श्रीमन्महाभारतम् (भीष्मपर्व)

[[श्रीमन्महाभारतम् (भीष्मपर्व) Source: EB]]

[

[TABLE]

॥ श्रीरस्तु ॥

॥ श्रीमन्महाभारतम् ॥

तत्र

भीष्मपर्व

मद्रपुरराजकीयकलाशाला संस्कृताध्यापकैः
बि. ए. (आक्सन्), एम्. ए. (मद्रास्)
इत्यादिबिरुदाङ्कितैः

विद्यासागर. पि. पि. सुब्रह्मण्यशास्त्रिभिः
दाक्षिणात्यशाखानुसारेण सविमर्शं संशोधितं

<MISSING_FIG href="../books_images/U-IMG-1701504747Screenshot2023-12-02132545.png"/>

चेन्नपुर्या
वाविल्लरामस्वामिशास्त्रुलु अण्ड्सन्स्
इत्येतैः सम्मुख प्रकाशितम्

INTRODUCTION.
<MISSING_FIG href="../books_images/U-IMG-1706791118Screenshot2023-12-07155812.png"/>

In the preparation of the Bhīṣma Parvan for the Press, the following manuscripts fully representative of the Southern Recension, were utilised.

—represents the Principal Text printed. TheManuscript belongs to Mr. Krishnaswami Sastrigal, Sub-Registrar, Tanjore District. Its description is as follows:-Substance-palm-leaf; Size-19 1/4x 2 1/4inches; Leaves-116; Lines-13 to a page; Script-Telugu; Bhiṣma Parvan complete; Date of Transcription-1605, A. D.

**क—**is used for additional readings etc. The manuscript belongs to S’ri S’uddhasattvam Doddayacharya Swamigal of Sriperumbudur, in the Chingleput District. Its description is as follows:—Substance-palm—leaf; Size— 19 7/8x 2 inches; Leaves—105-191; Lines—11 to a page; Script - Telugu ; Bhiṣma Parvan complete; Date of Transcription 21st November 1799. A. D.

—is used for additional readings etc. The Manuscript belongs to Mr. R. S. Rajagopala Aiyar,

Advocate, Trichinopoly, whose native village is Nalloor in the Tanjore District. This manuscript is reputed to have been used in the preparation of the Grantha Edition of the text printed from Śarabhojirājapuram from 1895, A. D. onwards. Its description is as follows:—

Substance—

palm-leaf; Size—

15 1/4x 2 1/4 inches; Leaves—

103; Lines 16-17 to a page; Script—

Grantha.

is used for additional readings etc. The Manuscript is from the Tanjore Palace Library (noticed in the Descriptive Catalogue under No. 8364 of Vol. XV.) It description is as follows:—

Substance—

palm-leaf; Size—

21 1/2×2 1/2 inches; Lines—

13 to a page; Script—

Telugu; Bhiṣma Parvan complete.

is used for additional readings etc. The Manuscript belongs to Mr Ramakrishna Aiyar of Kadayanallur in the Tinnevelly District. Its description is as follows:—

Substance—

palm-leaf; Size, 17 x I 3/4inches; Leaves, 182; Lines, 7-10 to a page; Script, Grantia. Bhiṣma Parvan complete. Date of Transcription 19th September 1606, A. D.

** ङ**—

is used for additional readings etc. The Manuscript belongs to Brahma Sri Krishna Sastrigal

Palace Pauranikar, Trivandrum. Its descriptionis as follows:—Substance—palm-leaf; Size-171/2x21/8 inches; Leaves—150; Lines—11 to a page; Script-Grantha; Bhiṣma Parvan complete. Date of Transcription-1795, A. D.

म—is used for additional readings etc. The Manuscript belongs to His Highness the Maharaja of Travancore and was made available to us through the kindness of Sir C. P. Ramaswami Aiyer, K. C. I. E., Legal and Constitutional Adviser to the State. Its description is as follows:—Substance—Palm-leaf; Size-141/4x17/8 inches; Leaves- 255; Lines-8 to 10 to a page; Script Malayalam.

II

From the Anukramaṇikādhyāya of the Adi Parvan, it will be observed that, according to the Southern Recension, the Bhiṣma Parvan should consist of 118 chapters, whereas, according to the Northern Recension, there need be only 117 chapters. The majority of the Manuscripts utilised by us divide the Bhiṣma Parvan into 118 chapters and we have accordingly printed the Text in 118 chapters. The number of stanzas, according to both recensions is 5884; and we are happy to record that the actual number of stanzas according to the Principal Text edited, is also 5884.
In the scheme of sub-parvans, there is no divergence between the Southern and Northern Recensions.

IV

With regard to the Bhiṣma Parvan, it is possible to mark a Text clearly as Southern or Northern according as it has or omits particular chapters and incidents, characteristic of each Recension. A few of the more important distinctive features of the Southern Recension of the Bhiṣma Parvan are noticed below:

i. The Southern Recension omits the Durgā Stotra recited by Arjuna in Chapter 23 of the Northern Recension.

ii. The Southern Recension omits the eulogy on the Gitā contained in Stanzas 1-5 of Chapter 43 of the Northern Recension.

iii.The Southern Recension omits the incidents narrated in stanzas 48-67 of chapter 47, chapter 48 and stanzas 1-34 of chapter 49 of the Northern Recension, regarding Bhiṣma’s fight with Śveta and Śaṅkha.

The Presidency College,

Madras.
30-9-1984.

}

P. P. S. SASTRI.

Editor.

——————————————————————————————————————

Note. The Standard Edition of the Northern Recension is the Poona Edition with Bhavadipa, Published by theChitrasala Press, Poona.

॥ श्रीरस्तु ॥

महाभारतस्य भीष्मपर्व
तत्र

\।\। विषयानुक्रमणिका \।\।
<MISSING_FIG href="../books_images/U-IMG-1701584292Screenshot2023-12-03114750.png"/>

जम्बूखण्डविनिर्माणपर्व

अध्यायः
१ कुरुक्षेत्रे युद्धाय कुरुपाण्डवसेनयोस्समागमः
उभयपक्षीयैस्समयकरणम्
२ व्यासेन धृतराष्ट्रं प्रति चक्षुदीनकथनम्
धृतराष्ट्रेण व्यासं प्रति युद्धश्रवणमात्रप्रार्थनम्
व्यासेन सञ्जयं प्रति धृतराष्ट्रस्य युद्धरीतिकथननियोगः
व्यासेन धृतराष्ट्रं प्रति दुर्निमित्तप्रादुर्भावकथनम्
३ व्यासेन पुनः दुर्निमित्तसम्भवकथनम्
४ व्यासेन धृतराष्ट्रं प्रति हितोपदेशः
व्यासेन युद्धे जयसूचकलिङ्गकथनम्
५ सञ्जयेन धृतराष्ट्रं प्रति भूमिगुणानुवर्णनम्
सञ्जयेन भूतपञ्चकगुणानुवर्णनम्
सञ्जयेन जम्बूद्वीपवर्णनम्
६ भारतादिनवखण्डवर्णनम्
मेरोवर्णनम्
७उत्तरकुरुवर्णनम्
८ भद्राश्वखण्डवर्णनम्
श्रृङ्गिहैरण्वतरमणकाख्यखण्डखयवर्णनम्
९ भारतवर्षे सर्वेषां क्षत्रियाणां प्रीतिवर्णनम्
भारतवर्षस्थपर्वतवर्णनम्
अध्यायः
भारतवर्षस्थनदोवर्णनम्
भारतवर्षस्थनानाजनपदवर्णनम्
१० चतुर्युगवर्णनम्

भूमिपर्व

११ शाकद्वीपवर्णनम्
१२ क्रौञ्चादिद्वीपवर्णनम्
ग्रहाणां स्वभावादिवर्णनम्

भगवद्गीतापर्व

१३ सञ्जयेन धृतराष्ट्रं प्रति भीष्महननकथनम्
१४ विस्तरेण भीष्मादियुद्धवर्णनम्
१५ सञ्जयेन धृतराष्ट्रं प्रति दिव्यज्ञानेन तत्त्वप्रदर्शनम्
दुर्योधनेन दुश्शासनं प्रति भीष्मरक्षणाज्ञापनम्
कुरुपाण्डवसेनावर्णनम्
१६ भीष्मेण अश्वत्थाम्ना च पाण्डवजयाशंसनम्
युद्धाय कुरुसेनानिर्याणम्
१७ कुरुसेनावर्णनम्
१८ युधिष्ठिराज्ञयाऽर्जुनेन सेनानिष्पादनम्
युद्धाय पाण्डवसेनानिर्याणम्
पाण्डवसैन्यप्रस्थानसमये महोत्पातसम्भवः
१९ कुरुपाण्डवसेनाप्रस्थानप्रकारकथनम्
२० युधिष्ठिरेण परसैन्यदर्शनेनार्जुनं प्रति स्वभोतिकथनम्
अर्जुनेन सदृष्टान्तनिरूपणं युधिष्ठिराश्वासनम्
२१ युधिष्ठिरादिभिर्युद्धाय निर्गमनम्
उभयोस्सेनयोरभ्युदयवर्णनम्
भगवता अर्जुनं प्रति भीष्मेण सह युद्धकरणचोदनम्
२२ पाण्डवादिभिः युद्धकरणाय शङ्खाध्मानादिकरणम्
अध्यायः
पाण्डवैः भीष्ममुद्दिश्य गच्छन्तं युधिष्ठिरं प्रति गमनकारणप्रश्नः
भगवता भीष्मादीनुद्दिश्य गच्छतो युधिष्ठिरस्य गमनकारणकथनम्
भीष्मं प्रत्यागतं युधिष्ठिरं प्रति दुर्योधनसेनाया नानाशङ्कोत्पत्तिः
युधिष्ठिरेण भीष्मात् आशीवादाभ्यर्थनम्
भीष्मयुधिष्ठिरयोस्संवादः
द्रोणयुधिष्ठिरयोः संवादः
कृपयुधिष्ठिरयोस्संवादः
शल्ययुधिष्ठिरयोस्संवादः
भगवता कर्णं प्रत्युक्तिः; तेन च तद्वचनानादरः
युधिष्ठिरेण युद्धाय युयुत्सुचोदनम्
पाण्डवैः कवचं धृत्वा युद्धाय रथारोहणम्
पाण्डवानां गौरवादिप्रशंसनपूर्वकं भेर्यादिताडनम्

भगवद्गीताध्यायः

२३ सञ्जयेन धृतराष्ट्रं प्रति युद्धसन्नद्धानां नामादिकथनम्
अर्जुनेन भगवन्तं प्रति युद्धाधिकारिप्रश्नः
अर्जुनेन आचार्यादीनां स्वेन वध्यत्वानौचित्येन विषादोक्तिः
अर्जुनेन स्वस्य पापभीरूताप्रदर्शनम्
२४ भगवदर्जुनयोः युद्धभूमौ संवादः
भगवता जीवात्मस्वरूपकथनम्
भगवता क्षत्रियैः युद्धाचरणस्य धर्म्यत्वोपदेशः
भगवताऽर्जुनं प्रति युद्धाय चोदनम्
भगवताऽर्जुनं प्रति कर्मकर्तृत्वोपदेशः
भगवता विषयेषु वैतृष्ण्योपदेशः
२५ भगवता कर्मण एवावश्यकर्तव्यत्वोपदेशः
अध्यायः
भगवता कामक्रोधयोः पापहेतुत्वकथनम्
२६ भगवता स्वस्य जन्मादिहेतु कथनपूर्वकं स्वप्रभावकथनम्
भगवता यज्ञानां नानारूपत्वकथनम्
भगवता ज्ञानयोगस्यावश्योपादेयत्वकथनम्
२७ भगवता कर्मसन्यासयोगप्रभावकथनम्
२८ आत्मसंयमयोगप्रभावकथनम्
२९ विज्ञानयोगकथनम्
भगवता स्वप्राप्तृृणां प्रकृतिवियुक्तत्वकथनम्
भगवता स्वस्य ज्ञानिभिरेव प्राप्यत्वकथनम्
३० भगवता अक्षरपरब्रह्मयोगकथनम्
भगवता स्वप्राप्तेरक्षय्यत्वकथनम्
३१ भगवता राजविद्याराजगुह्ययोगकथनम्
भगवता प्रकृत्यादीनां स्वसृज्यत्वादिकथनम्
भगवता स्वस्यैव सर्वकर्मसमाराध्यत्वकथनम्
भगवता स्वाश्रयणेन दुष्कृतिभिरपि स्वस्यैव प्राप्यत्वकथनम्
३२ भगवता बुद्धिदार्ढ्याय पुनरपि ज्ञानोपदेशः
भगवता विभूितिविस्तरयोगकथनम्
३३ भगवता विश्वरूपप्रदर्शनम्
अर्जुनेन भगवतस्तुतिः
भगवता स्वेन हतानामेव हननचोदना
भगवद्दर्शनभीतेनार्जुनेन भगवतः प्रसादकरणौन्मुख्ययाचनम्
भगवता स्वस्य भक्तिवश्यत्वकथनम्
३४ भगवता भक्तियोगकथनम्
भगवता सर्वकर्मफलस्य स्वस्मिन् त्यागकथनम्
भगवता सुखदुःखादिष्वेकरूपावस्थानकथनम्
३५ भगवता क्षेत्रक्षेत्रज्ञविभागयोगकथनम्
अध्यायः
भगवता ज्ञानज्ञेययोस्स्वरूपकथनम्
भगवता प्रकृतिपुरुषयोः परमात्मनश्च रीतिवर्णनम्
३६ भगवता गुणत्रयविभागयोगकथनम्
भगवता सत्वरजस्तमसां कार्यकथनम्
भगवता जीवस्य गुणत्रयातिक्रमकथनम्
३७ भगवता पुराणपुरुषोत्तमयोगकथनम्
भगवता स्वस्यैव सर्वभूतान्तरात्मत्वकथनम्
३८ दैवासुरसम्पद्विभागयोगकथनम्
भगवता नरकद्वारस्य त्रैविध्यकथनम्
श्रद्धात्रयविभागयोगकथनम्
सत्त्वरजस्तमसःप्रकृतीनामाहारभेदकथनम्
भगवता तपसां त्रैविध्यकथनम्
भगवता कर्मणां सदसत्वयोः हेतुनिरूपणम्
४० भगवता त्यागस्य त्रैविद्यकथनम्
भगवता कर्मणां नियमेनात्याज्यत्वकथनम्
भगवता त्यागिशब्दार्थविवरणपूर्वकं सर्वकर्मणां सिद्धयेकारणपञ्चककथनम्
भगवता ज्ञानादीनां सात्विकत्वादिकथनम्
भगवता जीवात्मनः ब्रह्मतादात्म्यप्रकारकथनम्
भगवताऽर्जुनं प्रति स्वप्राप्तौ शरणागतिरूपोपायानुष्ठानचोदनम्
भगवद्गीतायाः पठनपाठनाभ्यां पुण्यफलप्रदत्वकथनम्
सञ्जयेन भगवद्गीताश्रवणेन सन्तोषातिशय वर्णनम्

भीष्मवधपर्व

॥ प्रथमदिवसयुद्धारम्भः ॥
४१ कुरूपाण्डवसेनयोर्युद्धारम्भः
४२ कुरुपाण्डवसेनयोर्द्वन्द्वयुद्धवर्णनम्
४३ सङ्कुलयुद्धवर्णनम्

भीष्मपर्वविषयानुक्रमणिका

अध्यायः
४४ भीष्मयुद्धवर्णनम्
भीष्माभिमन्य्वोः युद्धवर्णनम्
भीमयुद्धवर्णनम्
उत्तरकुमारवधः
भीष्मस्य युद्धकथनम्

\।\। द्वितीयदिवसयुद्धारम्भः ॥

४५ युधिष्ठिरेण भगवन्तं प्रति स्वपराजयकथनम्
भगवता युधिष्ठिरसमाश्वासः
युधिष्ठिरेण युद्धाय धृष्टद्युम्नचोदनम्
धृष्टद्युम्नेन क्रौञ्चव्यूहनिर्माणम्
४६ दुर्योधनेन भीष्माभिरक्षणनियमनम्
भीष्मादिभिः प्रतिव्यूहनिर्माणम्
४७ भीष्मार्जुनयोर्युद्धम्
अर्जुनेन लोलया युद्धाचरणम्
भीष्मार्जुनयोः तत्तत्पक्षीयैः साहाय्यकाचरणम्
भीष्मार्जुनयोः देवादिभिः पराक्रमवर्णनम्
४८ धृतराष्ट्रेण दैवस्यैव बलवत्ववर्णनम्
द्रोणधृष्टद्युम्नयोर्युद्धम्
४९ भीमेन कलिङ्गादिवधः
५० अर्जुनयुद्धवर्णनम्

॥ तृतीयदिवसयुद्धारम्भः ॥

५१ भीष्मेण गरुडव्यूहनिर्माणम् धृष्टद्युम्नेनार्धचन्द्रव्यूहकरणम्
५२ सङ्कुलयुद्धवर्णनम्
५३ अर्जुनादीनां युद्धवर्णनम्
दुर्योधनेन भीष्मं प्रति युद्धाय चोदनम्
भीष्मेण पाण्डवानां देवैरप्यजय्यत्वकथनम्
५४ उभयोस्सेनयोः युद्धवर्णनम्
अध्यायः
भीष्मपराक्रमवर्णनम्
भीष्मेण पाण्डवानां पराजयः
भगवताऽर्जुनं प्रति प्रतिज्ञातस्य निर्वर्तनाय युद्धाय चोदनम्
भीष्मार्जुनयोः युद्धसमयेऽर्जुनं प्रति भगवता साहाय्यकाचरणम्
भीष्मेणार्जुनयुद्धकौशलं दृष्ट्वा तत्प्रशंसनम्
भगवता भीष्महननाय श्रीसुदर्शनस्मरणेन तस्य तद्धस्तप्राप्तिः
अर्जुनेन कौरवहननप्रतिज्ञा
अर्जुनेन भीष्मादिभिर्युद्धाचरणम्
कौरवसैन्यपराजयः

॥ चतुर्थदिवसयुद्धारम्भः ॥

५५ भीष्मेण युद्धाय निर्गमनम्
भीष्मेण कृतं व्यूहं दृष्ट्वा अर्जुनेन प्रतिव्यूहनिर्माणम्
५६ धृष्टद्युम्नेन शलपुत्रवधः
५७ भीमसेनादियुद्धवर्णनम्
५८ भीमवधाय सैन्यचोदनम्
५९ भीमेन दुर्योधनानुजाष्टकवधः
घटोत्कचेन मायया परसैन्यमर्दनम्
भीष्मेण निशि घटोत्कचाद्भीतेन सेनापहारकथनम्

चतुर्थदिवसयुद्धसमाप्तिः

६० धृतराष्ट्रेण स्वपुत्रान् प्रत्यनुशोचनम्
सञ्जयेन धृतराष्ट्रं प्रति पापानुरूपफलानुभवकथनम्
दुर्योधनेन भीष्मं प्रति पाण्डवानामजेयत्वप्रश्नः
ब्रह्मणा भगवतस्स्तुतिकरणम्
६१ विश्वोपाख्यानम्
भीष्मेण भगवन्महिमानुवर्णनपूर्वं दुर्योधनगर्हणम्
६२ भीष्मेण वासुदेवमहिमानुवर्णनम्
अध्यायः
भगवतस्समाश्रयणेन युधिष्ठिरस्य विजयकथनम्
६३ ब्रह्मर्षिकृतकृष्णस्तवः
भीष्मेण दुर्योधनं प्रति भगवतः पाण्डवेषु प्रीतिसद्भावेन तैस्सह शमविधानम्

॥ पञ्चमदिवसयुद्धारम्भः ॥

६४ कुरुभिः मकरव्यूहनिर्माणम्
पाण्डवैः श्येनव्यूहनिर्माणम्
कुरुपाण्डवयोर्युद्धारम्भः
६५ सङ्कुलयुद्धवर्णनम्
६९ सात्यकिभूरिश्रवसोर्युद्धम्

॥ षष्टदिवसयुद्धारम्भः ॥

७० पाण्डवैः मकरव्यूहनिर्माणम्
भीष्मेण क्रौञ्चव्यूहनिर्माणम्
कौरवपाण्डवैः युद्धारम्भः
७१ धृतराष्ट्रेण स्वसेनाक्षयश्रवणेन शोचनम्
७२ भीमपराक्रमवर्णननम्
द्रोणपराक्रमवर्णनम्
७३ सहुलयुद्धवर्णनम्
७४ सङ्कुलयुद्धवर्णनम्
षष्ठदिवसयुद्धसमाप्तिः
७५ भीष्मदुर्योधनसंवादः
७६ भोष्मेण दुर्योधनप्रहर्षणम्
भीष्मेण दुर्योधनाय विशल्यकरणीनामकौषधिप्रदानम्

॥ सप्तमदिवसयुद्धारम्भः ॥

भीष्मेण मण्डलव्यूहकरणम्
युधिष्ठिरेण वज्रव्यूहकल्पनम्
राज्ञ द्वन्द्वीभूय मेलनम्
अर्जुनपराक्रमवर्णनम्
अध्यायः
७७ दुर्योधनेन भीष्मरक्षणाय सैन्यप्रस्थापनम्
द्रोणेन शङ्खवधः
द्वन्द्वयुद्धम्
७८ धृतराष्ट्रेण स्वपुत्रान् प्रत्यनुशोचनम्
द्वन्द्वयुद्धवर्णनम्
७९ युधिष्ठिरादियुद्धवर्णनम्
८० सङ्कुलयुद्धवर्णनम्
युधिष्ठिरेण भीष्मयुद्धाय शिखण्डिप्रेषणम्
८१ सङ्कुलयुद्धवर्णनम्

\।\। अष्टमदिवसयुद्धारम्भः \।\।

८२ भीष्मेणोर्मिव्यूहनिर्माणम्
धृष्टद्युम्नेन शृङ्गाटकास्यप्रतिव्यूहनिर्माणम्
८३ भीष्मेण युधिष्टिरसैन्यहननम्
भीमेन सुनाभादिदुर्योधनानुजाष्टकहननम्
दुर्योधनविलापः
८४ धृतराष्ट्रेण पुत्रवधश्रवणात् शोचनम्
धृतराष्ट्रेण हितवचनाकरणेन दुःखप्राप्तिकथनम्
भीष्मादिपराक्रमवर्णनम्
८५ इरावत उत्पत्त्यादिवर्णनम्
अर्जुनेरावतोस्संवादः
इरावतः पराक्रमवर्णनम्
इरावता सौबलेयानां वधः
दुर्योधनेनेरावन्तं प्रत्यार्श्यशृङ्गिप्रेषणम्
आर्श्यशृङ्गिनाम्ना राक्षसेनेरावतो वधः
८६ घटोत्कचेन युद्धाय निर्गमनम्
दुर्योधनघटोत्कचयोर्युद्धम्
८७ घटोत्कचयुद्धवर्णनम्
अध्यायः
८८ सङ्कुलयुद्धवर्णनम्
भीमादिभिः घटोत्कचरक्षणम्
द्वन्द्वयुद्धवर्णनम्
८९ भीमदुर्योधनयोर्युद्धम्
द्रोणेन युद्धाय सोमदत्तादीनां प्रस्थापनम्
घटोत्कचयुद्धवर्णनम्
९० दुर्योधनपरितापः
भीष्मेण घटोत्कचं प्रति भगदत्तप्रेषणम्
भगदत्तघटोत्कचयोर्युद्धम्
९१ अर्जुनस्य शोकप्रकारवर्णनम्
अर्जुनेन युद्धाय भगवती रथचोदनप्रार्थना
भीमेन दुर्योधनानुजानां कतिपयानां हननम्

अष्टमदिवसयुद्धसमाप्तिः

९२ दुर्योधनादिभिरामन्त्रणम्
दुर्योधनेन कर्णं प्रति संभाषणम्
कर्णेन भीष्मस्य रणादपयाने पाण्डवहननप्रतिज्ञानम्
दुर्योधनेन सपरिवारेण भीष्मसदनगमनम्
दुर्योधनेन पाण्डवहननस्य भीष्मकर्णान्यतरकर्तृकत्वप्रार्थनम्
९३ भीष्मेण दुर्योधनं प्रति अर्जुनप्रशंसनपूर्वकं पाण्डवानामजय्यत्वकथनम्
भीष्मेण शिखण्डिवर्ज पाञ्चालहननप्रतिज्ञानम्
९४ भीष्मरक्षणे दुर्योधनादेशः

॥ नवमदिवसयुद्धारम्भः ॥

९५ भीष्मेण सर्वतोभद्रनामकव्यूहनिर्माणम्
पाण्डवादिभिः व्यूहनिर्माणपूर्वकं युद्धाय निर्गमनम्
९६ अभिमन्युपराक्रमवर्णनम्
अध्यायः
दुर्योधनेनाभिमन्युना योद्धुमार्श्यशृङ्गिनामकराक्षसप्रेरणम्
अलम्बुसनाम्ना राक्षसेनाभिमन्योर्युद्धवर्णनम्
९७ अलम्बुसेन शत्रुनाशिन्याः मायायाः प्रयोगः
अभिमन्युना सूर्यास्त्रप्रयोगेणालम्बुसपराजयः
भीष्मादिभिरेकस्याभिमन्योः व्यथनम्
गौतमेन भगवतोऽपि व्यथनम्
९८ द्रोणार्जुनयोर्युद्धम्
अर्जुनेन वायव्यास्त्रप्रयोगः
द्रोणेन शैलास्त्रप्रयोगः
भीमपराक्रमवर्णनम्
९९ सङ्कुलयुद्धवर्णनम्
क्षत्रियैः युद्धस्थले दुर्योधनगर्हणम्
१०० सहुलयुद्धवर्णनम्
१०१ युधिष्टिरादियुद्धवर्णनम्
१०२ भीष्मयुधिष्टिरादीनां युद्धवर्णनम्
भगवता भीष्महननायार्जुनचोदनम्
भीष्मार्जुनयोर्युद्धम्
भगवता भीष्मवधाय रथादवरोहणम्
भीष्मेण भगवन्तं प्रति सप्रणामं स्वपातनयाचनम्
अर्जुनेन स्वेनैव भीष्मवधप्रतिज्ञानम्
भगवता पुनरपि रथारोहणम्
भीष्मपराक्रमवर्णनम्
युधिष्ठिरादिभिः भीष्मवधोपायपर्यालोचनम्

नवमदिवसयुद्धसमाप्तिः

१०३ युधिष्ठिरेण भगवन्तं प्रति भीष्मवधोपायप्रश्नः
युधिष्ठिरेण स्वदैन्यनिवेदनम्
अध्यायः
भगवता भीष्मवधस्य स्वेनार्जुनेन वा करिष्यमाणत्वकथनेन समाश्वासनम्
युधिष्ठिरेण स्वस्य भगवता सनाथत्वकथनम्
पाण्डवैस्सह भगवता भीष्मं प्रति तद्वधोपायप्रश्नाय तत्समीपगमनम्
भीष्मेण भगवदादीन् स्वागतप्रश्नपूर्वकं स्वेन कर्तव्यांशप्रभः
युधिष्ठिरेण भीष्मं प्रति तद्वधोपायप्रश्नः
भीष्मेण स्वस्य दुर्जयत्वकथनपूर्वकं कैश्चित प्रकारैवैध्यत्वकथनम्
भीष्मेण शिखण्डिना स्वस्य वधप्राप्तिकथनम्
अर्जुनेन बाल्यात् प्रभृति स्वस्य भीष्मादभिवृद्धिं शक्तितेन तद्वधे विषादाधिगमः
भगवताऽर्जुनं प्रति प्रतिज्ञातकरणे नियोजनम्

॥ दशमदिवसयुद्धारम्भः ॥

१०४ पाण्डवैः दैवव्यूहनिर्माणम्
कुरुभिः आसुरव्यूहनिर्माणम्
कुरूपाण्डवानां युद्धारम्भः
शिखण्डिना भीष्मेण संवादपूर्वकं युद्धकरण
१०५ दशमेऽहनि भीष्मपराक्रमवर्णनम्
भीष्मदुर्योधनसंवादः
१०६ अर्जुनादिभिः शिखण्डिनं पुरस्कृत्य भीष्मसमीपगमनम्
अर्जुनदुश्शासनयुद्धम्
१०७ हृन्हयुद्धम्
१०८ होणेनाश्वत्थामानं प्रति दुर्निमितप्रदर्शनम्
द्रोणेनाश्वत्थामानं प्रति युद्धानुशासनम्
१०९ भीमसेनपराक्रमवर्णनम्
भीम सेनेन कृपादिभिर्युद्धकरणम्
११० अर्जुनपराक्रम वर्णनम्
अध्यायः
भीष्मार्जुनयुद्धम्
युद्धकरणे जयपराजययोः पणबन्धः
१११ भीष्मेण युद्धे विरक्तिप्रसञ्जनम्
भीष्मेण स्ववधे युधिष्ठिरं प्रति चोदना
धृष्टद्युम्नयुधिष्ठिराभ्यां सृञ्जयान् प्रति युद्धाय नियोजनम्
११२ सङ्कलयुद्धवर्णनम्
११३ सहुलयुद्धवर्णनम्
अर्जुनेन भीष्मवधाय शिखण्डिप्रेरणम्
दुर्योधनेन स्वकीयान् प्रति भीष्मसाहाय्यकाचरणेनतत्पालनचोदनम्
११४ भीष्मपराक्रमवर्णनम्
भगवताऽर्जुनं प्रति भीष्मवधाय समयविशेषनिवेदनम्
शिखण्डिप्रभृतिभिः भीष्मेण युद्धविधानम्
भीष्मेण पाण्डवानां भगवदनुग्रहविषयत्वेन स्ववीर्यमहिनो न्यूनतापरिचिन्तनेन युद्धाद्विरतिः
भीष्मेण स्वपिता दत्तवरेणापि मृत्योः प्राप्तकालत्ववर्णनम्
देवर्षिभिः पुष्पावकिरणादिपूर्वकं भीष्माभिप्रायानुमोदनम्
भीष्मेण विनाऽर्जुनमन्यस्य स्ववधकर्तृत्वाभाववर्णनम्…
भीष्मेणार्जुनप्रयुक्तबाणानां महिमानुवर्णनम्
भीष्मशक्तेः वैफल्यकथनम्
युद्धभूमेः रक्तमयत्ववर्णनम्
भीष्मेण प्राशिरस्कतया भूमौ पतनम्
भीष्मेणान्तरिक्षात् शुभानां गिरां श्रवणम्
भीष्मेण नियण प्रति उत्तरायणप्रतीक्षणम्
गङ्गन्या हंसरूपिर्णा महर्षीणां प्रेषणम्
हंसैः भीष्मं प्रत्युक्तवचनप्रक्रिया
भीष्मेण हंसान् प्रति स्वस्योत्तरायणे निर्याणकथनम्

