रियासु च ।
निरोंकारवषट्काराः स्वधास्वाहाविवर्जिताः ॥
विनाऽग्निना प्रजाः सर्वास् तदा ह्यासन्सुदुःखिताः ।
अथर्षयः समुद्विग्ना देवान् गत्वाऽब्रुवन्वचः ॥
अग्निनाशात्क्रियाभ्रांशाद् भ्रान्ता लोकास्त्रयोऽनघाः ।
विधध्वमत्र यत्कार्यं न स्यात्कालात्ययो महान् ॥
अथर्षयश्च देवाश्च ब्रह्माणमुपगम्य च ।
अग्नेरावेदयञ्शापं क्रियासंहारमेव च ॥
भृगुणा वै महाभाग शप्तोऽग्निः कारणान्तरे ।
कथं देवमुखं भूत्वा यज्ञभागाग्रभुक् तथा ॥
हुतभुक्सर्वलोकेषु सर्वभक्षत्वमेष्यति ।
श्रुत्वा तु तद्वचस्तेषामग्निमाहूय लोककृत् ।
उवाच वचनं श्लक्ष्णं भूतभावनमव्ययम् ॥
ब्रह्मा-
लोकानामिह सर्वेषां त्वं कर्ता चान्त एव च ॥
त्वं धारयसि लोकांस्त्रीन् गुणानां च प्रवर्तकः ।
स तथा कुरु देवेश नोच्छिद्येरन् क्रियादयः ॥
कस्मादेवं स मूढस्त्वं ईशस्त्वं हि हुताशन ।
त्वं पवित्रं सदा लोके सर्वभूतगतश्च ह ॥
न त्वं सर्वशरीरेण सर्वभक्षत्वमेष्यसि ।
उपादनेऽर्चिषो यास्ते सर्वं धक्ष्यन्ति ताः शिखाः ॥
यथा सूर्यांशुभिः स्पृष्टं सर्वं शुचि विभाव्यते ।
तथा त्वदर्चिर्निर्दग्धं सर्वं शुद्धं भविष्यति ॥
तदग्ने त्वं महत्तेजः स्वप्रभावाद्विनिर्गतम् ।
स्वतेजसैव तं शापं कुरु सत्यमृषेर्विभो ।
देवानां चात्मनो भागं गृहाण त्वन्मुखे हुतम् ॥
सूतः-
एवमस्त्विति तं वह्निः प्रत्युक्त्वाथ पितामहम् ।
जगाम शासनं कर्तुं देवस्य परमेष्ठिनः ॥
देवर्षयश्च मुदिताः प्रतिजग्मुर्यथागतम् ।
ऋषयश्च यथापूर्वं क्रियाः सर्वाः प्रचक्रिरे ॥
दिवि देवा मुमुदिरे भूतसङ्घाश्च लौकिकाः ।
अग्निश्च परमां प्रीति अवाप हृतकल्मषः ॥
एवमेष पुरावृत्त इतिहासोऽग्निशापजः ।
पुलोमस्य विनाशश्च च्यवनस्य च संभवः ॥ ॥