सूतः-
जनमेजयः पारीक्षितः सह भ्रातृभिः कुरुक्षेत्रे दीर्घसत्रमास्ते स्म ।
तस्य भ्रातरस्त्रयः श्रुतसेन उग्रसेनो भीमसेन इति ।
तेषु तत्सत्रमुपासीनेषु तत्र चाभ्यागच्छत्सारमेयः ॥
स जनमेजयस्य भ्रातृभिर्हतो रोरूयमाणो मातुः समीपमभ्यागच्छत् ॥
तं माता रोरूयमाणमुवाच ।
किं रोदिषि, केनास्यभिहत इति ॥
स एवमुक्तो मातरं प्रत्युवाच ।
जनमेजयस्य भ्रातृभिर्हतोऽस्मीति ॥
तं माता प्रत्युवाच ।
व्यक्तं त्वया तत्रापराद्धं येनास्यभिहत इति ॥
स तां पुनरुवाच ।
नापराध्यामि किञ्चित्, नावेक्षे हवींषि, नावलीढेऽ हमिति ॥
तस्य माता सरमा पुत्रदुःखार्ता तत्सत्रमगच्छत् ।
यत्र जनमेजयः सह भ्रातृभिर्दीर्घसत्रमुपास्ते स्म ॥
स तया क्रुद्धया तत्रोक्तः, अयं मे पुत्रो न किञ्चिदपराध्यति किमर्थमभिहत इति ॥
न किञ्चिदुक्तवतस्तानाह सरमा, यस्मादयमभिहतो नापराधी, तस्मादृुष्टं त्वां भयमागमिष्यतीति॥
स जनमेजय एवमुक्तो देवशुन्या सरमया भृशं सम्भ्रान्तो विषण्णश्चासीत् ॥
स तस्मिन्सत्रे समाप्ते हास्तिनपुरमभ्येत्य पुरोहितमनुरूपमन्विच्छमानः परं यत्नमकरोत्, यो मे पापकृत्यां नाशयेदिति ॥
स कदाचिन्मृगयां गतः पारीक्षितो जनमेजयः कस्मिंश्च स्वविषयोद्देशे आश्रममपश्यत् ॥
तत्र कश्चिदृषिरासाञ्चक्रे श्रुतश्रवा नाम ।
तस्यभिमतः पुत्र आस्ते सोमश्रवा नाम ॥
तपोभिः सम्भृतं तस्य तं पुत्रमभिगम्य जनमेजयः पारीक्षितः पौरोहित्याय वव्रे ॥
स नमस्कृत्य तमृषिमुवाच ।
भगवन्नयं तव पुत्रो मम पुरोहितोऽस्त्विति ॥
स एवमुक्तः प्रत्युवाच-भो जनमेजय! पुत्रो मम सर्प्यां जातो महातपाः स्वाध्यायसम्पन्नो मत्तपोवीर्यसम्भृतो मच्छुक्लं पिबन्त्याः सर्प्याः कुक्षौ संवृद्धः; समर्थोऽयं भवतः सर्वाः पापकृत्याः शमयितुं, अन्तरेण महादेवकृत्याम् ।
अस्य वै विद्यते त्वेकुमुपांशुव्रतम् ।
यद्येनं कश्चित्कञ्चिदर्थमभियाचेत्तस्मै तद्दद्यादयम् ।
यद्येतत्सहसि ततो नयस्वैनमिति ॥
तेनैवमुक्तो जनमेजयस्तं प्रत्युवाच भगवंस्तथा भविष्यतीति ॥
स तं पुरोहितमुपादायोपावृत्तो भ्रातॄनुवाच-मयायं वृत उपाध्यायः, यदयं ब्रूयात्तत्कार्यमविचारयद्भिरिति ॥
तेनैवमुक्ता भ्रातरस्त्रयस्तस्य तथा चक्रुः ॥
स तथा तान्भ्रातॄन्सन्दिश्य तक्षशिलां प्रत्यभितस्थौ ।
तं च देशं स्वांशे स्थापयामास ॥
एतस्मिन्नन्तरे कश्चिदृषिर्धौम्यो नामायोनिजः ।
तस्य शिष्यास्त्रयो बभूवुः-उपमन्युरारुणिपाञ्चालो बैद इति ॥
एकं शिष्यंमारुणिपाञ्चालं प्रेषयामास ।
भो! गच्छ, केदारखण्डं बधानेति ॥
स उपाध्यायेन सन्दिष्ट आरुणिपाञ्चालस्तत्र गत्वा केदारखण्डं बद्धुं नाशक्नोत् ।
स क्लिश्यमानो गतिं नापश्यत् कोञ्चित् ।
भवत्वेवं तवात्करिष्यामीति ।
स तत्र संविवेश ।
केदारखण्डे शयाने तस्मिंस्तदुदकं तस्थौ ॥
ततः कदाचिदुपाध्यायस्तस्मिन्ननागते आयोद धौम्यः शिष्यावपृच्छत् ।
तौ प्रत्यूचतुः ।
भगवतैव प्रेषितः केदारखण्डं बधानेति ॥
एवमुक्तस्तौ शिष्यौ प्रत्युवाच ।
तस्मात्सर्वे तत्र गच्छामो यत्र स इति ॥
