ऋषय ऊचुः ।
समन्तपञ्चकमिति यदुक्तं सूतनन्दन ।
एतत्सर्वं यथातयं श्रोतुमिच्छामहे वयम् ॥
सूतः-
शुश्रूषा यदि वो विप्रा ब्रुवतश्च शुभाः कथाः ।
समन्तपञ्चकाख्यानं श्रोतुमर्हथ सत्तमाः ॥
त्रेताद्वापरयोस्सन्धौ रामः प्रहरतां वरः ।
असकृत्पार्थिवं क्षत्रं जघानामर्षचोदितः ॥
स सर्वं क्षत्रमुत्साद्य स्ववीर्येणानलद्युतिः ।
समन्तपञ्चके पञ्च चकार रुधिरह्रदान् ॥
स तेषु रुधिराम्भस्सु ह्रदेषु क्रोधमूर्च्छितः ।
पितॄन् सन्तर्पयामास रुधिरेणेति नः श्रुतम् ॥
अथर्चीकादयोऽभ्येत्य पितरो ब्राह्मणर्षभम् ।
तं क्षमस्वेति जगदुस् ततः स विरराम ह ॥
तेषां समीपे यो देशो ह्रदानां रुधिराम्भसाम् ।
समन्तपञ्चकमिति तत्पुण्यं परिकीर्त्यते ॥
येन लिङ्गेन यो देशो युक्तस्समुपलक्ष्यते ।
तेनैव नाम्ना तं देशं वाच्यमाहुर्मनीषिणः ॥
अन्तरे चैव सम्प्राप्ते कलिद्वापरयोरभूत् ।
समन्तपञ्चके युद्धं कुरुपाण्डवसैन्ययोः ॥
तस्मिन्परमधर्मिष्ठे देशे भूदोषवर्जिते ।
अष्टादश समाजग्मुर् अक्षौहिण्यो युयुत्सया ॥
एवं नामाभिनिर्वृत्तं तस्य देशस्य वै द्विजाः ।
पुण्यश्च रमणीयश्च स देशः सम्प्रकीर्तितः ॥
तदेतत्कथितं सर्वं मया वो मुनिसत्तमाः ।
यथा देशः सविख्यातस् त्रिषु लोकेषु विश्रुतः ॥
ऋषय-
अक्षौहिण्य इति प्रोक्तं यत्त्वया सूतनन्दन ।
एतदिच्छामहे श्रोतुं सर्व एव यथातथम् ॥
अक्षौहिण्याः परीमाणं रथाश्वनरहस्तिनाम् ।
यथावच्चैव नो ब्रूहि तत्सर्वं विदितं त्वया ॥
सूतः-
एको रथो गजश्चैको नराः पञ्च पदातयः ।
त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते ॥
पत्तिं त्रिगुणितामेनां विदुः सेनामुखं बुधाः ।
त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते ॥
त्रयो गुल्मा गणो नाम वाहिनी तु गणात्रयम् ।
स्मृतास्तिस्रोऽथ वाहिन्यः पृतनेति विचक्षणैः ॥
चमूस्तु पृतनास्तिस्रस् ताश्च तिस्रस्त्त्वनीकिनी ।
अनीकिनीं दशगुणां आहुरक्षौहिणीं बुधाः ॥
अक्षौहिण्यां प्रसङ्ख्याता रथानां द्विजसत्तमाः ।
सङ्ख्या गणिततत्त्वज्ञैः सहस्राण्येकविंशतिः ॥
शतान्युपरि चाप्यष्टौ भूयश्च सह सप्ततिः ।
गजानां तु परीमाणं तावदेवात्र निर्दिशेत् ॥
ज्ञेयं शतसहस्रं तु सहस्राणि तथा नव ।
नराणामपि पञ्चाशच् छतानि त्रीणि चानघाः ॥
पञ्चषष्टिसहस्राणि तथाश्वानां शतानि च ।
दशोत्तराणि षट् प्राहुर् यथावदभिसङ्ख्यया ॥
एतामक्षौहिणीं प्राहुः सङ्ख्यातत्त्वविदो जनाः ।
यां वः कथितवानस्मि विस्तरेण द्विजोत्तमाः ॥
एतया सङ्ख्यया ह्यासन् कुरुपाण्डवसैन्ययोः ।
अक्षौहिण्यो द्विजश्रेष्ठाः पिण्डेनाष्टादशैव ताः ॥
समेता यत्र वै देशे तत्रैव निधनं गताः ।
कौरवान्कारणं कृत्वा कालेनाद्भुतकर्मणा ॥
अहानि युयुधे भीष्मो दशैव परमास्त्रवित् ।
अहानि पञ्च द्रोणश्च ररक्ष कुरुवाहिनीम् ॥
अहनी युयुधे द्वे तु कर्णः परबलार्दनः ।
शल्योऽर्धदिवसं चासीद् गदायुद्धं ततः परम् ॥
तस्यैव तु दिनस्यान्ते हार्दिक्यद्रौणिगौतमाः ।
प्रसुप्तं निशि विश्वस्तं जघ्नुर्यौधिष्ठिरं बलम् ॥
तत्तु शौनक सत्रे ते भारताख्यानमुत्तमम् ।
आख्यास्ये पौष्य पौलोमं आस्तीकं च ततः परम् ॥
चित्रार्थपदाख्यानं अनेकसमयान्वितम् ।
प्रतिपन्नं नरैः प्राज्ञैर् वैराग्यमिव मोक्षिभिः ॥
आत्मेव वेदितव्येषु प्रियेष्विव हि जीवितम् ।
इतिहासः प्रधानार्थः श्रेष्ठः सर्वागमेष्वयम् ॥
इतिहासोत्तमे ह्यस्मिन् अर्पिता बुद्धिरुत्तमा ।
स्वरव्यञ्जनयोः कृत्स्ना लोकवेदाश्रयेव वाक् ॥
अस्य प्रज्ञाभिपन्नस्य विचित्रपदपर्वणः ।
