नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥
श्री रोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिशारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे वर्तमाने ।
समासीनानभ्यगच्छद् ब्रह्मर्षीन् संशितव्रतान् ।
विनयावनतो भूत्वा कदाचित् सूतनन्दनः ॥
शौनकप्रमुखाः सर्वे नैमिशारण्यवासिनः ।
चित्राः श्रोतुं कथास्तत्र परिवव्रुः समन्ततः॥
अभिवाद्य मुनींस्तांस्तु सर्वानेव कृताञ्जलिः ।
अपृच्छत् स तपोवृद्धिं सद्भिश्चैवाभिनन्दितः ॥
अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु ।
निर्दिष्टमासनं भेजे विनयाद्रौमहर्षणिः ॥
सुखासीनं ततस्तं तु विश्रान्तमुपलक्ष्य च ।
अथापृच्छदृषिश्रेष्ठः सम्यक् प्रस्तावयन् कथाः ॥
कुत आगम्यते सौते क्व वायं विहृतस्त्वया ।
कालः कमलपत्राक्ष शंसैतत् पृच्छतो मम ॥
सूतः-
जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः ।
समीपे पार्थिवेन्द्रस्य सम्यक् पारिक्षितस्य च ॥
कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाः ।
कथिताश्चापि विधिवद् या वैशम्पायनेन च ॥
श्रुत्वाहं ता विचित्रार्था महाभारतसंश्रिताः ।
बहूनि सम्परिक्रम्य तीर्थान्यायतनानि च ॥
समन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम् ।
गतवानस्मि तं देशं युद्धं यत्राभवत्पुरा ॥
पाण्डवानां कुरूणां च सर्वेषां महीक्षिताम् ।
दिदृक्षुरागतस्तस्मात् समीपं भवतामिह ॥
आयुष्मन्तः सर्व एव ब्रह्मभूता हि मे मताः ।
अस्मिन्यज्ञे महाभागाः सूर्यपावकवर्चसः ॥
कृतकृत्याश्च शुचयः कृतजप्या हुताग्नयः ।
भवन्त आगताः स्वस्था ब्रवीमि किमहं द्विजाः ॥
पुराणसंहिताः पुण्याः कथा वा सम्मतिं श्रिताः ।
इतिवृत्तं नरेन्द्राणामृषीणां च महात्मनाम् ॥
ऋषयः-
द्वैपायनेन यत्प्रोक्तं पुराणं परमर्षिणा ।
सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम् ॥
तस्याख्यानवरिष्ठस्य विचित्रपदपर्वणः ।
सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च ॥
भारतस्येतिहासस्य पुण्यग्रन्थार्थसंयुताम् ।
संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम् ॥
जनमेजयस्य यां राज्ञो वैशम्पायन उक्तवान् ।
यथावत् स मुनिः पृष्टः सत्रे द्वैपायनाज्ञया ॥
वेदैश्चतुर्भिः सहितां व्यासस्याद्भुतकर्मणः ।
संहितां श्रोतुमिच्छामो धर्म्यां पापभयापहाम् ॥
सूृतः-
आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम् ।
ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम् ॥
नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम् ।
महर्षेः सर्वलोकेषु पूजितस्य महात्मनः ॥
प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः।
आचख्युः कवयः केचित् सम्प्रत्याचक्षते परे ॥
आख्यास्यन्ति तथैवान्य इतिहासमिमं भुवि ।
एताद्वि त्रिषु लोकेषु महज्ज्ञानं प्रतिष्ठितम् ॥
विस्तरैश्च समासैश्च साध्यते यद्द्विजातिभिः ।
अलङ्कृतैः शुभैः शब्दैः समयैर्दिव्यमानुषैः ॥
छन्दोवृत्तैश्च विविधैरन्वितं विदुषां प्रियम् ।
तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम् ॥
इतिहासमिमं चक्रे पुण्यं सत्यवतीसुतः ।
पुण्ये हिमवतः पादे मेध्ये गिरिगुहालये ॥
विशोध्य देहं धर्मात्मा दर्भसंस्तरमाश्रितः ।
शुचिः सनियमो व्यासः शान्तात्मा तपसि स्थितः ॥
भारतस्येतिहासस्य धर्मेणान्वीक्ष्य तां गतिम् ।
प्रविश्य योगं ज्ञानेन सोऽपश्यत् सर्वमन्ततः ॥
निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसावृते ।
ब्राह्ममण्डमभूदेकं प्रजानां बीज मक्षयम् ॥
युगस्यादिनिमित्तं तन् महद्दिव्यं प्रचक्षते ।
यस्मिंस्तच्छ्रूयते नित्यं ज्योतिर्ब्रह्म सनातनम् ॥
अद्भुतं चाप्यजातं च सर्वतः समतां गतम् ।
अव्यक्तं कारणं सूक्ष्मं यत्तत्सदसदात्मकम् ॥
यस्मिन् पितामहो जज्ञे प्रभुरेकः प्रजापतिः ।
ब्रह्मा सुरगुरुः स्थाणुर्मनुश्च परमेष्ठिजः ॥
प्राचेतसस्तथा दक्षो दक्षपुत्राश्च सप्त ये ।