स गत्वा तत्र ह्याह्वानशब्दं चकार ।
भो आरुणिपाञ्चाल! क्वासि वत्सैहीति ॥
तच्छ्रुत्वाथारुणिपाञ्चाल उपाध्यायवाक्यं तस्मात्केदारखण्डात् सहसोत्थाय तमुपतस्थे ।
प्रोवाच चैनम् ।
अहमस्मात्केदारणखण्डान्निस्सरमाणमुदकमवारणीयं संरोद्धुं संविष्टो भगवच्छब्दं श्रुत्वैव सहसा विदार्य केदारखण्डं भगवन्तमुपस्थितः।
तदभिवादये भगवन्तं, आज्ञापयतु भवान् किङ्करवाणीति ॥
तमुपाध्यायोऽब्रवीत् ।
स उपाध्यायेनानुगृहीतः-यस्मात्त्वया मद्वचोऽनुष्टितं तस्माच्छ्रेयोऽवाप्स्यसि, सर्वे ते वेदाः प्रतिभास्यन्ति, सर्वाणि च धर्मशास्त्राणीति ॥
स एवमुक्त उपाध्यायेनेष्टान्देशाञ्जगम ॥
अथापरस्तस्यायोदधौम्यस्य शिष्य उपमन्युर्नाम ।
तमुपाध्यायः प्रेषयामास, वत्सोपमन्यो! गा रक्षेति ॥
स उपाध्यायवचनादरक्षद्गाः ।
स चाह्नि रक्षित्वा दिवसक्षये त्वागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे ॥
तमुपाध्यायः पीवानमेव दृष्ट्वोवाच ।
वत्सोपमन्यो! केन वृत्तिं कल्पयसि दृढमिति ॥
स उपाध्यायं प्रत्युवाच भैक्षण वृत्तिं कल्पयामीति ॥
तमुपाध्यायः प्रत्युवाच ।
ममानिवेद्य भैक्षं नोपयोक्तव्यमिति स्थूलमिति ॥
तथेत्युक्त्वा पुनररक्षद्गाः ।
रक्षित्वा च पुनरागम्य तथैवोपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे ॥
तमुपाध्यायस्तथा पीवानमेव दृष्ट्वावोचत् ।
वत्सोपमन्यो! सर्वमशेषतस्ते भैक्षं गृह्णामि ।
केनेदानीं वृत्तिं कल्पयसीति ॥
स एवमुक्त उपाध्यायेन प्रत्युवाच ।
भैक्षं पूर्वं निवेद्य तुभ्यं अपरं चरामि ।
तेन वृत्तिं कल्पयामीति ॥
तमुपाध्यायः प्रत्युवाच ।
नैषा न्याय्या गुरुवृत्तिः ।
अन्येषामपि वृत्त्युपरोधं करोषि, एवं वर्तमानो लुब्धोऽसीति ॥
तथेत्युक्त्वाऽन्येद्युरपि गा अरक्षत्।
रक्षित्वा पुनरागम्योपाध्यायस्याग्रतस्स्थित्वा नमश्चक्रे ॥
तमुपाध्यायस्तथा पीवानमेव दृष्ट्वा पुनरुवाच ।
अहं ते भैक्षं गृह्णामि, न चान्यच्चरसि, पीवासि, केन वृत्तिं कल्पयसीति ॥
स उपाध्यायं प्रत्युवाच ।
तवासां गवां पयसा वृत्तिं कल्पयामीति ।
तमुपाध्यायः प्रत्युवाच- नैतन्न्याय्यं पय उपयोक्तुं भवतो मया नाभ्यनुज्ञातमिति ॥
स तथेति प्रतिज्ञाय गा रक्षित्वा पुनरुपाध्यायगृहमासाद्य गुरोरग्रतस्स्थित्वा नमश्चक्रे ॥
तमुपाध्यायस्तथा पीवानमेव दृष्ट्वोवाच ।
भैक्ष्यं नाश्नासि, न चान्यच्चरसि, न पयः पिबसि, पीवासि, केन वृत्तिं कल्पयसीति ॥
स एवमुक्त उपाध्यायं प्रत्युवाच ।
वत्सानां वदनाच्च्युतं फेनं पिबामीति ।
यदि मे वत्सा मातॄणां स्तनं पिबन्त उद्गिरन्ते ॥
तमुपाध्यायः प्रत्युवाच ।
एते वत्सास्त्वदनुकम्पया गुणवन्तः प्रभूततरं फेनमुद्गिरन्ति ।
तदेवमपि वत्सानां प्रत्त्युपरोधं करोषि एवं वर्तमानः फेनं नैवं पातुमर्हसीति ॥
स तथेति प्रतिज्ञाय निराहारो गा ररक्ष ॥
तथा प्रतिषिद्धो भैक्षं नाश्नाति ।
न चान्यच्चरति ।
नपयः पिबन्ति ।
फेनं नोपयुङ्क्ते ॥
स कदाचिदरण्येषु क्षुधार्तोऽर्कपर्णान्यभक्षयत् ॥