भारतस्येतिहासस्य श्रूयतां पर्वसङ्ग्रहः ॥
सर्वानुक्रमणं पूर्वं द्वितीयः पर्वसङ्ग्रहः ।
पौष्यं पौलोममास्तीकं आदिरंशावतारणम् ॥
ततः सम्भवपर्वोक्तं अद्भुतं देवनिर्मितम् ।
दाहो जतुगृहस्यात्र हैडिम्बं पर्व चोच्यते ॥
ततो बकवधः पर्व पर्व चैत्ररथं ततः ।
ततः स्वयंवरो देव्याः पाञ्चाल्याः पर्व चोच्यते ॥
क्षात्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम् ।
विदुरागमनं पर्व राज्यलाभस्तथैव च ॥
अर्जुनस्य वने वासः सुभद्राहरणं ततः ।
सुभद्राहरणादूर्ध्वं ज्ञेयं हरणहारिकम् ॥
ततः खाण्डवदाहाख्यं तत्रैव मयदर्शनम् ।
सभापर्व ततः प्रोक्तं मन्त्रपर्व ततः परम् ॥
जरासन्धवधः पर्व पर्व दिग्विजयस्तथा ।
पर्वदिग्विजयादूर्ध्वं राजसूयकमुच्यते ॥
ततश्चार्घाभिहरणं शिशुपालवधस्ततः ।
द्यूतपर्व ततः प्रोक्तं अनुद्यूतमतः परम् ॥
तत आरण्यकं पर्व किम्मीरवध एव च ।
ईश्वरार्जुनयोर्युद्धं पर्व कैरातमुच्यते ॥
इन्द्रलोकाभिगमनं पर्व ज्ञेयमतः परम् ।
तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः ॥
जटासुरवधः पर्व यक्षयुद्धमतः परम् ।
तथैवाजगरं पर्व विज्ञेयं तदनन्तरम् ॥
मार्कण्डेयसमास्या च पर्वोक्तं तदनन्तरम् ।
संवादश्च ततः पर्व द्रौपदीसत्यभामयोः ॥
घोषयात्रा ततः पर्व पर्व प्रायोपवेशनम् ।
मन्त्रस्य निश्चयं कृत्वा कार्यस्यापि विचिन्तनम् ॥
व्रीहिद्रोणकमाख्यानं ततोऽनन्तरमुच्यते ।
द्रौपदीहरणं पर्व सैन्धवेन वनात्ततः ॥
कुण्डलाहरणं पर्व ततः परमिहोच्यते ।
आरणेयं ततः पर्व वैराटं तदनन्तरम् ॥
कीचकानां वधः पर्व पर्व ग्रोग्रहणं तथा ।
अभिमन्योश्च वैराट्याः पर्व वैवाहिकं स्मृतम् ॥
उद्योगं पर्व विज्ञेयं अत ऊर्ध्वं महाद्भुतम् ।
ततः सञ्जययानाख्यं पर्व ज्ञेयमतः परम् ॥
प्रजागरं ततः पर्व धृतराष्ट्रस्य चिन्तया ।
पर्व सानत्सुजातं च गुह्यमध्यात्मदर्शनम् ॥
व्यासाभिगमनं पर्व भगवद्यानमेव च ।
ज्ञेयं विवादपर्वात्र कर्णस्य च महात्मनः ॥
मन्त्रस्य निश्चयं कृत्वा कार्यं समभिचिन्तयन् ।
कीर्त्यते चाप्युपाख्यानं सैनापत्येऽभिषेचनम् ॥
श्वेतस्य वासुदेवेन चित्रं बहुकथाश्रयम् ।
भीष्माभिषेचनं पर्व ततश्चाद्भुतमुच्यते ॥
निर्याणं च ततः पर्व कुरुपाण्डवसेनयोः ।
रथातिरथसङ्ख्या च पर्वोक्तं तदनन्तरम् ॥
उलूकदूतागमनं पर्व रोषविवर्धनम् ।
अम्बोपाख्यानमथ च पर्व ज्ञेयमतः परम् ॥
जम्बूखण्डविनिर्माणं पर्वोक्तं तदनन्तरम् ।
भूमिपर्व ततो ज्ञेयं द्वीपविस्तारकीर्तनम् ॥
दिव्यं चक्षुर्ददौ यत्र सञ्जयाय महानृषिः ।
पर्वोक्तं भगवद्गीता पर्व भीष्मवधस्ततः ॥
द्रोणाभिषेकः पर्वोक्तं संशप्तकवधस्तथा ।
अभिमन्युवधः पर्व प्रतिज्ञापर्व चोच्यते ॥
जयद्रथवधः पर्व घटोत्कचवधस्ततः ।
ततो द्रोणवधःपर्व विज्ञेयं तदनन्तरम् ॥
मोक्षो नारायणास्त्रस्य पर्वानन्तरमुच्यते ।
कर्णपर्व ततो ज्ञेयं शल्यपर्व ततः परम् ॥
ह्रदप्रवेशनं पर्व गदायुद्धमतः परम् ।
सारस्वतं ततःपर्व तीर्थवंशगुणान्वितम् ॥
अत ऊर्ध्वं तु बीभत्सं पर्व सौप्तिकमुच्यते ।
ऐषीकं पर्व निर्दिष्टं अत ऊर्ध्वं सुदारुणम् ॥
जलप्रदानिकं पर्व स्त्रीपर्व च ततः परम् ।
श्राद्धपर्व ततो ज्ञेयं कुरूणामौर्ध्वदैहिकम् ॥
आभिषेचनिकं पर्व धर्मराजस्य धीमतः ।
चार्वाकनिग्रहः पर्व रक्षसो ब्रह्मरूपिणः ॥
प्रविभागो गृहाणां च पर्वोक्तं तदनन्तरम् ।
शान्तिपर्व ततो यत्र राजधर्मानुकीर्तनम् ॥
आपद्धर्मश्च पर्वोक्तं मोक्षधर्मस्ततःपरम् ।
ततः पर्व परिज्ञेयं आनुशासनिकं परम् ॥
स्वर्गारोहणकं पर्व ततो भीष्मस्य धीमतः ।