[TABLE]

११८ कर्णेन भीष्मं प्रत्यभिवादनम्
भीष्मेण कर्णं प्रति पाण्डवैस्सन्धिविधानचोदना
कर्णेन पाण्डवैस्सङ्गमस्य दुष्करत्वमभिधाय स्वावासं प्रति गमनम्
भीष्मेण कर्णं प्रत्यैच्छिकाचरणविधानम्
वैशम्पायनेन भीष्मपर्वपठनश्रवणादीनां फलनिरूपणम्

॥ दशमदिवसयुद्धसमाप्तिः ॥

॥ श्रीः ॥
\।\। महाभारतम् ॥
<MISSING_FIG href="../books_images/U-IMG-1701944937Screenshot2023-12-07155812.png"/>
॥ भीष्मपर्व ॥
(जम्बूखण्डविनिर्माणपर्व)
<MISSING_FIG href="../books_images/U-IMG-1701944956Screenshot2023-12-07155820.png"/>
॥ प्रथमोऽध्यायः ॥
<MISSING_FIG href="../books_images/U-IMG-1701944937Screenshot2023-12-07155812.png"/>

कुरुक्षेत्रे कुरुपाण्डवसेनयोः परस्परसमागमः ॥१॥ उभयपक्षीयैः परस्परं समयकरणम्॥२॥

<MISSING_FIG href="../books_images/U-IMG-1701944956Screenshot2023-12-07155820.png"/>

जनमेजयः—

कथं युयुधिरे वीराः कुरुपाण्डवसोमकाः।
पा1र्थिवाश्च महात्मानो नानादेशसमाताः॥१॥

वैशम्पायनः—

यथा युयुधिरे वीराः कुरुपाण्डवसोमकाः।
कुरुक्षेत्रे तपःक्षेत्रे शृणु तत् पृथिवीपते॥२॥

अवतीर्य कुरुक्षेत्रं पाण्डवास्सहसोमकाः॥

कौरवानभ्यवर्तन्त जिगीषन्तो महाबलाः॥३॥

वेदाध्ययनसम्पन्नास सर्वे युद्धाभिनन्दिनः।
आशंसन्तो जयं युद्धे वधं चाभिमुखा रणे॥४॥

अभियाय च दुर्धर्षां धार्तराष्ट्रस्य वाहिनीम्।
प्राङ्मुखाःपश्चिमे भागे न्यविशन्त ससैनिकाः॥५॥

समन्तपञ्चकाद्वाह्यं शिबिराणि सहस्रशः।
स्थापयामास विधिवत् कुन्तीपुत्रो युधिष्ठिरः॥६॥

शून्येव पृथिवी सर्वा बालवृद्धावशेषिता।
निरश्वपुरुषा चासीद् रथकुञ्जरवर्जिता॥७॥

यावत् तपति सूर्यो हि जम्बूद्वीपस्य मण्डलम्।
तावदेव समावृत्तं बलं पार्थिवसत्तम॥८॥

एकस्थास्सर्ववर्णास्ते मण्डलं बहुयोजनम्।
पर्याक्रमन्त देशांश्च नदीश्शैलवनानि च॥९॥

तथा युधिष्ठिरो राजा सर्वेषां भरतर्षभ।
आदिदेश सवाहानां भक्ष्यभोज्यमनुत्तमम्॥१०॥

संज्ञाश्च विविधास्तास्तास् तेषां चक्रे युधिष्ठिरः।
एवं वादी वेदितव्यः पाण्डवेयोऽयमित्युत॥११॥

अभिज्ञानानि सर्वेषां संज्ञाश्च विविधास्तथा।
योजयामास कौरव्यो युद्धकाल उपस्थिते॥१२॥

दृष्ट्वा ध्वजाग्रंपार्थस्य धार्तराष्ट्रोमहाबलः।
सह सर्वैर्महीपालैः प्रत्यव्यूहत पाण्डवान्॥१३॥

पाण्डरेणातपत्रेण ध्रियमाणेन मूर्धनि।
मध्ये राजसहस्राणां भ्रातृभिः परिवारितम्॥१४॥

दृष्ट्वा दुर्योधनं हृष्ठास् सर्वे पाण्डवसैनिकाः।
दध्मुस्सर्वे महाश2ङ्खान् भेरीर्जघ्नुस्सहस्रशः॥१५॥

ततः प्रहृष्टां स्वां सेनाम् अभिवीक्ष्याथ पाण्डवाः।
बभूवुर्हृष्टमनसो वासुदेवश्च वीर्यवान्॥१६॥

स्वयोधान् हर्षयन्तौ तौ वासुदेवधनञ्जयौ।
दध्मतुः पुरुषव्याघ्रौ दिव्यौशङ्खौरथे स्थितौ॥१७॥

पाञ्चजन्यस्य निर्घोषं देवदत्तस्य चोभयोः।
श्रुत्वा सवाहना योधाश् शकृन्मूत्रं प्रसुस्रुवुः॥१८॥

यथा सिंहस्य नदतस् स्वनं श्रुत्वेतरे मृगाः।
त्र3सेयुस्तद्वदेवासीद् धार्तराष्ट्रबलं तदा॥१९॥

उदतिष्ठद्रजो भौ4मं न प्राज्ञायत किञ्चन।
5न्तर्दधे तदाऽऽदित्यस् सैन्येन रजसा वृतः॥२०॥

ववर्ष चात्र पर्जन्यो मांशोणित वृ6ष्टिमान्।
व्युक्षन् सर्वाणि भूतानि तदद्भुतमिवाभवत्॥२१॥

वायुस्तत्रप्रादुरभून्नीचैश्शर्करवर्षवान्।
विनिघ्नंस्तान्यनीकानि व्यधमंश्चैव तद्रजः॥२२॥

उभे सेने तदा राजन् युद्धाय मुदिते भृशम्।
कुरुक्षेत्रे स्थिते यत्ते सागरक्षुभितोपमे॥२३॥

उभयोस्सेनयोरासीद् अद्भुतस्स समागमः।
युगान्ते समनुप्राप्ते द्वयोस्सागरयोरिव॥२४॥

शून्याऽऽसीत् पृथिवी सर्वा बालवृद्धावशेषिता।
तेन सेनासमूहेन समानीत्तेन कौरवैः॥२५॥

ततस्ते समयं चक्रुः कुरुपाण्डवसोमकाः।
धर्माश्च स्थापयामासुर् युद्धानां भरतर्षभ॥२६॥

निवृत्ते चैव नो युद्धे स्यात् प्रीतिश्च परस्परम्।
यथापुरं यथायोगं न च स्याच्चलनं पुनः॥२७

वाचा युद्धे प्र7वृत्ते तु वाचैव प्रतियोधनम्।
निष्क्रान्तः पृतनामध्यान्न हन्तव्यः कथञ्चन॥२८॥

रथी च रथिनां योध्यो गजेन सह वै गजः।

अश्वेनाश्वः पदातिश्च पादातेनैव भारत॥२९॥

यथायोगं यथावीर्यं यथोत्साहं यथावयः।
समाभाष्य प्रहर्तव्यं न विश्वस्ते न विह्वले॥३०॥

8रेण सह संयुक्तं न चान्यः प्रहरेद्युधि।
परेण सह संयुक्तः प्रमत्तो विमुखस्तथा॥३१॥

क्षीणशस्त्रो विवर्मा च न हन्तव्यः कथञ्चन॥३१॥

न सूतेषु न धुर्येषु न च शस्त्रोपनायिषु।
न भेरीशङ्खवादेषु प्रहर्तव्यं कथञ्चन॥३२॥

एवं ते समयं कृत्वा कुरुपाण्डवसैनिकाः।
विस्मयं परमं जग्मुः प्रेक्षमाणाः परस्परम्॥३३॥

विनिद्रित्य महात्मानस्ततस्ते पुरुषर्षभाः।
हृष्टरूपास्सुमनसो रा9जानो बलवत्तराः॥३४॥

उभयोस्सेनयोर्मध्ये बभूवुस्सहसैनिकाः॥३५॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्याम्
भीष्मपर्वणि प्रथमोध्यायः ॥ १ ॥
॥ ६१ ॥ जम्बूखण्डविनिर्माणपर्वणि प्रथमोऽध्यायः ॥ १ ॥
[अस्मिन्नध्याये ३५ लोकाः]
<MISSING_FIG href=”../books_images/U-IMG-1701955333Screenshot2023-12-07155820.png"/>

महाभारतम्

॥ द्वितीयोऽध्यायः ॥

<MISSING_FIG href="../books_images/U-IMG-1701959367Screenshot2023-12-07155826.png"/>

व्यासेन धृतराष्ट्रं प्रति युद्धदर्शनाय चक्षुर्दानकथनम् ॥ १ ॥ धृतराष्ट्रेण युद्धश्रवणमासे प्रार्थिते व्यासेन सञ्जयं प्रति युद्धविषये सार्वज्ञ्यदानपूर्वकं युद्धप्रकारकथननियोगः ॥ २ ॥ व्यासेन धृतराष्ट्रं प्रति दुर्निमित्तप्रादुर्भावकथनम् ॥ ३॥

——————

वैशम्पायनः—

ततः पूर्वापरे सन्ध्ये समीक्ष्य भगवानृषिः।
सर्ववेदविदां श्रेष्ठो व्यासस्सत्यवतीसुतः॥१॥

भविष्यति रणे घोरे भरतानां पितामहः।
प्रत्यक्षदर्शी सर्वस्य भूतभव्यभविष्यवित्॥२॥

वैचित्रवीर्यं राजानं स रहस्यब्रवीदिदम्।
शोचन्तमार्तं ध्यायन्तं पुत्राणाम न10यात् तदा॥३॥

व्यासः—

राजन् परीतकालास्ते पुत्राश्चान्ये च पार्थिवाः।
ते हनिष्यन्ति सङ्ग्रामे समासाद्येतरेतरम्॥४॥

तेषु कालपरीतेषु विनशिष्यत्सु भारत।
कालपर्यायमाज्ञाय मा स्म शोके मनः कृथाः॥५॥

यदीच्छसि त्वं सङ्ग्रामं द्रष्टुमेतद्विशां पते।

चक्षुर्ददामि तेऽहं तु युद्धमेतन्निशामय॥६॥

धृतराष्ट्रः—

न रोचये ज्ञातिवधं द्रष्टुं ब्रह्मर्षिसत्तम।
युद्धमेतद्विशेषेण शृणुयां तव तेजसा॥७॥

वैशम्पायनः—

तस्मिन्ननिच्छति द्रष्टुं सङ्ग्रामं श्रोतुमिच्छति।
वराणामीश्वरो दाता सञ्जयाय वरं ददौ॥८॥

व्यासः—

एष ते सञ्जयो राजन् युद्धमेतद्वदिष्यति।
एतस्यास्मिंश्च सङ्ग्रामे न परोक्षं भविष्यति॥९॥

11क्षुषा सञ्जयो राजन् दिव्येनैव समन्वितः।
कथयिष्यति ते युद्धं सर्वज्ञश्च भविष्यति॥१०॥

प्रकाशं वा रहस्यं वा रात्रौ वा यदि वा दिवा।
मनसा चिन्तितमपि सर्वं वेत्स्यतिॊ सञ्जयः॥११॥

नैनं शस्त्राणि भेत्स्यन्ति नैनं बाधिष्यते श्रमः।
गावलगणिरयं जीवन् युद्धादस्माद्विमोक्ष्यते॥१२॥

अहं च कीर्तिमेतेषां कुरूणां भरतर्षभ।
पाण्डवानां च सर्वेषां प्रथयिष्यामि मा शुचः॥१३॥

दृष्टमेतत् पुरा चैव नात्र शोचितुमर्हसि।

न चैव शक्यं संयन्तुं यतो धर्मस्ततो जयः॥१४॥

वैशम्पायनः—

एवमुक्त्वा स भगवान् कुरूणां प्रपितामहः।
पुनरेव महाभागो धृतराष्ट्रमुवाच ह॥१५॥

व्यासः—

इह युद्धे महाराज भविष्यति महान् क्षयः।
तथेमानि निमित्तानि दृश्यन्ते भरतर्षभ॥१६॥

श्येनाः कङ्काश्श्वगृध्राश्च वायसास्सहिता बकैः।
सम्पतन्ति ध्वजाग्रेषु समवायांश्च कुर्वते॥१७॥

तत्र चापि च पश्यन्ति युद्धमानन्दिनो द्विजाः।
क्रव्यादा भक्षयिष्यन्ति मांसानि गजवाजिनाम्॥१८॥

कटाकटेति वा12श्यन्ते भैरवं भयवेदिनः।
कङ्काःक्रोशन्ति मध्याह्ने दक्षिणामभितो दिशम्॥१९॥

उभे पूर्वापरे सन्ध्ये नित्यं पश्यामि भारत।
उदयास्तमये सूर्यं कबन्धैः परिवारितम्॥२०॥

श्वेतलोहितपर्यन्ताः कृष्णप्रीवास्सविद्युतः।
त्रिवर्णाःपरिघास्सन्धौ भा13नुमावारयन्त्युत॥२१॥

ज्वलितार्केन्दुनक्षत्रं निर्विशेषदिनक्षपम्।
अहोरात्रं मया दृष्टं तद्भयाय भविष्यति॥२२॥

आलक्षे प्रभया हीनां पौर्णमासी च कार्तिकीम्।
चन्द्रोऽभूदग्निवर्णश्च समवर्ण नभस्तले॥२३॥

स्वप्स्यन्ति निहता वीरा भूमिमावृत्य पार्थिवाः।
राजानो राजपुत्राश्च शूराः परिघबाहवः॥२४॥

अन्तरिक्षे वराहस्य पृषदंशस्य चोभयोः।
प्रणादं युध्यतो रात्रौ रौद्रं नित्यं प्रलक्षये॥२५॥

देवताप्रतिमाश्चापि क14म्पन्ति च हसन्ति च।
वमन्ति रुधिराण्यास्यैस् स्विद्यन्ति प्रतपन्ति च॥२६॥

अनाहता दुन्दुभयः प्रणदन्ति विशां पते।
अयुक्ताश्च प्रवर्तन्ते क्षत्रियाणां महारथाः॥२७॥

कोकिलाश्शतपत्राश्च चाषा भासाश्शुकास्तथा।
सारसाश्चक्रवाकाश्च वाचो मुञ्चन्ति दारुणाः॥२८॥

गृहीतशास्त्राभरणा वर्मिणो वाजिपृष्ठर्गाः।
अरुणोदयेषु दृश्यन्ते शतशश्शलभप्रभाः॥२९॥

उभे सन्ध्ये चकाशेते दिशां दाहसमन्विते।
15दाति पुष्पवर्षं च रक्तवर्षं च भारत॥३०॥

या चैषा दृश्यते राजंस् त्रैलोक्ये साधुसम्मता।
अरुन्धती तया ह्येष वसिष्ठः पृष्ठतः कृतः॥३१॥

रोहिणीं पीडयन्नेव स्थितो राजञ्शनैश्चरः।
व्यावृत्तं लक्ष्म सोमस्य भविष्यति महद्भयम्॥३२॥

अनभ्रेतमसा घोरे व्यो16म्निप्राणिभयङ्करम्।
लोकक्षयकरं घोरं स्तनितं ते भृशम्॥३३॥

वाहनानां च नदतां प्रपतन्त्यश्रुबिन्दवः॥३३॥

इति श्रीमहाभारते शतसहस्रिकायांसंहितायां वैयासिक्याम्
भीष्मपर्वणि द्वितीयोध्यायः॥२॥
॥ ६१ ॥ जम्बूखण्डविनिर्माणपर्वणि द्वितीयोऽध्यायः॥२॥
[अस्मिन्नभ्याये ३३॥ श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1702045139Screenshot2023-12-07155820.png"/>

॥ तृतीयोऽध्यायः ॥

<MISSING_FIG href="../books_images/U-IMG-1702045173Screenshot2023-12-08194923.png"/>

व्यासेन धृतराष्ट्रं प्रति दुर्निमित्तप्रादुर्भावकथनम्॥

——————

व्यासः—

खरा गोषु प्रजायन्ते रमन्ते मातृभिस्सुताः।
17नातवं पुष्पफलं दर्शयन्ति वनद्रुमाः॥१॥

गर्भिण्यो राजपुत्र्यश्च जनयन्ति विभीषणान्।
क्रव्यादान् भक्षयिष्यन्ति गोमायूनितरे मृगाः॥२॥

त्रिविषाणाश्चतुर्नेत्राः पञ्चपादा द्विमेहनाः।
द्विशीर्षाश्च द्विपुच्छाश्च दंष्ट्रिणः पशवो शिवाः॥३॥

जायन्ते विवृतास्याश्च व्याहरन्तोऽशिवा गिरः।
त्रिपादाश्शिखिनस्तार्क्ष्याश् चतुर्दष्ट्रा विषाणिनः॥४॥

तथैवान्ये प्रदृश्यन्ते शुका वै ब्रह्मवादिनाम्॥४॥

वैनतेया मयूरांश्च जनयन्ति पुरे तव।
गोवत्सं वडवा सूते श्वा सृगालं महीपते॥५॥

कु18ञ्जराश्शारिकाञ्चैव शुकाश्चाशुभवादिनः।
स्त्रियः काश्चित् प्रजायन्ते चतस्रः पञ्च कन्यकाः॥६॥

जातमात्राश्च नृत्यन्ति गायन्ति च हसन्ति च।
पृथग्जनस्य कु19हकाः ताडयन्ति परस्परम्॥७॥

नृत्यन्ति परिगायन्ति वेदयन्तो महद्भयम्।
प्रतिमाश्चलिखन्त्येतास् सशस्त्राः कालचोदिताः॥८॥

अन्योन्यमभिधावन्ति शिशवो दण्डपाणयः।
उपनर्दन्ति नृत्यन्ति नगराणि युयुत्सवः॥९॥

पद्मोत्पलानि वृक्षेषु जायन्ते कुमुदानि च॥१०॥

विष्वग्वाता विवान्त्युग्रारजो नाप्युपशाम्यति।
अभीक्ष्णं कम्पते भूमिर् अर्कं राहुस्तथाऽग्रहीत्॥११॥

श्वेतो ग्रहस्तथा चित्रां समतिक्रम्य तिष्ठति।
अभावो हि विशेषेण कुरूणां सम्प्रदृश्यते॥१२॥

धूमकेतुर्महाघोरः पुष्यमाक्रम्य तिष्ठति।
सेनयोरशिवं घोरं करिष्यति महाग्रहः॥१३॥

मघास्वङ्गारको वक्रश् श्रवणे च बृहस्पतिः।
20गं नक्षत्रमाक्रम्य सूर्यपुत्रेण पीड्यते॥१४॥

शुक्रःप्रोष्ठपदे पूर्वे समारुह्य विशां पते।
उत्तरे तु परिक्रम्य सहितः प्रत्युदीक्षते॥१५॥

श्यामो ग्रहः प्रज्वलितस् सधूमस्सह पावकः।
ऐन्द्रं तेजस्वि नक्षत्रं ज्येष्ठामाक्रम्य तिष्ठति॥१६॥

ध्रुवः प्रज्वलितो घोरम् अपसव्यं प्रवर्तते।
चि21त्रास्वात्यन्तरे चैष संस्थितः परुषो ग्रहः॥१७॥

वक्रानुवक्रं कृत्वा तु श्रवणे पावकप्रभः।
ब्राह्मं नक्षत्रमाश्रित्य लोहिताङ्गो व्यवस्थितः॥१८॥

सर्वसस्यप्रतिच्छन्ना पृथिवी सस्यमालिनी।

पञ्चशीर्षा यवाश्चैव शतशीर्षाश्चशालयः॥१९॥

हीना स्यात् पृथिवीपालैर् भविष्यति नराधिप।
गावः क्षीरसमृद्ध्या च सम्पन्नः पृथिवीतले॥२०॥

सुखदास्सर्वलोकस्य यासां निध्नमिदं जगत्।
ता गावःप्रस्तुता वत्सैश् शोणितं प्रक्षरन्त्युत॥२१॥

निश्चेरुरथ यानेभ्यः खङ्गाश्चज्वलिता भृशम्।
व्यक्तं पश्यामि शस्त्राणि सङ्ग्रामं प्रत्युपस्थितम्॥२२॥

अभिवर्णा यथा भासश् शस्त्राणा मु22दकस्य च।
कवचानां ध्वजानां च भविष्यति महान् क्षयः॥२३॥

दिक्षु प्रज्वलिताश्चैव व्याहरन्ति मृगद्विजाः।
अत्याहितं दर्शयन्तः क्षत्रियाणां महद्भयम्॥२४॥

एकपक्षाक्षिचरणाश् शकुनाः खेचरा निशि।
रौद्रं वदन्ति संरब्धाश् शोणितं छर्दयन् मुहुः॥२५॥

ग्रहौ ताम्रारुणनिभौ प्रज्वलन्ताविव स्थितौ।
सप्तर्षीणामुदाराणां समवच्छाद्य वै प्रभाम्॥२६॥

संवत्सरस्थायिनौ च ग्रहौप्रज्वलितावुभौ।
विशाखयोस्समीपस्थौ शनैश्चरबृहस्पती॥२७॥

कृत्तिकासु ग्रहस्तीव्रो नक्षत्रे प्रथमे ज्वलन्।

वर्पूष्यपाहरत् तासां धूमकेतुरवस्थितः॥२८॥

त्रिषु पूर्वेषु सर्वेषु नक्षत्रेषु विशां पते।
बुधस्सम्पततेऽभीक्ष्णं जनयन् प्राणिनां भयम्॥२९॥

चतुर्दशीं पञ्चदशींभूतपूर्वां च षोडशीम्।
इमां तु नाभिजानामि अमावास्यां त्रयोदशीम्॥३०॥

चन्द्रसूर्यावुभौ ग्र23स्तौ देवमासे त्रयोदशीम्।
अपर्वणि ग्रहानेतौ प्रजास्सङ्क्षपयिष्यतः॥३१॥

रजोवृता दिशस्सर्वाः पांसुवर्षैस्समन्ततः।
उत्पातमेघा रौद्राश्च रात्रौ वर्षन्ति शोणितम्॥३२॥

मांसवर्षं ततश्वासीत् तीव्रं कृष्णचतुर्दशीम्।
अर्धरात्रे महाघोरे अतृप्यंस्तत्र राक्षसाः॥३३॥

प्रतिस्रोतोवहन्त्यन्यास् सरितश्शोणितोदकाः।
फेनायमानाः कूपाश्च नर्दन्ति घृषभा इव॥३४॥

पतन्त्युल्कास्सनिर्घातास् स24धूमा विद्युदाश्रिताः।
अद्य चैव च निशाव्युष्टावुदये भानुराहतः॥३५॥

ज्वलन्तीभिर्महोल्काभिश् चतुर्भिस्सर्वतो दिशम्।
आदित्यमुपतिष्ठद्भिस् तत्रचोक्तं महर्षिभिः॥३६॥

भूमिपालसहस्राणां भूमिःपास्यति शोणितम्॥३६॥

कैलासमन्दराभ्यां तु तथा हिमवतो विभो।
सहस्राणि महाशब्दं शिखराणि पतन्त्युत॥३७॥

महाद्भुते भूमिकम्पे चत्वारस्सागराःपृथक्।
वेलामुद्वर्तयन्ति स्म क्षोभयन्तः पुनः पुनः॥३८॥

वृक्षानुन्मथ्य वान्त्युग्रावाताश्शर्करवर्षिणः।
पतन्ति चैत्या वृक्षाश्च ग्रामेषु नगरेषु च॥३९॥

पीतलोहितवर्णश्च ज्वलत्यग्निर्हुतो द्विजैः।
वा25मार्चिश्शवगन्धश्च धूमप्रायः खरस्वनः॥४०॥

स्पर्शगन्धरसाश्चैव विपरीता विशां पते॥४१॥

धूमायन्ते ध्वजा राज्ञां कम्पमाना मुहुर्मुहुः।
मुञ्चन्त्यङ्गारवर्षाणि भेर्योऽथ पटहस्तथा॥४२॥

प्रासादशिखराग्रेषु पुरद्वारेषु चैव हि।
गृध्राःपरिपतन्त्युग्रावाममण्डलमाश्रिताः॥४३॥

पक्वापक्वेति सुभृशं प्रणद्यन्ते वयांसि च।
निलीयन्ते ध्वजाग्रेषु क्षयाय पृथिवीक्षिताम्॥४४॥

नि26श्वसन्तो विवर्णाङ्गा बले वेपथुसंश्रिताः।
रुदन्ति नीचैस्तुरगा मातङ्गाश्च सहस्रशः॥४५॥

27वंविधं दुर्निमित्तं क्षयाय पृथिवीक्षिताम्।
भौमं दिव्यं चान्तरिक्षं त्रिविधं जायतेऽनिशम्॥४६॥

एतच्छ्रुत्वा भवानत्र प्राप्तकालं व्यवस्यताम्।
यथा लोकस्समुच्छेदं नायं गच्छति भारत॥४७॥

वैशम्पायनः—

पितुर्वचो निशम्यैवं धृतराष्ट्रोऽब्रवीदिदम्॥४७॥

धृतराष्ट्रः—

दिष्टमेतत् पुरा मन्ये भविष्यति न संशयः॥४८॥

क्षत्रियाःक्षत्रधर्मेण यदि योत्स्यन्ति संयुगे।
वीरलोकं समासाद्य सुखं प्राप्स्यन्ति केवलम्॥४९॥

इहकीर्ति परे लोके दीर्घकालं महत् सुखम्।
प्राप्स्यन्ति पुरुषव्याघ्राः प्राणांस्त्यक्त्वा महाहवे॥५०॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्याम्
भीष्मपर्वणि तृतीयोऽध्यायः ॥ ३ ॥
॥ ६१ ॥ जम्बूखण्डविनिर्माणपर्वणि तृतीयोऽध्यायः ॥ ३ ॥
[ अस्मिन्नध्याये ५० श्लोकाः]

॥चतुर्थोऽध्यायः॥

जेष्यतां जयसूचकलिङ्गकथनम्॥

वैशम्पायनः—

एवमुक्त्वामुनिस्तत्त्वं कवीन्द्रो राजसत्तम।
पुत्रेण धृतराष्ट्रेण ध्यानमन्वगमत् परम्॥१॥

पुनरेवाब्रवीद्राजन् कालवादी महातपाः॥१॥

व्यासः—

असंशयं पार्थिवेन्द्र कालसङ्क्षिपते जगत्।
सृजते च पुनर्लोकान् विद्यते नेह शाश्वतम्॥२॥

ज्ञातीनां सुहृदां चैव कुरुपाण्डवयोस्तथा।
धर्म्य दर्शय पन्थानं समर्थो ह्यसि वारणे॥३॥

एवं ज्ञातिवधः प्राप्तो मा कुरुष्व ममाप्रियम्॥४॥

कालोऽयं पुत्ररूपेण तवजातो महाद्युते।
न वधः पूज्यते वेदे हितं नैतत् कथञ्चन॥५॥

28 हन्यात् स न वा हन्यात् कुलधर्मात् स्वकां तनुम्।
कालेनोत्पथगन्तासि शक्ये सति निवारणे॥६॥

कुलस्यास्य विनाशाय तथैव च महीक्षिताम्।
अनर्थो राज्यरूपेण त्यज्यतामसुखावहः॥७॥

लुप्तप्रज्ञः परेणासि धर्म दर्शय वै सुतान्।
किं ते राज्येन दुर्धर्ष येन प्राप्तोऽसि किल्बिषम्॥८॥

यशो धर्म च कीर्ति च पालयन् स्वर्गमाप्स्यसि।
लभन्तां पाण्डवा राज्यं शमं गच्छन्तु कौरवाः॥९॥

वैशम्पायनः—

एवं वदति विप्रेन्द्रे धृतराष्ट्रोऽम्बिकासुतः।
प्रशस्य वाक्यं वाक्यज्ञो वचनं त्विद्मब्रवीत्॥१०॥

धृतराष्टः—

यथा भवान् वेद तथाऽस्मि वेत्ता
भावाभावौ विदितौ मे यथावत्।
स्वार्थे हि सम्मुह्यति तात लोको
मां चापि लोकात्मकमेव विद्धि॥११॥

प्रसादये त्वामतुलप्रभाव
त्वं नो गतिर्दर्शयिता च धीर।
न चापि वै29 त्वं ससुतं सबान्धवं
सकल्मषं कर्तुमिहार्हसि त्वम्॥१२॥

त्वं हि धर्मः पवित्रं च यशः कीर्तिर्धृतिस्स्मृतिः।
कुरूणां पाण्डवानां च मान्यश्वासि पितामहः॥१३॥

व्यासः—

वैचित्रवीर्य नृपते यत् ते मनसि वर्तते।
अभिधत्स्व यथाकामं छेत्ताऽस्मि तव संशयम्॥१४॥