स तैरर्कपर्णैर्भक्षितैः क्षारकटुतीक्ष्णोष्णविपाकाच्चक्षुष्युपहतेऽन्धोऽभवत् ॥
सोऽन्धोऽपि चङ्क्रम्यमाणः कूपेऽपतत् ॥
अथ तस्मिन्ननागच्छत्युपाध्यायश्शिष्यानवोचत् ।
मयोपमन्युः सर्वतः प्रतिषिद्धः कुपितो नागच्छति चिरङ्गतस्त्विति ॥
स एवमुक्त्वा गत्वारण्यमुपाध्याय आह्वानं चक्रे ।
भो उपमन्यो! क्वासि वत्सैहीति ॥
स तदाह्वानमुपाध्यायाच्छ्रुत्वा प्रत्युवाचोच्चैः, भो उपाध्याय! कूपे पतित इति ॥
स उपाध्यायः प्रत्युवाच ।
कथमसि कूपे पतित इति ॥
स च तं प्रत्युवाच-अर्कपत्राणि भक्षयित्वान्धीभूतोऽस्मि, अस्मिन्कूपे पतित इति ॥
तम् उपाध्यायः प्रत्युवाच ।
अश्विनौ स्तुहि, तौ त्वा देवभिषजौ चक्षुष्मन्तं करिष्यत इति ॥
स एवम् उक्त उपाध्यायवचनेन स्तोतुम् उपचक्रमे देवावश्विनौ वाग्भिर्ऋग्भिः ॥
ओम्-प्रपूर्वगौ पूर्वजौ चित्रभानू गिरा शंसामि तपनावनन्तौ ।
दिव्यौ सुपर्णवरजौ विमानावधिक्षिपन्तौ भुवनानि विश्वा ॥
हिरण्मयौ शकुनी साम्परायौ नासत्यदस्रौ सुमनसौ वैजयन्तौ ।
शुक्लं वयन्तौ तरसा सुवेषावभिव्ययन्तावसितं विवस्वत् ॥
ग्रस्तां सुपर्णस्य बलेन वर्तिकाममुञ्चतावश्विनौ सौभगाय ।
तावत्सुवृत्तावनमत्तमाययौ तौ सत्तमौ गा अरुणावुदावहन् ॥
षष्टिश्च गावस्त्रिशताश्च धेनव एकं वत्सं सुवहते दुहन्तीः ।
नानागोष्ठा विहिता एकदोहनाः तावश्विभ्यां दुहते घर्ममुक्थ्यम् ॥
एकां नाभिं सप्तशता अराः श्रिताः प्रधिष्वस्यां विंशतिरर्पिता अराः ।
सुनेमिचक्रं परिवर्तते जरा यथाश्विना संसक्त चर्षणम् ॥
एकं चक्रं वर्तते द्वादशप्रधिं षण्णाभिमेकाक्षमृतस्य धारम् ।
यस्मिन्देवा अधिविश्वे विषक्तास्तदश्विनौ मुञ्चथो मा विषीदथः ॥
अश्विनौ धनुममृतं प्रवृत्तं भूयस्तिरोधामश्विनौ दासपत्नी ।
भित्वा गिरीनश्विनौ गास्सदा चरन्नरगा अदृष्टंं प्रथिता बलस्य ॥
युवां दिशो जनयथो दशाग्रे समानमूर्ध्नि रथया वियन्ति ।
तासां यानं चर्षणयोऽनुप्रयान्ति देवा मनुष्याः क्षितिमाचरन्ति ॥
युवां वर्णान्वीरुधो विश्वरूपां स्तेऽधिक्षिपन्ति भुवनानि विश्वा ।
ते भानवोऽप्यनुसृताश्चरन्ति देवामनुष्याः क्षितिमाचरन्ति ॥
सन्तौ नासत्यावश्विना वह्वये वां स्रजं च यौ बिभ्रतः पुष्करस्य ।
ततो नासत्यावमृतावृतावृथा वृते देवांस्तत्प्रपदेन सूते ॥
मुखेन गर्भं लभतां युवानौ गतासुरिक्तं प्रपदेन सूते ।
सद्यो जातो मातरं मुक्तिगर्भस्तावश्विनौ मुञ्चथौ जीवसे गाम् ॥
स्तोतुं न शक्नोमि गुणैर्भवन्तौ चक्षुर्विहीनः पथि सम्प्रमूढः ।
दुर्गेऽहमस्मिन्पतितोऽस्मि कूपे युवां शरण्यौ शरणं प्रपद्ये ॥
सूतः-
एवमृग्भिश्चान्यैरस्तुवत् ॥
एवं तेनाभिष्टुतावश्विनावाजग्मतुः ॥
आहतुश्चैनं, प्रीतौ स्वः, एष तेऽपूपोशानैनमिति॥
स एवमुक्तः प्रत्युवाच ।
नानृतमूचतुर्भवन्तौ ।
नत्वहं चैनमपूपमुपयोक्तुमुत्सहे अनिवेद्य गुरव इति ॥
ततस्तवश्विनावूचतुः ।
आवाभ्यां भवत उपाध्यायेनैवमभिष्टुताभ्यां प्रीताभ्यापूपो दत्तः, उपयुक्तश्च तेनानिवेद्य गुरवे ।