ततोऽश्वमेधिकं पर्व सर्वपापप्रणाशनम् ॥
अनुगीतापर्व ततो ज्ञेयमध्यात्मवाचकम् ।
पर्व चाश्रमवासाख्यं पुत्रदर्शनमेव च ॥
नारदागमनं पर्व ततःपरमिहोच्यते ।
मौसलं पर्व च ततो घोरं समनुवर्ण्यते ॥
महाप्रस्थानिकं पर्व स्वर्गारोहणकं ततः ।
हरिवंशस्ततःपर्व पुराणं खिलसञ्ज्ञितम् ॥
भविष्यत्पर्व चाप्युक्तं खिलेष्वेवाद्भुतं महत् ।
एतत्पर्वशतं पुण्यं व्यासेनोक्तं महात्मना ॥
यथा तु सूतपुत्रेण रौमहर्षणिना पुनः ।
कथितं नैमिशारण्ये पर्वाण्यष्टादशैव तु ॥
समासो भारतस्यायं तत्रोक्तः पर्वसङ्ग्रहः ।
पौष्ये पर्वाणि महात्म्यं उदङ्कस्योपवर्णितम् ॥
पौलोमे भृगुवंशस्य विस्तारः परिकीर्तितः ।
श्लोकाग्रं च सहस्रं च पञ्चाशच्छतमेव च ॥
अध्यायानां तथाष्टौ वा आदितोस्मिन् प्रकीर्तिताः ।
आस्तीके सर्वनागानां गरुडस्य च सम्भवः ॥
क्षीरोदमथनं चैव जन्मोच्चैःश्रवसस्तथा ।
यजतस्सर्पसत्रेण राज्ञः पारिक्षितस्य ह ॥
कथेयमभिनिर्वृत्ता भारतानां महात्मनाम् ।
श्लोकाग्रं च सहस्रं च त्रिशतं चोत्तरं तथा ॥
श्लोकाश्च चतुराशीतिः पर्वण्यस्मिंस्तथैव च ।
अध्यायानां ततः प्रोक्तं चत्वारिंशन्महर्षिणा ॥
विविधास्सम्भवा राज्ञां उक्ताः सम्भवपर्वणि ।
अन्येषां चैव विप्राणामृषेर्द्वैपायनस्य च ॥
अंशावतरणं चात्र देवानां परिकीर्तितम् ।
दैत्यानां दानवानां च यक्षाणां च महौजसाम् ॥
नागानामथ सर्पाणां गन्धर्वाणां पतत्त्रिणाम् ।
अन्येषां चैव भूतानां विविधानां समुद्भवः ॥
वसूनां पुनरुत्पत्तिर् भागीरथ्यां महात्मनाम् ।
शन्तनोर्वेश्मनि पुनस् तेषां चारोहणं दिवि ॥
तेजोंशानां च संयोगाद् भीष्मस्याप्यत्र सम्भवः ।
राज्यान्निवर्तनं चैव ब्रह्मचर्यव्रतास्थितिः ॥
प्रतिज्ञापालनं चैव रक्षा चित्राङ्गदस्य च ।
हते चित्राङ्गदे चैव रक्षा भ्रातुर्यवीयसः ॥
विचित्रवीर्यस्य तथा राज्ये सम्प्रतिपादनम् ।
धर्मस्य नृषु सम्भूतिराणिमाण्डव्यशापजा ॥
कृष्णद्वैपायनाच्चैव प्रसूतिर्विदुरस्य च ।
धृतराष्ट्रस्य पाण्डोश्च पाण्डवानां च सम्भवः ॥
वारणावतयात्रा च मन्त्रो दुर्योधनस्य च ।
विदुरस्य च वाक्येन सुरङ्गापगमक्रिया ॥
पाण्डवानां वने घोरे हिडिम्बायाश्च दर्शनम् ।
घटोत्कचस्य चोत्पत्तिर् अत्रैव परिकीर्तिता ॥
अज्ञातचर्या पार्थानां वासो ब्राह्मणवेश्मनि ।
बकस्य निधनं चैव नागराणां च विस्मयः ॥
अङ्गारपर्णीं निर्जित्य गङ्गाकूलेऽर्जुनस्तदा ।
भ्रातृभिः सहितः सर्वैः पाञ्चालानभितो ययौ ॥
तापत्यमथ वासिष्ठं अौर्वोपाख्यानमेव च ।
पञ्चेन्द्राणामुपाख्यानं अत्रैवाद्भुतमुच्यते ॥
पञ्चानां चैव पत्रीत्वे विमर्शो द्रुपदस्य च ।
द्रौपद्या देवविहितो विवाहश्चाप्यमानुषः ॥
विदुरस्य च सम्प्राप्तिर् दर्शनं केशवस्य च ।
खाण्डवप्रस्थवासश्च ततो राज्यार्धशासनम् ॥
नारदस्य च वाक्येन द्रौपद्यास्समयक्रिया ।
सुन्दोपसुन्दयोस्तत्र द्वदाख्यानं प्रकीर्तितम् ॥
पार्थस्य वनवासश्च उलूप्या सह सङ्गमः ।
पुण्यतीर्थानुसंयानं बभ्रुवाहनजन्म च ॥
द्वारकायां सुभद्रा च कामयानेन कामिनी ।
वासुदेवस्यानुमते प्राप्तात्रैव किरीटिना ॥
हरणं गृह्य सम्प्राप्ते कृष्णे देवकिनन्दने ।
अभिमन्योः सुभद्रायां जन्म चोत्तमतेजसः ॥
सम्प्राप्तिः शक्रधनुषः खाण्डवस्य च दाहनम् ।
मयस्य मोक्षो ज्वलनाद् भुजङ्गस्य च मोक्षणम् ॥
महर्षेर्मन्दपालस्य शार्ङ्ग्यां तनयसम्भवः ।
इत्येवमादिपर्वोक्तं प्रथमं भुवि विस्तरम् ॥
अध्यायानां शते द्वे तु सङ्ख्याते परमर्षिणा ।
अष्टादशैव चाध्याया व्यासेनोत्तमतेजसा ॥