ततः प्रजानां पतयः प्राभवन्नेकविंशतिः ॥
पुरुषश्चाप्रमेयात्मा यं सर्वऋषयो विदुः ।
विश्वेदेवास्तथादित्या वसवोऽथाश्विनावपि ॥
यक्षाः साध्याः पिशाचाश्च गुह्यकाः पितरस्तथा ।
सप्तर्षयश्च विद्वांसः शिष्टा ब्रह्मर्षयस्तथा॥
राजर्षयश्च बहवः सम्भूता भूरितेजसः ।
तथा द्यौः पृथिवी वायुरन्तरिक्षं दिशस्तथा ॥
संवत्सरस्ततो मासाः पक्षाहोरात्रयः क्रमात् ।
यच्चान्यदपि तत्सर्वं सम्भूतं लोकसाक्षिकम् ॥
यदिदं दृश्यते किञ्चिद् भूतं स्थावरजङ्गमम् ।
पुनः संक्षिप्यते सर्वं जगत् प्राप्ते युगक्षये ॥
यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये ।
दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥
एवमेतदनाद्यन्तं भूत सङ्घातकारकम् ।
अनादिनिधनं लोके चक्रं सम्परिवर्तते ॥
त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च ।
त्रयस्त्रिंशच्च देवानां सृष्टिः संक्षेपलक्षणा ॥
दिवस्पुत्रो बृहद्भानुश् चक्षुरात्मा विभावसुः ।
सविता च ऋचीकोऽर्को भानुरावाहको रविः ॥
सुता विवस्वतः सर्वे मह्यस्तेषामथावरः ।
देवरस्तस्य तनयस् तस्मात्सुभ्राडिति स्मृतः ॥
सुभ्राजस्तु त्रयः पुत्राः प्रजावन्तो बहुश्रुताः ।
दशज्योतिः शतज्योतिः सहस्रज्योतिरात्मवान् ॥
दशपुत्रसहस्राणि दशज्योतेर्महात्मनः ।
ततो दशगुणाश्चान्ये शतज्योतेरिहात्मजाः ॥
भूयस्ततो दशगुणाः सहस्रज्योतिजाः सुताः ।
तेभ्योऽयं कुरुवंशश्च यदूनां भरतस्य च ॥
ययातीक्ष्वाकुवंशश्च राजर्षीणां च सर्वशः ।
सम्भूता बहवो वंशा भूतसङ्घाः सुविस्तराः ॥
भूतस्थानानि सर्वाणि रहस्यं त्रिविधं च यत् ।
वेदयोगं सविज्ञानं धर्मार्थौ काममेव च ॥
धर्मार्थकामशास्त्राणि शास्त्राणि विविधानि च ।
लोकयात्राविधानं च सम्भूतं द्दृष्टवानृषिः ॥
नीतिर्भरतवंशस्य विस्तारश्चैव सर्वशः ।
इतिहासाः सहव्याख्या विविधाः श्रुतयोऽपि च ॥
इह सर्वमनुक्रान्तं उक्तं ग्रन्थस्य लक्षणम् ।
संक्षेपेणेतिहासस्य ततो वक्ष्यति विस्तरम् ॥
विस्तीर्यैतन्महात्मायं ऋषिः संक्षिप्य चाब्रवीत् ।
इष्टं हि विदुषां लोके समासव्यासधारणम् ॥
मन्वादि भारतं केचिद् आस्तीकादि तथापरे ।
तथोपरिचराद्यन्ये विप्राः सम्यगधीयते॥
विविधं संहिताज्ञानं दीपयन्ति मनीषिणः ।
व्याख्यानकुशलाः कोचित् कोचिद्ग्रन्थस्य धारणे ॥
तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम् ।
इतिहासमिमं चक्रे पुण्यं सत्यवतीसुतः ॥
पराशरात्मजः श्रीमान् ब्रह्मर्षिः संशितव्रतः ।
मातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः ॥
क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा ।
त्रीनग्नीनिव कौरव्याञ् जनयामास वीर्यवान् ॥
उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरमेव च ।
जगाम तपसे श्रीमान् पुनरेवाश्रमं प्रति ॥
तेष्वात्मजेषु वृद्धेषु गतेषु च परां गतिम् ।
अब्रवीद्भारतं लोके मानुषेऽस्मिन्महानृषिः ॥
जनमेजयेन पृष्टः सन् ब्राह्मणैश्च सहस्रशः ।
शशास शिष्यमासीनं वैशम्पायनमन्तिके ॥
स सदस्यैः सहासीनं श्रावयामास भारतम् ।
कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः ॥
विस्तरं कुरुवंशस्य गान्धार्याः सर्पशीलताम् ।
क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग्द्वैपायनोऽब्रवीत् ॥
वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम् ।
दुर्वृत्तं धार्तराष्ट्राणां उक्तवान्भगवानृषिः ॥
इदं शतसहस्राग्रं श्लोकानां पुण्यकर्मणः ।
उपाख्यानैः सह ज्ञेयं श्राव्यं भारतमुत्तमम् ॥
चतुर्विंशतिसाहस्रं चक्रे भारतसंहितम् ।
उपाख्यानै र्विना तावद् भारतं प्रोच्यते बुधैः ।
ततोऽप्यर्धशतं भूयः संक्षेपं कृतवानृषिः॥
तस्याख्यानवरिष्ठस्य कृष्णद्वैपायनः प्रभुः ।
कथमध्यापयामीह शिष्यानित्यभ्यचिन्तयत् ॥
तस्य चिन्तियमानस्य ऋषेर्द्वैपायनस्य च ॥
स्मृत्याजगाम भगवान् ब्रह्मा लोकगुरुः स्वयम् ।
प्रीत्यर्थं महर्षेश्चापि लोकानां हितकाम्यया ॥