अद्य त्वमपि तथैव कुरुष्व, यथा ते कृतमुपाध्यायेनेति ॥
स एवमुक्तः प्रत्युवाच ।
एतौ प्रत्यनुनये भवन्तावश्विनौ, नोत्सहेऽहमनिवेद्योपाध्यायायोपयोक्तुमिति ॥
तमश्विनावाहतुः ।
प्रीतौ स्वस्तवानया गुरुवृत्त्याऽपूपं भक्षय ।
उपाध्यायस्य ते देहः कार्ष्णायसो दन्तः ।
भवतो हिरण्मयो भविष्यति ।
एतौ गृहाण, चक्षुष्मांश्च भवसि, श्रेयश्चावाप्स्यसीति ॥
एवमुक्तोऽश्विभ्यां तथा मक्षयित्वा लब्धचक्षुरुपाध्यायसकाशमागम्याभ्यवादयत्, आचचक्षे च ॥
अस्य स दृष्ट्वा प्रीतिमानभूत् ।
आह चैनं, यथाश्विनावाहतुस्तथा त्वं श्रेयोऽवाप्स्यसीति ।
सर्वे च वेदाः प्रतिभास्यन्तीति ॥
एषा तस्यापि परीक्षोपमन्योः ॥
अथापरश्शिष्यस्तस्यैवायोदस्य धौम्यस्य बैदो नाम ।
तमुपाध्यायः सन्दिदेश ।
वत्स बैद! इहास्यतां, भवता मद्गृहे कञ्चित्कालं शुश्रूषणपरेण भवितव्यं, श्रेयस्त भविष्यतीति ॥
स तथेत्युक्त्वा दीर्घकालं गुरुकुले गुरुशुश्रूषापरोऽभवत् ॥
गौरिव नित्यं गुरुषु धूर्षु नियुज्यमानः शीतोष्णक्षुत्तृष्णादुःखसहः सर्वत्राप्रतिकूलः, तस्य महता कालेन गुरुः परितोषं जगाम ॥
तत्परितोषाच्च श्रेयः सर्वज्ञतां चाप ।
एषा तस्यापि परीक्षा बैदस्य ॥
स उपाध्यायेनानुज्ञातस्समावृत्तस्तस्माद्गुरुकुलनिवासाद्गृहाश्रमं प्रत्यपद्यत ॥
तस्यापि गृहे वसतस्त्रयश्शिष्या बभूवुः ।
स शिष्यान् न किञ्चिदुवाच ।
कर्म वा क्रियतां शुश्रूषा वेति ।
दुःखाभिज्ञो गुरुकुलवासस्य शिष्यान्परिक्लेशेन योजयितुं नेयेष ॥
अथ कस्यचित्कालस्य बैदं ब्राह्मणं जनमेजयः पौष्यश्च क्षत्रियावुपेत्योपाध्यायं वरयाञ्चक्रतुः ॥
स कदाचिद्राजकार्येणाभिप्रस्थितो ह्युदङ्कं नामा शिष्यं योजयामास ।
भो उदङ्क! यत्किञ्चिद्गृहे मां विना परिहीयते तदिच्छाम्यहं भवताऽपरिहीयमाणं क्रियमाणमिति ॥
स एवं प्रतिसमादिश्यादेङ्कं बैदः प्रवासं जगाम ॥
अथोदङ्कश्शुश्रूषुर्गुरुनियोगमनुतिष्ठमानस्तत्र गुरुकुले वसति स्म ॥
वसंस्तत्रोपाध्यायस्त्रीभिस्सहिताभिराहूयोक्तः ।
उपाध्यायानी ते ऋतुमती ।
उपाध्यायश्च प्रोषितः ।
अस्या यथायमृतुर्वन्ध्यो न भवति तथा क्रियतामेतस्यमेतद्धि सीदतीति ॥
स एवमुक्तस्त्रीं प्रत्युवाच ।
न मया स्त्रीणां वचनादिकार्यं कार्यं ।
नह्यहमुपाध्यायेन सन्दिष्टोऽकार्यमपि त्वया कार्यमिति ॥
तस्य पुनरुपाध्यायः कालान्तरे गृहनुपाजगाम तस्मात्प्रवासात् ॥
स तद्वृत्तान्तं तस्याशेषत उपलभ्य प्रीतिमानभूत् ॥
उवाच चैनं, वत्सोदङ्क! किं ते प्रियं करवाणीति, धर्मतश्शुश्रूषितोऽस्मि भवता ।
तेन प्रीतिः परस्परेण नौ संवृत्ता ।
तदनुजाने सर्वामेव सिद्धिं प्राप्स्यसि गम्यतामिति ॥
स एवमुक्तः प्रत्युवाच ।
किं ते प्रियं करवाणीति ॥
एवं ह्याहु-
यश्चाधर्मेण वै विब्रूयाद् यश्चाधर्मेण पृच्छति ।
तयोरन्यतरः प्रैति विद्वेषं वाऽधिगच्छति ॥
अहमनुज्ञातो भवता ।
इच्छामि त इष्टं गुर्वर्थमुपहर्तुमिति ॥
तेनैवमुक्त उपाध्यायः प्रत्युवाच ।
वत्सोत्तङ्क! उष्यतां ता वदिति ॥