नवश्लोकसहस्राणि शतान्यष्टौ तथैव च ।
श्लोकाश्च चतुराशीतिर् दृष्टो ग्रन्थो महात्मना ॥
द्वितीयं तु सभापर्व बहुवृत्तान्तमुच्यते ।
सभाक्रिया पाण्डवानां किङ्कराणां च दर्शनम् ।
लोकपालसभाख्यानं नारदाद्देवदर्शिनात् ।
राजसूयस्य चारम्भो जरासन्धवधस्तथा ॥
गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन मोक्षणम् ।
राजसूयेऽर्घसंवादे शिशुपालवधस्तथा ॥
यज्ञे विभूतिं दृष्ट्वा तां दुःखामर्षान्वितस्य च ।
दुर्योधनस्यापहासो भीमेन च सभातले ॥
यत्रास्य मन्युरभवद् येन द्यूतमकल्पयत् ।
यत्र धर्मसुतं द्यूते शकुनिः कितवोऽजयत् ॥
यत्र द्यूतास्रवे मग्ना द्रौपदीं नौरिवार्णवे ।
गच्छतश्चातिसृष्टांस्ताञ् ज्ञात्वा दुर्योधनो नृपः ॥
पुनरेव ततो द्यूते समाह्वयत पाण्डवान् ।
एतत्सर्वं सभापर्व व्याख्यातं परमर्षिणा ॥
अध्यायाः सप्ततिर्ज्ञेया द्वौ चात्र प्रसङ्ख्यया ।
चतु श्लोकसहस्राणि पञ्च श्लोकशतानि च ॥
श्लोकाश्चैकादश ज्ञेयाः पर्वण्यस्मिन्प्रकीर्तिताः ।
अतः परं तृतीयं तु ज्ञेयमारण्यकं परम् ॥
वनवासं प्रयातेषु पाण्डवेषु महात्मसु ।
पौरानुकम्पा व्रजतो धर्मराजस्य धर्मतः ॥
धौम्योपदेशात्तिग्मांशुप्रसादादन्नसंभवः ।
मैत्रेयशापोत्सर्गश्च विदुस्य प्रवासनम् ॥
किम्मीरकवधाख्यानं वृष्णीनामागमस्तथा ।
पाण्डवानां च सर्वेषां सहाख्यानां तथैव च ॥
पाञ्चालागमनं चैव द्रौपद्याश्चाश्रुमोक्षणम् ।
अस्त्रहेतोर्विवासश्च पार्थस्यामिततेजसः ॥
महादेवेन युद्धं च किरातवपुषा सह ।
दर्शनं लोकपालानां स्वर्गारोहणमेव च ॥
दर्शनं बृहदश्वस्य महर्षेर्भावितात्मनः ।
युधिष्ठिरस्य चार्तस्य व्यसने परिदेवनम् ॥
नलोपाख्यानमत्रैव धर्मिष्ठं करुणोदयम् ।
दमयन्त्याः स्थितिर्यत्र नलस्य व्यसनागमे ॥
वनवासगतानां च पाण्डवानां महात्मनाम् ।
स्वर्गे प्रवृत्तिराख्याता रोमशेनार्जुनस्य च ॥
तीर्थयात्रा तथैवात्र पाण्डवानां महात्मनाम् ।
आगस्त्यमपि चाख्यानं यत्र वातापिभक्षणम् ॥
लोपामुद्राभिगमनं अपत्यार्थमृषेरपि ।
ततः श्येनकपोतीयं उपाख्यानमनन्तरम् ॥
इन्द्रोऽग्निर्यत्र धर्मश्च अजिज्ञासञ्शिबिं नृपम् ।
ऋश्यशृङ्गस्य चरितं कौमारब्रह्मचारिणः ॥
जामदग्न्यस्य रामस्य चरितं भूरितेजसः ।
कार्तवीर्यवधो यत्र हेहयानां च वर्ण्यते ॥
तीर्थयात्रा तथैवात्र पाण्डवानां महात्मनाम् ।
कर्णस्य परिमोक्षोऽत्र कुण्डलाभ्यां पुरन्दरात् ॥
नियुक्तो भीमसेनश्च द्रौपद्या गन्धमादने ।
यत्र मन्दारपुष्पार्थं नलिनीं तामधर्षयत् ॥
यत्रास्य सुमहद्युद्धं अभवद्राक्षसैः सह ।
यक्षैश्चापि महावीर्यैर् मणिमत्प्रमुखैस्तथा ॥
सौकन्यमपि चाख्यानं च्यवनो यत्र भार्गवः ।
शर्यातियज्ञे नासत्यौ कृतवान्सोमपीथिनौ ॥
ताभ्यां च यत्र स मुनिर्यौवनं प्रतिपादितः ।
जन्तूपाख्यानमत्रैव यत्र पुत्रेण सोमकः ॥
पुत्रार्थमयजद्राजा लेभे पुत्रशतं च सः ।
अष्टावक्रीयमत्रैव विवादे यत्र वन्दिनम् ॥
विजित्य सागरं प्राप्तं पितरं लब्धवानृषिः ।
अजासुरस्य चात्रैव वयः समपवर्ण्यते ॥
अवाप्य दिव्यान्यस्त्राणि गुर्वर्थे सव्यसाचिना ।
निवातकवचैर्युद्धं हिरण्यपुरवासिभिः ॥
समागमश्च पार्थस्य भ्रातृम्भिर्गन्धमादने ।
घोषयात्रा च गन्धर्वैर् यत्र युद्धं किरीटिनः ॥
जयद्रथेनापहारो द्रौपद्याश्चाश्रमान्तरात् ।
यत्रैनमन्वगाद्भीमो वातवेगसमो जवे ॥
मार्कण्डेयसमास्यायां उपाख्यानानि सर्वशः ।
सन्दर्शनं च कृष्णस्य संवादश्चापि सत्यया ॥
व्रीहिद्रोणकमाख्यानं ऐन्द्रद्युुम्नं तथैव च ।
सावित्र्यौद्दालकीये च वैन्योपाख्यानमेव च ॥
