सूतः-
अग्नेरथ वचः श्रुत्वा तद्रक्षः प्रजहार ताम् ।
ब्रह्मन्वराहरूपेण मनोमारुतरंहसा ॥
ततः स कुक्षौ निवसन् गर्भो भृगुकुलोद्वहः ।
रोषान्मातुश्च्युतः कुक्षेश् च्यवनस्तेन सोऽभवत् ॥
तं दृष्ट्वा मातुरुदराच् च्युतमादित्यवर्चसम् ।
तद्रक्षो भस्मसाद्भूतं पपात परिमुच्य ताम् ॥
सा तमादाय सुश्रोणी ससार भृगुनन्दनम् ।
च्यवनं भार्गवं ब्रह्मन् पुलोमा दुःखमूर्च्छिता ॥
तां ददर्श स्वयं ब्रह्मा सर्वलोकपितामहः ।
अश्रुबिन्दूद्भवा तस्याः प्रावर्तत महानदी ॥
अनुवर्त्म सृता तस्या भृगोः पत्न्या यशस्विनः ।
तस्या मार्गं गतवतीं दृष्ट्वा तु सरितं तदा ॥
नाम तस्यास्तदा नद्याश् चक्रे लोकपितामहः ।
वधूसरेति भगवान् च्यवनस्याश्रमं प्रति ॥
स एव च्यवनो जज्ञे भृगोः पुत्रः प्रतापवान् ।
तं ददर्श पिता तत्र च्यवनं तां च भामिनीम् ।
स पुलोमां ततो भार्यां पप्रच्छ कुपितो भृगुः ॥
केनासि रक्षसे तस्मै कथिता त्वं जिहीर्षवे ।
न हि त्वां वेद तद्रक्षो मद्भार्यां चारुहासिनीम् ॥
तत्त्वमाख्याहि तं ह्यद्य शप्तुमिच्छाम्यहं रुषा ।
बिभेति को न शापान्मे कस्य चायं व्यतिक्रमः ॥
पुलोमा-
अग्निना भगवंस्तस्मै रक्षसेऽहं निवेदिता ।
ततो मामनयद्रक्षः क्रोशन्तीं कुररीमिव ॥
साऽहं तव सुतस्यास्य तेजसा परिमोक्षिता ।
भस्मीभूतं तु तद्रक्षो मामुत्सृज्य पपात वै ॥
सूतः-
इति श्रुत्वा पुलोमाया भृगुः परममन्युमान् ।
शशापाग्निमतिक्रुद्धः सर्वभक्षो भवेदिति ॥ ॥