स कदाचित्तमुपाध्यायमाहोत्तङ्कः, आज्ञापयतु भवान्, किं ते प्रियमुपाहरामि गुर्वर्थमिति ॥
तमुपाध्यायः प्रत्युवाच ।
वत्सोत्तङ्क! बहुशो मां चोदयसि ।
गुर्वर्थमुपाहरेयमीति ।
तच्चैनामुपाध्यायानीं गच्छ, पृच्छ, किमुपहरामि गुर्वर्थमिति, एषा यद्ब्रवीति तदुपाहरस्वेति ॥
एवमुक्त उपाध्यायेनोपाध्यायानमिपृच्छत् ।
भवति! उपाध्यायेनास्म्यनुज्ञातो गन्तुं ।
तदिच्छामीष्टं ते गुर्वर्थमुपहृत्यानृणो गन्तुं ।
तदाज्ञापयतु भवती किमुपहरामि गुर्वर्थमिति ॥
सैवमुक्तोपाध्यायान्युदङ्कं प्रत्युवाच ।
गच्छ, पौष्यं कुण्डले भिक्षस्वेति ।
क्षत्रियया पिनद्धे ते आनयस्व, हतश्चतुर्थेऽहनि पुण्यकर्म भविता, एताभ्यां कुण्डलाभ्यां शोभमाना ब्राह्मणान् परिवेष्टुमिच्छामि ।
तथा त्वं सम्पादयस्व, श्रेयस्ते कुण्डलभिक्षणं कुर्वत इति ॥
स एवमुक्त उपाध्यायान्या प्रातिष्ठदुदङ्कः ॥
स पथि गच्छन्नपश्यदृषभमतिप्रमाणं तदधिरूढं च पुरुषमतिप्रमाणमेव ॥
पुरुष उत्तङ्कमभ्यभाषत ।
उदङ्क! एतस्य पुरीषमृषभस्य भक्षयस्वेति ॥
स एवमुक्तो नैच्छत् ॥
तमाह पुरुषो भूयः, भक्षयस्वोदङ्क मा विचारयोपाध्यायेनापि ते भक्षितमिति॥
स एवमुक्तो बाढमित्युक्त्वा ततस्तस्य वृषभस्य पुरीषं मूत्रं च भक्षयित्वोदङ्कः प्रतस्थे ॥
यत्र स क्षत्रियः पौष्यस्तमुपेत्यापश्यदुदङ्क आसीनं, स तमुपेत्याशीर्भिरभिनन्द्योवाच ।
अर्थी भवन्तममिगतोऽस्मीति ॥
स तमभिवाद्योवाच ।
भगवन्पौष्यः खल्वहं किं करवाणीति ॥
तमुवाचोदङ्को गुर्वर्थे कुण्डलाभ्यामर्थ्यागतोऽस्मिति ।
ये ते क्षत्रियया पिनद्धे ते कुण्डले भवान्दातुमर्हतीति ॥
तं पौष्यः प्रत्युवाच ।
प्रविश्यान्तःपुरं क्षत्रिया याच्यतामिति ॥
स तेनैवमुक्तः प्रविश्यान्तःपुरं क्षत्रियां तां नापश्यत् ॥
स पौष्यं पुनरुवाच ।
अयुक्तं भवता वयमनृतेनाचरितुम् ।
न हि सा क्षत्रियाऽन्तःपुरे संन्निहिता ।
नैनां पश्यामीति ॥
एवमुक्तः पौष्यस्तं प्रत्युवाच ।
तत्र सन्निहितैव सा,सम्प्रति भवानुच्छिष्टः, स्मर तावत्, न सा क्षत्रियोच्छिष्टेनाशुचिना वा शक्या द्रष्टुं पतिव्रतात्वात्, एषा नाशुचिना त्वया द्रष्टव्या भविष्यतीति ॥
अथैवमुक्तस्तत्राहोदङ्कः ।
अस्ति खलु मया तु भक्षितं, नोपस्पृष्टमागच्छतेति ॥
पौष्यः प्रत्युवाच ।
एवं चेच्छुद्धो भुत्वा गन्तव्यमिति ॥
अथोदङ्कस्तथेत्युक्त्वा प्राङ्मुख उपाविश्य प्रक्षालितपाणिपादवदनश्शुद्धाभिः र्हृदयङ्गमाभिरद्भिर्द्विरुपस्पृश्य द्विः परिमृज्य मुखान्यद्भिरूपस्पृश्यन्तःपुरं प्रविश्य क्षत्रियामपश्यत् ॥
स च दृष्ट्वैवोदङ्कंमभ्युत्थायाभिवाद्योवाच ।
स्वागतं ते भगवन्नाज्ञापय ।
भो! तेऽहं किं करवाणीति ॥
स तामुवाच ।
एते कुण्डले गुर्वर्थं मे भिक्षिते दातुमर्हसीति ॥
सा प्रीता तस्य तेन सद्भावेन पात्रमयं मयाऽनतिक्रमणीयं चेति मत्वा कुण्डले अवमुच्यास्मै प्रायच्छत् ॥
आह चैनम् ।
एते कुण्डले तक्षको नागराजः प्रार्थयति ।
अप्रमत्तो नेतुमर्हसीति ॥