तं दृष्ट्वा विस्मितो भूत्वा प्राञ्जलिः प्रणतः स्थितः ।
आसनं कल्पयामास सर्वदेवणै र्वृतम् ॥
हिरण्यगर्भमासीनं तस्मिंस्तु परमासने ।
परिवृत्यासनाभ्याशे वासवेयः स्थितोऽनघः ॥
अनुज्ञातोऽथ कृतिना ब्रह्मणा परमेष्ठिना ।
निषसादासनाभ्याशे प्रीयमाणः सुविस्मितः ॥
उवाच च महातेजा ब्रह्माणं परमेष्ठिनम् ।
कृतं मयैतद्भगवन् काव्यं परमपूजितम् ॥
ब्रह्मन्वेदरहस्यं च यच्चाप्यभिहितं मया ।
साङ्गोपनिषदानां च वेदानां विस्तरक्रिया ॥
इतिहासपुराणानां उन्मेषं निमिषं च यत् ।
भूतं भव्यं भविष्यच्च त्रिविधं कालसंज्ञितम् ॥
जरामृत्युभयव्याधि भाव्यभावार्थनिश्चयः ।
विविधस्य च धर्मस्य ह्याश्रमाणां च लक्षणम् ॥
चातुर्वर्ण्यविधानं च पुराषाणां च कृत्स्नशः ।
तपसो ब्रह्मचर्यस्य पृथिव्याश्चन्द्रसूर्ययोः ॥
ग्रहनक्षत्रताराणां प्रमाणं च युगैः सह ।
ऋचो यजूंषि सामानि शब्दोऽध्यात्मं तथैव च ॥
न्यायः शिक्षा चिकित्सा च ज्ञानं पाशुपतं तथा ।
इत्यनेकाश्रयं जन्म दिव्यमानुषसञ्ज्ञितम् ॥
तीर्थानां चैव पुण्यानां देशानां चैव कीर्तनम् ।
नदीनां पर्वतानां च वनानां सागरस्य च ॥
पुराणां चैव दिव्यानां कल्पानां युद्धकौशलम् ।
वाक्यजातिविशेषश्च लोकयात्राक्रमश्च यः ।
यच्च सर्वगतं वस्तु तत्प्रभो क्षन्तुमर्हसि ॥
ब्रह्मा-
तपोविशिष्टादपि च वसिष्ठान्मुनिपुङ्गवात् ।
मन्ये श्रेष्ठतमं त्वाऽद्य रहस्यज्ञानवेदनात् ॥
जन्मप्रभृति सत्यां ते वेद्मि गां ब्रह्म वादिनीम् ।
त्वया च काव्यमित्युक्तं तस्मात्काव्यं भविष्यति ॥
अस्य काव्यस्य कवयो न समर्था विशेषणे ।
विशेषणे गृहस्थस्य शेषास्त्रय इवाश्रमाः ॥
जडान्धबधिरोन्मत्तं तमोभूतं जगद्भवेत् ।
यदि ज्ञानहुताशेन त्वया नोज्ज्वलितं भवेत् ॥
तमसान्धस्य लोकस्य चेष्टितस्य स्वकर्मभिः ।
ज्ञानाञ्जनशलाकाभिर् बुद्धिनेत्रोत्सवः कृतः ॥
धर्मार्थकाममोक्षाणां समासव्यासकीर्तनैः ।
त्वया भारतसूर्येण तूर्णं विनिहतं तमः ॥
पुराणपूर्णचन्द्रेण श्रुतिज्योत्स्नाप्रकाशिना ।
नृणां कुमुदसौम्यानां कृतं बुद्धिप्रबोधनम् ॥
इतिहासप्रदीपेन मोहावरणघातिना ।
लोकगर्भगृहं कृत्स्नं यथावत्सम्प्रकाशितम् ॥
सङ्ग्रहाध्यायबीजो वै पौलोमास्तीकमूलवान् ।
सम्भवस्कन्धविस्तारः सभारण्यविटङ्कवान् ॥
आरण्यपर्वरूपाढ्यो विराटोद्योगसारवान् ।
भीष्मपर्वमहाशाखो द्रोणपर्वपलाशवान् ॥
कर्णपर्वचितैः पुष्पैः शल्यपर्वसुगन्धिभिः ।
स्त्रीपर्वैकान्तविश्रामः शान्तिपर्वमहाफलः ॥
अश्वमेधामृतरसस् त्वाश्रमस्थानसंश्रयः ।
मौसलद्विजसङ्क्षेप शिष्टद्विजनिषेवितः ॥
सर्वेषां कविमुख्यानां उपजीव्यो भविष्यति ।
पर्जन्य इव भूतानां अक्षयो भारतद्रुमः ॥
सूतः-
एवमाभाष्य तं ब्रह्मा जगाम स्वं निवेशनम् ।
भगवान् स जगत्स्रष्टा ऋषिर्देवगणैः सह ॥
तस्य वृक्षस्य वक्ष्यामि शाखापुष्पफलोदयम् ।
साधुमेध्यरसोपेतं अच्छेद्यममरैरपि ॥
अनुक्रामिणमध्यायं वृत्तान्तं सर्वपर्वणाम् ।
इदं द्वैपायनः पूर्वं पुत्रमध्यापयच्छुकम् ॥
ततोऽन्येभ्योऽभिरूपेभ्यः शिष्येभ्यः प्रददौ प्रभुः ।
नारदोऽश्रावयद्देवान् असितो देवलः पितॄन्॥
गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः ॥
वैशम्पायनविप्रार्षिः श्रावयामास पार्थिवम् ।
पारिक्षितं महाबाहुं नाम्ना तु जनमेजयम् ॥
दुर्योधनो मन्युमयो महाद्रुमः स्कन्धः कर्णः शकुनिस्तस्य शाखाः ।
दुश्शासनः पुष्पफले समृद्धे मूलं राजा धृतराष्ट्रोऽम्बिकेयः ॥
युधिष्ठिरो धर्ममयो महाद्रुमः स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः ।
माद्रीसुतौ पुष्पफले समृद्धे मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च ॥
पाण्डुर्जित्वा बहून्देशान् युध्वा विक्रमणेन च ।
अरण्ये मृगयाशीलो न्यवसत्सजनस्तदा॥
मृगव्यवायनिधने कृच्छ्रां प्राप स आपदम् ।
जन्मप्रभृति पार्थानां तत्राचारविधिक्रमः ॥
मातुरभ्युपपत्तिश्च धर्मोपनिषदं प्रति ।
धर्मस्य वायोः शक्रस्य देवयोश्च तथाश्विनोः ॥
ततो धर्मोपनिषदः श्रुत्वा भर्तुः प्रिया पृथा ।