धृतराष्ट्रः—

यानि लिङ्गानि सेनानां भवन्ति युधि जेष्यताम्।
तानि सर्वाणि भगवञ् छ्रोतुमिच्छामि तत्त्वतः॥१५॥

व्यासः—

प्रसन्नभाः पावक ऊर्ध्वरश्मिः
प्रदक्षिणावर्तशिखो विधूमः।
पुण्या गन्धाश्चाहुतीनां प्रवान्ति
जयस्यैतद्भाविनो रूपमाहुः॥१६॥

गम्भीरघोषाश्च महास्वनाश्च
शङ्खा मृदङ्गाश्च नदन्ति यत्र।
विशुद्धरश्मिस्तपनश्शशी च
जयस्यैतद्भावनो रूपमाहुः॥१७॥

इष्टा वाचः पृष्ठतो वायसानां
श्रुता यत्र युधि जेतुं नृपाणाम्।

हृ30ष्टानां वै गच्छतां युद्धभूमिं
जयस्यैतद्भाविनो रूपमाहुः॥१८॥

ये पृष्ठतस्ते त्वरयन्ति राजन्
ये त्वग्रतस्ते प्रतिषेधयन्ति।
कल्याणवाचश्शकुना राजहंसाश्
शुकाः क्रौञ्चाश्शतपत्राश्च यत्र॥१९॥

प्रदक्षिणाश्चैव भवन्ति सङ्ख्ये
ध्रुवं जयन्तस्य वदन्ति विप्राः॥१९॥

अलङ्कारैः कवचैः केतुभिश्च
मुखप्रसादैर्देहवर्णैश्च नृृणाम्।
भ्राजिष्मती दुष्प्रतिप्रेक्षणीया
येषां चमूस्ते विजयन्ति शत्रून्॥२०॥

हृष्टा वाचस्तथा सत्त्वं योधानां यत्र भारत।
न म्लायन्ते स्रजश्चैव ते तरन्ति रिपून् रणे॥२१॥

प्रयाणे वायसा वामाद् भागाच्चैव तु दक्षिणम्।
प्र31पद्यन्ते जयो राज्ञां भवेद्युधि न संशयः॥२२॥

शब्दरूपरसस्पर्शगन्धाश्चापि कृताश्शुभाः।
तथा योधाः प्रहृष्टाश्च येषां तेषां ध्रुवो जयः॥२३॥

अन्वीय वायवो वान्ति तथाऽभ्राणि वयांसि च।
अनुप्लवन्ते मेघाश्च तथैवेन्द्रधनूंषि च॥२४॥

एतानि जयमानानां लक्षणानि विशां पते।
भवन्ति विपरीतानि मुमूर्षूणां नराधिप॥२५॥

अल्पायां वा महत्यां वा सेनायामिति निश्चयः।
हर्षो योधगणस्यैवं जयलक्षणमुच्यते॥२६॥

रा32जा दीनो धारयति सेनां सुमहतीमपि।
से33नाऽपि सा विदीर्येत योघाश्शूरतरा अपि॥२७॥

दुर्निवर्त्यतरा चैव प्रभग्ना हि महाचमूः।
अपामिव महावेगास् त्रस्ता मृगगणा इव॥२८॥

नैव शक्या समादातुं सन्निपाते महाचमूः।
दी34र्ण इत्येव दीर्यन्त यथा शूरतरा अपि॥२९॥

भग्नान् योधान् विसम्प्रेक्ष्य भयं भूतगणस्य च।
भवेच्च भरतश्रेष्ठ तथा सम्प्रेक्षतामपि॥३०॥

ते योधा दुद्रुवुश्शूरा दिशो विभ्रामिताः परैः।

नैव स्थापयितुं शक्या शूरैरपि महाचमूः॥३१॥

संहत्य महतीं सेनां चतुरङ्गां महीपतिः।
35क्नोति न समाधातुं धीरानन्द्रसमो युधि॥३२॥

उपायैर्विजयच्छ्रेष्ठम् आहुर्भेदेन मध्यमम्।
जघन्य एष विजयो यो युद्धेन महीपतेः॥३३॥

महादोषस्सन्निपाते तस्माद्दुष्टस्स उच्यते॥३४॥

35रस्परज्ञास्संहृष्टा व्यवधूतास्सुनिश्चिताः।
अपि पश्चाशतं शूरा मृद्रन्ति महतीं चमूम्॥३५॥

अपि वा पञ्च षट् सप्त विजयन्त्यनिवर्तिनः॥३५॥

न वैनतेयो गरुडः प्रशंसति महाजनम्।
दृष्ट्वा सुपर्णोऽपचितिं महतीमपि भारत॥३६॥

न बाहुल्येन सेनाया जयो भवति भारत।
अध्रुवो हि जयो नाम दैवं चात्र परायणम्॥३७॥

जयवन्तोऽपि सङ्ग्रामे क्षयवृन्तो भवन्त्युत॥३८॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्याम्
भीष्मपर्वणि चतुर्थोऽध्यायः ॥ ४ ॥
॥ ६१ ॥ जम्बूखण्डविनिर्माणपर्वणि चतुर्थोऽध्यायः ॥ ४ ॥
[ अस्मिन्नध्यये ३८ श्लोकाः]

<MISSING_FIG href="../books_images/U-IMG-1703488231Screenshot2023-12-07155820.png"/>

॥ पञ्चमोऽध्यायः ॥

<MISSING_FIG href="../books_images/U-IMG-1703488429Screenshot2023-12-25124330.png"/>

व्यासे गते सञ्जयेन धृतराष्ट्रं प्रति भूमिगुणानुवर्णनम्॥ १॥ सञ्जयेन धृतराष्ट्रं प्रति भूतपञ्चकगुणवर्णनपूर्वकं संक्षेपेण जम्बूद्वीपवर्णनम्॥ २ ॥

——————

वैशम्पायनः—

एवमुक्त्वा ययौ व्यासो धृतराष्ट्राय धीमते।
धृतराष्ट्रोऽपि तच्छ्रुत्वा ध्यानमेवान्वपद्यत॥१॥

स मुहूर्तमिव ध्यात्वा विनिश्श्वस्य च भारत।
सञ्जयं संशितात्मानम् अपृच्छद्भरतर्षभ।२॥

धृतराष्ट्रः—

सञ्जयमे महीपालाश् शूरा युद्धाभिनन्दिनः।
अन्योन्यमभिनिघ्नन्ति शस्त्रैरुच्चावचैरिह॥३॥

पार्थिवाः पृथिवीहेतोस् समभित्यक्तजीविताः।
न च शाम्यन्ति निघ्नन्तो वर्धयन्तो यमक्षयम्॥४॥

भौममैश्वर्यमिच्छन्तो न मृष्यन्ति परस्परम्।

मन्ये गुणाधिकां भूमिं तन्ममाचक्ष्व सञ्जय॥५॥

36हूनि च सहस्राणि प्रयुतान्यर्बुदानि च।
कोट्यश्चलोकवीराणां समेताः कुरुजाङ्गले॥६॥

देशानां च परीमाणं नगराणां च सञ्जय।
श्रोतुमिच्छामि तत्त्वेन यत एते समागताः॥७॥

दिव्यबुद्धिप्रदीप्तेन युक्तस्त्वं ज्ञानचक्षुषा।
प्र37भावात् तस्य विप्रर्षेर् व्यासस्यामिततेजसः॥८॥

सञ्चयः—

यथाप्रज्ञंमहाभाग भौमान् वक्ष्यामि ते गुणान्।
शास्त्रचक्षुरवेक्षस्व नमस्ते भरतर्षभ॥९॥

द्विविधानीह भूतानि चराणि स्थावराणि च।
चराणां त्रिविधा योनिर् अण्डस्वेदजरायुजाः॥१०॥

चराणां खलु सर्वेषां श्रेष्ठा राजञ्जरायुजाः।
जरायुजानां प्रवरा मानवाः पशवश्च ये॥११॥

नानारूपाणि बिभ्रन्तस् तेषां भेदाश्चतुर्दश।
अरण्यवासिनस्सप्त सप्तैव ग्रामवासिनः॥१२॥

सिंहव्याघ्रवराहाश्च महिषाहरिणस्तथा।
ऋक्षाश्च वानराश्चैव सप्तारण्यास्मृता नृप॥१३॥

गौरजा मनुजाश्चैव अप्यश्वतरगर्दभाः।
एते ग्राम्यास्समाख्याताः पशवरस्सप्त साधुभिः॥१४॥

वेदोक्ताःपृथिवीपाल येषु यज्ञाः प्रतिष्ठिताः॥१४॥

ग्राम्याणां पुरुषा श्रेष्ठास् सिंहाश्चारण्यवासिनाम्।
सर्वेषामेव भूतानाम् अन्योन्यमुप जी38वकाः॥१५॥

उद्भिज्जास्स्थावराः प्रोक्तास् तेषां पञ्चैव जातयः।
वृक्षगुल्मलतावल्ल्यस् त्वक्सारास्तृणजातयः॥१६॥

तेषां विंशतिरेकोना महाभूतेषु पञ्चसु।
चतुर्विंशतिरुद्दिष्टा गायत्री लोकसम्मता॥१७॥

य एतां वेद गायत्रीं पुण्यां सर्वगुणान्विताम्।
तत्त्वेन भरतश्रेष्ठ लोकानश्नुते शुभान्॥१८॥

भूमौ हि जायते सर्वं भूमौ सर्वं विनश्यति।
भूमिः प्रतिष्ठा भूतानां भूमिरेव परायणम्॥१९॥

यस्य भूमिस्तस्य सर्वं जगत् स्थावरजङ्गमम्।
तस्यां बु39ध्या च राजानो विनिघ्नन्तीतरेतरम्॥२०॥

धृतराष्ट्रः—

नदीनां पर्वतानां च नामधेयानि सञ्जय।
तथा जनपदानां च ये चान्ये भूमिमाश्रिताः॥२१॥

प्रमाणं च प्रमाणज्ञ पृथिव्या अपि सर्वशः।
निखिलेन त्वमाचक्ष्व काननानि च सञ्जय॥२२॥

सञ्जयः—

पञ्चैतानि महाराज महाभूतानि सङ्ग्रहात्।

जगतीस्थानि भूतानि समान्याहुर्मनीषिणः॥२३॥

भूमिरापस्तथैवाग्निर् वायुराकाशमेव च।
गुणोत्तराणि सर्वाणि तेषां भूमिः प्रधानतः॥२४॥

40ब्दस्स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः।
चत्वारोऽप्सु गुणा राजन् गन्धस्तत्र न विद्यते॥२५॥

शब्दस्स्पर्शश्च रूपं च तेजस्येते गुणास्त्रयः।
शब्दस्स्पर्शश्च वायोस्तु आकाशे शब्द एव हि॥२६॥

एते पञ्च गुणा राजन् महाभूतेषु पञ्चसु।
वर्तन्ते सर्वभूतेषु येषु लोकाः प्रतिष्ठिताः॥२७॥

अन्योन्यं नापि वर्तन्ते समं तिष्ठन्ति वै तदा॥२८॥

यदा तु विषमीभावम् आविशन्ति परस्परम्
तदा देहैर्देहवन्तो व्यतिरोहन्ति नान्यथा॥२९॥

आनुपूर्व्याद् विनश्यन्ति जायन्ते चानुपूर्वशः।
सर्वाण्यपरिमेयाणि तथैषां रूपमैश्वरम्॥३०॥

तत्रतत्र च दृश्यन्ते धातवः पाञ्चभौतिकाः।
तेषां मनुष्यास्तत्त्वेन प्रमाणानि प्रचक्षते॥३१॥

अचिन्त्याः खलु ये भावा न तांस्तर्केण साधयेत्॥
सुदर्शनं तु वक्ष्यामि द्वीपं ते कुरुनन्दन॥३१॥

परिमण्डलो महाराज द्वीपोऽयं चक्रसंस्थितः॥३२॥

नदीजालपरिच्छन्नः पर्वतैश्चाभ्रसन्निभैः।
पुरैश्च विविधाकारै रम्यैर्जनपदैस्तथा॥३३॥

वृक्षैः पुष्पफलोपेतैस् सम्पन्नधनधान्यवान्।
लवणेन समुद्रेण सर्वतः परिवारितः॥३४॥

यथा हि पुरुषः पश्यत्यादर्शे रूपमात्मनः।
एवं सुदर्शनद्वीपो दृश्यते चन्द्रमण्डले॥३५॥

द्वि41रंशःपिप्पलस्तत्र द्विरंशस्तु शशो महान्।
सर्वौषधिसमापन्नः पर्वतैः परिवारितः॥३६॥

42तो यदन्यत् ता आपः एष सङ्क्षेप उच्यते॥३७

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्याम्
भीष्मपर्वणि पञ्चमोऽध्यायः॥ ५ ॥
॥ ६१ ॥ जम्बूखण्डविनिर्माणपर्वणि पञ्चमोऽध्यायः॥ ५ ॥
[अस्मिन्नध्याये ३७ श्लोकाः]
<MISSING_FIG href="../books_images/U-IMG-1703574724Screenshot2023-12-07155820.png"/>

॥ षष्ठोऽध्यायः ॥
<MISSING_FIG href="../books_images/U-IMG-1706797126Screenshot2023-12-08194923.png"/>

सञ्जयेन भारतादिनवखण्डानां तत्तत्सीमापर्वतानां मेरोश्च वर्णनम्॥

धृतराष्ट्रः—

उक्तो द्वीपस्य सङ्क्षेपो विस्तरं ब्रूहि सञ्जय।
यावद् भूम्यवकाशोऽयं दृश्यते चन्द्रमण्डले॥१॥

तस्य प्रमाणं प्रब्रूहि ततो वक्ष्यसि पिप्पलम्॥१॥

वैशम्पायनः—

एवं पृष्टस्स राज्ञा तु सञ्जयो वाक्यमब्रवीत्॥२॥

सञ्जयः—

प्रागायता महाराज षडेते रत्नपर्वताः।
अवगाढा ह्युभयतस् समुद्रौ पूर्वपश्चिमौ॥३॥

हिमवान् हेमकूटश्च निषधश्च नगोत्तमः।
नीलश्च वैडूर्यमयश् श्वेतश्च रजतप्रभः॥४॥

सर्वधातुविचित्रश्च शृङ्गवान्नाम पर्वतः।
एते वै पर्वता राजन् सिद्धचारणसेविताः॥५॥

तेषामन्तरविष्कम्भा योजनानि सहस्रशः।
तत्रपुण्या जनपदास्तानि वर्षाणि भारत॥६॥

वसन्ति तेषु सत्त्वानि नानाभेदानि नित्यशः॥६॥

इदं तु भारतं वर्षं ततो हैमवतं परम्।
ततः किम्पुरुषावासं वर्षं हिमवतः परम्॥७॥

हेमकूटात् परं चैव हरिवर्षं प्रचक्षते॥८॥

दक्षिणेन तु नीलस्य निषधस्योत्तरेण च।
प्रागायतोमहाराज माल्यवान्नाम पर्वतः॥९॥

ततः परं माल्यवतः पर्वतो गन्धमादनः।
परिमण्डलस्तयोर्मध्ये मेरुः कनकपर्वतः॥१०॥

आदित्यतरुणाभासो विधूम इव पावकः।
योजनानां सहस्राणि षोडशा43न्तरतस्तथा॥११॥

44र्ध्वं च चतुरशीतिर् द्वात्रिंशन्मूर्ध्नि विस्तृतः।
45धस्ताच्चतुराशीतिर् योजनानां महीपते॥१२॥

ऊर्ध्वञ्ताधश्च तिर्यक् च मेरुरावृत्य तिष्ठति।
तस्य पार्श्वे त्वमी द्वीपाश् चत्वारस्संस्थिताः प्रभो॥१३॥

भद्राश्वः केतुमालश्च जम्बूद्वीपश्च भारत।
उत्तराः कुरवश्चैव कृतपुण्यजनाश्शुभाः॥१४॥

सुमुखोयत्र राजेन्द्र सुपर्णस्यात्मजः किल।
स तु वै चिन्तयामास सौवर्णान् प्रेक्ष्य वायसान्॥ १५॥

मेरुरुत्तममध्यानाम् अधमानां च पक्षिणाम्।
अविशेषकरो यस्मात् तस्मादेनमुपैम्यहम्॥१६॥

यमादित्योऽनुपर्येति सततं ज्योतिषां पतिः।
चन्द्रश्चैव सनक्षत्रो वायुश्चैव प्रदक्षिणः॥१७॥

स पर्वतो महाराज दिव्यपुष्पफलान्वितः।
भवनैरावृतस्सर्वैर् जाम्बूनदमयैश्शुभैः॥१८॥

तत्र देवगणा राजन् गन्धर्वासुरराक्षसाः।
अप्सरोगणसंयुक्ताश् शैले क्रीडन्ति नित्यशः॥१९॥

तत्रब्रह्मा च रुद्रश्च शऋश्चापि सुरेश्वरः।
समेत्य विविधैर्यज्ञैर् यजन्तेऽनेकदक्षिणैः॥२०॥

तुम्बुरुर्नारदश्चैव विश्वावसुईहाहहुहू।
अभिगम्य नरश्रेष्ठ स्तुवन्ति विविधैस्स्तवैः॥२१॥

सप्तर्षयो महात्मानः काश्यपश्च प्रजापतिः।
तत्रगच्छन्ति भद्रं ते सदा पर्वणि पर्वणि॥२२॥

तस्यैव मूर्धन्युशना काव्यो राजन् महीपते।
तस्य हीमानि रत्नानि तस्येमे रत्नपर्वताः॥२३॥

तस्मात् कुबेरो भगवांश् चतुर्थं भागमश्नुते।
ततः कलांश वित्तस्य मनुष्येभ्यः प्रयच्छति॥२४॥

पार्श्वे तस्योत्तरे दिव्ये सर्वर्तुकुसुमं शुभम्।

कर्णिकारवनं दिव्यं शिलातलसमुद्भवम्॥२५॥

तत्र साक्षात् पशुपतिस् सर्वभूतैस्समावृतः।
उमासहायो भगवान् रमते भूतभावनः॥२६॥

कर्णिकारमयीं मालां बिभ्रत् पादावलम्बिनीम्।
त्रिभिः कृतोद्योतैस् त्रिभिस्सूर्यैरिवोदितैः॥२७॥

तमुग्रतपसस्सिद्धास् सुव्रतास्सत्यवादिनः।
पश्यन्ति न हि दुर्वृत्तैश् शक्यो द्रष्टुं महेश्वरः॥२८॥

तस्य शैलस्य शिखरे क्षीरधारा दिवश्च्युता।
त्रिंशद्वाहुपरिग्राह्या भीमनिर्घातनिःस्वना॥२९॥

पुण्या पुण्यजनैर्जुष्टा गङ्गा भागीरथी शुभा।
पतत्यजस्रं वेगेन ह्रदे चन्द्रप्रभे नृप॥३०॥

तया ह्युत्पादितः पुण्यस् स ह्रदस्सागरोपमः।
तां धारयामास तदा दुर्धरां पर्वतैरपि।३१॥

शतं वर्षसहस्राणि शि46रसैव महेश्वरः॥३१॥

दक्षिणेन च मेरोस्तु निषधस्योत्तरेण च।
सुदर्शनो नाम महाञ् जम्बूवृक्षस्सनातनः॥३२॥

सर्वकालफ47लैःपूर्णस् सिद्धचारणसेवितः।

तस्य नाम्ना समाख्यातो जम्बूद्वीपस्सनातनः॥३३॥

योजनानां सहस्रे द्वे शतं च भरतर्षभ।
उत्सेधो वृक्षराजस्य दिविस्पृङ्मनुजेश्वर॥३४॥

अरत्रीनां सहस्रं च शतानि न48व पञ्च च।
परिणायेऽस्य पक्वानां फलानां रसभेदिनाम्॥३५॥

पतमानानि तान्युर्वीकुर्वते विपुलस्वनम्।
विमुञ्चन्ति रसं जातु महारजतसन्निभम्॥३६॥

स तु जम्बूफलरसो नदी भूत्वा जनाधिप।
मेरुं प्रदक्षिणीकृत्य स प्रयात्युत्तरान्कुरून्॥३७॥

न क्षुधा नक्लमश्चापि न पिपासा जनाधिप।
तस्मिन्, फलरसे पीते न जरा बाधते हि तान्॥३८॥

तत्रजाम्बूनदं नाम कनकं देवभूषणम्।
तरुणादित्यवर्णाश्च जायन्ते तत्र मानवाः॥३९॥

मेरोस्तु पश्चिमे भागे केतुमालो महीपते।
जम्बूषण्डश्चतत्रैव सुमहान् सागरोपमः॥४०॥

आयुर्दशसहस्राणि तत्र वर्षे तु भारत।
सुवर्णवर्णाश्च नरास्स्त्रियश्चाप्सरसोपमाः॥४१॥

अनामया वीतशोका नित्यं मुदितमानसाः।

जायन्ते मानवास्तत्र निष्टप्तकनकप्रभाः॥४२॥

गन्धमादनशृङ्गेषु कुबेरस्सह राक्षसैः।
संवृतोऽप्सरसां सङ्घैर् मोदते गुह्यकाधिपः॥४३॥

49न्धमादनपादेषु परेषु परगन्धिकाः।
50कादशसहस्राणि वर्षाणां परमायुषः॥४४॥

तत्र कृष्णा नरा राजंस् तेजोयुक्ता महाबलाः।
स्त्रियश्चोत्पलपत्राभास् सर्वास्सुप्रियदर्शनाः॥४५॥

51र्षन्त्विलावृतं नाम तत्र शृङ्गमतः परम्।
तत्र स्थिते महाराज द्वे वर्षे दक्षिणोत्तरे॥४६॥

इलावृतं मध्यमं तु मञ्च दीर्घाणि चैव हि।
उत्तरोत्तरमेतेभ्यो वर्षमुद्दीप्यते गुणैः॥४७॥

आयुःप्रमाणादारोग्याद् धर्मतः कामतोऽर्थतः।
समन्वितानि भूतानि तेषु वर्षेषु भारत॥४८॥

एवमेतैर्महाराज पर्वतैः पृथिवी चिता॥४९**॥**

हेमकूटस्तु सुमहान् कैलासो नाम पर्वतः।
यत्र वैश्रवणो राजन् गुह्यकैरस्सह मोदते॥५०॥

तत्र देवो महादेवो नित्यमास्ते सहोमया।
चित्रे शिलातले रम्ये देवर्षिगणपूजितः॥५१॥

52स्त्युत्तरेण कैलासान्मैनाकः पर्वतोत्तमः।
हिरण्यशृङ्गस्सुमहान् वीर्यो मणिमयो गिरिः॥५२॥

तस्य पार्श्वे महद्दिव्यं शुभं काञ्चनवालुकम्।
रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः॥५३॥

गत्वा भागीरथीं गङ्गाम् उवास बहुलास्समाः।
यूपा मणिमयास्तत्र चैत्याश्चापि हिरण्मयाः॥५४॥

तत्रेष्ट्वाच तपस्सिद्धस् सहस्राक्षो महायशाः।
स्रष्टा भूतपतिर्यत्र सर्वान् लोकान् सनातनान्॥५५॥

उपास्यते तिग्मतेजा यत्र भूतैस्समागतैः।
नरनारायणौ ब्रह्मा देवस्स्थाणुश्च पञ्चमः॥५६॥

तत्र त्रिपथगा देवी प्रथमं तु प्रतिष्ठिता।
ब्रह्मलोकादपाक्रान्ता सप्तधा प्रतिपद्यते॥५७॥

वस्वौकसारा नलिनी पावना च सरस्वती।
जम्बूनदी च सीता च गङ्गा सिन्धुश्च सप्तमी॥५८॥

53चिन्त्या देवसङ्कल्पा प्रभावैश्चैव संयुता।
उपासते यत्रसत्रं सहस्रयुगपर्यये॥५८॥

दृश्याऽदृश्या च भवति तत्र तत्र सरस्वती।
एता दिव्यास्सप्त गङ्गास् त्रिषु लोकेषु विश्रुताः॥५९॥

रक्षांसि वै हिमवति हेमकूटे तु गुह्यकाः।
सर्पा नागाश्च निषधे गोकर्णं च तपोवनम्॥६०॥

गन्धर्वा निषधे शैले नीलो ब्रह्मर्षयो नृपाः।
देवासुरग्रहाश्चैव54 पर्वते लोकविश्रुते॥६१॥

शृङ्गवांस्तु महाराज पितॄणां प्रतिसञ्चरः।
इत्येतानि महाराज सप्त वर्षाणि भागशः॥६२॥

भूतान्युपनिविष्टानि गतिमन्ति ध्रुवाणि च।
एषामृद्धिर्बहुविधा दृश्यते दैवमानुषी॥६४॥

अशक्या परिसङ्ख्यातुं श्रद्धेया तु बुभूषता।
यां तु पृच्छसि मां राजन् दिव्यामेनां शशाकृतिम्॥६५॥

55 वै सुदर्शनद्वीपो दृश्यते शशवद्द्विधा।
पार्श्वे शशस्य वै वर्षे उभये दक्षिणोत्तरे॥६६॥

शाकद्वीपश्च क्रौञ्चश्च शाल्मलिःपुष्कर एव च।
ताम्रपर्णीशिरोजश्चश्रीमान् मलयपर्वतः॥६७

56तद्द्वितीयं द्वीपस्य दृश्यते शशसंज्ञितम्॥६७ ॥

इति श्रीमहाभारते शतसहस्रिकायांसंहितायांवैयासिक्याम्
भीष्मपर्वणि षष्ठोऽध्यायः॥ ६ ॥
॥ ६१ ॥जम्बूखण्डविनिर्माणपर्वणि षष्ठोऽध्यायः॥ ६ ॥
[अस्मिन्नध्याये ६७॥ श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1703581707Screenshot2023-12-07155820.png"/>

॥ सप्तमोऽध्यायः ॥

<MISSING_FIG href="../books_images/U-IMG-1703581686Screenshot2023-12-07155826.png"/>

मेरोरुत्तरभागस्थोत्तरकुरुवर्णनम् ॥ १ ॥ तथा मेरोःपूर्वभागस्यभद्राश्वखण्डवर्णनम्॥२॥

————

धृतराष्ट्रः—

मेरोरथोत्तरं पार्श्व पूर्वं चाचक्ष्व सञ्जय।
निखिलेन महाबुद्धे माल्यवन्तं च पर्वतम्॥१॥

सञ्जयः—

दक्षिणेन तु नीलस्य मेरोः पार्श्वे तथोत्तरे।
उत्तराः कुरवो राजन् दिव्यास्सिद्धनिषेविताः॥२॥

तत्र वृक्षा मधुफला नित्यपुष्पफलोपगाः।
पुष्पाणि च सुगन्धीनि रसवन्ति फलानि च॥३॥

सर्वकामफलास्तत्र केचिद्वृक्षा जनाधिप।
अपरे क्षीरिणो नाम वृक्षास्तत्र नराधिप॥४॥

ये क्षरन्ति सदा क्षीरं षड्रसं ह्यमृतोपमम्।
वस्त्राणि च प्रसूयन्ते फलान्याभरणानि च॥५॥

सर्वा मणिमयी भूमिस् सूक्ष्मकाञ्चनवालुका।
सर्वत्र सुखसंस्पर्शा दीर्घकालं जनाधिप॥६॥

देवलोकच्युतास्सर्वे जायन्ते तत्र मानवाः।
शुक्लाभिजनसम्पन्नास् सर्वे सुप्रियदर्शनाः॥७॥

मिथुनानि च जायन्ते स्त्रियश्चाप्सरसोपमाः।
तेषां ते क्षीरिणां क्षीरं पिबन्त्यमृतसम्भवम्॥८॥

मिथुनं जायमानं तत् समन्ताच्चप्रवर्तते।
तुल्यरूपगुणोपेतं समवेतं तथैव च॥९॥

एकमेकानुरक्तं च चक्रवाकसमं विभो।
निरामया वीतशोका नित्यं मुदितमानसाः॥१०॥

दशवर्षसहस्राणि दशवर्षशतानि च।
जीवन्ति ते महाराज न चान्योन्यं जहत्युत॥११॥

भारुण्डा नाम शकुनास् तीव्रतुण्डा महाबलाः।
ते निर्हरन्ति च मृतान् दरीषु प्रक्षिपन्ति च॥१२॥

उत्तराः कुरवो राजन् व्याख्यातास्ते समासतः।

मेरोः पार्श्वमहं पूर्वं वक्ष्याम्यथ यथातथम्॥१३॥

57द्राश्वं नाम वर्षं तु पुरा वै गन्धमादनात्॥१३॥

तत्रपूर्वाभिषेकस्तु भद्राश्वस्य विशां पते।
भद्रसालवनं तत्र कालाम्रश्च महाद्रुमः॥१४॥

कालाम्रश्च महाराज नित्यपुष्पफलश्शुभः।
58हस्रयोजनोत्सेधस् सिद्धचारणसेवितः॥१५॥

तत्र वै पुरुषाश्श्वतास् तेजोयुक्ता महाबलाः।
स्त्रियः कुमुदवर्णाश्च सुन्दर्यःप्रियर्शनाः॥१६॥

चन्द्रप्रभाश्चन्द्रवर्णाः पूर्णचन्द्रनिभाननाः।
चन्द्रशीतलगात्र्यश्च नृत्तगीतविशारदाः॥१७॥

दशवर्षसहस्राणि तत्रायुर्भरतर्षभ।
कालाम्ररसपीतास्ते नित्यं संस्थितयौवनाः॥१८॥

तत्रमाल्यवतश्शृङ्गे दृश्यते हव्यवाट् सदा।
नाम्ना संवर्तको नाम कालाग्निर्भरतर्षभ॥१९॥

तथा माल्यवतरश्शृङ्गे जा59यन्ते सुकृता जनाः॥२०॥

योजनानां सहस्राणि पञ्चाशन्माल्यवांस्थितः।
महारजतसङ्काशा जायन्ते तत्रमानवाः॥२१॥

ब्रह्मलोकच्युतास्सर्वे सर्वे च ब्रह्मवादिनः।
तपस्ते तप्यमानास्तु भवन्ति ह्यूर्ध्वरेतसः॥२२॥