एवमुक्तस्तां क्षत्रियां प्रत्युवाच ।
भवती सुनिर्वृता भवतु ।
स ममशक्तस्तक्षको नागराजो धर्षयितुमिति ॥
स एवमुक्त्वा क्षत्रियामामन्त्र्य पौष्यसकाशमागच्छत् ॥
स तं दृष्ट्वोवाच ।
भोः पौष्य! प्रीतोऽस्मीति ॥
तं पौष्यः प्रत्युवाच ।
भगवंश्चिरस्य पात्रमासाद्यते ।
भगवांश्च गुणवानतिथिः, प्रकरिष्येऽहं श्राद्धं, क्षणः क्रियतामिति ॥
तमुदङ्कः प्रत्युवाच ।
कृतक्षणभावोऽस्मि, शीघ्रमागच्छामीति ।
यथोपपन्नमन्नमुपाहृतं भवत्विति ॥
स तथेत्युक्त्वा यथोपपन्नेनैवान्नेन भोजयामास ॥
अथोदङ्कः शीतमन्नं दृष्ट्वा अशुच्येतदन्नमिति मत्वा पौष्यमुवाच ।
सकेशमन्नमुपहृतं शीतमन्नमशुचि यस्मान्मे ददासि, तस्मात्त्वमन्धो भविष्यसीति ॥
तं पौष्यः प्रत्युवाच ।
यस्मात्त्वमदुष्टमन्नं दूषयसि ।
तस्मादनपत्यो भविष्यसीति ॥
सोऽथ तस्यान्नस्यापि अशुचिभावं दर्शयामास ॥
अथ तदन्नं मुक्तकेश्या स्त्रियोपहृतं सकेशमालोक्योदङ्कं प्रसादयामास ।
भगवन्नज्ञानादेतदन्नं सकेशमुपाहृतं शीतं च ।
एतत्क्षामये भवन्तं न भवेयमन्ध इति ॥
तमुत्तङ्कः प्रत्युवाच ।
न मृषा ब्रवीमि भूत्वा त्वमन्धो न चिरादनन्धो भविष्यसीति ।
ममापि शापो न भवेद्भवद्दत्त इति ॥
तं पौष्यः प्रत्युवाच ।
नहं शक्तः शापं प्रत्यादातुं, नहि मे मन्युरद्याप्युपशमं गच्छतीति ॥
किमेतद्भवता न ज्ञायते ॥ यथा-
नवनीतं हृदयं ब्राह्मणस्य वाचि क्षुरो निहितस्तीक्ष्णधारः ।
विपरीतमेतदुभयं क्षत्रियस्य वाङ्नवनीतं हृदयं तीक्ष्णधारम् ॥ इति ॥
तदेवं गते न शक्तोऽहं तीक्ष्णहृदयत्वात्तं शापमन्यथाकर्तुं गम्यतामिति ॥
तमुदङ्कः प्रत्युवाच ।
भवताहमन्नस्याशुचिभावं गमयित्वा प्रत्यनुनीतः ।
प्राक् त्वेतदभिहितम् ।
यस्माददुष्टमन्नं दूषयसि, तस्मादनपत्यो भविष्यसीति ।
दुष्टे चान्ने नैष मम शापो भविष्यति ।
साधयामस्तावदित्युक्त्वा प्रातिष्ठदुदङ्कः ते कुण्डले गृहीत्वा ॥
सोऽपश्यत्पथि नग्नं क्षमणमागच्छन्तं मुहुर्मुहुर्दृश्यमानं मुहुर्मुहुरद्दश्यमानम्॥
अथोदङ्कस्ते कुण्डले भूमौ निक्षिप्योदकार्थं प्रचक्रमे ॥
तस्मिन्नन्तरे क्षमण उपसृत्य कुण्डले गृहीत्वा प्राद्रवत् ॥
तमुदङ्कोऽभिसृत्य जाग्रह ।
स तद्रूपं विहाय तक्षकरूपं गृहीत्वा सहसा धरण्यां विवृतं महाबिलं प्रविवेश ।
प्रविश्य नागलोकं स्वभवनमगच्छत् ॥
तमुदङ्को ज्ञात्वा तेनैव बिलेनान्वाविश्य नागनस्तुवदेभिः श्लोकैः ॥
यावन्तो नागराजानः सर्पास्त्वमितविक्रमाः ।
वर्षन्त इव जीमूताः सविद्युत्पवनेरिताः ॥
सुस्वरूपा विरूपाश्च विविधोपमकुण्डलाः ।
आदित्यवन्नाकपृष्ठे रेजुरैरावतोद्भवाः ॥
बहूनि नागवेश्मानि गङ्गायास्तीर उत्तरे ।
इच्छेन्तोऽर्कांशुसेवायै वस्तुमैरावतं विना ॥
शतान्यशीतिरष्टौ च सहस्राणि च विंशतिः ।
सर्पाणां प्रग्रहा यान्ति धृतराष्ट्रो जयोदिति ॥
ये चैवमुपश्रृन्वन्ति ये च दूरं परागताः ।
अहमैरावतज्येष्ठभ्रातृभ्योऽकरवं नमः ॥
यस्य वासः कुरुक्षेत्रे खाण्डवे चाभवत्सदा ।
तं काद्रवेयमस्तौषं कुण्डलार्थाय तक्षकम् ॥