रामायणमुपाख्यानं अत्रैव बहुविस्तरम् ।
पुनरागमनं चैव तेषां द्वैतवने सरः ॥
आरणेयकमाख्यानं यत्र धर्मोऽवदत्सुतम् ।
जग्मुर्लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम् ॥
एतदारण्यकं पर्व तृतीयं परिकीर्तितम् ।
अत्राध्यायशते द्वे तु सङ्ख्याते परमर्षिणा ॥
एकोनसप्ततिश्चैव तथाध्यायाः प्रकीर्तिताः ।
एकादशसहस्राणि श्लोकानां षट्छतानि च ॥
चतुष्षष्टिस्तथा श्लोकाः पर्वण्यस्मिन् प्रकीर्तिताः ।
अतः परं निबोधेदं वैराटं पर्व विस्तरम् ॥
विराटनगरं गत्वा श्मशाने विपुलां शमीम् ।
दृष्ट्वा सन्न्यदधुर्यत्र पाण्डवा आयुधान्युत ॥
यत्र प्रविश्य नगरं छद्मभिर्न्यवसंस्तदा ।
दुरात्मनो वधो यत्र कीचकस्य वृकोदरात् ॥
गोग्रहे यत्र पार्थेन निर्जिताः कुरवो युधि ।
गोधनं च विराटस्य मोक्षितं यत्र पाण्डवैः ॥
विराटेनोत्तरा दत्ता स्नुषा यत्र किरीटिनः ।
अभिमन्युं समुद्दिश्य सौभद्रमरिघातिनम् ॥
चतुर्थमेतद्विपुलं वैराटं पर्व वर्णितम् ।
अत्रचोपरि सङ्ख्यानं अध्यायानां महात्मना ॥
सप्तषष्टिरथो पूर्णा श्लोकाग्रमपि मे शृणु ।
त्रीणि श्लोकसहस्राणि पञ्चश्लोकशतानि च ॥
पर्वण्यस्मिन् समाख्यातं सङ्ख्यया परमर्षिणा ।
उद्योगपर्व विज्ञेयं पञ्चमं शृण्वतःपरम् ॥
उपप्लाव्ये निविष्टेषु पाण्डवेषु जिगीषया ।
दुर्योधनोऽर्जुनश्चैव वासुदेवमुपस्थितौ ॥
साहाय्यमस्मिन् समरे भवान्नौ दातुमर्हति ।
इत्युक्ते वचने कृष्णो यत्रोवाच महामतिः ॥
अयुध्यमानमात्मानं मन्त्रिणं पुरुषर्षभौ ।
अक्षौहिणीं च सैन्यस्य कस्य किं वा ददाम्यहम् ॥
वव्रे दुर्योधनः सैन्यं मन्दात्मा यत्र दुर्मतिः ।
अयुध्यमानं सचिवं वव्रे कृष्णं धनञ्जयः ॥
सञ्जयं प्रेषयामास शमार्थं पाण्डवान् प्रति ।
यत्र दूतं महाराजो धृतराष्ट्रः प्रतापवान् ॥
श्रुत्वा च पाण्डवान्यतान् वासुदेवपुरोगमान् ।
प्रजागरः सम्प्रजज्ञे धृतराष्ट्रस्य चिन्तया ॥
विदुरो यत्र वाक्यानि चित्राणि विविधानि च ।
श्रावयामास राजानं धृतराष्ट्रं मनीषिणम् ॥
तथा सनत्सुजातेन यत्राध्यात्ममनुत्तमम् ।
मनस्तापान्वितो राजा श्रावितः शोकलालसः ॥
प्रभाते राजसमितौ सञ्जयो यत्र च प्रभुम् ।
ऐकात्म्यं वासुदेवस्य प्रोक्तवानर्जुनस्य च ॥
यत्र कृष्णो दयापन्नः सन्धिमिच्छन्महायशाः ।
स्वयमागाच्छमं कर्तुं नगरं नागसाह्वयम् ॥
प्रत्याख्यानं च कृष्णस्य राज्ञा दुर्योधनेन वै ।
शमार्थं याचमानस्य पक्षयोरुभयोर्हितम् ॥
कर्णदुर्योधनादीनां दुष्टं विज्ञाय मन्त्रितम् ।
योगेश्वरत्वं कृष्णेन यत्र राजसु दर्शितम् ॥
रथमारोप्य कृष्णेन यत्र कर्णोऽनुमन्त्रितः ।
उपायपूर्वं शौण्डीर्यात् प्रत्याख्यातश्च तेन सः ॥
श्वेताभिषेकः कृष्णोक्तो विचित्रो बहुविस्तरः ।
ततश्चात्राभिनिर्याणं रथाश्वनरदन्तिनाम् ॥
नगराद्धस्तिनपुराद् बलसङ्ख्यानमेव च ।
यत्र राज्ञा उलूकस्य प्रेषणं पाण्डवान् प्रति ॥
श्वोभाविनि महायुद्धे दूतेन कूरवादिना ।
रथातिरथसङ्ख्यानं अम्बोपाख्यानमेवच ॥
एतत्सुबहुवृत्तान्तं पञ्चमं पर्व भारते ।
उद्योगपर्व निर्दिष्टं सन्धिविग्रहसञ्ज्ञितम् ॥
अध्यायाः सङ्ख्यया तत्र षडशीतिशतं स्मृतम् ।
श्लोकाः सप्तसहस्राणि नवश्लोकशतानि च ॥
श्लोकाश्च नवतिः प्रोक्तास् तथैवाष्टौ महात्मना ।
व्यासेनोदारमतिना पर्वण्यस्मिंस्तपोधनाः ॥
अतऊर्ध्वं विचित्रार्थं भीष्मपर्व प्रचक्षते ।
जम्बूखण्डविनिर्माणं यत्रोक्तं सञ्जयेन ह ॥
यत्र युद्धमभूद्घोरं दशाहान्यतिदारुणम्
यत्र यौधिष्ठिरं सैन्यं विषादमगमत्परम् ॥