धर्मानिलेन्द्रान्स्तुतिभिर् जुहाव सुतवाञ्छया ॥
तद्दत्तोपनिषन्माद्री चाश्विनावाजुहाव च ।
जाताः पार्थास्ततः कामी पाण्डुर्माद्र्या दिवं गतः॥
तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः।
मध्येऽरण्येषु पुण्येषु महतामाश्रमेषु च ॥
मुनिभिश्च समानीता धार्तराष्ट्रान् प्रति स्वयम् ।
शिशवश्चाभिरूपाश्च जटिला ब्रह्मचारिणः ॥
पुत्राश्च भ्रातरश्चेमे शिष्याश्च सुहृदश्च वः ।
पाण्डवाश्चैत इत्युक्त्वा मुनयोऽन्तर्हितास्ततः ॥
तैस्तान्निवेदिताञ्छ्रुत्वा पाण्डवान् कौरवांस्तदा ।
शिष्टाश्च वर्णाः पौरा ये ते हर्षाच्चुक्रुशुर्भृशम् ॥
आहुः केचिन्न तस्यैते तस्यैत इति चापरे ।
यदा चिरमृतः पाण्डुः कथं तस्येति चापरे ॥
स्वागतं सर्वथा दिष्ट्या पाण्डोः पश्याम सन्ततिम् ।
उच्यतां स्वागतमिति वाचोऽश्रूयन्त सर्वशः ॥
तस्मिन्नुपरते शब्दे दिशः सर्वा विनादयन् ।
अन्तर्हितानां भूतानां निस्स्वनस्तुमुलोऽभवत् ॥
पुष्पवृष्टिः शुभा गन्धाः शङ्खदुन्दुभिनिस्वनाः ।
आसन् प्रवेशे पार्थानां तदद्भुतमिवाभवत् ॥
तत्प्रीत्या चैव सर्वेषां पौराणां हर्षसम्भवः ।
शब्द आसीन्महांस्तत्र दिवस्पृक् कीर्तिवर्धनः ॥
तेऽधीत्य सकलान्वेदाञ् शास्त्राणि विविधानि च ।
न्यवसन् पाण्डवास्तत्र पूजिता अकुतोभयाः ॥
युधिष्ठिरस्य शौचेन प्रीताः प्रकृतयोऽभवन् ।
धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च ॥
गुरुशुश्रूषया कुन्त्या यमयोर्विनयेन च ।
तुतोष लोकः सकलस् तेषां वीर्यगुणेन च ॥
समवाये तदा राज्ञां कन्यां तत्र स्वयंवरात् ।
प्राप्तवानर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम् ॥
तदा प्रभृति लोकेऽस्मिन् पूज्यः सर्वधनुष्मताम् ।
आदित्य इव दुष्प्रेक्ष्यः समरेष्वपि चाभवत् ॥
स सर्वान् पार्थिवाञ्जित्वा सर्वांश्च महतो गणान् ।
आजहारार्जुनो राज्ञो राजसूनुर्महाक्रतुम् ॥
अन्नवान्दक्षिणावांश्च सर्वैः समुदितो गुणैः ।
युधिष्ठिरेण सम्प्राप्तो राजसूयो महाक्रतुः ॥
सुनयाद्वासुदेवस्य भीमार्जुनबलेन च ।
घातयित्वा जरासन्धं चैद्यं च बलदर्पितम् ॥
दुर्योधनमुपागच्छन्नर्हणानि ततस्ततः ।
मणिकाञ्चनरत्नानि गोहस्त्यश्वधनानि च ॥
समृद्धां तां ततो दृष्ट्वा पाण्डवानां तदा श्रियम् ।
ईर्ष्यासमुत्थः सुमहांस्तस्य मन्युरजायत ॥
विमानप्रतिमां चापि मयेन सुकृतां सभाम् ।
पाण्डवानामुपसृतां स दृष्ट्वा पर्यतप्यत ॥
यत्रावहसितश्चासीत् प्रस्कन्दन्निव सम्भ्रमात् ।
प्रत्यक्षं वासुदेवस्य भीमेनानभिजातवत् ॥
स भोगान्विविधान्भुञ्जन् रत्नानि विविधानि च ।
व्यथितो धृतराष्ट्रस्य विवर्णोऽथ शशंस च ॥
अन्वजानात्ततो द्यूतं धृतराष्ट्रः सुतप्रियः ।
तच्छ्रुत्वा वासुदेवस्य कोपस्समभवन्महान् ॥
नातिप्रीतमनाश्चासीद्ं विषादं चाप्युपेक्षते ।
द्यूतादीननयान्घोरान् प्रवृद्धां श्चाप्युपेक्षते ॥
निरस्य विदुरं द्रोणं भीष्म शारद्वतं कृपम् ।
विग्रहे तुमुले तस्मिन्नहन्क्षत्रं परस्परम् ॥
जयत्सु पाण्डुपुत्रेषु श्रुत्वा सुमहदप्रियम् ।
दुर्योधनवधं श्रुत्वा कर्णस्य शकुनेस्तथा ।
धृतराष्ट्रश्चिरं ध्यात्वा सञ्जयं वाक्यमब्रवीत् ॥
शृणु सञ्जय मे सर्वामाद्यासूयितुमर्हसि ।
श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसत्तम ॥
विग्रहे मम पुत्राणां पाण्डूनां च तथा सति ।
न मे विशेषः पुत्रेषु स्वेषु पाण्डुसुतेषु वा ॥
वृद्धं मामभ्यसूयन्ते पुत्रा मन्युपरायणाः ।
अहं त्वचक्षुः कार्पण्यात्पुत्रप्रीत्या सहामि तत् ॥
मुह्यन्तं चानुमुह्यामि दुर्योधनमचेतसम् ।
राजसूये श्रियं दृष्ट्वा पाण्डवस्य महौजसः ॥
तच्चावहसनं प्राप्य सभारोहणदर्शने ।
अमर्षितः स्वयं जेतुमशक्तः पाण्डवान् रणे ॥
निरुत्साहः श्रियं प्राप्तुं श्रियं चाक्षत्रियो यथा ।
गान्धारराजसहितश् छद्मद्यूतममन्त्रयत् ॥
तत्र यद्यद्यथा ज्ञातं मया सञ्जय तच्छृणु ॥
श्रुत्वा तु मम वाक्यानि बुद्ध्या युक्तानि तत्त्वतः ।
ततो ज्ञास्यसि मां सौते प्रज्ञाचक्षुषमित्युत ॥