तक्षकश्चाश्वसेनश्च नित्यं सहचरावुभौ ।
कुरुक्षेत्रे निवसतां नदीमिक्षुमतीमनु ॥
नदीं मन्दाकिनीं रम्यां प्रसन्नसलिलामनु ।
जघन्यकस्तक्षकस्य श्रुतसेन इति श्रुतः ॥
अवसद्यो महानिग्रे प्रार्थयन्नागमुख्यताम् ।
करवाणि सदा चाहं नमस्तस्मै महात्मने ।
एवं स्तुत्वन्नपि नागान्नालभत्कुण्डले तदा ॥
अथपश्यत्स्त्रियौ तन्त्रे अधिरोप्य पटं वयन्त्यौ ॥
तस्मिंस्तन्त्रे कृष्णांश्च सितांश्च तन्त्रं चक्रं चापश्यत् ।
द्वादशारं षड्भिः कुमारैः परिवर्तमानमश्वारूढं पुरुषं चापश्यत् ॥
दर्शनीयान्स तान्सर्वांस्तुष्टाव तदेभिर्मन्त्रवादश्लोकैः ॥
त्रीण्यर्पितान्यत्र शतानि मध्ये षष्टिश्च नित्यं चरति ध्रुवेऽस्मिन् ।
चक्रे चतुर्विंशति पर्वयोगे षड्वै कुमाराः परिवर्तयन्ति ॥
तन्त्रं चेदं विश्वरूपं युवत्यौ वयतस्तन्तून्सततं वर्तयन्त्यौ ।
कृष्णान्सितांश्चैव निवर्तयन्त्यौ भूतान्यजस्रं भुवनानि चैव ॥
वज्रस्य भर्ता भुवनस्य गोप्ता वृत्रस्य हन्ता नमुचेर्वलस्य ।
कृष्णे वसानो वसने महात्मा सत्यानृते यो विविनक्ति लोके ॥
यो वाहनं गर्भमपां पुराणं वैश्वानरं वानरमप्युपेतः ।
नमः सदास्मै जगदीश्वराय लोकत्रयेशाय पुरन्दराय ॥ इति ॥
तत एनं पुरुषः प्राह ।
प्रीतोऽहमनेन स्तोत्रेण प्रियं ते किं करवाणीति ॥
स तमुवाचोदङ्क ।
नागा मे वशमेयुरिति ॥
स एनं पुरुषः प्रोवाच एतमश्वमपाने धमेति ॥
स तमश्वमपानेऽमधमत् ।
अथ धम्यमानस्य सर्वतः स्रोतोभ्यः सधूमार्चिषो निष्पेतुः ।
याभिर्नागलोक उपधूपितः ॥
अथ सम्भ्रान्तस्तक्षकोऽग्नितेजोभयाविषण्णस्ते कुण्डले गृहीत्वा सहसा स्वभवनान्निष्क्रम्योदङ्कमुवाच ।
एते मणिकुण्डले प्रतिगृह्णातु भवानिति ॥
स ते प्रतिजग्राहोदङ्कः ।
कुण्डले प्रतिगृह्याचिन्तयत् ।
अद्य तत्पुण्यमहरूपाध्यायान्या दूरं चाहमभ्यागतः ।
कथं नु खलुसम्भावयेयमिति ॥
तत एनं चिन्तयानमेवं पुरुष उवाच ।
उदङ्कैनमश्वमधिरोह, एष त्वामेतत्क्षणेनोपाध्यायकुलं प्रापयिष्यतीति ॥
स तथेत्युक्त्वाश्वमधिरुह्य प्रत्याजगामोपाध्यायकुलम् ॥
उपाध्यायानी स्नाता केशानावपयन्त्युपविष्टा ।
अध्याप्युदङ्को नागच्छतीति शापायास्य मतिं दध्रे ॥
अथोदङ्क उपविश्योपाध्यायानीमभ्यवादयत् ।
तेचास्यै कुण्डले प्रायच्छत् ॥
सा चैनं प्रत्युवाचोदङ्कम् ॥
वत्सोदङ्ङ्क! देशकालेऽभ्यागतः स्वागतं ते वत्स! मुहूर्तं नागच्छसि चेन्मया शत्पः ।
श्रेयस्ते न भविष्यति ।
अथोपस्थितां सिद्धिमवाप्स्यसीति ॥
अथोदङ्क उपाध्यायमभ्यवादयत् तमुपाध्यायः प्रत्युवाच ।
वत्सोत्तङ्क! स्वागतं ते किं चिरं कृतमिति ॥
तमुदङ्क उपाध्यायं प्रत्युवाच ।
भो तक्षकेण नागराजेन विघ्नः कृतः अस्मिन्कर्मणि, तेनास्मि नागलोकगतस्तत्रैव च मया दृष्टे स्त्रियौ तन्त्रेऽधिरोप्य पटं वयन्त्यौ, तस्मिंश्च तन्त्रे कृष्णास्सिताश्च तन्तवः, किं, तत्र चक्रमपि दृष्टंः, द्वादशारं चैनं कुमाराः परिवर्तयन्ति, तदपि किं, पुरुषश्च मया दृष्टः, पुनरश्वश्चातिप्रमाणयुक्तः, स चापि कः, पथि गच्छता मया वृषभो दृष्टः, तं च पुरुषोऽधिरूढः, तेनास्मि सोपचारमुक्तः ।