रक्षणार्थं तु भूतानां प्रविशन्ति दिवाकरम्॥२२॥

षष्टिस्तानि सहस्राणि षष्टिस्तानि शतानि च।
अरुणस्याग्रतो यान्ति परिवार्य दिवाकरम्॥२३॥

षष्टिर्वर्षसहस्राणि षष्टिर्वर्षशतानि च।
आदित्यतापतप्तास्ते विशन्ति श60शिमण्डलम्॥२४॥

इति श्रीमहाभारते शतसहस्रिकायांसंहितायां वैयासिक्याम्
भीष्मपर्वणि सप्तमोऽध्यायः॥ ७ ॥
॥ १ ॥ जम्बूखण्डविनिर्माणपर्वणि सप्तमोऽध्यायः॥ ७ ॥
[ अस्मिन्नध्याये २४ ॥ श्लोकाः ]

<MISSING_FIG href="../books_images/U-IMG-1703582563Screenshot2023-12-07155820.png"/>

॥ अष्टमोऽध्यायः ॥
<MISSING_FIG href="../books_images/U-IMG-1703582607Screenshot2023-12-07155812.png"/>

मेरोरुत्तरभागस्थखण्डस्रयवर्णनम्॥
—————

धृतराष्ट्रः—

वर्षाणां चैव नामानि पर्वतानां च सञ्जय।
आचक्ष्व मे यथातत्त्वंये च पर्वतवासिनः॥१॥

सञ्जयः—

दक्षिणेन तु श्वेतस्य नीलस्यैवोत्तरेण च।

वर्षं रमणकं नाम जायन्ते तत्रमानवाः॥२॥

शुक्लाभिजनसम्पन्नास् सर्वे सुप्रियदर्शनाः।
रतिप्रधानाश्च तथा जायन्ते पुरुषर्षभाः॥३॥

दशवर्षसहस्राणि शतानि दश पञ्च च।
जीवन्ति ते महाराज नित्यं मुदितमानसाः॥४॥

दक्षिणे शृङ्गिणं चैव श्वेतस्याथोत्तरेण च।
वर्षं हैरण्वतं नाम तत्र हैरण्वती नदी॥५॥

यक्षोरगा महाराज धनिनः प्रियदर्शनाः।
महाबलास्तत्र सदा राजन् मुदितमानसाः॥६॥

एकादशसहस्राणि वर्षाणां ते जनाधिप।
आयुःप्रमाणं जीवन्ति शतानि दश पञ्च च॥७॥

शृङ्गाणि वै शृङ्गवतस् त्रीण्येव मनुजाधिप॥७॥

एकं मणिमयं तत्र तथैकं रौक्ममद्भुतम्।
सर्वरत्नमयं चैकं भवनैरुपशोभितम्॥८॥

तत्र स्वयम्प्रभा देवी नित्यं वसति शाण्डिली॥९॥

उत्तरेण तु शृङ्गस्य समुद्रान्ते जनाधिप।
वर्षमैरावतं नाम तस्माच्छृङ्गवतः परम्॥१०॥

न तत्रसूर्यस्तपति न जीर्यन्ते च मानवाः।

61न्द्रमाश्च सनक्षत्रो ज्योतिर्भूतजनावृतः॥११॥

62द्मप्रभाः पद्मवर्णाःपद्मवर्णनिभाननाः।
पद्मपत्रसुगन्धाश्च जायन्ते तत्र मानवाः॥१२॥

अनिष्यन्दसुगन्धाश्च निराहारा जितेन्द्रियाः।
देवलोकच्युतास्सर्वे तथा विरजसो नृप॥१३॥

त्रयोदशसहस्राणि वर्षाणां ते जनाधिप।
आयुःप्रमाणं जीवन्ति नरा भरतसत्तम॥१४॥

क्षीरोदस्य समुद्रस्य तथैवोत्तरतो हरिः।
शश्वद्वसति वैकुण्ठश् शकटे कनकोज्वले॥१५॥

अष्टचक्रं हि तद्यानं भूतयुक्तं मनोजवम्।
अग्निवर्णं महावेगं जाम्बूनदपरिष्कृतम्॥१६॥

स प्रभुस्सर्वलोकानां स विभुर्भरतर्षभ।
सङ्क्षेपो विस्तरश्चैव कर्ता कारयिता च सः॥१७॥

पृथिव्यापस्तथाऽऽकाशं वायुस्तेजञ्च पार्थिव।
स यज्ञस्सर्वभूतानाम् आस्यं तस्य हुताशनः॥१८॥

वैशम्पायनः—

एवमुक्तसञ्जयेन धृतराष्ट्रोमहायशाः।

ध्यानमन्वगमद्राजन् पुत्रान् प्रति नराधिप॥१९॥

स विचिन्त्य महातेजाः पुनरेबाब्रवीद्वचः॥१९॥

धृतराष्ट्रः—

असंशयं सूतपुत्र कालस्सङ्क्षिपते जगत्।
सृजते च पुनस्सर्वं नेह विद्यति शाश्वतम्॥२०॥

नरो नारायणश्चैव स यज्ञस्सर्वभूतभृत्।
देवा वैकुण्ठ इत्याहुर् वेदा विष्णुरिति श्रुतिः॥२१॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्याम्
भीष्मपर्वणि अष्टमोऽध्यायः॥८॥
॥ ६१ ॥ जम्बूखण्डविनिर्माणपर्वणि अष्टमोऽध्यायः॥८॥
[ अस्मिन्नध्याये २१॥ श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1704364128Screenshot2023-12-07155820.png"/>

॥ नवमोऽध्यायः ॥

<MISSING_FIG href="../books_images/U-IMG-1704364186Screenshot2023-12-08194923.png"/>

भारतवर्षस्थनदीपर्वतदेशानां विस्तरेण कथनम्॥

—————

धृतराष्ट्रः—

यदिदं भारतं वर्षं यत्रेदं चोर्जितं बलम्।
यत्रातिमात्रलुब्धोऽयं पुत्रो दुर्योधनो मम॥१॥

यत्र गृ63ध्नापाण्डवेया यत्र मे सज्जते मनः।

एतत् सर्वं ममाचक्ष्व त्वं हि मे बुद्धिमान् मतः॥२॥

सञ्जयः—

न तत्र पाण्डवा गृघ्नाश् शृणु राजन् वचो मम।
गृध्नो दुर्योधनस्तत्र शकुनिश्चापि सौबलः॥३॥

अपरे क्षत्रियाश्चापि नानाजनपदेश्वराः।
ये गृध्ना भारते वर्षे न मृष्यन्ति परस्परम्॥४॥

तत्र ते वर्णयिष्यामि वर्षं भारत भारतम्।
प्रियमिन्द्रस्य देवस्य मनोर्वैवस्वतस्य च॥५॥

पृथोश्च राजन् वैन्यस्य तथेक्ष्वाकोर्महात्मनः।
ययातेरम्बरीषस्य मान्धातुर्नहुषस्य च॥६॥

तथैव मुचुकुन्दस्य शिबिरौशीनरस्य च।
भरतस्य तथैलस्य नृगस्य नृपतेस्तथा॥७॥

अन्येषां च महाराज क्षत्रियाणां बलीयसाम्।
सर्वेषामेव राजेन्द्र प्रियं भारत भारतम्॥८॥

तत् ते वर्षं प्रवक्ष्यामि यथाश्रुतमरिन्दम्।
शृणु मे गदतो राजन् यन्मां त्वं परिपृच्छसि॥९॥

महेन्द्रो मलयस्सह्यश् शुक्तिमानृक्षसंज्ञकः।
विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः॥१०॥

तेषां सहस्रशो राजन् पर्वतास्ते समीपतः।

अभिज्ञातास्स्मृतिमतां विपुलाश्चित्रसानवः॥११॥

अन्ये ततोऽपरिज्ञाता ह्रस्वाहस्वोपजीविनः।
आर्या म्लेच्छाश्च कौरव्य तैर्मिश्राः पुरुषा विभो॥१२॥

नदींपिबन्ति विपुलां गङ्गां सिन्धुं सरस्वतीम्।
गोदावरीं नर्मदां च बाहुदां च महानदीम्॥१३॥

शतद्रूंचन्द्रभागां च यमुनां च महानदीम्।
दृ64षद्वतीं विपाशां च विपापां स्थूलवालुकाम्॥१४॥

नदीं वेत्रवतीं चैव कृष्णवेणीं च निम्नगाम्।
इरावतीं वितस्तां च पयोष्णीं देविकामपि॥१५॥

वेदस्मृतां वेदवतीं त्रिदिवामिक्षुलां शमीम्।
कर्षणीं चित्रहर्षां च चित्रसेनां च निम्नगाम्॥१६॥

गोमतीं धूतपापां च वन्दनां च महानदीम्।
कौशिकीं त्रिदिवां दिव्यां निश्चल्यां लोहितारणीम्॥ १७॥

रथस्थां शतकुम्भां च सरयूं च नरेश्वर।
चर्मण्वतीं वेत्रवतीं हस्तिहेमां दशां तथा॥१८॥

शरावतीं पयोष्णीं च हरां भीमरथीमपि।
कावेरीं ब्रह्मदण्डां च वापीं शतवरीमपि॥१९॥

निश्चितां सुहितां चापि सुप्रयोगां जनाधिप।

पवित्रां कुण्डलां सिन्धुं पुरजां पुरमालिनीम्॥२०॥

पूर्णवीरां महावीरां वेत्रां वेगवतीमपि।
पलाशिनीं पापहरां महेन्द्रां पिप्पलावतीम्॥२१॥

मरुच्छिद्रां तुङ्गभद्रां मोघां ह्रदवतीमपि।
तृणावतीमकृष्णां च सखिसूचिं च कौरव॥२२॥

सदानीरामवृष्ट्यां च कुशपारां महानदीम्।
वि65दिशां सुशिवां चैव तथा वीरवतीमपि॥२३॥

वास्तुं सुवास्तुं गाधिं च मधु चैव हिरण्यगाम्।
66ल्लवस्तबकां चैव पाञ्चालीमथ रोहिणीम्॥२४॥

स्थचित्रां ज्योतिरथां विश्वामित्रां कपिञ्जलाम्।
उपेन्द्रां बाहुदां चैव रुचिरामङ्गवाहिनीम्॥२५॥

वैनतीं पिप्पलां बेण्णां प्रवेणीं च महानदीम्।
विशालां ताम्रपर्णीं च ताम्रां च कपिलामपि॥२६॥

वरदां वेदपादां च हरिद्रवसमापगाम्।
शीघ्रां च विपुलां चैव भारद्वाजां च निम्नगाम्॥२७॥

कौशिकींनि67म्नगां वर्णाबाहुदां वृद्धनर्मदाम्।

दुर्गामन्तश्शिलां चैव ब्रह्मवेध्यां बृहद्वतीम्॥२८॥

68क्षश्शिरोहरां चैव तथा जाम्बूनदीमपि।
69समां च समां दाशां रसवन्तींपरायणाम्॥२९॥

नीलां च प्रतरां चैव धूणिकां च महानदीम्।
मानवीं वृषभां चैव महौघां च नराधिप॥३०॥

70दा निरामयां हृष्टां मन्दगां मन्दवाहिनीम्।
ब्राह्मणीं च महागौरीं दुर्गामपि च भारत॥३१॥

चित्रोपलां चित्ररथां मञ्जुलां वालुमालिनीम्।
मन्दाकिनीं वैतरणीं मन्दां चापि महानदीम्॥३२॥

शुक्तिमतीमनङ्गां च सरङ्गामुत्पलावतीम्।
लोहित्यां करतोयां च तथैव बघसाह्वयाम्॥३३॥

कुमारीं भृष्टकुल्यां च ब्रह्मकुल्यां च मारिष।
सरस्वतीं सुपुण्यां च सर्वगङ्गां च भारत॥३४॥

मा71नवीमृषभां चैव महानद्यो नराधिप।
विश्वस्य मातरस्सर्वास् सर्वाश्चैव महाबलाः॥३५॥

तथा नद्यस्त्वप्रकाशाश् शतशोऽथ सहस्रशः।
इत्येतास्सरितो राजन् समाख्याता यथास्मृति॥३६॥

अत ऊर्ध्वं जनपदान् निबोध गदतो मम॥३६॥

72त्रेमे कुरुपाञ्चालास् साल्वा माद्रेयजाङ्गलाः।
शूरसेनाः कलिङ्गाश्च बाह्निकाख्यास्तथैव च॥३७॥

मत्स्याः कुलिङ्गास्सात्वीयाः कुन्तिकाः काशिकोसलाः।
चेदिवत्साः करूशाश्च कालसिन्धुपुलिन्दकाः॥३८॥

उत्तराश्च दशार्णाश्च मेखलाःकोसलैस्सह।
पाञ्चालाःकोसलाश्चैव महावृष्टायुगन्धराः॥३९॥

परावृद्धा हुलुङ्गाश्च काशयोऽपरकाशयः।
जठराः कुकुराश्चैव रस्यगार्णाश्च भारत॥४०॥

कुन्तयोऽवन्तयश्चैव तथैवापरकुन्तयः।
गोमन्दामन्दकाष्षण्डा विदर्भानूपवासकाः॥४१॥

अश्मकाश्चसुराष्ट्राश्च गोपरोष्ट्रास्सवेतनाः।
आधिराजाःकुलुन्दाश्च वल्लराष्ट्राश्च केवलम्॥४२॥

सावित्रीयास्सायपाका वक्रावक्रतराश्शुकाः।
विदेहा मगधास्सूक्ष्मा महदायतयस्तथा॥४३॥

अङ्गवङ्गकलिङ्गाश्च यकृल्लोमास्तथैव च।

मल्लास्सुदेष्णाः प्रहुणास् तथा महिष्कर्षकाः॥४४॥

बाह्लीका वाटधानाश्च आभीराः कालतोयकाः।
पुररन्ध्राश्च हूध्राश्च पल्लवाश्चर्मखण्डिकाः॥४५॥

अटवीशबराश्चैव मरुभूताश्च मारिष।
वयोवृद्धास्तथा वृद्धास् सुराष्ट्राःकेकयास्तथा॥४६॥

कुन्त्यावलाःपरादद्राः कक्ष्यास्सामुद्रनिष्कुटाः।
अन्ध्राश्च बहुशो राजन् नानावीर्यास्तथैव च॥४७॥

सहाजाताःप्रावृषीया भार्गवाश्च जनाधिप।
बहुद्वीपास्सुकेशाश्च तथा यावकवंशकाः॥४८॥

कारुशास्सिन्धुसौवीरा गान्धारावन्तिकास्तथा।
किराता बर्बरास्सिद्धा विदेहास्ताम्रलिप्तकाः॥४९॥

विन्ध्यदेशाः किराताश्च सुदेष्णाद्रमिडास्तथा।
मन्दरा हृतमण्डाश्चकर्णाया भूतलास्तथा॥५०॥

कच्छाश्शैबलकच्छाश्चजाङ्गलाङ्गलपल्लवाः।
वीरबाहाश्शूरतोया राजितास्तस्य कङ्कणाः॥५१॥

तिलपाराश्च सीराश्च मधुमन्तस्सकुन्दराः।
काश्मीरास्सिन्धुसौवीरा गान्धारावन्तयस्तथा॥५२॥

किराता बर्बरास्सिद्धा विदेहास्ताम्रमालिकाः।
कौकुट्टकास्तथा व्यङ्ग्याःकोङ्कणा मलयालकाः॥५३॥

सङ्गमाः कोपनाश्चैव कुरुनागाश्वमारिषाः।
ध्वजाद्युत्सवसङ्केता संश्रयास्सर्वनिर्णयाः॥५४॥

आयसाःकोकिलाश्श्रेयाः परमर्मापहास्तथा।
तथैव विन्ध्यमालीनाः कुलिन्दा वल्कलैस्सह॥५५॥

पल्लवा मालवाश्चैव तथैव परिमल्लकाः।
कपिजाः कुक्कुटाश्चैव मण्डकाः करुणास्तथा॥५६॥

मूषपास्स्थलपालाश्च सपिकास्स्फूर्तिरञ्जकाः।
अल्पेषारस्थविराश्चैव भूषपास्तेनपास्तथा॥५७॥

मीक्षकाश्च पताकाश्च तङ्कणाः परतङ्कणाः।
उत्तराश्चापरे म्लेच्छाः जना भरतसत्तम॥५८॥

व्यसनाश्च सकाम्भोजा दारुणा सिद्धजातयः।
सरद्रुहाःकुञ्जराश्च यवनाः पावनैस्सह॥५९॥

तथैव रामाश्चीनाश्च तथैव दशमालिकाः।
क्षत्रियोपनिवेश्याश्च वैश्यशूद्रकुलानि च॥६०॥

शूद्राः क्षिलाश्च दरदाः काश्मीराः पशुभिस्सह।
कालकाश्च तुषाराश्च पल्लवा गिरिगह्वराः॥६१॥

आत्रेयास्सभरद्वाजास् तथैव च सुयोषितः।
औपगाश्च कलिङ्गाश्च त्रिगर्ता वंशजातयः॥६२॥

कारस्कराश्च वङ्गाश्च आन्ध्राश्च द्रमिलास्तथा।

चोलाश्चकेरलाश्चैव तथा पाण्ड्यास्ससिंहलाः॥६३॥

नाजरा भागवर्ताश्च तथैव कररञ्जनाः।
उद्देशमात्रेण मया देशात्सङ्कीर्तिता विभो॥६४॥

एषां बलं गुणं चात्र त्रिवर्गस्य महाफलम् ।
दुह्याद्धेनुः काममिव भूमिस्सम्यगनुष्ठिता॥६५॥

तस्या गृध्नन्ति राजानश् शूरा धर्मार्थकोविदाः।
ते त्यजन्त्याहवे प्राणान् रसगृध्रास्तरस्विनः॥६६॥

देवमानुषकार्याणां कामं भूमिः परायणम्।
अन्योन्यं तेऽवलम्पन्ति सारमेया इवामिषम्॥६७॥

राजानो भरतश्रेष्ठ भोक्तुकामा वसुन्धराम् ।
न जातु तृप्तिःकामानां विद्यतेऽद्य हि कस्यचित् ॥ ६८॥

तस्मात् परिग्रहाद्भूमेर् यतन्ते भुवि पाण्डवाः ।
साम्ना दानेन भेदेन दण्डेनैव च पार्थिव ॥६९॥

पिता माता च पुत्राश्च खादन्ति नरपुङ्गव ।
भूमिर्भवति भूतानां सम्यगच्छिद्रदर्शिनाम् ॥७०॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि नवमोऽध्यायः॥ ९ ॥
॥ ६१ ॥ जम्बूखण्डविनिर्माणपर्वणि नवमोऽध्यायः ॥ ९ ॥
[अस्मिन्नध्याये ७० ॥श्लोकाः]
<MISSING_FIG href="../books_images/U-IMG-1704524002Screenshot2023-12-07155820.png"/>

॥ दशमोऽध्यायः ॥

<MISSING_FIG href="../books_images/U-IMG-1704524518Screenshot2023-12-08194923.png"/>

चतुर्युगवर्णनम्॥

<MISSING_FIG href="../books_images/U-IMG-1704524479Screenshot2023-12-07155820.png"/>

धृतराष्ट्रः—

भारतस्यास्य वर्षस्य ततो हैमवतस्य च।
प्रमाणमायुषस्सूत लब्ध्वा चापि शुभाशुभम्॥१॥

अनागतमतिक्रान्तं वर्तमानं च सञ्जय।
आचक्ष्व मे विस्तरतो हरिवर्षं तथैव च॥२॥

सञ्जयः—

चत्वारि भारते वर्षे युगानि भरतर्षभ।
कृ73तं त्रेता द्वापरं च पुष्यं च कुरुवर्धन॥३॥

पूर्वं कृतयुगं नाम ततस्त्रेतायुगं प्रभो।
संक्षेपाद्द्वापरस्याथ ततस्पुष्यं प्रवर्तते॥४॥

चत्वारि तु सहस्राणि वर्षाणां कुरुनन्दन।
आयुस्संख्या कृतयुगे संख्याता राजसत्तम॥५॥

तथा त्रीणि सहस्राणि त्रेतायां मनुजाधिप।
द्वे सहस्रेद्वापरे तु भुवि तिष्ठन्ति साम्प्रतम्॥६॥

न प्रमाणं स्थितिर्ह्यस्ति पुष्येऽस्मिन् भरतर्षभ।

गर्भस्थाच म्रियन्तेऽत्र तथा जाता त्रियन्ति च॥७॥

महाबला महासत्वाः प्रज्ञागुणसमन्विताः।
अजायन्त कृते राजन् भावयन् भूतभावनाः॥८॥

महोत्साहा महात्मानो धार्मिकारसत्यवादिनः।
जातास्तु वै कृतयुगे धनिनः प्रियदर्शनाः॥९॥

आयुष्मन्तो महावीर्या धनुर्धरवरा युधि।
जायन्ते क्षत्रियाइशूरासू त्रेतायां च सहस्रशः॥१०॥

सर्ववर्णा महाराज जायन्ते द्वापरे युगे।
महोत्साहा महावीर्याः परस्पर हि74तैषिणः॥११॥

तेजसाल्पेन संयुक्ताः क्रोधनाः पुरुषा नृप।
लुब्धाश्चानृतिनश्चैव पुष्ये जायन्ति भारत॥१२॥

ईर्ष्या मानस्तथा क्रोधो मायाऽसूया तथैव च।
पुष्ये भवति मर्त्यानां रागो लोभत्र भारत॥१३॥

सङ्क्षेपो वर्तते राजन् द्वापरेऽस्मिन् नराधिप।
गुणोत्तरं ह्रैमवतं हरिवर्षं ततः परम्॥१४॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि दशमोऽध्यायः ॥ १० ॥
॥ ६९ ॥ जम्बूखण्डविनिर्माणपर्वणि दशमोऽध्यायः ॥ १० ॥
[ अस्मिभ्याये १४ लोकाः ]
( जम्बूखण्डविनिर्माणपर्व समाप्तम्)

॥ एकादशोऽध्यायः ॥

<MISSING_FIG href="../books_images/U-IMG-1704542342Screenshot2023-12-07155812.png"/>
(भूमिपर्व)

शाकद्वीपवर्णनम् ॥

<MISSING_FIG href="../books_images/U-IMG-1704542429Screenshot2023-12-02132141.png"/>

धृतराष्ट्रः—

जम्बूद्वीपस्त्वया प्रोक्तो यथावदिह सञ्जय।
विष्कम्भस्य मम ब्रूहि परिमाणं च तत्त्वतः॥१॥

समुद्रस्य प्रमाणं च सम्यगच्छिद्रदर्शनम्।
प्लक्षद्वीपं च मे ब्रूहि कुशद्वीपं च सञ्जय॥२॥

शाल्मलं चैव तत्त्वेन क्रौञ्चद्वीपं तथैव च।
शाकद्वीपं च मे ब्रूहि राहोस्सोमार्कयोस्तथा॥३॥

सञ्जयः—

राजन् सुबहवो द्वीपा यैरिदं सन्ततं जगत्।
तेषां तत्त्वं प्रवक्ष्यामि चन्द्रादित्यौ ग्रहास्तथा॥४॥

अष्टादश सहस्राणि योजनानां विशां पते।
षट् शतानि च पूर्णानि विष्कम्भो जम्बुसंज्ञितः॥५॥

लवणस्य समुद्रस्य विष्कम्भो द्विगुणस्स्मृतः।
नानाद्रुमलताकीर्णो मणिविद्रुमचित्रितः॥६॥

नैकधातुविचित्रैश्च पर्वतैरुपशोभितः।

सिद्धचारणसङ्कीर्णस् सागरः परिमण्डलः॥७॥

प्लक्षद्वीपं च वक्ष्यामि यथावदिह भारत।
शृणु मे त्वं यथान्यायं ब्रुवतः कुरुनन्दन॥८॥

जम्बूद्वीपप्रमाणेन द्विगुणस्स नराधिप।
विष्कम्भेण महाराजसा75गरोऽपि द्विभागशः॥९॥

शा76ल्मलिश्च कुशक्रौञ्चोद्विगुणो ह्युत्तरोत्तरम्।
यथासंख्यं परिवृतस् सुरासर्पिः पयोधिभिः॥१०.॥

शाकद्वीपं तु वक्ष्यामि यथावदिह भारत।
श्रृ77णु मे त्वं यथान्यायं ब्रुवतः कुरुनन्दन॥११॥

क्षीरोदेन नृपश्रेष्ठ यश्च सम्परिवारितः।
तत्रपुण्या जनपदा न तत्रम्रियते जनः॥१२

कुत एव हि दुर्भिक्षं क्षमातेजोयुता हि ते॥१२॥

शाकद्वीपस्य सङ्क्षेपो यथावद्भरतर्षभ।
उक्त एव महाराज किमन्यद्वर्णयामि ते॥१३॥

धृतराष्ट्रः—

शाकद्वीपस्य सङ्क्षेपो यथावदिह सञ्जय।
उक्तस्त्वया महाप्राज्ञ विस्तरं ब्रूहि तत्त्वतः॥१४॥

सञ्चयः—

अतीवगुणवत् सर्वं तत्र पुण्यं जनाधिप।
वि78स्तृताः पर्वता राजन् सप्तात्र मणिभूषिताः॥१५॥

रत्नाकरास्तथा नद्यस् तेषां नामानि मे शृणु॥१६॥

दे79वर्षिगन्धर्वयुतः प्रथमो मेरुरुच्यते।
प्रागायतो महाराज ज80लदो नाम पर्वतः॥१७॥

79तो मेघाः प्रवर्तन्ते प्रभवन्ति च सर्वशः॥१७॥

ततः परेण कौरव्य जलधारो महागिरिः।
ततो नित्यमुपादत्ते वासवः परमं जलम्॥१८॥

यतो वर्षं प्रभवति वर्षकाले जनेश्वर।
उच्चैर्गिरी रैवतको यत्रनित्यं प्रतिष्ठितः॥१९॥

रेवती दिवि नक्षत्रं पितामहकृतो विधिः॥२०॥

उत्तरेण तु राजेन्द्र श्यामो नाम महागिरिः।
यतश्श्यामत्वमापन्ना प्रजा जनपदेश्वर॥२१॥

धृतराष्ट्रः—

सुमहान् संशयो मेऽद्य त्वयो81क्ते82सूतनन्दन।
प्रजाः कथं महाप्राज्ञ सम्प्राप्ताश्श्यामतामिह॥२२॥

सञ्जयः—

सर्वेष्वेव महाराज द्वीपेषु कुरुनन्दन।
गौरः कृष्णश्च वर्णोऽत्र तयोर्वर्णान्तरो नृप॥२३

श्यामो यस्मात् प्रवृद्धो वै तेन वक्ष्यामि भारत॥ २३ ॥

ततः परं कौरवेन्द्र दुर्गश्शैलो महोदयः।
केसरी केसरयुतो यतो वायुः प्रवाति वै॥२४॥

तेषां योजनविष्कम्भो द्विगुणः प्रविभागशः।
वर्षाणि तेषु कौरव्य सप्तोक्तानि महर्षिभिः॥२५॥

महामेरुमेहा भा83गो मलयः कुसुमोत्करः।
जलधारो महाराज सुकुमार इति स्मृतः॥२६॥

रैवतस्य तु कौमारश् श्यामस्य मणिकाञ्चनः।
केसरस्याथ मो84 घ-म-स्यासमो दारि; ङ- स्यासमो दारी")धारिः परेण तु महाद्रुमः॥२७॥

परिवार्य तु कौरव्य दैर्घ्यह्रस्वत्वमेव च।
क्रौ85ञ्चद्वीपस्य सङ्ख्यातस् तस्य मध्ये महाद्रुमः॥ २८॥

शाको नाम महाराज तस्य वृत्त86मिह शृणु॥२९॥

तत्रपुण्या जनपदाः पूज्यते तत्रशङ्करः।
तत्र गच्छन्ति सिद्धाश्च देवताश्चारणास्तथा॥३०॥

धार्मिकाश्च प्रजा राजंश् चत्वारोऽतीव भारत।
वर्णास्स्वकर्मनिरता न च स्तेनोऽत्रदृश्यते॥३१॥

दीर्घायुषो महाराज जरामृत्युविवर्जिताः।
प्रजास्तत्रविवर्धन्ते वर्षास्विव समुद्रगाः॥३२॥

नद्यः पुण्यजलास्तत्र गङ्गा च बहुधा गता।
सुकुमारी कुमारी च सीता संवेणुका तथा॥३३॥

महानदी च कौरव्य तथा मणिजला नदी।
इषुवर्धनिका चैव तथा भरतसत्तम॥३४॥

तत्र प्रवृत्ताः पुण्योदा नद्यः कुरुकुलोत्तम।
सहस्राणां शतान्येव ततो वर्षति वासवः॥३५॥

न तासां नामधेयानि परिमाणं तथैव च।
शक्यन्ते परिसंख्यातुं पुण्यास्ता हि सरिद्वराः॥३६॥

तत्र पुण्या जनपदाश् चत्वारो लोकसम्मताः।
मकाश्च मशाश्चैव मानसा मन्दकास्तथा॥३७॥

मका ब्राह्मणभूयिष्ठास् स्वकर्मनिरताश्च ते।
मशकेषु च राजन्या धार्मिकास्सर्वकामदाः॥३८॥

मानसेषु महाराज वैश्या धर्मोपजीविनः।

सर्वकामसमायुक्तास् शूरा धर्मार्थकोविदाः॥३९॥

शूद्राश्च मन्दके नित्यं पुरुषा धर्मशीलिनः॥३९॥

न तत्रराजा राजेन्द्र न हण्डो न च दण्डिकाः।
स्वधर्मेणैव राजेन्द्र ते रक्षन्ति परस्परम्॥४०॥