यदाश्रौषं धनुरायम्य चित्रं विद्धं लक्ष्यं पातितं वै पृथिव्याम् ।
कृष्णां हृतां प्रेश्यतां सर्वराज्ञां तदा नाशंसे विजयाय सञ्जय ॥
यदाऽश्रौषं द्वारकायां सुभद्रां प्रसह्योढां माधवीमर्जुनेन ।
इन्द्रप्रस्थं वृष्णिवीरौ च यातौ तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं देवराजप्रवृष्टं शरैर्दिव्यैर्वारितमर्जुनेन ।
अग्निं तदा तर्पितं खाण्डवे तु तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं पुनरामन्त्र्य द्यूते महात्मानां प्रस्थितानां वनाय।
ज्येष्ठप्रीत्या क्लिश्यतां पाण्डवानां तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं हृतराज्यं युधिष्ठिरं पराजितं सौबलेनाक्षवत्याम् ।
अन्वागतं भ्रातृभिरप्रमेयैस्तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं द्रौपदीमश्रुकण्ठीं सभां नीतां दुःखिता मेकवस्त्राम् ।
रजस्वलां नाथवतीमनाथवत् तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं स्नातकानां सहस्रैरन्वागतं धर्मराजं वनस्थम् ।
भिक्षाभुजां ब्राह्मणानां महात्मनां तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं चार्जुनो देवदेवं किरातवेषं त्र्यम्बकं तोष्य युद्धे ।
अवाप तत्पाशुपतं महास्त्रं तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं वनवासे तु पार्थान् समागतान्महर्षिभिः पुराणैः ।
उपास्यमानान् सगणैर्जातसख्यान् तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं त्रिदिवस्थं धनञ्जयं शक्रात्साक्षात् दिव्यमस्त्रं यथावत् ।
अधीयानं संशितं सत्यसन्धं तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं तीर्थयात्रानिवृत्तं पाण्डोस्सुतं सहितं रोमशेन ।
तस्मादश्रौषीदर्जुनस्यार्थलाभं तदा नाशंसे विजयाय सञ्जय ॥’
यदाश्रौषं वैश्रवणेन सार्धं समागतं भीममन्यांश्च पार्थान् ।
तस्मिन्देशे मानुषाणामगम्ये तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं घोषयात्रागतानां बन्धं गन्धर्वैर्मोक्षणं चार्जुनेन ।
स्वेषां सुतानां कर्णबुद्धौ रतानां तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं यक्षरूपेण धर्मं समागतं धर्मराजेन सूत ।
प्रश्नानुक्ताम् विब्रुवन्तं च सम्यक् तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं तान्यथाज्ञातवासेऽज्ञायमानान्मामकानां सकाशे ।
दक्षान्पार्थान् चरतश्चाग्निकल्पांस्तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं कीचकानां वरिष्ठं निषूदितं भ्रातृशतेन सार्धम् ।
द्रौपद्यर्थं भीमसेनेन सङ्ख्ये तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं मामकानां वरिष्ठान् धनञ्जयेनैकरथेन भग्नान् ।
विराटराष्ट्रे वसता महात्मना तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं सत्कृतां मत्स्यराज्ञा सुतां दत्तामुत्तरामर्जुनाय ।
तां त्वर्जुनः प्रत्यगृह्णात्सुतार्थे तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं निर्जितस्याधनस्य प्रव्राजितस्य स्वजनात्प्रच्युतस्य ।
अक्षौहिणीस्सप्त युधिष्ठिरस्य तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं नरनारायणौ तौ कृष्णार्जुनौ वदतो नारदस्य ।
अहं द्रष्टा ब्रह्मलोके सदेति तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं माधवं वासुदेवं सर्वात्मना पाण्डवार्थे निविष्टम् ।
यस्येमां गां विक्रममेकमाहुस्तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं कर्णदुर्योधनाभ्यां बुद्धिं कृतां निग्रहे केशवस्य ।
तं चात्मानं बहुधा दर्शयानं तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं वासुदेवे प्रयाते रथस्यैकामग्रतस्तिष्ठमानाम् ।
तप्तां पृथां सान्त्वितां केशवेन तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं मन्त्रिणं वासुदेवं तथा भीष्मं शान्तनवं च तेषाम् ।