कश्मलं यत्र पार्थस्य वासुदेवो महाद्युतिः ।
मोहजं नाशयामास हेतुभिर्मोक्षदर्शनैः ॥
शिखण्डिनं पुरस्कृत्य यत्र पार्थो महारथः ।
विनिघ्नन्निशितैर्बाणै रथाद्भीष्ममपातयत् ॥
षष्ठमेतन्महापर्व भारते परिकीर्तितम् ।
अध्यायानां शतं प्रोक्तं अष्टादश तथापरे ॥
पञ्चश्लोकसहस्राणि सङ्ख्ययाष्टौ शतानि च ।
श्लोकानां चतुराशीतिर् अस्मिन् पर्वणि कीर्तिताः ॥
व्यासेन वेदविदुषा सङ्ख्याया भीष्मपर्वणि।
द्रोणपर्व ततश्चित्रं बहुवृत्तान्तमुच्यते ॥
यत्र संशप्तकाः पार्थं अभिपेत् रणाजिरे ।
भगदत्तो महाराजो यत्र शक्रसमो युधि ॥
सुप्रतीकेन नागेन सह शस्तः किरीटिना ।
यत्राभिमन्युं बहवो जघ्नुर्लोकमहारथाः ॥
जयद्रथमुखा बालं शूरमप्राप्तयौवनम् ।
हतेऽभिमन्यौ क्रुद्धेन यत्र पार्थेन संयुगे ॥
अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः ।
संशप्तकावशेषं च कृतं निश्शेषमाहवे ॥
अलम्बुषः श्रुतायुश्च जलसन्धिश्च वीर्यवान् ।
सौमदत्तिर्विराटश्च द्रुपदश्च महारथः ॥
घटोत्कचादयश्चान्ये निहता द्रोणपर्वणि ।
अत्र ते पृथिवीपालाः प्रायशो निधनं॥
द्रोणपर्वणि ये शूरा निर्दिष्टाः पुरुषर्षभाः ।
अश्वत्थामा पितरि वै द्रोणे युधि निपातिते ॥
सप्तमं भारते पर्व महदेतदुदाहृतम् ॥
अस्त्रं प्रादुश्चकारोग्रं नारायणममर्षितः ।
अध्यायानां शतं प्रोक्तमध्यायाः सप्ततिः स्मृताः ।
अष्टौ श्लोकसहस्राणि नव श्लोकशतानि च ॥
श्लोका नव तथैवात्र सङ्ख्यातास्तत्वदर्शिना ।
पाराशर्येण मुनिना सञ्चिन्त्य द्रोणपर्वणि ॥
अतः परं कर्णपर्व प्रोच्यते परमाद्भुतम् ।
सारथ्ये विनियोगश्च मद्रराजस्य धीमतः ॥
आख्यानं यत्र पौराणं त्रिपुरस्य निपातनम् ।
प्रायेण परुषश्चात्र संवादः कर्णशल्ययोः ॥
हंसकाकीयमाख्यानं अत्रैवाक्षेपसंहितम् ।
अन्योन्यं प्रति च क्रोधो युधिष्ठिरकिरीटिनोः ॥
द्वैरथे यत्र पार्थन हतः कर्णो महारथः ।
अष्टमं पर्व निर्दिष्टं एतद्भारतचिन्तकैः ॥
एकोनसप्ततिः प्रोक्ता अध्यायाः कर्णपर्वणि ।
चत्वार्येव सहस्राणि नव श्लोकशतानि च ॥
अतः परं विचित्रार्थं शल्यपर्व प्रकीर्तितम् ।
हतप्रवीरे सैन्ये तु नेता मद्रेश्वरोऽभवत् ॥
वृत्तानि रथयुद्धानि कीर्त्यन्ते यत्र भागशः ।
विनाशः कुरुमुख्यानां शल्यपर्वणि कीर्त्यते ॥
शल्यस्य निधनं चात्र धर्मराजान्महारथात् ।
गदायुद्धं च तुमुलं अत्रैव परिकीर्तितम् ॥
सरस्वत्याश्च तीर्थानां पुण्यता परिकीर्तिता ।
नवमं पर्व निर्दिष्टं एतदद्भुतमर्थवत् ॥
एकोनषष्टिरध्यायास् तत्र सङ्ख्याविशारदैः ।
सङ्ख्याता बहुवृत्तान्ताः श्लोकाग्रं चात्र शब्द्यते ॥
त्रीणि श्लोकसहस्राणि द्वे शते विंशतिस्तथा ।
मुनिना सम्प्रणीतानि कौरवाणां यशोभृताम् ॥
अतः परं प्रवक्ष्यामि सौप्तिकं पर्व दारुणम् ।
भग्नोरुं यत्र राजानं दुर्योधनममर्षणम् ॥
व्यपयातेषु पार्थेषु त्रयस्तेह्याययूरथाः ।
कृतवर्मा कृपो द्रौणिः सायाह्ने रुधिरोक्षिताः ॥
प्रतिजज्ञे दृढक्रोधो द्रौणिर्यत्र महारथः ।
अहत्वा सर्वपाञ्चालान् धृष्टद्युम्नपुरोगमान् ॥
पाण्डवांश्च तथामात्यान् न विमोक्षामि दंसनम् ।
प्रसुप्तान्निशि विश्वस्तान् यत्र ते पुरुषर्षभाः ॥
पाञ्चालान् सपरीवाराञ् जघ्नुर्द्रौणिपुरोगमाः ।
यत्रामुच्यन्त पार्थस्ते पञ्च कृष्णबलाश्रयात् ॥
सात्यकिश्च महेष्वासः शेषाश्च निधनं गताः ।
द्रौपदी पुत्रशोकार्ता पितृभ्रातृवधार्दिता ॥
कृतानशनसंकल्पा यत्र भर्तॄनुपाविशत् ।
द्रौपदीवचनाद्यत्र भीमो भीमपराक्रमः
अन्वधावत सङ्क्रुद्धो भारद्वाजं गुरोः सुतम् ।
भीमसेनभयाद्यत्र दैवेन प्रतिचोदितः ॥