एतावदेव शक्यं तु तत्र द्वीपे प्रभाषितुम्।
एतदेव च वक्तव्यं शाकद्वीपे महौजसि॥४१॥

इति श्रीमहाभारते शतसहस्रिकायांसंहितायां वैयासिक्यां
भीष्मपर्वणि एकादशोऽध्यायः ॥ ११ ॥
॥ ६२ ॥ भूमिपर्वणि प्रथमोऽध्यायः ॥ १ ॥
[ अस्मिन्नध्याये ४१ ॥ श्लोकाः ]
** <MISSING_FIG href="../books_images/U-IMG-1704625634Screenshot2023-12-02132141.png"/>**

॥ द्वादशोऽध्यायः ॥

**
<MISSING_FIG href="../books_images/U-IMG-1704625605Screenshot2023-12-07155826.png"/>**

क्रौञ्चादिद्वीपवर्णनम्॥

<MISSING_FIG href="../books_images/U-IMG-1704625634Screenshot2023-12-02132141.png"/>

सञ्जयः—

उत्तरेषु च कौरव्य द्वीपेषु श्रूयते कथा।
यथा श्रुतं महाराज ब्रुवतस्तान् निबोध मे॥१॥

घृ87ततोयस्समुद्रो वै दधिमण्डोदनः परः।

सु88रोदरस्सागरश्चैव तथाऽन्यो जलसागरः॥२॥

परस्परेण द्विगुणास् सर्वे द्वीपा नराधिप।
पर्वताश्च महाराज समुद्रैः परिवारिताः॥३॥

गौरस्तु मध्यमे द्वीपे गिरिर्मणिशिलो महान्।
पर्वतः पश्चिमः कृष्णो नारायणनिभो नृप॥४॥

तत्ररत्नानि दिव्यानि स्वयं रक्षति केशवः।
प्रजापतिरुपासीनः प्रजानां विदधत् सुखम्॥५॥

कुशद्वीपे कुशस्तम्बो मध्ये जनपदैस्सह।
89म्पूज्यते शाल्मली च द्वीपे शाल्मलिके नृप॥६॥

क्रौञ्चद्वीपे महाक्रोञ्चो गिरी रत्नचयाकरः।
सम्पूज्यते महाराज चातुर्वर्ण्येन नित्यदा॥७॥

गोमन्दः पर्वतो राजन् सुमहान् सर्वधातुमान्।
वसते भगवान् यत्रश्रिया कमललोचनः॥८॥

मोक्षिभिस्संस्तुतो नित्यं प्रभुर्नारायणो हरिः॥८॥

शाकद्वीपे तु राजेन्द्र पर्वतो विद्रुमैश्चितः।
सुनामा नाम दुर्धर्षो द्वितीयो हेमपर्वतः॥९॥

द्युतिमान्नाम कौरव्य तृतीयः कुमुदो गिरिः।

चतुर्थःपुष्पवान्नाम पञ्चमस्तु कुशेशयः॥१०॥

षष्ठो हरिगिरिर्नाम षडेते रत्नपर्वताः॥११॥

एषामन्तरविष्कम्भो द्विगुणस्सर्वभागशः।
औद्भिदं प्रथमं वर्षं द्वितीयं वेणुमण्डलम्॥१२॥

तृतीयं वै रथाकारं चतुर्थं लम्बनं स्मृतम्।
पञ्चमं धृतिमद्वर्षं षष्ठं वर्षं प्रभाकरम्॥१३॥

सप्तमं कपिलं वर्षं सप्तैते वर्षपूजिताः॥१३॥

एतेषु देवगन्धर्वाः प्रजाश्चजगतीश्वर।
विचरन्ति रमन्ते च न तेषु म्रियते जनः॥१४॥

न तेषु दस्यवस्सन्ति म्लेच्छजात्योऽपि वा नृप।
गौरप्रायो जनस्सर्वस् सुकुमारश्च पार्थिव॥१५॥

अवशिष्टेषु सर्वेषु वक्ष्यामि मनुजेश्वर।
यथाश्रुतं महाराज तदप्येकमनाश्शृणु॥१६॥

क्रौञ्चद्वीपेमहाराज क्रौञ्चोनाम महागिरिः॥१७॥

क्रौञ्चात् परो वामनको वामनादन्धकारकः।
अन्धकारात् परो राजन् मैनाकः पर्वतोत्तमः॥१८॥

मैनाकात् परतो राजन् गोविन्दो गिरिरुत्तमः।
गोविन्दात् तु परो राजन् निबिडो नाम पर्वतः॥१९॥

परस्तु द्विगुणस्तेषां विष्कम्भो वंशवर्धनः।

देशांस्तत्रप्रवक्ष्यामि तन्मे निगदतश्शृणु॥२०॥

क्रौञ्चस्य कुशलो देशो वामनस्य मनोनुगः।
मनोनुगात् परश्चोष्णो देशः कुरुकुलोद्वह॥२१॥

उष्णात् परः प्रावरकःप्रावरादन्धकारकः।
अन्धकारकदेशात् तु मुनिदेशोऽपरस्स्मृतः॥२२॥

मुनिदेशात् परश्चैव प्रोच्यते दुन्दुभिस्वनः।
सिद्धचारणसङ्कीर्णो गौरप्रायो जनाधिप॥२३॥

एते देशा महाराज देवगन्धर्वसेविताः।
पुष्करे पुष्करोनाम पर्वतो मणिरत्नवान्॥२४॥

तत्र नित्यं निवसति स्वयं देवः प्रजापतिः।
तं पर्युपासते नित्यं देवास्सर्वे महर्षयः॥२५॥

वाग्भिर्मनोनुकूलाभिः पूजयन्तो जनाधिप।
जम्बूद्वीपात् प्रवर्तन्ते रत्नानि विविधान्युत॥२६॥

द्वीपेषु तेषु सर्वेषु प्रजानां कुरुसत्तम।
विप्राणां ब्रह्मचर्येण सत्येन च दमेन च॥२७॥

आरोग्यायुःप्रमाणेभ्यो द्विगुणं द्विगुणं ततः।
एको जनपदो राजन् द्वीपेष्वेतेषु भारत॥२८॥

उक्ता जनपदा येषु धर्मश्चैकः प्रदृश्यते॥२८॥

ईश्वरो दण्डमुद्यम्य स्वयमेव प्रजापतिः।

द्वीपानेतान् महाराज रक्षंस्तिष्ठति नित्यशः॥२९॥

79 राजा स शिवो राजन् प्रेक्षितायाः प्रजापतिः।
गोपायति नरश्रेष्ठ प्रजास्सजडपण्डिताः॥३०॥

भोजनं चात्र कौरव्य प्रजास्स्वयमुपस्थितम्।
एवमेव महाराज भुज्यते तद्धि नित्यदा\।\।३१॥

ततः परं समा नाम दृश्यते लोकसंस्थितिः।
चतुरश्रा महाराज त्रयस्त्रिंशत् तु मण्डलम्\।\।३२॥

तत्र तिष्ठन्ति कौरव्य चत्वारो लोकविश्रुताः।
दिग्गजा भरतश्रेष्ठ वामनैरावतादयः॥३३॥

सुप्रतीकस्तथा राजन् प्रभिन्नकरटामुखः ।
तस्याहं परिमाणं तु न संख्यातुमिहोत्सहे॥३४॥

असंख्यातस्स नित्यं हि तिर्यगूर्ध्वमधस्तथा।
तत्रैव वायवो वान्ति दिग्भ्यस्सर्वाभ्य एव हि॥३५॥

असङ्क्रुद्धा महाराज ताश्रिगृह्णन्ति ते गजाः।
पुष्करैः पद्मसङ्काशैर् वर्षवद्भिर्महाप्रभैः॥३६॥

ते शनैः पुनरेवाशु वातान् मुञ्चन्ति नित्यशः।
श्वसद्भिर्मुच्यमानास्तु दिग्गजैरिह मारुताः॥३७॥

आगच्छन्ति महाराज ततस्तिष्ठन्ति वै प्रजाः॥३८॥

धृतराष्ट्रः—

परमो विस्तरोऽत्यर्थं त्वया सञ्जय कीर्तितः।
दर्शितं द्वीपसंस्थानम् उत्तरं ब्रूहि सञ्जय॥३९॥

सञ्जयः—

उक्ता द्वीपा महाराज ग्रहान् मे शृणु तत्त्वतः।
स्वर्भानुः पुरुषव्याघ्र यावदेव स्वभावतः॥४०॥

परिमण्डलो महाराज स्वर्भानुश्रूयते ग्रहः।
योजनानां सहस्राणि विष्कम्भो द्वादशस्य वै॥४१॥

परिणाहेन षट्त्रिंशद् विपुलेन तथाऽनघ।
षष्टिमाहुश्शतान्यस्य पुरा पौराणिकास्तथा॥४२॥

चन्द्रमास्तु सहस्राणि राजन्नेकादश स्मृतः।
विष्कम्भेण कुरुश्रेष्ठ त्रयस्त्रिंशत् तु मण्डलम्॥४३॥

एकोनषष्टिवैपुल्यात् शीतरश्मेर्महात्मनः॥४३॥

सूर्यस्त्वष्टसहस्राणि द्वे चान्ये कुरुनन्दन।
विष्कम्भेण महाराज मण्डलं त्रिशतं स्मृतम्॥४४॥

अष्टपञ्चाशतं राजन् विपुलत्वेन चानघ।
श्रूयते परमोदारःपतङ्गस्स विभावसुः॥४५॥

एतत् प्रमाणमर्कस्य निर्दिष्टमिह भारत।
स राहुश्छादयत्येतौ यथाकालं महत्तया॥४६॥

चन्द्रादित्यौमहाराज संक्षेपोऽयमुदाहृतः॥४७॥

इत्येतत् ते महाराज पृच्छतश्शास्त्रचक्षुषा।
सर्वमुक्तं मया तत्त्वं तस्माच्छममवाप्नुहि\।\।४८॥

यथादृष्टं मया प्रोक्तं सनिर्याणमिदं जगत्।
तस्मादाश्वस कौरव्य पुत्रं दुर्योधनं प्रति॥४९.॥

श्रुत्वेदं भरतश्रेष्ठ भूमिपर्व मनोनुगम्।
श्रीमान् भवति राजन्यस् सिद्धार्थस्साधुसम्मतः॥५०॥

आयुर्बलं च वीर्यं च तेजश्चास्य विवर्धते॥५०॥

यश्शृणोति महाराज पर्वणीदं यतव्रतः।
प्रीयन्ते पितरस्तस्य तथैव प्रपितामहाः॥५१॥

इदं तु भारतं वर्षं यत्र वर्तामहे वयम्।
पू90र्वं प्रवर्तते पुण्यं तत् सर्वं श्रुतवानसि॥५२॥

इति श्रीमहाभारते शतसहस्रिकायांसंहितायां वैयासिक्यां
भीष्मपर्वणि भूमिपर्वणि द्वादशोऽध्यायः॥ १२ ॥
॥ ६२ ॥ भूमिपर्वणि द्वितीयोऽध्यायः ॥ २ ॥
[अस्मिन्नध्याये ५२ ॥ श्लोकाः]
( भूमिपर्व समाप्तम् )
<MISSING_FIG href="../books_images/U-IMG-1704783058Screenshot2023-12-07155820.png"/>

\।\। त्रयोदशोऽध्यायः ॥

<MISSING_FIG href="../books_images/U-IMG-1704792586Screenshot2023-12-25124330.png"/>

(भगवद्गीतापर्व)

सञ्जयेन धृतराष्ट्रं प्रति भीष्महननकथनम्॥
<MISSING_FIG href="../books_images/U-IMG-1704792560Screenshot2023-12-07155820.png"/>

वैशम्पायनः—

अथ गावल्गणिर्विद्वान् संयुगादेत्य भारत।
प्रत्यक्षदर्शी सर्वस्य भूतभव्यभविष्यवित्॥१॥

ध्यायते धृतराष्ट्राय सहसोपेत्य दुःखितः।
आचष्ट निहतं भीष्मं भारतानां पितामहम्॥२॥

सञ्जयः—

सञ्जयोऽहं महाराज नमस्ते भरतर्षभ।
हतो भीष्मश्शान्तनवो भारतानां पितामहः॥३॥

ककुदं सर्वयोधानां धाम सर्वधनुष्मताम्।
शरतल्पगतस्सोऽद्य शेते कुरुपितामहः॥४॥

यस्य वीर्यं समाश्रित्य द्यूतं पुत्रस्तवाकरोत्।
स शेते निहतो राजन् संख्ये भीष्मश्शिखण्डिना॥५॥

यस्सर्वान् पृथिवीपालान् समवेतान् महामृधे।
जिगायकरथेनैव काशिपुर्यां महारथः॥६॥

जामदग्न्यंरणे रामम् अयुध्यद्वसुसम्भवः।

न हतो जामदग्न्येन निहतोऽद्य शिखण्डिता॥७॥

महेन्द्रसदृशश्शौर्येर्ये धैर्येण हिमवानिव।
समुद्र इवगाम्भीर्ये सहिष्णुत्वे धरासमः॥८॥

शरवंष्ट्रोधनुर्वकः खड्गजिह्वो दुरासदः।
नरसिंहःपिता तेऽद्य पाञ्चाल्येन निपातितः॥९॥

पाण्डवानां महत् सैन्यं यं दृष्ट्वोद्यन्तमाहवे।
प्रावेपत भयोद्विग्नंसिंहं व गोगणः॥१०॥

परिरक्ष्य च सेनां तु दशरात्रमनीकहा।
जगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम्॥११॥

यस्स शक्र इवाक्षोभ्यो वर्षन् बाणान् सहस्रशः।
जघान युधि योधानाम् अर्बुदं दशभिर्दिनैः॥१२॥

स शेते निहतो भूमौ वातरुग्ण इव द्रुमः।
तव दुर्मन्त्रिते राजन् यथा नार्हस्सभारत॥१३॥

इति श्रीमहाभारते, शतसहस्रिकायांसंहितायां वैयासिक्यां
भीष्मपर्वणि त्रयोदशोऽध्यायः ॥ १३ ॥
॥ ६३ ॥ भगवद्गीतापर्वणि प्रथमोध्यायः ॥ १ ॥
[अस्मिन्नध्याये १३ श्लोकाः]

॥ चतुर्दशोऽध्यायः ॥

<MISSING_FIG href="../books_images/U-IMG-1704792956Screenshot2023-12-08194923.png"/>

धृतराष्ट्रेण भीष्महननश्रवणात्परिशोचनपूर्वकं सञ्जयं प्रति विस्तरेण भीष्मादियुद्धवर्णनचोदना॥

________

धृतराष्ट्रः—

कथं कुरूणामृषभो हतो भीष्मश्शिखण्डिना।
कथं रथात् स न्यपतत् पिता मे वासवोपमः॥१॥

कथमासंश्च योधा मे हीना भीष्मेण सञ्जय।
बलिना देवकल्पेन गुर्वर्थ ब्रह्मचारिणा॥२॥

तस्मिन् हते महेष्वासे महाप्राज्ञे महाबले।
महासत्त्वेनरव्याघ्रे किमिवासञ्जनास्तदा॥३॥

आर्ति परामाविशति यथा वदसि मे हतम्।
कुरूणामृषभं वीरम् अकम्प्यं पुरुषर्षभम्\।\।४॥

के तं यान्तमनुप्रेयुः के तस्यासन् पुरोगमाः।
केऽतिष्ठन् के न्यवर्तन्त केऽभ्यवर्तन्त सञ्जय॥५॥

के शूरा राजशार्दूलम् अच्युतं पुरुषर्षभम्।
रथानीकं गाहमानं सहसा पृष्ठतोऽन्वयुः॥६॥

यस्तमोर्क इवापोह्य परसैन्यममित्रहा।
सहस्ररश्मिप्रतिमः परेषां भयमाधत्॥७॥

अकरोदुष्करं कर्म रणे पाण्डवशासनात्।
ग्रसमानमनीकानि य एनं पर्यवारयन्॥८॥

निकृन्तन्तमनीकानि शरदंष्ट्रं मनस्विनम्।
चापव्यात्ताननं घोरम् असिजिह्वं दुरासदम्॥९॥

अत्यन्तं पुरुषव्याघ्रं महासत्त्वं पराजितम्।
पातयामास कौन्तेयः कथं तमजितं युधि॥१०॥

उग्रधन्वानमुग्रेषुं वर्तमानं रथोत्तमे।
परेषामुत्तमाङ्गानि विचिन्वन्तमथेषुभिः॥११॥

पाण्डवानां महत् सैन्यं यं दृष्ट्वात्यन्तमाहवे।
कालाग्निमिव दुर्धर्षं समवेष्टत नित्यशः॥१२॥

परिरक्ष्य च सेनां मे दशरात्रमनीकहा।
जगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम्॥१३॥

यस्स शक्र इवाक्षय्यं वर्षन् शरमयं महत्।
जघान युधि योधानाम् अर्बुदं दशभिर्दिनैः॥१४॥

स शेते निष्टनन् भूमौ वातरुग्ण इव द्रुमः।
मम दुर्मन्त्रितेनासौ यथा नार्हस्सभारतः॥१५॥

कथं शान्तनवं दृष्ट्वा पाण्डवानामनीकिनी।
प्रहर्तुमशकत् तत्र भीष्मं भीमपराक्रमम्॥१६॥

कथं भीष्मेण सङ्ग्रामं अकुर्वन् पाण्डुनन्दनः।

कथं च नाजयद्भीष्मो द्रोणे जीवति सञ्जय॥१७॥

कृपे चानिहिते तत्रभारद्वाजात्मजे तदा।
भीष्मः प्रहरतां श्रेष्ठः कथं स निधनं गतः॥१८॥

कथं चापि महातेजाः पाञ्चाल्येन शिखण्डिना।
भीष्मो विनिहतो युद्धे देवैरपि सुदुस्सहः॥१९॥

यस्स्पर्धति रणे नित्यं जामदग्न्यं महाबलम्।
अजितो जामदग्न्येन शक्रतुल्यपराक्रमम्॥२०॥

तं हतं समरे भीष्मं महान्तमतथोचितम्।
सञ्जयाचक्ष्व मे वीर शमं चाद्य न विद्महे॥२१॥

मामकाः के महेष्वासा न जहुस्सञ्जयाच्युतम्।
दुर्योधनसमादिष्टाः के शूराः पर्यवारयन्॥२२॥

यच्छिखण्डिमुखास्सर्वे पाण्डवा भीष्ममभ्ययुः।
कच्चिन्न कुरवो भीतास् तत्यजुस्सञ्जयाच्युतम्॥२३॥

मौ91र्वीघोषस्तनयित्रुःपृषत्कपृषतो महान्।
धनुर्ह्रादमहाशब्दो महामेघ इवोन्नतः॥२४॥

यदभ्यवर्षत् कौन्तेयान् सहपाञ्चालसृञ्जयान्।
निघ्नन् पररथान् वीरो दानवानिव वज्रभृत्॥२५॥

इष्वस्त्रसागरं घोरं बाहुग्राहं दुरासदम्।

कार्मुकोर्मिणमक्षय्यं ध्वजद्वीपं रथप्लवम्॥२६॥

गदासिमकरावासं हयवेगं गजाचलम्।
पदातिमत्स्यकलिलं शङ्खदुन्दुभिनिस्स्वनम्॥२७॥

हयान् गजान् पदातींश्च रथांश्च तरसा बहून्।
निमज्जयन्तं समरे परवीरान् प्रहारिणः॥२८॥

विदद्यमानं कोपेन तेजसा च परन्तपम्।
के पुरस्तादगच्छन्त रक्षन्तो भीष्ममन्तिके॥२९॥

के रक्षन्नुत्तरं चक्रं वीरा वीरस्य युध्यतः।
वामे चक्रे वर्तमानाः केऽघ्नन् सञ्जय सृञ्जयान्॥३०॥

वेलेव मकरावासं के वीराः पर्यवारयन्।
भीष्मो यदकरोत् कर्म समरे सञ्जयारिहा॥३१॥

दुर्योधनहितार्थाय के तस्य पुरतोऽभवन्।
केऽरक्षन् दक्षिणं चक्रं भीष्मस्यामिततेजसः॥३२॥

पृष्ठतः केऽपरे वीरा उपारक्षन् यतव्रतम्।
अग्रतोऽज्यमनीकेषु केऽभ्यरक्षन् दुरासदम्॥३३॥

पार्श्वतः के ह्यवर्तन्त गच्छन्तो दुर्गमां गतिम्।
समूहे के परान् वीरान् प्रत्ययुध्यन्त सञ्जय॥३४॥

रक्ष्यमाणः कथं वीरैर् गोप्यमानश्चतेन ते।
दुर्जयानामनीकानि विजयेत् तरसा युधि॥३५॥

सर्वलोकेश्वरस्यैव परमस्य प्रजापतेः।
92थं प्रहर्तुमपि ते शेकुस्सञ्जय पाण्डवाः॥३६॥

यस्मिन् द्वीपे समाश्वस्य युध्यन्ति कुरवः परैः।
तं निमग्नं नरव्याघ्रं भीष्मं सञ्जय शंससि॥३७॥

यस्य वीर्यं समाश्रित्य मम पुत्रस्सुमन्दधीः।
न पाण्डवानगणयत् कथं स निहतः परैः॥३८॥

यः पुरा विबुधैस्सेन्द्रैस्साहाय्ये युद्धदुर्मदः।
काङ्क्षितो दानवान् घ्नद्भिः पिता मम महाव्रतः॥३९॥

यस्मिञ्जाते महावीर्ये शन्तनुर्लोकविश्रुतः।
शोकं दैन्यं च दुःखं च प्राजहात् परमास्त्रवित्॥४०॥

प्रोक्तं परायणं तज्ज्ञं स्वधर्मनिरतं शुचिम्।
वेदवेदाङ्गतत्त्वज्ञं कथं शंससि मे हतम्॥४१॥

सर्वास्त्रविनयोपेतं शान्तं दान्तं मनस्विनम्।
हतं शान्तनवं श्रुत्वा मन्ये शेषं बलं हतम्॥४२॥

धर्मादधर्मो बलवान् सम्प्राप्त इति मे मतिः।
यत्र वृद्धं गुरुं हत्वा राज्यमिच्छन्ति पाण्डवाः॥४३॥

जामदग्न्यः पुरा रामस् सर्वास्त्रविदनुत्तमः।

अम्बार्थमुद्यतस्सङ्ख्येभीष्मेण युधि निर्जितः॥४४॥

तमिन्द्रसमकर्माणं ककुदं सर्वधन्विनाम्।
इतं शंससि मे भीष्मं किं नु दुःखमतः परम्॥४५॥

असकृत् क्षत्रियव्रातास्सङ्ख्ये येन विनिर्जिताः।
जामदग्न्येन रामेण परवीरनिघातिना॥४६॥

न हतो यो महाबुद्धिस् स हतोऽद्य शिखण्डिना॥४६॥

तस्मान्नूनं महावीर्याद् भार्गवाद्युद्धदुर्मदात्।
तेजोवीर्यबलोपेतश् शिखण्डी द्रुपदात्मजः॥४७॥

यश्शूरं कृतिनं युद्धे सर्वशस्त्रभृतां वरम्।
परमास्त्रविदं वीरं जघान भरतर्षभम्॥४८॥

के वीरास्तममित्रघ्नम् अन्वयुश्शस्त्रसंसदि।
शंस मे तद्यथा चासीद् युद्धं भीष्मस्य पाण्डवैः॥४९॥

यो93षेव हतवीरा मे सेना पुत्रस्य सञ्जय।
अगोपमिव चोद्धान्तं गोकुलं तद्वलं मम॥५०॥

पौरुषं सर्वलोकेषु परं यस्य महाहवे।
पराजिते च वस्तस्मिन् कथमासीन्मनस्तदा॥५१॥

जीवितेऽप्यद्य सामर्थ्यं किमिवास्मासु सञ्जय।
घातयित्वा महावीर्यं पितरं लोकधार्मिकम्॥५२॥

अगाधे सलिले मना नौर्भ्रष्टा दूरचारिणः।
भी94ष्मे हते भृशं तद्वन् मन्ये शोचन्ति पुत्रकाः॥५३॥

अश्मसारमयं नूनं हृदयं मम सञ्जय।
95च्छ्रुत्वा पुरुषव्याघ्रं हतं भीष्मं न दीर्यते॥५४॥

यस्मिन्नस्त्रं च मेधा च नीतिश्च भरतर्षभे।
अप्रमेयाणि दुर्धर्षे कथं स निहतो युधि॥५५॥

न चास्त्रेण न शौर्येण तपसा मेधया न च।
न धृत्या न पुनस्त्यागैर् मृत्योः कश्चिद्विमुच्यते॥५६॥

कालो नूनं महावीर्यस् सर्वलोकदुरत्ययः।
यत्र शान्तनवं भीष्मं हतं शंससि सञ्जय॥५७॥

पु96त्रशोकाभिसंतप्तो महद्दुःखमचिन्तयन्।
आशंसे शर्म पुत्राणां भीष्माच्छन्तनुनन्दनात्॥५८॥

यदादित्यमिवापश्यत् पतितं भुवि सञ्जय।
दुर्योधनश्शान्तनवं किं तदा प्रत्यपद्यत॥५९॥

नाहं स्वेषां परेषां वा बुद्ध्या सञ्जय चिन्तयन्।
शेषं किश्चित् प्रपश्यामि प्रत्यनीके महीक्षिताम्॥६०॥

दारुणः क्षत्रधर्मोऽयम् ऋषिभिस्सम्प्रदर्शितः।

यत्र शान्तनवं हत्वा राज्यमिच्छन्ति पाण्डवाः॥६१॥

वयं वा राज्यमिच्छामो घातयित्वा यतव्रतम्।
क्षत्रधर्मे स्थिताः पार्था नापराध्यन्ति पुत्रकाः॥६२॥

एतदार्येण कर्तव्यं कृच्छ्रास्वापत्सु सञ्जय।
पराक्रमः परं शक्त्यास च तस्मिन् प्रतिष्ठितः॥ ६३॥

अनीकानि विनिघ्नन्तं ह्रीमन्तमपराजितम्।
कथं शान्तनवं तातं पाण्डुपुत्रा ह्यवारयन्॥६४॥

कथं युक्तान्यनीकानि कथं युद्धं महात्मभिः।
कथं वा निहतो भीष्मः पिता सञ्जय मे परैः॥६५॥

दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः।
दुःशासनश्च कितवो हते भीष्मे किमब्रुवन्॥६६॥

97रमास्त्रविदं शूरं भीष्मं शान्तनवं युधि।
के वीरास्तममित्रन्नम् अन्वयुश्शस्त्रसंसदि॥६७॥

शंस मे तद्यथा चासीद् युद्धं भीष्मस्य पाण्डवैः॥६८॥

यां शरीररुपस्तीर्णाांवरवारणवाजिनाम्।
शरशक्तिगदाखड्गप्रासतोमरसङ्कुलाम्॥६९.॥

प्राविशन् कितवा मन्दास्तां सभां युद्धदुर्गमाम्॥६९॥

प्राणद्यूते प्रतिभये केऽदीव्यन्त नरर्षभाः।

केऽजयन् के जितास्तत्र कृतलक्षा निपातिताः॥७०॥

अन्ये भीष्माच्छान्तनवात् तन्ममाचक्ष्व सञ्जय॥७१॥

न हि मे शान्तिरस्तीह श्रुत्वा देवव्रतं हतम्।
तं वीरं भीमकर्माणं भीष्ममाहवशोभिनम्॥७२॥

आर्ति मे महतीं व्यूढां हृदये पुत्रकारिताम्।
त्वं सिञ्चन् सर्पिषेवाग्निम् उद्दीपयसि सञ्जय॥७३.॥

महान्तं भारमुद्यम्य विश्रुतं सार्वलौकिकम्।
दृष्ट्वा विनिहतं भीष्मं मन्ये शोचन्ति पुत्रकाः॥७४॥

तथा प्रस्तानि दुःखानि दुर्योधनकृतान्यहम्।
तस्मान्मे सर्वमाचक्ष्व यद्वृत्तं तत्र सञ्जय॥७५॥

सङ्ग्रामे पृथिवीशानां मन्दस्याबुद्धिसम्भवम्।
अपनीतं सुनीतं वा तन्ममाचक्ष्व पृच्छतः॥७६॥

यत् कृतं तत्र सङ्ग्रामे भीष्मेण जयमिच्छता।
तेजोयुक्तं कृतास्त्रेण ब्रूहि तच्चाप्यशेषतः॥७७॥

यथा तच्चाभवद्युद्धं कुरुपाण्डवसेनयोः।
क्रमेण येन यस्मिंश्च काले यच्च यथा च तत्॥७८॥

इति श्रीमहाभारते शतसहस्रिकायांसंहितायां वैयासिक्यांभीष्मपर्वणि चतुर्दशोऽध्यायः ॥ १४ ॥
॥ ६३ ॥ भगवद्गीतापर्वणि द्वितीयोऽध्यायः ॥ २ ॥
[ अस्मिन्नध्याये ७८ श्लोकाः]

\।\। पञ्चदशोऽध्यायः \।\।

<MISSING_FIG href="../books_images/U-IMG-1704800470Screenshot2023-12-07155812.png"/>

दुर्योधनेन दुःशासनं प्रति भीष्मरक्षणाज्ञापनम्॥ १ ॥ कुरुपाण्डवसेनावर्णनम्॥ २ ॥

_______

सञ्जयः—

त्वद्युक्तोऽयमनुप्रश्नो महाराज यथार्हसि।
न हि दुर्योधने दोषम् इममाधातुमर्हसि॥१॥

य आत्मनो दुश्चरिताद् अशुभं प्राप्नुयान्नरः।
एनसा न स दैवं हि कालं वा गन्तुमर्हति॥२॥