भारद्वाजं चाशिषोऽनुब्रुवाणं तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं वासुदेवार्जुनौ तौ तथा धनुर्गाण्डिवमप्रमेयम् ।
त्रीण्युग्रवीर्याणि समागतानि तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं कश्मलेनाभिपन्ने रथोपस्थे सीदमानेऽर्जुने वै ।
कृष्णं लोकान्दर्शयानं शरीरे तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं भीष्ममित्रकर्शनं निघ्नन्तमाजावयुतं रथानाम् ।
न चैषां कश्चिदृश्यते वध्यरूपस्तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं भीष्ममत्यन्तशूरं हतं पार्थेनाहवेष्वप्रधृष्यम् ।
शिखण्डिनं पुरतस्स्थापयित्वा तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं शरतल्पे शयानं वृद्धं शूरं सूदितं चित्रपुङ्खैः ।
भीष्मं कृत्वा सोमकानल्पशेषांस्तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं शान्तनवे शयाने पानीयार्थं चोदिते शक्रसूनौ ।
गां भित्त्वाम्भो वारुणेनाददाने तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं शुक्रसूर्यौ च युक्तौ कौन्तेयानामनुलोमौ जयाय ।
नित्यं चास्मास्वापदमावहन्तौ तदा नाशंसे विजयाय सञ्जय ॥
यदा द्रोणो विविधानस्त्रमार्गान्निदर्शयन्समरे चित्रयोधी ।
तान्पाण्डवान् श्रेष्ठतरान्निहन्ति तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं त्रैगर्तान्महारथान् व्यवस्थितानर्जुनस्यान्तकाय ।
संशप्तकान्निहतानर्जुनेन तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं व्यूहमभेद्यमन्यैर्भारद्वाजे नात्तशस्त्रेण गुप्तम् ।
भित्त्वा सौभद्रं वीरमेकं प्रविष्टं तदा नाशंसे विजयाय सञ्जय ॥
यदाभिमन्युं परिवार्य बालं सर्वे हत्त्वा हृष्टरूपा बभूवुः ।
महारथाः पार्थमशक्नुवन्तस्तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं चाभिमन्युं निहत्य हर्षान्मोहात्क्रोशतो धार्तराष्ट्रान् ।
क्रोधं मुक्तं सैन्धवे चार्जुनेन तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं सैन्धवार्थे प्रतिज्ञां कृतां तदा मन्युना चार्जुनेन ।
सत्यान्निस्तीर्णां शत्रुमध्ये च तेन तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं श्रान्तहये धनञ्जये मुक्त्वा हयान्पाययित्वोपवृत्तान् ।
पुनर्युक्त्वा वासुदेवं प्रयान्तं तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं वाहनेष्वाश्वसत्सु रथोपस्थे तिष्ठता चार्जुनेन ।
सर्वान्योधान्वारितान्पाण्डवेन तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं नागबलं दुरुत्सहं द्रोणानीकं युयुधानं प्रमथ्य ।
यान्तं वार्ष्णेयं यत्र तौ कृष्णपार्थौ तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं कर्णमासाद्य मुक्तं वधाद्भीमं कुत्सयित्वा वचोभिः ।
धनुष्कोट्या तुद्य कर्णेन वीरं तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं कृतवर्मा कृपश्च कर्णो द्रौणिर्मद्रराजश्च सङ्ख्ये ।
नारक्षन्यत्सैन्धवं वध्यमानं तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं देवराजेन दत्तां शक्तिं मुक्तां शङ्कितां माधवेन ।
घटोत्कचे राक्षसे घोररूपे तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं कर्णघटोत्कचाभ्यां युद्धे मुक्तां सूतपुत्रेण शक्तिम् ।
यया वध्यः समरे सव्यसाची तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं द्रोणमाचार्यमेकं धृष्टद्युम्नेन ह्यतिक्रम्य धर्मम् ।
रथोपस्थे प्रायगतं विशस्तं तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं द्रौणिना द्वैरथस्थं माद्रीसुतं नकुलं योधमध्ये ।
सम्यग्युद्धे पाण्डवं युद्धमानं तदा नाशंसे विजयाय सञ्जय ॥
यदा द्रोणे निहते द्रोणपुत्रो नारायणं दिव्यमस्त्रं विकुर्वन् ।
नैषामन्तं गतवान्पाण्डवानां तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं कर्णमत्यन्तशूरं हतं पार्थेनाहवेष्वप्रधृष्यम् ।
तस्मिन् भ्रातॄणां विग्रहे देवगुह्ये तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं द्रोणपुत्रं कृपं च दुःशासनं कृतवर्माणमुग्रम् ।