अपाण्डवायेति रुषा द्रौणिरस्त्रमवासृजत् ।
मैवमित्यब्रवीत्कृष्णः शमयंस्तस्य तद्वचः ॥
यत्रास्त्रमस्त्रेण च तच् छमयामास फाल्गुनः ।
द्रौणिद्वैपायनादीनां शापाश्चान्योन्यकारिताः ॥
चिताकर्मणि सर्वेषां राज्ञामुदकदानिके ।
गूढोत्पन्नस्य चाख्यानं कर्णस्य पृथयात्मनः ॥
सुतस्यैतदिह प्रोक्तं दशमं पर्व सौप्तिकम् ।
अष्टादशास्मिन्नध्यायाः पर्वण्युक्ता महात्मना ॥
श्लोकाग्रमत्र कथितं शतान्यष्टौ तथैव च ।
श्लोकाश्च सप्ततिः प्रोक्ता यथावदभिसङ्ख्यया ॥
सौप्तिकैषीकसम्बन्धे पर्वण्यमितबुद्धिना।
अत ऊर्ध्वमिदं प्राहुः स्त्रीपर्व करुणोदयम् ॥
विलापो वीरपत्नीनां यत्रातिकरुणं स्मृतम् ।
क्रोधावेगः प्रसादश्च गान्धारीधृतराष्ट्रयोः ॥
यत्र च क्षत्रियान् शूरान् इष्टांस्ताननिवर्तिनः ।
पुत्रान् भ्रातृन् पितॄंश्चैव निहतान्ददृशू रणे ॥
यत्र राजा महाप्राज्ञः सर्वधर्मविदां वरः ।
राज्ञां तानि शरीराणि दाहयामास शास्त्रतः ॥
सत्पविंशतिरध्यायाः पर्वण्यस्मिन्नुदाहृताः ॥
एतदेकादशं प्रोक्तं पार्वतिकरुणं महत् ।
श्लोकाः सप्तशतं चापि पञ्चसप्ततिरुच्यते ।
सङ्ख्यया भारताख्यानकर्त्रा ह्यात्र महात्मना ॥
प्रणीतं सज्जनमनोवैक्लब्याश्रुप्रवर्तनम् ।
अतः परं शान्तिपर्व द्वादशं बुद्धिवर्धनम् ॥
यत्र निर्वेदमापेदे धर्मराजो युधिष्ठिरः ।
घातयित्वा पितॄन् भ्रातॄन् पुत्रान् सम्बन्धिबान्धवान् ॥
शान्तिपर्वणि धर्माश्च व्याहृताःशारतल्पिकाः ।
राजभिर्वेदितव्या ये सम्यगर्थं बुभुत्सुभिः ॥
यान् बुद्ध्वा पुरुषः सम्यक् सर्वज्ञत्वमवाप्नुयात् ॥
आपद्धर्माश्च तत्रैव कालहेतुप्रदर्शकाः ।
द्वादशं पर्व निर्दिष्टम् एतत् प्राज्ञजनप्रियम् ॥
मोक्षधर्माश्च विविधा विचित्रा बहुविस्तराः ।
त्रिंशच्चैव तथाध्याया नव चैव तपोधानाः ॥
पर्वण्यत्र परिज्ञेयं अध्यायानां शतत्रयम् ।
श्लोकानां तु सहस्राणि किर्तितानि चतुर्दश ।
पञ्च चैव शतान्याहुः पञ्चविंशतिसङ्ख्यया ॥
अत ऊर्ध्वं च विज्ञेयं आनुशासनमुत्तमम् ।
यत्र प्रकृतिमापन्नः श्रुत्वा धर्मविनिश्चयान् ॥
भीष्माद्भागीरथीपुत्रात् कुरुराजो युधिष्ठिरः ।
व्यवहारोऽत्र कार्त्स्न्येन धर्मार्थो येन दर्शितः ॥
विविधानां च दानानां फलयोगाः पृथग्विधाः।
तथा पात्रविशेषाश्च दानानां च परो विधिः ॥
आचारविधियोगश्च सत्यस्य च परा गतिः ।
एतत्सुबहुवृत्तान्तं उत्तमं चानुशासनम् ॥
भीष्मस्यैवात्र सम्प्राप्तिः स्वर्गस्य परिकीर्तिता ।
एतत्त्रयोदशं पर्व धर्मनिश्चयकारणम् ॥
अध्यायानां शतं तत्र षट्पञ्चाशच्छतोत्तरम् ।
श्लोकानां च सहस्राणि द्वादशैवेति कीर्त्यते ॥
अथाश्वमेधिकं नाम पर्व चोक्तं चतुर्दशम् ।
तत्संवर्तमरुत्तीयं अत्राख्यानमनुत्तमम् ॥
सुवर्णकोशसम्प्राप्तिर् जन्म चोक्तं परीक्षितः ।
दग्धस्यास्त्राग्निना पूर्वं कृष्णात्सञ्जीवनं पुनः ॥
चर्याया हयमुत्सृष्टं पाण्डवस्यानुगच्छतः ।
तत्र तत्र च युद्धानि राजपुत्रैरमर्षणैः ॥
चित्राङ्गदायाः पुत्रेण स्वपुत्रेण किरीटिनः ।
सङ्ग्रामे बभ्रुवाहेन संशयश्चात्र दर्शितः ॥
अश्वमेधे महायज्ञे नकुलाख्यानमेव च ।
इत्याश्वमेधिकं पर्व प्रोक्तमेतन्महाद्भुतम् ॥
अत्राध्यायशतं त्रिंशत् त्रयोऽध्यायाश्च शब्दिताः ।
चत्वार्येव सहस्राणि तावन्त्येव शतानि च ॥
विंशतिश्च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना ।
ततश्चाश्रमवासाख्यं पर्व पञ्चदशं स्मृतम् ॥
यत्र राज्यं परित्यज्य गान्धारीसहितो नृपः ।
धृतराष्ट्राश्रमपदं विदुरश्च जगाम ह ॥