महाराज मनुष्येषु निन्द्यंयस्सर्वमाचरेत्।
स वध्यस्सर्वलोकस्य निन्दितानि समाचरन्॥३॥

निकारो निकृतिप्रज्ञैः पाण्डवैस्त्वत्प्रतीक्षया।
अनुभूतस्सहामात्यैः क्षान्तश्च सुचिरं वने॥४॥

हयानां च गजानां च रथानां चामितौजसाम्।
प्रत्यक्षं यन्मया दृष्टं दृष्टं योगबलेन च॥५॥

शृणु तत् पृथिवीपाल मा स्म शोके मनः कृथाः।
दृष्टमेतत् पुरा भावि नूनमेतन्नराधिप॥६॥

नमस्कृत्वा प्रवक्ष्यामि पाराशर्याय धीमते।
यस्य प्रसादात् प्राप्तं मे दिव्यं ज्ञानमनुत्तमम्॥७॥

दृष्टिश्चातीन्द्रिया राजन् दूराच्छ्रवणमेव च।
परचित्तस्य विज्ञानम् अतीतानागतस्य च॥८॥

यथोपपत्तिविज्ञानम् आकाशे च गतिं विना।
शस्त्रैरवध्यो युद्धे च वरदानान्महात्मनः॥९.॥

शृणु मे विस्तरेणेदं विचित्रंपरमाद्भुतम्।
भारतानां महद्युद्धं यथा तद्रोमहर्षणम्॥१०॥

स्वेष्वनीकेषु यत्तेषु व्यूढेषु च विधानतः।
दुर्योधनो महाराज दुःशासनमथाब्रवीत्॥११॥

दुर्योधनः—

दुःशासन रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः।
अनीकानि च सर्वाणि शीघ्रं त्वमनुचोदय॥१२॥

अयं मां समनुप्राप्तो वर्षपूगाभिचिन्तितः।
पाण्डवानां ससैन्यानां कुरूणां च समागमः॥१३॥

नातः कार्यतरं मन्ये रणे भीष्मस्य रक्षणात्।
हन्याद्गुप्तो ह्यसौ पार्थान् सोमकांश्च ससृञ्जयान्॥१४॥

अब्रवीच्च विशुद्धात्मा नाहं हन्यां शिखण्डिनम्।
श्रूयतेस्त्री पूर्वं तस्माद्वर्ज्योरणे मम॥१५॥

तस्माद्भीष्मो रक्षितव्यो विशेषेणेति मे मतिः।
शिखण्डिनो वधे यत्तास् सर्वे तिष्ठन्तु मामकाः॥ १६॥

तथा प्राच्याः प्रतीच्याश्च दाक्षिणात्योत्तरापथाः।
सर्वशस्त्रेषु कुशलाश् ते रक्षन्तु पितामहम्॥१७॥

अरक्ष्यमाणं हि वृको हन्यात् सिंहं महाबलम्।
मा सिंहं जम्बुकेनेव घातयेम शिखण्डिना॥१८॥

वामे चक्रे युधामन्युर् उत्तमौजाश्च दक्षिणे।
गोप्तारौ फाल्गुनस्यास्तां फल्गुनोऽपि शिखण्डिनः॥१९॥

संरक्ष्यमाणः पार्थेन भीष्मेण च विवर्जितः।
यथा न हन्याद्गाङ्गेयं दुःशासन तथा कुरु॥२०॥

सञ्जयः—

ततो रजन्यां व्युष्टायां शब्दस्समभवन्महान्।
क्रोशतां भूमिपालानां युज्यतां युज्यतामिति॥२१॥

शङ्खदुन्दुभिनिर्घोषैस् सिंहनादरवैरपि।
हयहेषितशब्दैश्च रथनेमिस्वनैस्तथा॥२२॥

गजानां बृंहितैश्चैव योधानां चापि गर्जताम्।
क्ष्वेलितास्फोटितोद्धुष्टैस् तुमुलस्सर्वतोऽभवत्॥२३॥

उदतिष्ठन्महाराज सर्वं युक्तमशेषतः।
सू98र्योदये महत् सैन्यं कुरुपाण्डवसेनयोः॥२४॥

तव राजेन्द्र पुत्राणां पाण्डवानां तथैव च।

दुष्प्रधृष्याणि चास्त्राणि सचापकवचानि च॥२५॥

ततः प्रकाशे सैन्यानि समदृश्यन्त भारत।
त्वदीयानां परेषां च शस्त्रवन्ति महान्ति च॥२६॥

तत्रनागा रथाश्चैव जाम्बूनदपरिष्कृताः।
भ्राजमाना ह्यदृश्यन्त मेघा इव सविद्युतः॥२७॥

रथानीकान्यदृश्यन्त नगराणीव भूरिशः।
अतीव शुशुभे तत्रपिता ते पूर्णचन्द्रवत्॥२८॥

धनुर्भिर्ऋष्टिभिः खङ्गैर् गदाभिश्शक्तितोमरैः।
योधाः प्रहरणैश्शुभ्रैस् तेष्वनीकेष्ववस्थिताः॥२९॥

गजाःपदातिरथिनस् तुरगाश्च विशां पते।
व्यतिष्ठन् दारुणाकाराश्शतशोऽथ सहस्रशः॥३०॥

ध्वजा बहुविधाकारा प्रादृश्यन्त समुच्छ्रिताः।
स्वेषां चैव परेषां च द्युतिमन्तस्सहस्रशः॥३१॥

मणिकाञ्चनचित्राङ्गाज्वलिता इव पावकाः।
अर्चिष्मन्तो व्यरोचन्त गजारोहास्सहस्रशः॥३२॥

महेन्द्रकेतवश्शुभ्रा महेन्द्रसदनेष्विव।
सन्नद्धास्तेषु ते वीरा ददृशुर्युद्धकाङ्क्षिणः॥३३॥

उद्यतैरायुधैश्चित्रैर् दीप्यमानास्समन्ततः।
बद्धगोधाङ्गुलित्राणास् तदा बद्धकलापिनः॥३४॥

ऋषभा इव गर्जन्तो नृपास्सेनामुखे बभुः॥३४॥

शकुनिस्सौबलश्शल्यस् सैन्धवोऽपि जयद्रथः।
विन्दानुविन्दावावन्त्यौ काम्भोजश्च सुदक्षिणः॥३५॥

श्रुतायुश्चाथ कालिङ्गो जयत्सेनश्च पार्थिवः।
बृहद्वलश्चकौशल्यः कृतवर्मा च सात्त्वतः॥३६॥

दशैते पुरुषव्याघ्राश् शूराः परिघबाहवः।
अक्षौहिणीनां पतयो यज्वानो भूरिदक्षिणाः॥३७॥

एते चान्ये च बहवो दुर्योधनवशानुगाः।
राजानो राजपुत्राश्च नीतिमन्तो महारथाः॥३८॥

सन्नद्धास्समदृश्यन्त स्वेष्वनीकेष्ववस्थिताः।
91द्धकृष्णाजिनास्सर्वे ध्वजिनो मुञ्जधारिणः॥३९॥

सृष्टा दुर्योधनस्यार्थे ब्रह्मलोकाय दीक्षिताः।
समृद्धा दश वाहिन्यः परिगृह्य व्यवस्थिताः॥४०॥

99कादशी धार्तराष्ट्री कौरवाणां महाचमूः।
अग्रतस्सर्वसैन्यानां यत्र शान्तनवोऽग्रणीः॥४१॥

श्वेतोष्णीषं श्वेतहयं श्वेतवर्माणमच्युतम्।
अपश्यन्त महाराज भीष्मं चन्द्रमिवोदितम्॥४२॥

हेमतालध्वजं भीष्मं राजते स्यन्दने स्थितम्।
श्वेताभ्र इव तीक्ष्णांशुं ददृशुः कुरुपाण्डवाः॥४३॥

दृ91ष्ट्वा चमूमुखे भीष्मं समकम्पन्त पाण्डवाः।
सृञ्जयाश्च महेष्वासा धृष्टद्युम्नपुरोगमाः॥४४॥

जृम्भमाणं महासिंहं दृष्ट्वा क्षुद्रमृगा यथा।
धृष्टद्युम्नमुखास्सर्वे समुद्विविजिरे मुहुः॥४५ ॥

एकादशैताश्श्रीजुष्टा वाहिन्यस्तव पार्थिव।
पाण्डवानां तथा सप्त महापुरुषमानिनाम्॥४६॥

उद्वृत्तमकरावर्तौमहाग्राहसमाकुलौ।
युगान्ते स100मवेतौ द्वौ सागराविव संयुतौ॥४७॥

नैव नस्तादृशो राजन् दृष्टपूर्वो न च श्रुतः।
अनीकानां समेतानां कौरवाणां तथाविधिः॥४८॥

इति श्रीमहाभारते शतसहस्रिकायांसंहितायां वैयासिक्यां
भीष्मपर्वणि पञ्चदशोऽध्यायः ॥ १५ ॥
॥ ६३ ॥ भगवद्गीतापर्वणि तृतीयोऽध्यायः ॥ ३ ॥
[ अस्मिन्नध्याये ४८॥ श्लोकाः]
<MISSING_FIG href="../books_images/U-IMG-1704806786Screenshot2023-12-07155820.png"/>

॥ षोडशोऽध्यायः ॥

<MISSING_FIG href="../books_images/U-IMG-1704807723Screenshot2023-12-08194923.png"/>

युद्धाय कुरुसेनानिर्याणम्॥

_________

सञ्जयः—

यथा च भगवान् व्यासः कृष्णद्वैपायनोऽब्रवीत्।
तथैव सहितास्सर्वे समाजग्मुर्महाग्रहाः॥१॥

मघाविषयगस्सोमस् तद्दिनं प्रत्यपद्यत।
दीप्यमानाश्च सम्पेतुर् दिवि सप्त महाग्रहाः॥२॥

द्विधाभूत इवादित्य उदये प्रत्यदृश्यत।
ज्वलन्त्या शिखया राजन् भानुमानुदितो दिवि॥३॥

ववाशिरे चदीप्तायां दिशि गोमायुवायसाः।
काङ्क्षमाणाश्शरीराणि मांसशोणितभोजनाः॥४॥

अहन्यहनि पार्थानां वृद्धः कुरुपितामहः।
भरद्वाजात्मजश्चैव प्रातरुत्थाय दंसितौ॥५॥

जयोऽस्तु पाण्डुपुत्राणाम् इत्यूचतुररिन्दमौ।
युयुधाते तवार्थाय यथा स समयः कृतः॥६॥

सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव।
समानीय महीपाला इदं वचनमब्रवीत्॥७॥

भीष्मः—

इदं वः क्षत्रिया द्वारं स्वर्गायापावृतं महत्।

गच्छध्वं तेन शक्रस्य ब्रह्मणश्च सलोकताम्॥८॥

एष वश्शाश्वतः पन्थाः पूर्वैः पूर्वतरं गताः।
सम्भावयत चात्मानम् अव्यग्रमनसो युधि॥९॥

नाभागोऽथ ययातिश्च मान्धाता नहुषो नृगः।
सं101सिद्धाः परमं स्थानं गताः कर्मभिरीदृशैः॥१०॥

अधर्मःक्षत्रियस्यैष यद्व्याधिमरणं गृहे।
युद्धे तु निधनं याति सोऽस्य धर्मस्सनातनः॥११॥

सञ्जय—

एवमुक्ता महीपाला भीष्मेण भरतर्षभ।
निर्ययुस्तान्यनीकानि शोभयन्तो रथोत्तमाः॥१२॥

स तु वैकर्तनः कर्णस् सामात्यस्सह बन्धुभिः।
न्यासितस्समरे शस्त्रं भीष्मेण भरतर्षभ॥१३॥

व्यपेतकर्णाः पुत्रास्ते राजानश्चैव तावकाः।
निर्ययुस्सिंहनादेन नादयन्तो दिशो दश॥१४॥

श्वेतछत्रैः पताकाभिर् ध्वजवारणवाजिभिः।
तान्यनीकान्यशोभन्त रथैश्च सपदातिभिः॥१५॥

भेरीपणवशङ्खैश्चदुन्दुभीनां च निःस्वनैः
रथनेमिनिनादैश्च बभूवालोलिता मही॥१६॥

काञ्चनाङ्गदकेयूरैः कार्मुकैश्च महारथाः।
भ्राजमाना व्यरोचन्त साग्नयः पर्वता इव॥१७॥

तालेन महता भीष्मो पञ्चतालेन केतुना।
विमलादित्यसङ्काशस् तस्थौ कुरुचमूमुखे॥१८॥

ये त्वदीया महात्मानो राजानो भरतर्षभ।
यथादेशमवर्तन्त राज्ञश्शान्तनवस्य ते॥१९॥

102 तु दुर्योधनस्सैन्ये सहितस्सर्वमागधैः।
ययौ मातङ्गराजेन रार्जोहण पताकिना॥२०॥

103द्मवर्णस्त्वनीकानां सर्वेषामग्रतस्थितः।
अश्वत्थामा ययौ यत्तस् सिंहलाङ्गूलकेतुना॥२१॥

श्रुतायुश्चित्रसेनश्चपुरुमित्रो विविंशतिः।
शल्यो भूरिश्रवाश्चैव विकर्णश्च महारथः॥२२॥

एते सप्त महेष्वासा द्रोणपुत्रपुरोगमाः।
स्यन्दनैर्वीरकर्माणो भीष्मस्यासन् पुरोगमाः॥२३॥

तेषामपि महोत्सेधाश् शोभयन्तो रथोत्तमान्।
भ्राजमाना व्यदृश्यन्त जाम्बूनदमया ध्वजाः॥२४॥

जाम्बूनदमयी वेदिः कमण्डलुविभूषिता।

केतुराचार्यमुख्यस्य द्रोणस्य धनुषा सह॥२५॥

अनेकशतसाहस्रम् अनीकमनुकर्षतः।
महान् दुर्योधनस्यासीन् नागो मणिमयो ध्वजः॥२६॥

तस्य पौरवकालिङ्गाः काम्भोजाश्च सुदक्षिणाः।
क्षेमधन्वा च शल्यश्च तस्थुः प्रमुखतो रथाः॥२७॥

स्यन्दनेन महार्हेण केतुना वृषभेण च।
प्रकर्षन्निव सेनाग्रंमागधस्य कृपो ययौ॥२८॥

तदङ्गपतिना गुप्तं कृपेण च मनस्विना।
शारदाभ्रप्रतीकाशं प्राच्यानामभवद्वलम्॥२९॥

अनीकप्रमुखे तिष्ठन् वराहेण महायशाः।
शुशुभे केतुमुख्येन राजतेन जयद्रथः॥३०॥

शतं रथसहस्राणां तस्यासन् वशवर्तिनः।
अष्टौ दन्तिसहस्राणि सादिनामयुतानि षट्॥३१॥

तत्सिन्धुपतिना राजन् पालितं ध्वजिनीमुखम्।
अनन्तरथनामाश्वम् अशोभत महद्वलम्॥३२॥

षष्ट्या रथसहस्राणां नागानामयुतेन च।
पतिस्सर्वकलिङ्गानां ययौ केतुमता सह॥३३॥

तस्य पर्वतसङ्काशा व्यरोचन्त महागजाः।
यन्त्रतोमरतूणीरैःपताकाभिरलङ्कृताः॥३४॥

शुशुभे केतुमुख्येन पावकेन कलिङ्गराट्।
श्वेतच्छत्रेण निष्केण चामरव्यजनेन च॥३५॥

के104तुमानपि मातङ्गं विचित्रपरमाङ्कुशम्।
आस्थितस्समरे राजन् मेघस्थ इव भानुमान्॥३६॥

तेजसा दीप्यमानस्तु वारणोत्तममास्थितः।
भगदत्तो ययौ राजा यथा वज्रधरस्तथा॥३७॥

गजस्कन्धगतावास्तां भगदत्तेन सम्मितौ
विन्दानुविन्दावावन्त्यौ केतुमन्तमनुव्रतौ॥३८॥

105 रथानीकवान् व्यूहो हस्त्यङ्गोत्तमशीर्षवान्।
वाजिपक्षःपदात्युग्रः प्रहसन् सर्वतोमुखः॥३९॥

द्रोणेन विहितो राजन् राज्ञा शान्तनवेन च।
तथैवाचार्यपुत्रेण बाह्लीकेन कृपेण च106॥४०॥

इति श्रीमहाभारते शतसहस्रिकायांसंहितायां वैयासिक्यां
भीष्मपर्वणि षोडशोऽध्यायः ॥ १६ ॥
॥ ६३ ॥ भगवद्गीतापर्वणि चतुर्थोऽध्यायः ॥ ४ ॥
[ अस्मिन्नाध्याये ४० श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1704869591Screenshot2023-12-07155820.png"/>

॥ सप्तदशोऽध्यायः ॥
<MISSING_FIG href="../books_images/U-IMG-1706092306Screenshot2023-12-08194923.png"/>

कुरुसेनावर्णनम्॥

__________

सज्जयः—

ततो मुहूर्त तुमुलश् शब्दो हृदयकम्पनः।
अश्रूयत महाराज योधानां प्रयुयुत्सताम्॥१॥

शङ्खदुन्दुभिनिर्घोषैर् वारणानां च बृंहितैः।
नेमिघोषै स्थानां च दीर्यतीव वसुन्धरा॥२॥

हयानां हेषमाणानां योधानां चैव गर्जताम्।
क्षणेन खं ततो भूमिश् शब्देनापूरितं तदा॥३॥

पुत्राणां तव दुर्धर्ष पाण्डवानां तथैव च।
समकम्पन्त सैन्यानि परस्परसमागमे॥४॥

तत्र नागा रथाश्चैव जाम्बूनदविभूषिताः।
भ्राजमाना व्यदृश्यन्त मेघा इव सविद्युतः॥५॥

ध्वजा बहुविधाकारास् तावकानां नराधिप।
काञ्चनाङ्गदिनो रेजुर् ज्वलिता इव पावकाः॥६॥

स्वेषां चैव परेषां च समदृश्यन्त भारत।
महेन्द्र केतवश्शुभ्रा महेन्द्रसदनेष्विव॥७॥

काञ्चनैः कवचैर्वीरा ज्वलनार्कसमप्रभैः।

सन्नद्धास्समदृश्यन्त ग्रहाःप्रज्वलिता इव॥८॥

कुरुयोधवरा राजन् विचित्रायुधकार्मुकाः।
107ज्ज्वलैरायुधैश्चित्रैस् तलबद्धाः पताकिनः॥९॥

108षभाक्षा महेष्वासाश् चमूमुखगता मुहुः।
पृष्ठगोपास्तु भीष्मस्य पुत्रास्तव नराधिप॥१०॥

दुश्शासनो दुर्विषहो दुर्मुखो दुष्षहस्तथा।
विविंशतिश्चित्रसेनो विकर्णश्च महाबलः॥११॥

सत्यव्रतः पुरुमित्रो जयो भूरिश्रवाश्शलः।
रथा विंशतिसाहस्रास् तथैषामनुयायिनः॥१२॥

अभीषहाश्शूरसेनाश् शिवयोऽथ वसातयः।
साल्वा मत्स्यास्तथाम्बष्ठास् त्रिगर्ताःकेकयैस्सह॥१३॥

सौ109वीराः कितवाः प्राच्याः प्रतीच्योदीच्यपार्वताः।
द्वादशैते जनपदास् सर्वे शूरास्तनुत्यजः॥१४॥

सरथा रथवंशेन तेऽभ्यरक्षन् पितामहम्।
अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम्॥१५॥

मागधेयेन नृपतिस् तथानीकेन चाभ्ययात्॥१५॥

रथानां चक्ररक्षाश्च पादरक्षाश्च दन्तिनाम्।

बभूवुर् वाहिनीमध्ये शतानामयुतानि षट्॥१६॥

पादाताश्च ततोऽगच्छन् धनुश्चर्मासिपाणयः।
अनेकशतसाहस्राः असङ्ख्याः प्रासयोधिनः॥१७॥

अक्षौहिण्यो दशैका च तव पुत्रस्य भारत।
अदृश्यत महाराज गङ्गेव यमुनान्तरे॥१८॥

इति श्रीमहाभारते शतसहस्रिकायांसंहितायां वैयासिक्यां
भीष्मपर्वणि सप्तदशोऽध्यायः॥ १७ ॥
॥ ६३ ॥ भगवद्गीतापर्वणि पञ्चमोऽध्यायः ॥ ५ ॥
[ अस्मिन्नध्याये १८ ॥ श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1706093259Screenshot2023-12-07155820.png"/>

॥ अष्टादशोऽध्यायः ॥
<MISSING_FIG href="../books_images/U-IMG-1706093315Screenshot2023-12-07155812.png"/>

युद्धाय पाण्डवसेनानिर्याणम्॥

धृतराष्ट्रः—

अक्षौहिणीं दशैकां च व्यूढां दृष्ट्वा युधिष्ठिरः।
कथमल्पेन सैन्येन प्रतिव्यूहत पाण्डवः॥१॥

यो वेद मानुषं व्यूहं दैवं गान्धर्वमासुरम्।
कथं स भीष्मं कौन्तेयः प्रतिव्यूहत पाण्डवः॥२॥

सञ्जयः—

धार्तराष्ट्राण्यनीकानि दृष्ट्वा व्यूढानि पाण्डवः।

अभ्यभाषत धर्मात्मा धर्मराजो धनञ्जयम्॥३॥

युधिष्ठिरः—

महर्षेर्वचनात् तात वेदयन्ति बृहस्पतेः।
सं110हतान् योधयेदल्पान् कामं विस्तारयेद्वहून्॥४॥

सूचीमुखमनीकं स्याद् अल्पानां बहुभिस्सह।
अस्माकं च तथा सैन्यम् अल्पीयस्सुतरां परैः॥५॥

एतद्वचनमाज्ञाय सहर्षेर्व्यूह पाण्डव॥५॥

सञ्जयः—

तच्छ्रुत्वा धर्मराजस्य प्रत्यभाषत फल्गुनः॥६॥

अर्जुनः—

एष व्यूहामि ते व्यूहं राजन् परमदुर्जयम्।
अवलं नाम वज्राख्यं विहितं वज्रपाणिना॥७॥

यस्स वात इवोद्धूतस् समरे दुस्सहः परैः।
धृष्टद्युम्नोऽग्रतो यातु परसैन्यानि भीषयन्॥८॥

तेजांसि पार्थिवेन्द्राणां स मृद्रन पुरुषर्षभान्।
अग्रेण यास्यति स नो युद्धमार्गविचक्षणः॥९॥

सेनाप्रणेता योऽस्माकं देवानामिव पावकिः।
यं दृष्ट्वा पार्थिवास्सर्वे दुर्योधनपुरोगमाः ॥१०॥

विवर्तिष्यन्ति संत्रस्तास् सिंहत्रस्ता मृगा इव॥१०॥

एतं सर्वे तु यास्याम प्रकाममकुतोभयाः।
भीमसेनेन सहितं विष्णुनेव शतक्रतुम्॥११॥

न हि सोऽस्ति पुमाल्ँलोके यस्सङ्क्रुद्धं वृकोदरम्।
दृष्ट्वा ह्यत्युप्रकर्माणं विषहेत नरर्षभम्॥१२॥

भीमसेनो गदां बिभ्रद् वज्रसारमयीं दृढाम्।
चरन् वेगेन महता समुद्रमपि शोषयेत्॥१३॥

केकया धृष्टकेतुश्च चेकितानश्च वीर्यवान्।
एते गच्छन्तु सामात्याः प्रेक्षतस्ते जनाधिप॥१४॥

धृतराष्ट्रस्य दायादाः प्रेक्षकास्ते जना इव॥१५॥

सञ्जयः—

ब्रु111वाणं तु तथा पार्थ सर्वसैन्यानि भारत।
अपूजयंस्तदा वाग्भिर् अनुकूलाभिराहवे॥१६॥

एवमुक्त्वा महाबाहुस् तथा चक्रे धनञ्जयः।
व्यूह्य तानि बलान्याशु प्रययौ फल्गुनस्तथा॥१७॥

सम्प्रयातान् कुरून् दृष्ट्वा पाण्डवानां महाचमूः।
गङ्गेव पूर्णा स्तिमिता स्पन्दमाना व्यदृश्यत॥१८॥

भीमसेनोऽग्रणीस्तेषां धृष्टद्युम्नश्च वीर्यवान्।
नकुलस्सहदेवश्च युयुधानश्च सात्यकिः॥१९॥

बिभ्रन् गदां भीमसेनस् सर्वसारमयीं दृढाम्।
समुद्यम्य ततः पश्चात् प्रायादक्षौहिणीवृतः॥२०॥

भ्रातृभिस्सह पुत्रैश्च सोऽभ्यरक्षत पृष्ठतः॥२०॥

चक्ररक्षौ तु भीमस्य माद्रीपुत्रौ महाद्युती।
द्रौपदेयास्ससौभद्राः पृष्ठगोपास्तरस्विनः॥२१॥

धृष्टद्युम्नस्तु पाञ्चाल्यस् तेषां गोप्ता महारथः।
सहितः पृतनाशूरै रथमुख्यैः प्रभद्रकैः॥२२॥

शिखण्डी च ततः पश्चाद् अर्जुनेनाभिरक्षितः।
यत्तो भीष्मविनाशाय प्रययौ भरतर्षभ॥२३॥

पृष्ठगोपोऽर्जुनस्यासीद् युयुधानो महाबलः।
चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ॥२४॥

राजा तु मध्यमानीके कुन्तीपुत्रो युधिष्ठिरः।
बृहद्भिः कुञ्जरैर्मत्तैश् चलद्भिरचलैरिव॥२५॥

अक्षौहिण्या च पाञ्चाल्यो यज्ञसेनो महामनाः।
भ्रातृभिस्सह पुत्रैश्च सोऽभ्यरक्षद्युधिष्ठिरम्॥२६॥

विराटस्सह पुत्रैश्च पाण्डवार्थे पराक्रमी।
तेषामादित्यचन्द्राभाः कनकोत्तमभूषणाः॥२७॥

नानाचिह्नधरा राजन् रथेष्वासन् महाध्वजाः॥२८॥

112मुत्सार्य ततः पश्चाद् धृष्टद्युम्नो महारथः।
भ्रातृभिस्सहपुत्रैश्च सोऽभ्यरक्षद्युधिष्ठिरम्॥२९॥

त्वदीयानां परेषां च रथेषु विपुलान् ध्वजान्।
अभिभूयार्जुनस्यैको ध्वजस्तस्थौ महाकपिः॥३०॥

पदातयस्ततोऽगच्छन् असिशक्त्यृष्टिपाणयः।
अनेकशतसाहस्रा भीमसेनस्य रक्षिणः॥३१॥

वारणा दशसाहस्राःप्रभिन्नकरटामुखाः।
शूरा हेममयैर्जालैर् दीप्यमाना इवाचलाः॥३२॥

113घण्टा हेमकक्ष्याभिः पताकाभिरलङ्कृताः।
क्षरन्त इव जीमूता मदान्धाः पद्मगन्धिनः॥३३॥

राजानमन्वयुः पश्चाज्जीमूता इव वार्षिकाः॥ ३३॥

भीमसेनो गदां भीमां प्रकर्षन् परिघोपमाम्।
प्राकर्षत महत् सैन्यं दुराधर्षो महामनाः॥३४॥

तमर्कमिव दुष्प्रेक्ष्यं तपन्तं रश्मिमालिनम्।
न शेकुस्सर्वतो योधाः प्रतिवीक्षितुमन्तिके॥३५॥

वज्रोनाम महाव्यूहोनिर्भयस्सर्वतोमुखः।
चापविद्युद्धजो घोरो गुप्तो गाण्डीवधन्वना॥३६॥

अभ्यतिष्ठन् प्रतिव्यूह्य पाण्डवानां तु वाहिनीम्।
अजेया मानुषे लोके पाण्डवैरभिरक्षिताः॥३७॥

संध्यां तिष्ठत्सु सैन्येषु सूर्यस्योदयनं प्रति।
प्रववौ पृष्ठतो वायुर् अनभ्रे स्तनयित्नुमान्॥३८॥

विष्वग्वाताश्च विववुर् नीचैश्शर्करबर्हिणः।
रजोश्चोद्धूयत महत् तमसाच्छादयञ् जगत्॥३९॥

पपात महती चोल्का प्राङ्मुखी भरतर्षभ।
उद्यन्तं सूर्यमाहत्य व्यशीर्यत महास्वना॥४०॥

अथ सज्जीयमानेषु सैन्येषु भरतर्षभ।
निष्प्रभोऽभ्युदितस्सूर्यस् सघोषा भूश्चचाल ह॥४१॥

व्यशीर्यत सनादा भूस् तदानीं भरतर्षभ।
निर्घाता बहवो राजन् दिक्षु सर्वासु चाभवन्॥४२॥

प्रादुरासीद्रजस्तीव्रं न प्राज्ञायत किञ्चन॥४३॥

ध्वजानां धूयमानानां सहसा मातरिश्वना।
किङ्किणीजालबद्धानां काञ्चनस्रग्विणां तथा॥४४॥

महतां सपताकानाम् आदित्यसमतेजसाम्।
सर्वं झणझणीभूतम् आसीत् तालवनेष्विव॥४५॥

एवं ते पुरुषव्याघ्राः पाण्डवा युद्धनन्दिनः।
व्यवस्थिताः प्रतिव्यूह्य तव पुत्रस्य वाहिनीम्॥४६॥

प्रसन्त इव मज्जानो योधानां भरतर्षभ
तो भीमसेनं गदापाणिमवस्थितम्\।\।४७॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि अष्टादशोऽध्यायः ॥ १८ ॥
॥ ६३ ॥ भगवद्गीतापर्वणि षष्टोऽध्यायः ॥ ६ ॥
[ अस्मिन्नध्याये ४७ श्लोकाः]
<MISSING_FIG href="../books_images/U-IMG-1706162381Screenshot2023-12-07155820.png"/>