अस्य पुरीषमृषभस्य भक्षयेति ।
उपाध्यायेनापि ते भक्षितमिति ।
ततस्तस्य वचनान्मयापि तदृषभस्य पुरीषमुपयुक्तम् ।
तदिच्छामि भवतोपदिष्टं, किं तदिति ॥
तेनैवमुक्त उपाध्यायः प्रत्युवाच, ये ते स्त्रियौ धाता विधाता च ।
ये ते कृष्णास्सिताश्च तन्तवः, ते रात्र्यहनी ।
तदपि चक्रं द्वादशारं षट् कुमाराः परिवर्तयन्ति, ते षडृतवः, द्वादशारं द्वादशमासाः, संवत्सरश्चक्रम् ।
यः पुरुषस्स पर्जन्यः ।
योऽश्वस्सोऽग्निः ।
य ऋषभस्त्वया दृष्टस्स ऐरावतो नाम नागराजः ।
यश्चैनमधिरूढस्स इन्द्रः ।
यदपि ते पुरीषं भक्षितं तदमृतम् ।
तेन खल्वसि न व्यापन्नः ।
तस्मिन् नगभवने स चापि मम सखेन्द्रः ।
तदनुग्रहात्कुण्डले गृह्य पुनरभ्यागतोऽसि ।
तत्सौम्य गम्यताम् ।
अनुजाने भवन्तं श्रेयोऽवाप्स्यसीति ॥
स उपाध्यायेनानुज्ञात उदङ्कस्तस्य तक्षकस्य प्रतिचिकीर्षमाणो हास्तिनपुरं प्रतस्थे ॥
स हास्तिनपुरं प्राप्य न चिराद्विजसत्तमः ।
समागच्छत राजानं उदङ्को जनमेजयम् ॥
पुरा तक्षशिलायास्तु निवृत्तमपराजितम् ।
सम्यग्विजयिनं दृष्ट्वा समन्तान्मन्त्रिभिर्वृतम् ॥
तस्मै जयाशिषः पूर्वं यथान्यायं प्रयुज्य सः ।
उवाचैनं वचः काले शब्दसम्पन्नया गिरा ॥
उदङ्कः-
अन्यस्मिन्करणीये त्वं कार्ये पार्थिवसत्तम ।
बाल्यादिवान्यदेव त्वं कुरुषे नृपसत्तम ॥
सूतः-
एवमुक्तस्तु विप्रेण स राजा प्रत्युवाच ह ।
जनमेजयः प्रसन्नात्मा सम्यक्सम्पूज्य तं मुनिम् ॥
जनमेजयः-
अहं प्रजानां परिपालनेन स्वं क्षत्रधर्मं परिपालयामि ।
प्रब्रूहि किं वा क्रियतां द्विजेन्द्र शुश्रूपुरस्म्यद्य वचस्त्वदीयम् ॥
सूतः-
स एवमुक्तस्तु नृपोत्तमेन द्विजोत्तमः पुण्यकृतां वरिष्ठः ।
उवाच राजानमदीनसत्वं स्वमेव कार्यं नृपतेश्च यत्तत्॥
उदङ्कः-
तक्षकेण हि राजेन्द्र येन ते हिंसितः पिता ।
तस्मै प्रतिकुरुष्व त्वं पन्नगाय दुरात्मने ॥
कार्यकालं च मन्येऽहं विधिदृष्टस्य कर्मणः ।
तद्गच्छापचितिं राजन् पितुस्तस्य महात्मनः ॥
तेन ह्यनपराधी स दष्टो दुष्टान्तरात्मना ।
पञ्चत्वमगमद्राजा वज्राहत इव द्रुमः ॥
बलदर्पसमुत्सिक्तस् तक्षकः पन्नगाधमः ।
अकार्यं कृतवान्पापो योऽदशत्पितरं तव ॥
राजर्षिवंशगोप्तारं अमरप्रतिमं नृपम् ।
जघान काश्यपं चैव न्यवर्तयत पापकृत् ॥
दग्धुमर्हसि राजंस्त्वं ज्वलिते हव्यवाहने ।
सर्पसत्रे महाराज त्वयि तद्वि विधीयते ॥
एवं पितुश्चापचितिं गतवांस्त्वं भविष्यसि ।
मम प्रियं च सुमहत् कृतं राजन् भविष्यति ॥
कर्मणां पृथिवीपाल मम येन दुरात्मना ।
विघ्नः कृतो महाराज गुर्वर्थं चरतोऽनघ ॥
सूतः-
एतच्छ्रुत्वा तु नृपतिस् तक्षकस्य चुकोप ह ।
उदङ्कवाक्यहविषा दीप्तोऽग्निर्हविषा यथा ॥
अपृच्छच्च महाराजो मन्त्रिणस्तान्सुदुःखितः ।
उदङ्कस्यैव सान्निध्ये पितुस्स्वर्गगतं प्रति ॥
तदैव हि स राजेन्द्रो दुःखशोकाप्लुतोऽभवत् ।
यदैवासौ पितुवृत्तं उदङ्कादशृणोद्विजात् ॥