युधिष्ठिरं शूरममर्षयन्तं तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं निहतं मद्रराजं रणे शूरं धर्मराजेन सूत ।
सदा सङ्ग्रामे स्पर्धते यस्तु कृष्णं तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं कलहद्यूतमूलं मायाबलं सौबलं पाण्डवेन ।
हतं सङ्ग्रामे सहदेवेन पापं तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं श्रान्तमेकं शयानं ह्रदं गत्वा स्तम्भयित्वा तदम्भः ।
दुर्योधनं विरथं भग्नदर्पं तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं पाण्डवांस्तिष्ठमानान् गङ्गाह्रदे वासुदेवेन सार्धम् ।
अमर्षणं धर्षयतस्सुतं मे तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं विविधांस्तात मार्गान् गदायुद्धे मण्डलं संचरन्तम् ।
मिथ्याहतं वासुदेवस्य बुद्ध्या तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं द्रोणपुत्रादिभिस्तैर्हतान्पञ्चालान्द्रौपदेयांश्च सुप्तान् ।
कृतं बीभत्समयशस्यं च कर्म तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं भीमसेनानुयातेनाश्वत्थाम्ना परमास्त्रं प्रयुक्तम् ।
क्रुद्धेनैषीकमवधीद्येन गर्भं तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं ब्रह्मशिरोऽर्जुनेन मुक्तं स्वस्तीत्यस्त्रमस्त्रेण शान्तम् ।
अश्वत्थाम्ना मणिरत्नं च मुक्तं तदा नाशंसे विजयाय सञ्जय ॥
यदाश्रौषं द्रोणपुत्रेण गर्भे वैराट्या वै पात्यमाने महास्त्रे ।
सञ्जीवयामीति हरेः प्रतिज्ञां तदा नाशंसे विजयाय सञ्जय ॥
शोच्या गान्धारी पुत्रपौत्रैर्विहीना तथा वध्वः पतिभिर्भ्रातृभिश्च ।
कृतं कार्यं दुष्करं पाण्डवेयैः प्राप्तं राज्यं निस्सपत्नं पुनस्तैः ॥
कष्टं युद्धे दश शेषाः श्रुता मे त्रयोऽस्माकं पाण्डवानां च सप्त ।
द्व्यूना विंशत्सूदिताक्षौहिणीनां तस्मिन्सङ्ग्रामे निन्धतां क्षत्रियाणाम् ॥
तमसा सम्भृतं तूर्णं मोह आविशतीव माम् ।
संज्ञां नैव लभे सूत मनो विह्वलतीव मे ॥
इत्युक्त्वा धृतराष्ट्रोऽथ विलप्य च सुदुःखितः ।
मूर्च्छितः पुनराश्वस्तस् सञ्जयं वाक्यमब्रवीत् ॥
सञ्जयैवं गते प्राणान् त्यक्तुमिच्छामि मा चिरम् ।
स्तोकं ह्यपि न पश्यामि फलं जीवितधारणे ॥
सूतः-
तमेवंवादिनं दीनं विलपन्तं महीपतिम् ।
गावल्गणिरिदं धीमान् महार्थं वाक्यमब्रवीत् ॥
सञ्जयः-
श्रुतवानसि वै राजन् महोत्साहान्महाबलान् ।
द्वैपायनस्य वचनान्नारदस्य च धीमतः ॥
महत्सु राजवंशेषु गुणैस्समुदितेषु च ।
जातान् दिव्यास्त्रविदुषश् शक्रप्रतिमतेजसः ॥
धर्मेण पृथिवीं जित्वा यज्ञैरिष्ट्वाप्तदक्षिणैः ॥
अस्मिल्ँलोके यशः प्राप्य ततः कालवशं गतान् ।
वैन्यं महारथं वीरं सृञ्जयं जयतां वरम् ।
सुहोत्रं रन्तिदेवं च काक्षीवन्तमथौशिजम् ॥
बाह्लीकं दमनं चैद्यं शर्यातिं च शिबिं नलम् ।
विश्वामित्रममित्रघ्नं अम्बरीषं महाबलम् ॥
रामं दाशरथिं चैव शशबिन्दुं भगीरथम् ॥
मरुत्तं मनुमिक्ष्वाकुं गयं भरतमेव च ।
ययातिं शुभकर्माणं देवैर्यो याजितः स्वयम् ।
चैत्ययूपाङ्किता भूमिर् यस्येयं सवनाकरा ॥
इति राज्ञां चतुर्विंशन् नारदेन महात्मना ।
पुत्रशोकाभितप्ताय पुरा चैत्याय कीर्तिताः ॥
तेभ्यश्चान्ये गताः पूर्वं राजानो बलवत्तराः ।
महारथा महात्मानस् सर्वैस्समुदिता गुणैः ॥
पूरुः कुरुर्यदुश्शूरो विष्वगश्वो महाद्युतिः ।
अणुहो युवनाश्वश्च ककुत्स्थो विक्रमो रघुः ॥
विजितिर्वीतिहोत्रोऽङ्गो हयश्वेतो बृहद्गुरुः ।
उशीनरः शतरथः कहोलो हुहुलो ध्रुवः ॥
सहोद्भवः परो वेनः सगरस्सङ्कृतिर्निमिः ।
अजेयः परशुः पुण्ड्रः शम्भुर्देवव्रतोऽनघः ॥
देवाह्वयः सुप्रतिमः सुप्रतीको बृहद्रथः ।
महोत्साहो विनीतात्मा सुक्रतुर्नैषधो नलः ॥
सत्यव्रतः शान्तभयः सुमित्रः सुबलः प्रभुः ।
जानुजङ्घोऽनरण्यश्च प्रियभृत्यश्शुचिव्रतः ॥
बलबन्धुर्निरामर्दः केतुशृङ्गो बृहद्बलः ।
धृष्टकेतुर्बृहत्केतुर् दीप्तकेतुर्निरामयः ॥