यं दृष्ट्वा प्रस्थितं साध्वी पृथाप्यनुययौ तदा ।
पुत्रराज्यं परित्यज्य गुरुशुश्रूषणे रता ॥
यत्र राजा हतान् पुत्रान् पौत्रानन्यांश्च पार्थिवान् ।
लाकान्तरगतान्वीरान् अपश्यत्पुनरागतान् ॥
ऋषेः प्रसादात्कृष्णस्य दृष्ट्वाश्चर्यमनुत्तमम् ।
त्यक्त्वा शोकं सदारश्च सिद्धिं परमिकां गतः ॥
यत्र धर्मं समाश्रित्य विदुरः सुगतिं गतः ।
सञ्जयश्च महामात्रो विद्वान्गावल्गणिर्वशी ॥
ददर्श नारदं यत्र धर्मराजो युधिष्ठिरः।
नारदाच्चैव शुश्राव वृष्णीनां कदनं महत् ॥
एतदाश्रमवासाख्यं पर्वोक्तं सुमहाद्भुतम् ।
द्विचत्वारिंशदध्यायाः पर्वैतदभिसङ्ख्यया ॥
सहस्रमेकं श्लोकानां नवश्लोकशतानि च ।
षडेव च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना ॥
अतः परं निबोधेदं मौसलं भृशदारुणम् ।
यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्शहता युधि ॥
ब्रह्मदण्डविनिष्पिष्टाः समीपे लवणाम्भसः।
आपाने पानगलिता दैवेनाभिप्रचोदिताः॥
एरकारूपिभिर्वज्रैर् निजघ्नुरितरेतरे ।
यत्र सर्वक्षयं कृत्वा तावुभौ रामकेशवौ ॥
नातिचक्रामतुः कालं प्राप्तं सर्वहरं परम् ।
यत्रार्जुनो द्वारवतीं एत्य कृष्णाद्विनाकृताम् ॥
दृष्ट्वा विषादमगमत् परां चार्तिं नरर्षभः ।
सन्त्यज्य च यदुश्रेष्ठं मातुलं शौरिमात्मनः ॥
ददर्श यदुवीराणां आपाने वैशसं महत् ।
शरीरं वासुदेवस्य रामस्य च महात्मनः ॥
संस्कारं लम्भयामास वृष्णीनां च प्रधानतः ।
सवृद्धबालमादाय द्वारवत्यास्ततो जनम् ॥
ददर्शापदि कष्टायां गाण्डीवस्य पराभवम् ।
सर्वेषां चैव दिव्यानां अस्त्राणामप्रसन्नताम् ॥
नाशं वृष्णिकलत्राणां प्रभावानामनित्यताम् ।
दृष्ट्वा निर्वेदमापन्नो व्यासवाक्यप्रचोदितः ॥
धर्मराजं समासाद्य संन्यासं समरोचयत् ।
इतीदं मौसलं पर्व षोडशं परिकीर्तितम् ॥
अष्टाध्यायाः प्रसङ्ख्याताः श्लोकाग्रं च शतत्रयम् ।
महाप्रस्थानिकं तस्माद् ऊर्ध्वं सप्तदशं स्मृतम् ॥
यत्र राष्यं परित्यज्य पाण्डवाः पुरुषर्षभाः ।
द्रौपद्या सहिता देव्या सिद्धिं परमिकां गताः ॥
अध्यायाश्च त्रयः प्रोक्ताः श्लोकानां च तथा शतम् ।
विंशतिश्च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना ॥
स्वर्गपर्व ततो ज्ञेयं दिव्यं यत्तदमानुषम् ।
अध्यायाः पञ्च सङ्ख्याताः पर्वैतदभिसङ्ख्यया ॥
श्लोकानां द्वे शते चैव प्रसङ्ख्याते तपोधनाः।
अष्टादशैवमेतानि पर्वाण्युक्तान्यशेषतः ॥
खिलेषु हरिवंशश्च भविष्यच्च प्रकीर्तितम् ।
एतत्सखिलमाख्यातं भारतं पर्व सङ्ग्रहात् ॥
अष्टादशसमाजग्मुर् अक्षौहिण्यो ययुत्सया ।
तन्महादारुणं युद्धं अहान्यष्टादशाभवत् ॥
यो विद्याच्चतुरो वेदान् साङ्गोपनिषदो द्विजः ।
न चाख्यानमिदं विद्यान्नैव स स्याद्विचक्षणः ॥
श्रुत्वा त्विदमुपाख्यानं श्राव्यमन्यन्न रोचते ।
पुंस्कोकिलरुतं श्रुत्वा रूक्षा ध्वाङ्क्षस्य वागिव ॥
इतिहासोत्तमादस्माज् जायन्ते कविबुद्धयः ।
पञ्चभ्य इव भूतेभ्यो लोकसंविधयस्त्रयः ॥
अस्याख्यानस्य विषये पुराणं वर्तते द्विजाः ।
अन्तरिक्षस्य विषये प्रजा इव चतुर्विधाः ॥
क्रियागुणानां सर्वेषां इदमाख्यानमाश्रयः ।
इन्द्रियाणां समस्तानां चित्रा इव मनः क्रियाः ॥
अनाश्रित्यैतदाख्यानं कथा भुवि न विद्यते ।
आहारमनपाश्रित्य शरीरस्येव धारणम् ॥
इदं सर्वेः कविवरैर् आख्यानमुपजीव्यते ।
उदयप्रेप्सुभिर्भृत्यैर् अभिजात इवेश्वरः ॥
आख्यानं तदिदमनुत्तमं महार्थं विन्यस्तं महदिह पर्वसंग्रहेण ।
श्रुत्वादौ महति नृणां सुखावगाहो विस्तीर्णं लवणजले यथा प्लवेन ॥