\।\। एकोनविंशोऽध्यायः ॥
<MISSING_FIG href="../books_images/U-IMG-1706162544Screenshot2023-12-08194923.png"/>

कुरुसेनागमनप्रकारवर्णनम्॥

______

धृतराष्ट्रः—

सूर्योदये सञ्जय के तु पूर्वं
युयुत्सवो मृष्यमाणा इवासन्।
मामका वा भीष्मनीतास्समीके
पाण्डवा वा भीमनीतास्तदानीम्॥१॥

केषां जघन्यौ सोमसूर्यौ सवायू
केषां सेनां श्वापदा व्याभषन्त।
केषां यूनां मुखवर्णाः प्रसन्नास्
सर्वं ह्येतद्ब्रूहि तत्त्वं यथावत्॥२॥

सज्जयः—

उभेसेने तुल्यमेवोपयाते
उभे व्यूहे युक्तरूपे नरेन्द्र।
उभे चित्रे वनराजिप्रकाशे
तथै114वोभे नागरथाश्वपूर्णे॥३॥

उभे सेने बृहत्यौ तुल्यरूपे
तथैवोभे भारत दुर्विषह्ये।
तथैवोभे स्वर्गजयोपसृष्टे
तथा व्यूढे सत्पुरुषार्यजुष्टे॥४॥

पश्चान्मुखाः कुरवो धार्तराष्ट्राः
पश्चात् पार्थाःप्राङ्मुखा योत्स्यमानाः।
दैत्येन्द्रसेनेव च कौरवाणां
देवेन्द्रसेनेव च पाण्डवानाम्॥५॥

शुक्रोवायुः पृष्ठतः पाण्डवानां
धार्तराष्ट्राञ् श्वापदा व्याभषन्त।
तेषां गजेन्द्रा मदगन्धातितीव्रा
न सेहिरे तव पुत्रस्य नागाः॥६॥

दुर्योधनो दन्तिनं पद्मवर्णं
सौवर्णकक्ष्यं जातबलं प्रभिन्नम्।

समास्थितो मध्यगतः कुरूणां
संस्तूयमानो वन्दिभिर्मागधैश्च॥७॥

चन्द्रप्रभं श्वेतमस्यातपत्रं
सौवर्णस्रग्भ्राजते चोत्तमाङ्गे।
तं सर्वतश्शकुनिः पार्वतीयैश्
सार्धं गान्धारैः पाति गान्धारराजः॥८॥

भीष्मोऽग्रतस्सर्वसैन्यस्य वृद्धश्
श्वेतच्छत्रश्श्वेतदण्डस्सखङ्गः।
श्वेतोष्णीषः पाण्डुरेण ध्वजेन
श्वेतैरश्वैश्श्वैतशैलप्रकाशः॥९॥

सैन्यं सर्वं धृतराष्ट्र त्वदीयं
रथाश्वनागं सुदृढं चचाल।
ये चाम्बष्ठाः क्षत्रिया ये च सिद्धास्
तथा सौवीराः पञ्चनदाश्च शूराः॥१०॥

शोणैर्हयै रुक्मरथो महात्मा
द्रोणो धनुष्पाणिरदीनसत्त्वः।
आप्तो गुरुः प्रथितस्सर्वराज्ञां
पश्चाच्चमूमिन्द्र इवावभाति॥११॥

वार्धक्षत्रिस्सर्वसैन्यस्य मध्ये
भूरिश्रवाः पुरुमित्रो जयश्च।

साल्वा मात्स्याः केकयाश्चापि सर्वे
गजानीकैर्भ्रातरो योत्स्यमानाः॥१२॥

शारद्वतश्चोत्तरार्धं महात्मा
महेष्वासो गौतमश्चितयोधी।
शकैःकिरातैर्यवनैः प्लवैश्व
सार्धंचमूमुत्तरतोऽभिपाति॥१३॥

महारथैरन्धकवृष्णिभोजैस्
सौराष्ट्रकैर्नैकतरात्तशस्त्रैः।
बृहद्बलं कृतवर्माभिगुप्तं
बलं त्वदीयं दक्षिणेनाभियाति॥१४॥

संशप्तकानामयुतं रथानां
मृत्युर्जयो वाऽर्जुनस्येति सृष्टाः।
115मेत्य तस्थुः पुरतोऽर्जुनस्य
प्रचोदितास्तव पुत्रेण सङ्ख्ये॥१५॥

साग्रंशतसहस्रं तु नागानां तव भारत।
ना116गे नागे रथशतं शतञ्चाश्वारथे रथे॥१६॥

अन्वश्वं दश धानुष्का धानुष्के सप्त चर्मिणः।

रथे रथे समभवत् तदा तत्र गजे गजे॥१७॥

आसन् द्विगुणितं चाश्वा ह्यश्वे ह्यश्वे पदातयः।
तथा चतुर्गुणं योधास् सधनुष्कास्सचर्मिणः॥१८॥

एवं व्यूहान्यनीकानि भीष्मेण तव भारत।
अब्यूहं मानुषं व्यूहं दैवं गान्धर्वमासुरम्॥१९॥

दिवसे दिवसे प्राप्ते भीष्मश्शान्तनवोऽग्रणीः।
117हारथौघविपुलस् समुद्र इव घोषवान्॥२०॥

कृतवान् धार्तराष्ट्राणां व्यूहः पञ्चान्मुखो युधि॥२०॥

अनन्तरूपा ध्वजिनी नरेन्द्र
भीमा त्वदीया न तु पाण्डवानाम्।
तामेव मन्ये बृहतीमधृष्यां
यस्या ने118ता केशवञ्चार्जुनश्च॥२१॥

इति श्रीमहाभारते शतसहस्निकायांसंहितायां वैयासिक्यां
भीष्मपर्वणि एकोनविंशोऽध्यायः ॥ १९ ॥
॥ ६३ ॥ भगवद्गीतापर्वणि सप्तमोऽध्यायः ॥ ७ ॥
[अस्मिन्नध्याये २१॥ श्लोकाः]
<MISSING_FIG href="../books_images/U-IMG-1706800943Screenshot2023-12-07155820.png"/>

॥ विंशोऽध्यायः॥
<MISSING_FIG href="../books_images/U-IMG-1706166082Screenshot2023-12-25124330.png"/>

परसेनादर्शनचकितं युधिष्ठिरं प्रत्यर्जुनेन सयुक्तिनिरूपण सभाश्वासनम्॥

<MISSING_FIG href="../books_images/U-IMG-1706166050Screenshot2023-12-07155820.png"/>

सञ्जयः—

बृहत धार्तराष्ट्रस्य सेनां दृष्ट्वा समुद्यताम्।
विषादमगमद्राजा कुन्तीपुत्रो युधिष्ठिरः॥१॥

व्यूहं भीष्मेण चाभेद्यं कल्पितं वीक्ष्य पाण्डवः।
युधिष्ठिरस्तदा राजा विषण्णोऽर्जुनमब्रवीत्॥२॥

युधिष्ठिरः—

धनञ्जय कथं शक्यम् अस्माभिर्योद्धुमाहवे।
धार्तराष्ट्रैर्महाबाहो येषां योद्धा पितामहः॥३॥

अक्षोभ्योऽयमभेद्यश्च भीष्मेणामितकर्शिना।
कल्पित शास्त्रदृष्टेन विधिना भूरिवर्चसा॥४॥

ते वयं संशयं प्राप्तास् ससैन्याश्शुत्रुकर्शन।
कथमस्मान्महाव्युहाद् उद्यातं नो भविष्यति॥५॥

सञ्जयः—

अथार्जुनोऽब्रवीत् पार्थं युधिष्ठिरममित्रहा।
विषण्णमभिसम्प्रेक्ष्य त्रस्तां च स्वामनीकिनीम्॥६॥

अर्जुनः—

प्रज्ञयाभ्यधिकाञ् शूरान् गुणयुक्तान् बहूनपि।
जयन्त्यल्पतरा येन तन्निबोध विशां पते॥७॥

तत् तु ते कारणं राजन् प्रवक्ष्याम्यनसूयया।
नारदस्तमृषिर्वेद भीष्मद्रोणौ च पाण्डव॥८॥

एतमेवार्थमाश्रित्य युद्धे देवासुरेऽब्रवीत्।
पितामहः किल पुरा महेन्द्रादीन् दिवौकसः॥९॥

न तथा बलवीर्याभ्यां विजयन्ते जिगीषवः।
यथा सत्यानृशंसाभ्यां धर्मेणैवोद्यमेन च॥१०॥

त्य91क्त्वाऽधर्मं तथा सर्वे धर्मं चोत्तममास्थिताः।
युध्यध्वमनहंकारा यतो धर्मस्ततो जयः॥११॥

119वं राजन् विजानीहि ध्रुवोऽस्माकं रणे जयः।
यथा ते नारदः प्राह यतः कृष्णस्ततो जयः॥१२॥

गु120णभूतो हि नः कृष्णः पृष्ठमन्वेति मानद।
ध्रुवं तु विजयश्चास्य सनिधिश्चापरो गुणः॥१३॥

अनन्ततेजा गोविन्दश् शत्रुपूगेषु नित्यशः।
सनातनोऽयं पुरुषो यतः कृष्णस्ततो जयः॥१४॥

पुरा ह्येष हरिर्भूत्वा वैकुण्ठोऽकुण्ठशासनः।
सुरासुरानवस्फूर्जन्नब्रवीत् को जयेदिति॥१५॥

अनु कृष्णं जयेमेति यैरुक्तं तत्र तैर्जितम्।
तत्प्रसादाद्धि त्रैलोक्यं प्राप्तं शक्रादिभिस्सरैः॥१६॥

तस्मात् ते न व्यथां काचिद् इह पश्यामि भारत।
यस्य ते जयमाशास्ते विश्वभुक् त्रिदशेश्वरः॥१७॥

इति श्रीमहाभारते शतसहस्रिकायांसंहितायां वैयासिक्यां
भीष्मपर्वणि विंशोऽध्यायः ॥ २० ॥
॥ ६३ ॥ भगवद्गीतापर्यंणि अष्टमोऽध्यायः ॥ ८ ॥
[ अस्मिन्नध्याये १७ श्लोकाः ]

<MISSING_FIG href="../books_images/U-IMG-1706167600Screenshot2023-12-07155820.png"/>

॥ एकविंशोऽध्यायः ॥
<MISSING_FIG href="../books_images/U-IMG-1706167630Screenshot2023-12-08194923.png"/>

युधिष्ठिरादीनां युद्धाय निर्गमः ॥ १ ॥ सञ्जयेनोभयसेनयोरभ्युदयवर्णनम् ॥ २ ॥

<MISSING_FIG href="../books_images/U-IMG-1706167600Screenshot2023-12-07155820.png"/>

सज्ञयः—

ततो युधिष्ठिरो राजा स्वां सेनां समचोदयत्।
प्रतिव्यूहन्ननीकानि भीष्मस्य भरतर्षभ॥१॥

यथोद्दिष्टान्यनीकानि प्रत्यव्यूहन्त पाण्डवाः।
स्वर्गं परममिच्छन्तस् सङ्ग्रामाय कृतोद्यमाः॥२॥

मध्ये शिखण्डिनोऽनीकं रक्षितं सव्यसाचिना।
धृष्टद्युम्नस्तथात्युग्रोभीमसेनेन पालितः॥३॥

अनीकं दक्षिणं राजन् युयुधानेन पालितम्।
श्रीमता सात्वताग्र्येण शक्रेणेव धनुष्मता॥४॥

महेन्द्रयानप्रतिमं रथं तु
सोपस्करं हाटकरत्नचित्रम्।
युधिष्ठिरः काञ्चनचित्रभाण्डं
समास्थितो नागबलस्य मध्ये॥५॥

समुच्छ्रितं दान्तशलाकमस्य
सुपाण्डुरं छत्रमतीव भाति।
प्र121दक्षिणं चैवमुदाहरन्तो
महर्षवस्तुष्टुवुस्तं नरेन्द्रम्॥६॥

पुरोहिताश्शत्रुवधं ब्रुवन्तो
जप्यैश्च मन्त्रैश्च तथौषधीभिः।
122दाशिषं चक्रुरनेकधैव
युधि स्थितस्यापि युधिष्ठिरस्य॥७॥

ततस्स वस्त्राणि तथैव गाश्च
फलानि पुष्पाण्यथ चैव निष्कान्।
कुरूत्तमो ब्राह्मणानां महात्मा
ददन् ययौ शक्र इवामरेभ्यः॥८॥

सहस्रसूर्यश्शतकिङ्किणीकः
परार्ध्यजाम्बूनदहेमचित्रः।
रथोऽर्जुनस्याग्निरिव प्रदीप्तो
विभ्राजते श्वेतहयरसुचक्रः॥९॥

तमास्थितः केशवसङ्गृहीतः
कपिध्वजो गाण्डिवबाणपाणिः।
धनुर्धरो यस्य समः पृथिव्यां
न विद्यते नो भविता कथञ्चित्॥१०॥

उद्वर्तयिष्यंस्तव पुत्रसेनाम्
अतीव रौद्रं हि बिभर्ति रूपम्।
अनायुधो यस्सुभुजो भुजाभ्यां
नराश्च नागानिह भस्म कुर्यात्॥११॥

स भीमसेनस्सहितो यमाभ्यां
वृकोदरो वीररथस्य गोप्ता
तं तत्रसिंहर्षमतुल्यवीर्यं
लोके महेन्द्रप्रतिमानकल्पम्॥१२॥

समीक्ष्य सेनाग्रगतं त्वदीयाः
प्रविष्यथुः पङ्कगता यथा गौः।
वृकोदरं वारणराजदर्पं
योधास्त्वदीया भयविग्नसत्त्वाः॥१३॥

विषण्णरूपाः कुरुसैन्यमुख्याः
बभूविरे शुष्ककण्ठा विरूपाः॥१३॥

अनीकमध्ये तिष्ठन्तं राजपुत्रं दुरासदम्।
अब्रवीद्भरतश्रेष्ठं गुडाकेशं जनार्दनः॥१४॥

श्रीभगवान्—

य एष गोप्ता प्रतपन बलस्थो
यो नस्सेनां सिंह इवेक्षते च।
स एष भीष्मः कुरुवंशकेतुर्
येनाहृतास्त्रिशतं वाजिमेधाः॥१५॥

एतान्यनीकानि महानुभावं
गूहन्ति मेघा इव रश्मिमन्तम्।
एतानि हत्वा पुरुषप्रवीर
काङ्क्षस्व युद्धं पुरुषर्षभेण॥१६॥

धृतराष्ट्रः—

केषां प्रहृष्टास्तत्राग्रे योधा योद्धं व्यवस्थिताः।
उदग्रमनसः केऽत्र के वा दीना विचेतसः॥१७॥

के पूर्वं प्राहरंस्तत्रयुद्धे हृदयकम्पने।
मामकाः पाण्डवाश्चैव तन्ममाचक्ष्व सञ्जय॥१८॥

कस्य सेनासमुदये गन्धो माल्यसमुद्भवः।
वायुः प्रदक्षिणश्चैव योधानामभिगर्जताम्॥१९॥

सञ्जयः—

उभयोस्सेनयोस्तत्र योधा जहृषिरे तदा।
स्र123जामुदारगन्धानाम् उभयत्रसमुद्भवः॥२०॥

संहतानामनीकानां व्यूढानां भरतर्षभ।
संसर्पतामुदीर्णानां विमर्दस्सुमहानभूत्॥२१॥

वादित्रशब्दस्तुमुलश् शङ्खशब्दविमिश्रितः।
कुञ्जराणां च नदतां सैन्यानां सम्प्रहृष्यताम्॥२२॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि एकविंशोऽध्यायः ॥ २१ ॥
॥ ६३ ॥ भगवद्गीतापर्वणि नवमोऽध्यायः ॥ ९ ॥
[अस्मिन्नध्याये २२॥श्लोका]

॥ द्वाविंशोऽध्यायः ॥

<MISSING_FIG href="../books_images/U-IMG-1706626550bbbb.png"/>

युधिष्ठिरेण रथादवरुह्य भीष्मद्रोणाद्यभिवादनपूर्वकं तेभ्यो जयाशीर्ग्रहणम्॥१॥ युधिष्ठिरे पुनर्भ्रातृभिस्सह रथारूढे सन्नाहभेरीवादनम्॥२॥

<MISSING_FIG href="../books_images/U-IMG-1706626526मम.png"/>

सञ्जयः—

ततो धनञ्जयं दृष्ट्वा बाणगाण्डीवधारिणम्।
पुनरेव महानादं व्यसृजन्त महारथाः॥१॥

पाण्डवास्सोमकाश्चैव ये चैषामनुयायिनः।
दध्मुः प्रमुदिताश्शङ्खान् वीरास्सागरसम्भवान्॥२॥

तत्र भेर्यश्च पणवाः कङ्करा गोविषाणकाः।
सहसैवाभ्यहन्यन्त124 ततश्शब्दो महानभूत्॥३॥

अथ देवास्सगन्धर्वाः पितरस्समहेश्वराः।
सिद्धचारणसङ्घाश्चसमीयुस्ते दिदृक्षया॥४॥

ऋषयश्च महाभागाः पुरस्कृत्य शतक्रतुम्।
समीयुस्तत्र सहिता द्रष्टुं तद्वैशसं महत्॥५॥

ते सेने स्तिमितेवास्ताम् ईक्षमाणे परस्परम्।
गङ्गायमुनयोर्वेगौ यथैवैत्य परस्परम्॥६॥

एवं प्रवृत्ते ते सेने निश्शब्दे जनसंसदि।

चित्रे पट इवालेख्ये दर्शनीयतरे शुभे॥७॥

ततो युधिष्ठिरो वीक्ष्य युद्धाय स समुद्यतः।
ते सेने सागरप्रख्ये मुहुः प्रज्वलिते नृप॥८॥

विमुच्य कवचं वीरो निक्षिप्य च वरायुधम्।
अवरुह्य रथात् तूर्णं पद्भ्यामेव कृताञ्जलिः॥९॥

पितामहमभिप्रेक्ष्य धर्मराजो युधिष्ठिरः।
वाग्यतः प्रययौ धीरः प्राङ्मुखो रिपुवाहिनीम्॥१०॥

तं प्रयान्तमभिप्रेक्ष्य कुन्तीपुत्रो वृकोदरः।
अवतीर्य रथात् तूर्णं भ्रातृभिस्सहितो वशी॥११॥

भीतं युधिष्ठिरं मत्वा भीमसेनः प्रतापवान्।
वासुदेवश्च भगवान् पृष्ठतोऽनुजगाम ह॥१२॥

सात्यकिश्चार्जुनश्चैव ह्यभिमन्युश्च वीर्यवान्।
युधामन्युप्रभृतयो राजानस्तं समुत्सुकाः॥१३॥

अर्जुनः—

किं ते व्यवसितं राजन् यदस्मानपहाय
पद्भ्यामेव प्रयातोऽसि प्रमुखे रिपुवाहिनीम्॥१४॥

भीमः—

क्व गमिष्यसि राजेन्द्र निक्षिप्य कवचायुधम्।
दंशितेष्वरिसैन्येषु भ्रातॄनुत्सृज्य पाण्डव॥१५॥

नकुलः—

एवं125 गते त्वयि श्रेष्ठ मम भ्रातरि पार्थिव।
भीस्समन्वेति हृदयं ब्रूहि गन्ताऽभयं क्व नु॥१६॥

सहदेवः—

अस्मिन् नृपसमूहे वै वर्तमाने महाहवे।
योद्धव्ये क्व नु गन्तासि शत्रूनभिमुखे स्थितान्॥१७॥

सञ्जयः—

एवमाभाष्यमाणोऽपि भ्रातृभिः कुरुनन्दनः।
नोवाच वाग्यतः किश्चिद् गच्छत्येव युधिष्ठिरः॥१८॥

तानुवाच महाप्राज्ञो वासुदेवो महामनाः।
अभिप्रायोऽस्य विज्ञातो मयेति प्रहसन्निव॥१९॥

एष भीष्मं तथा द्रोणं गौतमं शल्यमेव च।
अनुमान्य गुरुन् वृद्धान् योत्स्यते पार्थिवोऽरिभिः॥ २०॥

श्रूयते हि पुराकल्पे गुरुनननुमान्य यः।
युद्धायावतरत्येव तस्य नास्ति जयो रणे॥२१॥

यस्तु युद्धे समुत्पन्ने गुरून् दृष्ट्वाऽथ दंशितान्।

अनुमान्य यथाशास्त्रं तैस्तु युद्धे महत्तरैः॥२२॥

ध्रुवं तस्य जयो युद्धे भवेदिति मतिर्मम॥२२॥

एवं ब्रुवति कृष्णे तु निश्शब्दास्सर्वसैनिकाः।
नेत्रैरनिमिषैस्सर्वैः प्रेक्षन्ते स्म युधिष्ठिरम्॥२३॥

हाहाकारोमहानासीद् धार्तराष्ट्रचमूं प्रति।
दृष्ट्वा युधिष्ठिरं दूराद् धार्तराष्ट्रस्य सैनिकाः॥२४॥

मिथस्सङ्कथयांचॠर् एषोऽस्ति126 कुलपांसनः।
व्यक्तं भीत इवाभ्येति राजासौ भीष्ममन्तिकात्॥२५॥

युधिष्ठिरस्ससोदर्यश् शरणार्थमुपागतः॥२६॥

धनञ्जये कथं नाथे पाण्डवे च वृकोदरे।
नकुले सहदेवे च धृष्टद्युम्ने च सात्यकौ॥२७॥

न नूनं क्षत्रियकुले जातरसम्प्रथिते भुवि।
यदस्य हृदयं भीतम् अल्पसत्त्वस्य संयुगे॥२८॥

ततस्तु नृपतेस्सेना ह्येकीकृत्वा127 युधिष्ठिरम्।
निःशब्दा समभूद्राजन् दृष्ट्वा प्राप्तं च पाण्डवम्॥२९॥

किं नु वक्ष्यति राजाऽसौ धर्मपुत्रो युधिष्ठिरः।
किं नु वक्ष्यति भीष्मोऽसौ भारतानां धुरन्धरः॥३०॥

किं भीमस्समरश्लाघीकिं नु कृष्णार्जुनाविति।

विवक्षितं किमस्येति संशयस्सुमहानभूत्॥३१॥

उभयोस्सेनयो राजन युधिष्ठिरकृते तदा॥३१॥

स विगाह्य चमूं शत्रोश् शरशक्तिसमाकुलाम्।
भीष्ममेवाभ्ययात् तूर्ण भ्रातृभिः परिवारितः॥३२॥

तमुवाच ततो धीमान् पादौ सम्पीड्य पाण्डवः।
भीष्मं शान्तनवं राजा युद्धाय समुपस्थितम्॥३३॥

युधिष्ठिरः—

आमन्त्रये त्वां दुर्धर्ष त्वया योत्स्याम्यहं सह।
अनुजानीहि मां राजन् आशिषश्च प्रयोजय॥३४॥

जयेयं च रिपून् सर्वान् अनुज्ञातस्त्वयाऽनघ।
युध्यन्तं मां रणे वीर त्वमनुज्ञातुमर्हसि॥३५॥

भीष्मः—

यद्येवं नाभिगच्छेस्त्वं युद्धाय कृतनिश्चयः।
शपेयं त्वां महाराज पराभावाय पाण्डव॥३६॥

प्रीतोऽहं पुत्र युध्यस्व जयमाप्नुहि पाण्डव।
यत् तेऽभिलषितं चान्यत् तदवाप्नुहि संयुगे॥३७॥

त्रियतां च वरः पार्थ किमस्मत्तोऽभिकाङ्क्षसि।
एवं गते महाराज युद्धादन्यत् किमिच्छसि॥३८॥

अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित्।
एतत् सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः॥३९॥

अतस्त्वां क्लीबवद्वाक्यं ब्रवीमि कुरुनन्दन।
हृतोऽस्म्यर्थेन कौरव्य युद्धादन्यत् किमिच्छसि॥४०॥

युधिष्ठिरः—

मन्त्रयस्व महाप्राज्ञ हितैषी मम नित्यशः।
युध्यस्व कौरवस्यार्थे ममैष सततं वरः॥४१॥

भीष्मः—

मन्त्रयिष्याम्यहं राजन् यच्चते हितमुत्तमम्।
कामं योत्स्ये परस्यायें ब्रूहि यत् ते विवक्षितम्॥ ४२॥

युधिष्ठिरः—

कथं जयेयं सङ्ग्रामे भवन्तमपराजितम्।
एतन्मे मन्त्रय हितं यदि श्रेयः प्रपश्यसि॥४३॥

भीष्मः—

न तं पश्यामि कौन्तेय यो मां युध्यन्तमाहवे।
विजयेत पुमान् कश्चित् साक्षादपि शतक्रतुः॥४४॥

युधिष्ठिरः—

हन्त पृच्छामि तस्मात् त्वां पितामह नमोस्तु ते।
जयोपायं हि मे ब्रूहि आत्मनस्समरे परैः॥४५॥

भीष्मः—

न शत्रुं तात पश्यामि समरे यो जयेत्माम्।
अयुध्यमानं संहत्य सौहृदेन परिप्लुतम्॥४६॥

न्यस्तशस्त्रं निरुद्योगं हन्युर्मा शत्रवो युधि।
निक्षिप्तशस्त्रे पतिते विमुक्तकवचे तथा॥४८॥

द्रवमाणे च भीते च तवास्मीति च यो वदेत्।
स्त्रियं128 स्त्रीनामधेयं च विकलं चाप्यपुत्रकम्॥४९॥

अप्रशस्ते129 च हीने च न युद्धं रोचयाम्यहम्।
इदञ्च गदितं पार्थ परमं व्रतमाहवे॥५०॥

न तावन्मृत्युकालो मे पुनरागमनं कुरु॥५१॥

सञ्जयः—

ततो युधिष्ठिरो वाक्यं भीष्मस्य कुरुनन्दन।
शिरसा प्रतिगृह्याथ भूयस्तमभिवाद्य च॥५२॥

प्रायात् पुनर्महाराज आचार्यस्य रथं प्रति।
पश्यतां सर्वसैन्यानां मध्ये तं भ्रातृभिस्सह॥५३॥

स द्रोणमभिवाद्याथ कृत्वा चापि प्रदक्षिणम्।
उवाच वाचा दुर्धर्ष आत्मनिश्श्रेयसं वचः॥५४॥

युधिष्ठिरः—

आमन्त्रये त्वा भगवन् योत्स्ये विगतकल्मषः।
जयेयं च रिपून् सर्वान् अनुज्ञातस्त्वया द्विज॥५५॥

द्रोणः—

यदि मां नाभिगछेस्त्वं युद्धाय कृतनिश्चयः।

शपेयं त्वा महाराज पराभावाय नित्यशः॥५६॥

तद्युधिष्ठिर तुष्टोऽस्मि पूजितश्च त्वयाऽनघ।
अनुजानामि युध्यस्व विजयं समवाप्नुहि॥५७॥

करवाणि च कं कामं ब्रूहि यत् ते विवक्षितम्।
एवं गते महाराज युद्धादन्यत् किमिच्छसि॥५८॥

अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित्।
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः॥५९॥

ब्रवीम्यहं क्लीबभावात् त्वदर्थे130 कुरुनन्दन।
योत्स्येऽहं कौरवस्यार्थे त्वया सार्धं विशां पते॥६०॥

युधिष्ठिरः—

जयमाशास्स्व मे ब्रह्मन् मन्त्रयस्व च यद्धितम्।
युध्यस्व कौरवस्यार्थेवर एष वृतो मया॥६१॥

द्रोणः—

ध्रुवस्ते विजयो राजन् यस्य मन्त्री हरिस्तव।
अहं त्वामनुजानामि रणे शत्रून् विजेष्यसि॥६२॥

यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः।
युध्यस्व गच्छ कौन्तेय पृच्छ वा किं ब्रवीमि ते॥६३॥

युधिष्ठिरः—

पृच्छामि त्वा द्विजश्रेष्ठ शृणु यन्मेऽभिकाङ्क्षितम्।

कथं जयेयं समरे भवन्तमपराजितम्131॥६४॥

द्रोणः—

न तेऽस्ति विजयस्तावद् यावद्वै132 मारयाम्यहम्।
ममाशु निधने राजन् यतस्व सह सोदरैः॥६५॥

युधिष्ठिरः—

हन्त कस्मान्मम ब्रूहि वधोपायं त्वमात्मनः।
आचार्य प्रणिपत्याहं पृच्छामि त्वां नमोऽस्तु ते॥६६॥

द्रोणः—

न शत्रुं तात पश्यामि यो मां हन्याद्रणे स्थितम्।
युध्यमानं सुसंरब्धं शरवर्षौघवर्षिणम्॥६७॥

यो मां प्रायगतं हन्यान् न्यस्तशस्त्रं तथा विभो।
स वै हन्यान्महाराज सत्यमेतद्ब्रवीमि ते॥६८॥

शस्त्रं चाहं रणे जह्यांश्रुत्वा सुमहदप्रियम्।
श्रद्धेयवाक्यात् पुरुषाद् इति सत्यं ब्रवीमि ते॥६९॥

सञ्जयः—

एतच्छ्रुत्वा महाराज भारद्वाजस्य पश्यतः।
अनुमान्य तमाचार्य प्रायाच्छारद्वतं प्रति॥७०॥

सोऽभिवाद्य कृपं राजा कृत्वा चैव प्रदक्षिणम्।

उवाच दुर्धर्षतमं वाक्यं वाक्यविशारदः॥७१॥

युधिष्ठिरः—

अनुमानये त्वां योत्स्यामि गुरो विगतकल्मषः।
जयेयं च रिपून् सर्वान् अनुज्ञातस्त्वयाऽनघ॥७२॥

कृपः—

यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः।
शपेयं त्वां महाराज पराभावाय सर्वशः॥७३॥

