सूतः-
शौनक उवाच ।
रोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिशारण्ये शौनकस्य कुलपतेः सत्रे ऋषीनभ्यागतानुपतस्थे ॥
पुराणे कृतश्रमः स तान् कृताञ्जलिरुवाच ॥
किं भगवन्तः श्रोतुमिच्छथ, किमहं ब्रवीमीति ॥
तमृषय ऊचुः ।
भगवांश्च तत्वाच्छौनकोऽग्निशरण एवास्ते ॥
रौमहर्षणे प्रवक्ष्यामः, त्वं वक्ष्यसि च शुश्रूषतां कथायोगं ।
यौऽसौ दिव्याः कथा वेद देवदानवसङ्कथाः ।
मानुष्यदेवगन्धर्वकथा वेद च सर्वशः ॥
स चाप्यस्मिन्मखे सौते विद्वान्गृहपतिर्द्विजः ।
सर्वेषां चैव नो नाथः स तावत्परिपाल्यताम् ॥
सूतः
एवमस्तु गुरौ तस्मिन् उपविष्टे महात्मनि ।
तेन पृष्टः कथाः पुण्या वक्ष्यामि विविधाश्रयाः ॥
सोऽथ विप्रर्षभः कृत्वा कार्यं सर्वं यथाक्रमम् ।
देवान्वाग्भिः पितॄनद्भिस् तर्पयित्वाऽऽजगाम ह ॥
यत्र ब्रह्मर्षयः सिद्धास् त आसीना यतव्रताः ।
यज्ञायतनमाश्रित्य सूतपुत्रपुरस्सराः ॥
ऋत्विक्ष्वथ सदस्येषु स वै गृहपतिस्ततः ।
उपविष्टेषूपविष्टः शौनकोऽथाब्रवीदिदम् ॥
पुराणमखिलं तात पिता तेऽधीतवान्पुरा ।
कच्चित्त्वमपि तत्सर्वं अधीतो रौमहर्षणे ॥
पुराणे हि कथा दिव्या आदिवंशाश्च धीमताम् ।
कथ्यन्ते ताः पुराऽस्माभिः श्रुताः पूर्वं पितुस्तव ॥
तत्र वंशमहं पूर्वं श्रोतुमिच्छामि भार्गवम् ।
कथयस्व कथामेतां कल्यस्तच्छ्रवणेन च ॥
सूतः-
यदधीतं सदा सम्यग् द्विजश्रेष्ठैर्महात्मभिः ।
वैशम्पायनविप्राद्यैस् तैश्चापि कथितं पुरा ॥
यदधीतं च पित्रा मे सम्यक्चैव ततो मया ।
तं तावच्छृणु यो देवैः सेर्वैः साग्निमरुद्गणैः ॥
पूजितः प्रवरो वंशो भार्गवः पृथुनन्दन ।
इमं वंशं महद्दिव्यं भार्गवं ते महामुने ॥
निगदामि कथायुक्तं पुराणाश्रयमद्भुतम् ।
भृगोश्च दयितः पुत्रश् च्यवनो नाम भार्गवः ॥
च्यवनस्यापि दायादः प्रमतिर्नाम धार्मिकः ।
प्रमतेरप्यभूत्पुत्रो घृताच्यां रुरुरित्युत ॥
रुरोरपि सुतो जज्ञे शुनको वेदपारगः ।
प्रमद्वरायां धर्मात्मा तव पूर्वपितामहः ॥
तपस्वी च यशस्वी च श्रुतवान्धर्मवित्तमः ।
धार्मिष्ठः सत्यवादी च नियतो नियतेन्द्रियः ॥
शौनक-
सूतपुत्र यथा तस्य भार्गवस्य महात्मनः ।
च्यवनत्वं परिख्यातं तन्ममाचक्ष्व सुव्रत ॥
सूतः-
भृगोस्तु दयिता भार्या पुलोमेत्यभिविश्रुता ।
तस्यां गर्भः समभवद् भृगोर्वीर्यसमुद्भवः ॥
तस्मिन्गर्भे समुद्भूते पुलोमायां भृगूद्भव ।
समये समशीलिन्यां धर्मपत्न्यां यशस्विनः ॥
अभिषेकाय निष्क्रान्ते भृगौ धर्मभृतां वरे ।
आश्रमं तस्य रक्षोऽथ पुलोमां हि जगाम ह ॥
तं प्रविश्याश्रमं दृष्ट्वा भृगोर्भार्यामनिन्दिताम् ।
हृच्छयेन समाविष्टो विचेताः समपद्यत ॥
अभ्यागतं तु तद्दृष्ट्वा पुलोमा चारुहासिनी ।
न्यमन्त्रयत पाद्येन फलमूलादिना तदा ॥
तां तु रक्षस्तदा ब्रह्मन् हृच्छयेन निपीडितः ।
दृष्ट्वा हृष्टमना भूत्वा जहीर्षुस्तामनिन्दिताम् ॥
अथाग्निशरणेऽपश्यज् ज्वलन्तं जातवेदसम् ।
तमपृच्छत्ततो रक्षः पावकं ज्वलितं तदा ॥
शंस मे कस्य भार्येयं अग्ने पृष्टो वदस्व मे ।
सत्यस्त्वमसि सत्यं वै वद पावक पृच्छतः ॥
मया हीयं पूर्ववृता भार्यार्थे वरवर्णिनी ।
पश्चात्त्विमां पिता प्रादाद् भृगवेऽनृतकारिणे ॥
सेयं यदि वरारोहा भृगोर्भार्या रहोगता ।
तथा सत्यम्ममाख्याहि जिहीर्षाम्याश्रमादिमाम् ॥
मन्युर्हि हृदयं मेऽद्य निदर्हन्निव तिष्ठति ।
मत्पूर्वभार्यां यदिमां भृगुः प्राप सुमध्यमाम् ॥
तद्रक्ष एवमामन्त्र्य ज्वलितं जातवेदसम् ।
शङ्कमानो भृगोर्भार्यां पुनःपुनरपृच्छत ॥
त्वमग्ने सर्वभूतानामं अन्तर्वससि नित्यदा ।
साक्षिवत्पुण्यपापेषु सत्यं ब्रूहि कवे वचः ॥
मत्पूर्वभार्याऽपहृता भृगुणाऽनृतकारिणा ।
सेयं यदि तथा मे त्वं सत्यमाख्यातुमर्हसि ॥
श्रुत्वा त्वत्तो भृगोर्भार्यां हरिष्याम्यहमाश्रमात् ।
जातवेदः पश्यतस्ते वद सत्यां गिरं मम ॥
तस्य तद्वचनं श्रुत्वा सप्तार्चिर्दुःखितो भृशम् ।
भीतोऽनृताच्च शापाच्च भृगोरित्यब्रवीच्छनैः ॥