अधिक्षुर्वललो धूर्तो दृढबन्धुर्दृढायुधः ।
महापुराणसम्भाव्यः प्रत्यङ्गः परहा श्रुतिः ॥
एते चान्ये च बहवः शतशोऽथ सहस्रशः ।
श्रूयन्ते शतशश्चान्ये सङ्ख्याताश्चापि सर्वशः ॥
हित्वा तु विपुलान्भोगान् ऋद्धिमन्तो महाबलाः ।
राजानो निधनं प्राप्तास् तव पुत्रैर्महत्तमाः ॥
येषां दिव्यानि कर्माणि विक्रमस्त्याग एव च ।
माहात्म्यमपि चास्तिक्यं सत्यं शौचं दमार्जवम् ॥
विद्वद्भिः कथ्यते लोके पुराणैः कविसत्तमैः ।
सुबुद्धिगुणसम्पन्नास् ते चापि निधनं गताः ॥
तव पुत्रा दुरात्मानः प्रतप्ताश्चैव मन्युना ।
लुब्धा दुर्वृत्तभूयिष्ठा न ताञ्छोचितुमर्हसि ॥
श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसत्तमः ।
येषां शास्त्रगता बुद्धिर् न ते मुह्यन्ति भारत ॥
निग्रहानुग्रहौ चापि विदितौ ते नराधिप ।
नात्यन्तमेवानुवृत्तिः श्रूयते पुत्ररक्षणे ॥
भवितव्यं तथा तच्च नातश्शोचितुमर्हसि ।
दैवं पुरुषकारेण को निवर्तितुमर्हति ॥
विधातृविहितं मार्गं न कश्चिदतिवर्तते ।
कालमूलमिदं सर्वं भावाभावौ सुखावहौ॥
कालः पचति भूतानि कालः संहरति प्रजाः ।
निर्दहन्तं प्रजाः कालं कालः शमयते पुनः ॥
कालोऽपि कुरुते भावान् सर्वलोकशुभाशुभान् ।
कालः सङ्क्षिप्य सर्वास्तु प्रजा विसृजते पुनः ॥
कालः सर्वेषु भूतेषु चरत्यविरतः समः ।
अतीतानागता भावा ये वर्तन्ते च साम्प्रतम् ।
तान्कालनिर्मितान्बुद्ध्वा न सञ्ज्ञां हातुमर्हसि ॥
सूतः-
इत्येवं पुत्रशोकार्तं धृतराष्ट्रं जनेश्वरम् ॥
आश्वास्य स्वस्थमकरोत् सूतो गावल्गणिस्तदा ।
अत्रोपनिषदं पुण्यां कृष्णद्वैपायनोऽब्रवीत् ॥
भारताध्ययनात्पुण्याद् अपि पादमधीयतः ।
श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः ॥
देवर्षयो ह्यत्र पुण्या ब्रह्मराजर्षयस्तदा ।
कीर्त्यन्ते शुमकर्माणस् तदा यक्षमहोरगाः ॥
भगवान्वासुदेवश्च कीर्त्यतेऽत्र सनातनः ।
सहि सत्यमृतञ्चैव पवित्रं पुण्यमेवच ॥
शाश्वतं परमं ब्रह्म परं ज्योतिः सनातनम् ।
यस्य दिव्यानि कर्माणि कथयन्ति मनीषिणः ॥
असत्सत्सदसच्चैव यस्मादेव प्रवर्तते ।
सन्ततिश्च प्रवृत्तिश्च जन्म मृत्युः पुनर्भवाः ॥
अध्यात्मं श्रूयते यत्र पञ्चभूतगुणात्मकम् ।
अव्यक्तादि परं तच्च स एव परिगीयते ॥
यं तं यतिवरा मुक्ता ध्यानयोगबलान्विताः ।
प्रतिबिम्बमिवादर्शे पश्यन्त्यात्मन्यवस्थितम् ॥
श्रद्दधानस्सदोद्युक्तः सत्यधर्मपरायणः ।
कथयान्निममध्यायं नरः पापात्प्रमुच्यते ॥
अनुक्रामिणमध्यायं भारतस्यैवमादितः ।
आस्तिकः सततं शृण्वन् न कृच्छ्रेष्ववसीदति ॥
सभामध्ये जपन्कश्चित् सद्यो मुच्येत किल्बिषात् ।
अनुक्रमिण्यां तन्न स्याद् दिवा रात्र्यां च सञ्चितम् ॥
भारतस्य वपुर्ह्येतत् सत्यं चानृतमेव च ।
नवनीतं यथा दध्नो द्विपदां ब्राह्मणो यथा ॥
आरण्यकं च वेदेभ्य ओषधिभ्यो यथामृतम् ।
ह्रदानामुदधिः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् ।
यथैतानि विशिष्टानि तथा भारतमुच्यते ॥
यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः ।
अक्षय्यमन्नदानं तत् पितॄंस्तस्योपतिष्ठति ॥
बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति ॥
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ।
कार्ष्णं वेदमिमं विद्वाञ् श्रावयित्वार्थमश्नुते ।
भ्रूणहत्याकृतं चापि पापं दह्यान्न संशयः ॥
य इमं शुचिरध्यायं पठेन्पर्वणि पर्वणि ।
अधीतं भारतं तेन कृत्स्नं स्यादिति मे मतिः ॥
यश्चेदं शृणुयान्नित्यं आर्षं श्रद्धासमन्वितः ।
स दीर्घमायुर्दीर्घां च स्वर्गतिं चाप्नुयान्नरः ॥
चत्वार एकतो वेदा भारतं चैकमेकतः ।
समागतैः सुरार्षिभिस्तुलामरोपितं पुरा ॥
महत्त्वे च गुरुत्वे च ध्रियमाणं यतोऽधिकम् ।
महत्त्वाद्भारवत्वाच्च महाभारतमुच्यते ॥
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ॥
तपो न कल्कोऽध्ययनं न कल्कः स्वाभाविको वेदविधिर्न कल्कः ।
प्रसह्य वित्ताहरणं न कल्कस् तान्येव भावोपहतानि कल्कः ॥