किं ते करोमि वै कामं ब्रूहि पाण्डवनन्दन।
एवं गते महाराज युद्धादन्यत् किमिच्छसि॥७४॥

अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित्।
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः॥७५॥

तेषामर्थे महाराज योद्धव्यमिति मे मतिः।
अतस्त्वां क्लीबवद्ब्रूयांयुद्धादन्यत् किमिच्छसि॥७६॥

युधिष्ठिरः—

हन्त पृच्छामि ते तस्माद् आचार्य शृणु मे वचः॥७६॥

सञ्जयः—

इत्युक्त्वा व्यथितो राजा नोवाच गतचेतनः।
गौतमस्तं प्रत्युवाच विज्ञायास्य विवक्षितम्॥७७॥

गौतमः—

अवध्योऽहं महीपाल युद्ध्यस्व जयमाप्नुहि॥७८॥

प्रीतस्तेऽभिगमेनाहं जयं तव नराधिप।

आशासिष्ये सदोत्थाय सत्यमेतद्ब्रवीमि ते॥७९॥

सञ्जयः—

एतच्छ्रुत्वा महाराज गौतमस्य वचस्तदा।
अनुमान्य कृपं राजा प्रययौ यत्रमद्रराट्॥८०॥

स शल्यमभिवाद्याथ कृत्वा चापि प्रदक्षिणम्।
उवाच राजा दुर्धर्षम् आत्मनिश्श्रेयसं वचः॥८१॥

युधिष्ठिरः—

अनुमानये त्वां योत्स्यामि परान् विगतकल्मषः।
जयेयं च महाराजन् अनुज्ञातस्त्वया रिपून्॥८२॥

शल्यः—

यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः।
शपेयं त्वां महाराज पराभावाय वै रणे॥८३॥

तुष्टोऽस्मि पूजितश्चास्मि यत् काङ्क्षसि तदस्तु ते।
अनुजानामि चैव त्वां युध्यस्व जयमाप्नुहि॥८४॥

ब्रूहि चैवापरं वीर केनार्थी किं ददामि ते।
एवं133 गते महाराज युद्धादन्यत् किमिच्छसि॥८५॥

युधिष्ठिरः—

मन्त्रयस्व महाराज नित्यं मे हितमुत्तमम्।

कामं युद्ध्यस्व रिपवे वरमेतद्वृणोम्यहम्॥८६॥

शल्यः—

मन्त्रयिष्ये महाराज नित्यं त्वद्धितमुत्तमम्।
अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित्॥८७॥

इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः।
तेषामर्थे महाराज योद्धव्यमिति मे मतिः॥८८॥

अतस्त्वां क्लीबवद्ब्रूमि युद्धादन्यत् किमिच्छसि॥८८॥

युधिष्टिरः—

एवमेव वचस्सत्यम् उद्योगे यस्त्वया कृतः।
सूतपुत्रस्य राजेन्द्र कार्यस्तेजोवधस्त्वया॥८९॥

त्वां हि योक्ष्यति सूतत्वे सूतपुत्रस्य मातुल।
दुर्योधनो रणे शूरम् इति मे नैष्ठिकी मतिः॥९०॥

शल्यः—

सम्पत्स्यते च ते कामःकुन्तीपुत्र यथेप्सितम्।
गच्छ युध्यस्व राजेन्द्र करिष्ये यद्धितं तव॥९१॥

सञ्जयः—

अनुमान्याथ कौन्तेयो मातुलं मद्रकेश्वरम्।
निर्जगाम महासैन्याद् भ्रातृभिः परिवारितः॥९२॥

वासुदेवस्तु राधेयम् अभिगम्य जगाद वै॥९३॥

श्रीभगवान्—

श्रुतं मे कर्ण भीष्मस्य द्वेषात् किल न योत्स्यसि।
तस्माद्विरम133 राधेय यावद्भीष्मो न हन्यते॥९४॥

हते134 तु भीष्मे राधेय पुनरेष्यसि संयुगम्।
पाण्डुपुत्रस्य साहाय्यं यदि पश्यसि चेत् क्षमम्॥९५॥

कर्णः—

न विप्रियं करिष्यामि धार्तरार्ष्ट्रस्य केशव।
त्यक्तप्राणं हि मां विद्धि दुर्योधनहितैषिणम्॥९६॥

सञ्जयः—

तच्छ्रुत्वा वचनं कृष्णस् संन्यवर्तत भारत।
युधिष्ठिरपुरोगैश्च135 पाण्डवैस्सह सङ्गतः॥९७॥

अथ सैन्यस्य मध्ये तु प्राक्रोशत् पाण्डवाग्रजः॥९७॥

युधिष्ठिरः—

योऽस्मान् वृणोति तमहं वरये साह्यकारणात्।
136 रक्षाकारणादस्माद् आशु यातु मदन्तिकम्॥९८॥

सञ्जयः—

तच्छ्रुत्वा धर्मराजस्य वाक्यमद्भुतकर्मणः।

सर्वे योधा रणे तस्मिंस् तूष्णीमासन् नराधिपाः॥ ९९॥

युयुत्सुरपि तच्छ्रुत्वा धर्मराजस्य धीमतः।
वाक्यं तद्वाक्यकुशलो रहस्येनमुपागमत्॥१००॥

प्रणिपत्याथ धर्मज्ञं धर्मराजं युधिष्ठिरम्।
भ्रातृभिस्सहितं वीरम् इदं वचनमब्रवीत्॥१०१॥

युयुत्सुः—

युयुत्सुरपि धर्मात्मा वेश्यापुत्रस्तवात्मजः।
अहं योत्स्यामि मिषतस् तव राजन् युधिष्ठिर॥ १०२॥

धृतराष्ट्रात्मजैस्सर्वेस् सङ्ख्ये दुर्योधनादिभिः।
युष्मदर्थे137 महाराज यदि मां वृणुषेऽनघ॥१०३॥

युधिष्ठिरः—

एह्येहि सर्वे योत्स्यामस्तव भ्रातॄनपण्डितान्॥१०४॥

युयुत्सो वासुदेवश्च त्वमहं भ्रातरश्च मे।
न भविष्यन्ति ते बाला धार्तराष्ट्रा न संशयः॥१०५॥

वृ138णोमि139 त्वां महाबाहो युध्यस्व मम कारणात्॥१०५॥

त्वयि पिण्डश्च तन्तुःश्च धृतराष्ट्रस्य दृश्यते।
ततो जलक्रिया चैव त्क्या कार्या तथैव च॥१०६॥

त्वत्पक्षीयाश्च140 राजानस् तेषां चैव पदानुगाः।

संयुगे नाशमेष्यन्ति दुर्मदान्धा हि शीघ्रतः॥१०७॥

त्वं तात कुशली धीमन् भविष्यसि न संशयः।
श्रोष्यते रोदनं स्त्रीणां त्वदीयानां नृपात्मज॥१०८॥

नन्दयिष्यसि मां तात युद्धं कृत्वा सुदुष्करम्।
मदर्थे शत्रुभिस्तात धार्तराष्ट्रैस्सुदुर्मदैः॥१०९॥

सदा भवान् मत्प्रियश्च भवतीति हि मे मतिः।
एतदर्थं युयुत्सो त्वं नन्दितोऽसि मयाऽनघ॥११०॥

अतस्त्वां संयुगे तात वृणोमि प्रियमात्मनः।
शत्रुभिस्त्वं महेष्वास युष्यस्व मम कारणात्॥१११॥

युद्धे मृता भविष्यन्ति धार्तराष्ट्रा न संशयः।
मृत्युर्हि दृश्यते तेषाम् अधर्माद्वै नृपात्मज॥११२॥

भजस्वास्मान् राजपुत्र भजमानान् महाद्युते।
न भविष्यति दुर्बुद्धिर् धार्तराष्ट्रोऽत्यमर्षणः॥११३॥

ततो युयुत्सुः कौरव्य परित्यज्य सुतं तव।
स सत्यमिति मन्वानो युधिष्ठिरवचस्तदा॥११४॥

जगाम पाण्डुपुत्राणां सेनां विश्राव्य दुन्दुभिम्॥११५॥

अवसद्धार्तराष्ट्रस्य कुत्सयन् कर्म दुष्कृतम्।

सेनामध्ये141 हि तैस्साकं युद्धाय कृतनिश्चयः॥११६॥

ततो युधिष्ठिरो राजा सम्प्रहृष्टस्सहानुजः।
जग्राह कवचं भूयो काञ्चनं शतचन्द्रवत्॥११७॥

भीमोऽपि142 कवचं राजन् नाबबन्ध रणोत्सुकः।
अर्जुनस्सह कृष्णेन कवचं धृतवानभूत्॥११८॥

नकुलस्सहदेवश्च दधतुः कवचे दृढे।
धृष्टद्युम्नपुरोगाश्च सेनामावृत्य सर्वतः॥११९॥

नृपास्सर्वे महीपाल योद्धुकामास्सुदंशिताः।
रणायाभिमुखा वीरास् तस्थुस्सङ्ग्राममूर्धनि॥१२०॥

दंशितास्सर्व एवैते पाण्डवा भरतर्षभ।
रथानारुरुहुस्सर्वे भूय एव नृपात्मजाः॥१२१॥

यथापूर्वं यथान्याय्यं प्रत्यव्यूहन्त ते पुनः।
तदा जहृषिरे सर्वे नानावर्णाजनास्तदा॥१२२॥

कुञ्जरैः कुञ्जरारोहा वाजिभिश्चाश्वसादिनः।
पत्तयश्च विनर्दन्तो बभूवुसम्प्रहर्षिताः॥१२३॥

अवादयन् नरास्तत्र वादित्राणि समन्ततः।
दुन्दुभीन् गोमुखान् भेरीःकाहलान् पुष्करानपि॥ १२४॥

सिंहनादांश्च143 विविधान् विनेदुः पुरुषर्षभाः॥१२४॥

रथस्थान पुरुषव्याघ्रान् पाण्डवान् प्रेक्ष्य पार्थिवाः।
धृष्टद्युम्नादयस्सर्वे पुनर्जहृषिरे मुदा॥१२५॥

गौरवं पाण्डुपुत्राणां सत्यं धर्मज्ञतामपि।
दृष्ट्वा महीक्षितस्तत्र पूजयांचक्रिरे भृशम्॥१२६॥

सौहृदं च कृपां चापि प्राप्ते काले महात्मनाम्।
दयां च ज्ञातिषु परां कथयांचक्रिरे नृपाः॥१२७॥

साधुसाध्विति सर्वत्र निश्चेरुस्स्तुतिसंयुताः।
वाचःपुण्याः कीर्तिमतां मनोहृदयहर्षणाः144॥१२८॥

म्लेच्छाश्चार्याश्च ये तत्र दहशुश्शुश्रुवुस्तदा।
वृत्तान्तं पाण्डुपुत्राणां रुरुदुर्बाष्पगद्गदाः॥१२९॥

ततो जघ्नुर्महाभेरीश पटहान् गोमुखांस्तथा।
शङ्खांश्च गोक्षीरनिभान् दध्मुर्हृष्टा मनस्विनः॥१३०॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि द्वाविंशोऽध्यायः॥ २२॥
॥६३॥ भगवद्गीतापर्वणि दशमोऽध्यायः॥ १०॥
[ अस्मिन्नध्याये १३०॥ श्लोकाः ]

<MISSING_FIG href="../books_images/U-IMG-1706632125मम.png"/>

॥श्रीः॥

॥श्रीमद्भगवद्गीता॥

<MISSING_FIG href="../books_images/U-IMG-1706632359नन.png"/>
॥त्रयोविंशोऽध्यायः॥
<MISSING_FIG href="../books_images/U-IMG-1706632372bbbb.png"/>
॥भगवद्गीताध्यायः॥१॥
<MISSING_FIG href="../books_images/U-IMG-1706632386मम.png"/>

* धृतराष्ट्रः—145

धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः।
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय॥१॥

सञ्जयः—

दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा।
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत्॥२॥

पश्यैतां पाण्डुपुत्राणाम् आचार्य महतीं चमूम्।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता॥३॥

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि।
युयुधानो विराटश्च द्रुपदश्च महारथः॥४॥

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान्।
पुरुजित् कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः॥५॥

युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान्।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः॥६॥

अस्माकं तु विशिष्टा ये तान् निबोध द्विजोत्तम।
नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते॥७॥

भवान् भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः।
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च॥८॥

अन्ये च बहवश्शूरा मदर्थेत्यक्तजीविताः।
नानाशस्त्रप्रहरणास् सर्वे युद्धविशारदाः॥९॥

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्।
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्॥१०॥

अयनेषु च सर्वेषु यथाभागमवस्थिताः।
भीष्ममेवाभिरक्षन्तु भवन्तस्सर्व एव हि॥११॥

तस्य सञ्जनयन् हर्षं कुरुवृद्धः पितामहः।
सिंहनादं विनद्यौच्चैश् शङ्खं दध्मौ प्रतापवान्॥१२॥

ततशङ्खाश्च भेर्यञ्च पणवानकगोमुखाः।
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत्॥१३॥

ततश्श्येतैर्हयैर्युक्ते महति स्यन्दने स्थितौ।
माधवः पाण्डवश्चैवदिव्यौ शङ्खौप्रदध्मतुः॥१४॥

पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः।

पौण्ड्रंदध्मौ महाशङ्खं भीमकर्मा वृकोदरः॥१५॥

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः।
नकुलस्सहदेवश्च सुघोषमणिपुष्पकौ॥१६॥

काश्यश्चपरमेष्वासश् शिखण्डी च महारथः।
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः॥१७॥

द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते।
सौभद्रश्च महाबाहुश् शङ्खान् दध्मुः पृथक् पृथक्॥१८॥

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्।
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्146॥१९॥

अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः।
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः॥२०॥

हृषीकेशं तदा वाक्यम् इदमाह महीपते॥२०॥

अर्जुनः—

सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत।
यावदेतान् निरीक्षेऽहं योद्धुकामानवस्थितान्॥२१॥

कैर्मया सह योद्धव्यम् अस्मिन् रणसमुद्यमे॥२२॥

योत्स्यमानानवेक्षेऽहं147 य एतेऽत्रसमागताः।
धार्तराष्ट्रस्य दुर्बुद्धेर् युद्धे प्रियचिकीर्षवः॥२३॥

सञ्जयः—

एवमुक्तो हृषीकेशो गुडाकेशेन भारत।
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम्॥२४॥

भीष्मद्रोणप्रमुखतस् सर्वेषां च महीक्षिताम्।
उवाच पार्थ पश्यैतान् समवेतान् कुरूनिति॥२५॥

तत्रापश्यत् स्थितान् पार्थः पितॄनथ पितामहान्।
आचार्यान् मातुलान् भ्रातृन पुत्रान् पौत्रान् सखींस्तथा॥ २६॥

श्वसुरान् सुहृदश्चैव सेनयोरुभयोरपि।
तान् समीक्ष्य स कौन्तेयस् सर्वान् बन्धूनवस्थितान्॥२७॥

कृपया परयाऽविष्टो विषीदन्निदमब्रवीत्॥२७॥

अर्जुनः—

दृष्टेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम्।
सीदन्ति मम गात्राणि मुखं च परिशुष्यति॥२८॥

वेपथुश्च शरीरे मे रोमहर्षश्च जायते॥२९॥

गाण्डीवं स्रंसते हस्तात् त्वक्चैव परिदह्यते।
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः॥३०॥

निमित्तानि च पश्यामि विपरीतानि केशव।
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे॥३१॥

न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च।

किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा॥३२॥

येषामर्थे काङ्क्षितं नो राज्यं भोगास्सुखानि च।
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च॥३३॥

आचार्याः पितरः पुत्रास् तथैव च पितामहाः।
मातुलाश्श्वशुराः पौत्रास् स्यालासम्बन्धिनस्तथा॥३४॥

एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन।
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते॥३५॥

निहत्य धार्तराष्ट्रान् नः का प्रीतिस्स्याज्जनार्दन।
पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः॥३६॥

तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान् सबान्धवान्।
स्वजनं हि कथं हत्वा सुखिनस्स्याम माधव॥३७॥

यद्यप्येते न पश्यन्ति लोभोपहतचेतसः।
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम्॥३८॥

कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम्।
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन॥३९॥

कुलक्षये प्रणश्यन्ति कुलधर्मास्सनातनाः।
धर्मे नष्टे कुलं कृत्स्नम् अधर्मेऽभिभवत्युत॥४०॥

अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रियः।
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः॥४१॥

सङ्करो नरकायैव कुलघ्नानां कुलस्य च।
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः॥४२॥

दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः।
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः॥४३॥

उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन।
नरके नियतं वासो भवतीत्यनुशुश्रुम॥४४॥

अहो बत महत् पापं कर्तुं व्यवसिता वयम्।
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः॥४५॥

यदि मामप्रतीकारम् अशस्त्रंशस्त्रपाणयः।
धार्तराष्ट्रा रणे हन्युस् तन्मे क्षेमतरं भवेत्॥४६॥

सञ्जयः—

एवमुक्त्वार्जुनस्सङ्ख्ये रथोपस्थ उपाविशत्।
विसृज्य सशरं चापं शोकसंविग्नमानसः॥४७॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि त्रयोविंशोऽध्यायः॥२३॥
॥६३॥भगद्गीतापर्वणि एकादशोऽध्यायः॥११॥
॥भगवद्गीतायां प्रथमोऽध्यायः॥
[ अस्मिन्नध्याये ४७ लोकाः]
<MISSING_FIG href="../books_images/U-IMG-1706633491मम.png"/>

॥चतुर्विंशोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1706633745नन.png"/>
भगवद्गीताध्यायः॥ २॥
<MISSING_FIG href="../books_images/U-IMG-1706633735मम.png"/>

सञ्जयः—

तं तथा कृपयाविष्टम् अश्रुपूर्णाकुलेक्षणम्।
विषीदन्तमिदं वाक्यम् उवाच मधुसूदनः॥१॥

श्रीभगवान्—

कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम्।
अनार्यजुष्टमस्वर्ग्यम् अकीर्तिकरमर्जुन॥२॥

क्लैब्यं मा स्म गमः पार्थ नैतत् त्वय्युपपद्यते।
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप॥३॥

अर्जुनः—

कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन।
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन॥४॥

गुरूनहत्वा हि महानुभावान्
श्रेयो भोक्तुं भैक्षमपीह लोके।
हत्वार्थकामांस्तु गुरूनिहैव
भुञ्जीय भोगान् रुधिरप्रदिग्धान्॥५॥

न चैतद्विद्मः कतरन्नो गरीयो
यद्वा जयेम यदि वा नो जयेयुः।
यानेव हत्वा न जिजीविषामस्
तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः॥६॥

कार्पण्यदोषोपहतस्वभावः
पृच्छामि त्वां धर्मसम्मूढचेताः।
यच्छ्रेयस्यानिश्चितं ब्रूहि तन्मे
शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्॥७॥

न हि प्रपश्यामि ममापनुद्याद्
यच्छोकमुच्छोषणमिन्द्रियाणाम्।
अवाप्य भूमावसपत्रमृद्धं
राज्यं सुराणामपि चाधिपत्यम्॥८॥

सञ्जयः—

एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तपः।
न योत्स्य इति गोविन्दम् उक्त्वा तूष्णीं बभूव ह॥९॥

तमुवाच हृषीकेशः प्रहसन्निव भारत।
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः॥१०॥

श्रीभगवान्—

अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे।
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः॥११॥

नत्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः।
न चैव न भविष्यामस् सर्वे वयमतः परम्॥१२॥

देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा।
तथा देहान्तरप्राप्तिर् धीरस्तत्र न मुह्यति ॥१३॥

मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः।
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत॥१४॥

यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ।
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते॥१५॥

नासतो विद्यते भावो नाभावो विद्यते सतः।
उभयोरपि दृष्टोऽन्तस् त्वनयोस्तत्त्वदर्शिभिः॥१६॥

अविनाशि तु तद्विद्धि येन सर्वमिदं ततम्।
विनाशमव्ययस्यास्य न कश्चित् कर्तुमर्हति॥१७॥

अन्तवन्त इमे देहा नित्यस्योक्ताश्शरीरिणः।
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत॥१८॥

य एनं वेत्ति हन्तारं यश्चैनं मन्यते हृतम्।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते॥१९॥

न जायते म्रियते वा कदाचि148-
न्नायं भूत्वा भविता वा न भूयः।

अजो नित्यश्शाश्वतोऽयं पुराणो
न हन्यते हन्यमाने शरीरे॥२०॥

वेदाविनाशिनं नित्यं य एनमजमव्ययम्।
कथं स पुरुषः पार्थ कं घातयति हन्ति कम्॥२१॥

वासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरोऽपराणि।
तथा शरीराणि विहाय जीर्णा-
न्यन्यानि संयाति नवानि देही ॥२२॥

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः॥२३॥

अच्छेद्योऽयमदाह्योऽयम् अक्लेद्योऽशोष्य एव च।
नित्यस्सर्वगतस्स्थाणुर् अचलोऽयं सनातनः॥२४॥

अव्यक्तोऽयमचिन्त्योऽयम् अविकार्योऽयमुच्यते।
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि॥२५॥

अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम्।
तथाऽपि त्वं महाबाहो नैवं149 शोचितुमर्हसि॥२६॥

जातस्य हि ध्रुवो मृत्युर् ध्रुवं जन्म मृतस्य च।
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि॥२७॥

अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत।
अव्यक्तनिधनान्येव तत्रका परिदेवना॥२८॥

आश्चर्यवत् पश्यति कश्चिदेनम्
आश्चर्यवद्वदति तथैव चान्यः।
आश्चर्यवच्चैनमन्यश्शृणोति
श्रुत्वाऽप्येनं वेद न चैव कश्चित्॥२९॥

देही नित्यमवध्योऽयं देहे सर्वस्य भारत।
तस्मात् सर्वाणि भूतानि न त्वं शोचितुमर्हसि॥३०॥

स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि।
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत् क्षत्रियस्य न विद्यते॥ ३१॥

यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम्।
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम्॥३२॥

अथ चेत् त्वं धर्म्यमिमं सङ्ग्रामं न करिष्यसि।
ततस्स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि॥३३॥

अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम्।
सम्भावितस्य चाकीर्तिर् मरणादतिरिच्यते॥३४॥

भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः।
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्॥३५॥

अवाच्यवादांश्च बहून् वदिष्यन्ति तवाहिताः।

निन्दन्तस्तव सामर्थ्य ततो दुःखतरं नु किम्॥३६॥

हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम्।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः॥३७॥

सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ।
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि॥३८॥

एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु।
बुध्द्यायुक्तो यया पार्थ कर्मबन्धं प्रहास्यसि॥३९॥

नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते।
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्॥४०॥

व्यवसायात्मिका बुद्धिर् एकेह कुरुनन्दन।
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम्॥४१॥

यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः150
वेदवादरताः पार्थ नान्यदस्तीति वादिनः॥४२॥

कामात्मानस्स्वर्गपरा जन्मकर्मफलप्रदाम्151
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति॥४३॥

भोगैश्वर्यप्रसक्तानां तयाऽपहृतचेतसाम्।
व्यवसायात्मिका बुद्धिस् समाधौ न विधीयते॥४४॥

त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन।

निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान्॥४५॥

यावानर्थ उदपाने सर्वतस्सम्प्लुतोदके।
तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः॥४६॥

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि॥४७॥

योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय।
सिद्ध्यसिद्ध्योस्समो भूत्वा समत्वं योग उच्यते॥४८॥

दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय।
बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः॥४९॥

बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते।
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम्॥५०॥

कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः।
जन्मबन्धविनिर्मुक्ताः पदं गन्छन्त्यनामयम्॥५१॥

यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति।
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च॥५२॥

श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला।
समाधावचला बुद्धिस् तदा योगमवाप्स्यसि॥५३॥

अर्जुनः—

स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव।

स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम्॥५४॥

श्रीभगवान्—

प्रजाति यदा कामान् सर्वान् पार्थ मनोगतान्।
आत्मन्येवात्मना तुष्टस् स्थितप्रज्ञस्तदोच्यते॥५५॥

दुःखेष्वनुद्विग्नमनास् सुखेषु विगतस्पृहः।
वीतरागभयोक्रोधस् स्थितधीर्मुनिरुच्यते॥५६॥

यस्सर्वत्रानभिस्नेहस् तत् तत् प्राप्यशुभाशुभम्।
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता॥५७॥

यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः।
इन्द्रियाणीन्द्रियार्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता॥५८॥

विषया विनिवर्तन्ते निराहारस्य देहिनः।
रसवर्ज रसोऽप्यस्य परं दृष्ट्वा निवर्तते॥५९॥

यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः।
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः॥६०॥

तानि सर्वाणि संयम्य युक्त आसीत मत्परः।
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता॥६१॥

ध्यायतो विषयान् पुंसस् सङ्गस्तेषूपजायते।
सङ्गात् सञ्जायते कामः कामात् क्रोधोऽभिजायते॥ ६२॥

क्रोधाद्भवति सम्मोहस् सम्मोहात् स्मृतिविभ्रमः।

स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात् प्रणश्यति॥६३॥

रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन्।
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति॥६४॥

प्रसादे सर्वदुःखानां हानिरस्योपजायते।
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठति॥६५॥

नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना।
न चाभावयतश्शान्तिर् अशान्तस्य कुतस्सुखम्॥६६॥

इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते।
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि॥६७॥

तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः।
इन्द्रियाणीन्द्रियार्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता॥३८॥

या निशा सर्वभूतानां तस्यां जागर्ति संयमी।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः॥६९॥

आपूर्यमाणमचलप्रतिष्ठं
समुद्रमापः प्रविशन्ति यद्वत्।
तद्वत् कामा यं प्रविशन्ति सर्वे
स शान्तिमाप्नोति न कामकामी॥७०॥

विहाय कामान् यत्सर्वान् पुमांश्चरति निःस्पृहः।
निर्ममो निरहंकारस् स शान्तिमधिगच्छति॥७१॥

एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति।
स्थित्वास्यामन्तकालेऽपि ब्रह्म निर्वाणमृच्छति॥७२॥

इति श्रीमहाभारते शतसहस्रिकायांसंहितायां वैयासिक्यां
भीष्मपर्वणि चतुर्विंशोऽध्यायः॥२४॥
॥६३॥भगवद्गीतापर्वणि द्वादशोऽध्यायः॥१२॥
॥भगवद्गीतायां द्वितीयोऽध्यायः॥
[ अस्मिन्नध्याये ७२ श्लोकाः ]
<MISSING_FIG href="#"/><MISSING_FIG href="../books_images/U-IMG-1706635364मम.png"/>

॥पञ्चविंशोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1706635380bbbb.png"/>
॥भगवद्गीताध्यायः॥३॥
<MISSING_FIG href="../books_images/U-IMG-1706635364मम.png"/>

अर्जुनः—

ज्यायसी चेत् कर्मणस्ते मता बुद्धिर्जनार्दन।
तत् किं कर्मणि घोरे मां नियोजयसि केशव॥१॥

व्यामिश्रेणेव वाक्येन बुद्धि मोहयसीव मे।
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम्॥२॥

श्रीभगवान्—

लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ।
ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम्॥३॥

न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते।
न च संन्यसनादेवसिद्धिं समधिगच्छति॥४॥

न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत्।
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः॥५॥

कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन्।
इन्द्रियार्थान् विमूढात्मा मिथ्याचारस्स उच्यते॥६॥

यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन।
कर्मेन्द्रियैः कर्मयोगम् असक्तस्स विशिष्यते॥७॥

नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः।
शरीरयात्राऽपि च ते न प्रसिद्ध्येदकर्मणः॥८॥

यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः।
तदर्थं कर्म कौन्तेय मुक्तसङ्गस्समाचर॥९॥

सहयज्ञाः प्रजास्सृष्ट्वा पुरोवाच प्रजापतिः।
अनेन प्रसविष्यध्वम् एष वोऽस्त्विष्टकामधुक्॥१०॥

देवान् भावयताऽनेन ते देवा भावयन्तु वः।
परस्परं भावयन्तश् श्रेयः परमवाप्स्यथ॥११॥

इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः।
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः॥१२॥

यज्ञशिष्टाशिनस्सन्तो मुच्यन्ते सर्वकिल्बषैः।
मुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात्॥१३॥

अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः।

यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः॥१४॥

कर्म ब्रह्मोद्भवं विद्धि ब्रह्माऽक्षरसमुद्भवम्।
तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम्॥१५॥

एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः।
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति॥१६॥

यस्त्वात्मरतिरेव स्याद् आत्मतृप्तश्च मानवः।
आत्मन्येव च सन्तुष्टस् तस्य कार्यंन विद्यते॥१७॥

नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन।
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः॥१८॥

तस्मादसक्तस्सततं कार्यं कर्म समाचर।
असक्तो ह्याचरन् कर्म परमाप्नोति पूरुषः॥१९॥

कर्मणैव हि संसिद्धिम् आस्थिता जनकादयः।
लोकसङ्ग्रहमेवापि सम्पश्यन् कर्तुमर्हसि॥२०॥

यद्यदाचरति श्रेष्ठस् तत् तदेवेतरो जनः।
स यत् प्रमाणं कुरुते लोकस्तदनुवर्तते॥२१॥

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन।
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि॥२२॥

यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः॥२३॥

उत्सीदेयुरिमे लोका न कुर्या कर्म चेदहम्।
सङ्करस्य च कर्ता स्याम् उपहन्यामिमाः प्रजाः॥२४॥

सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत।
कुर्याद्विद्वांस्तथाऽसक्तश् चिकीर्षुर्लोकसङ्ग्रहम्॥२५॥

न बुद्धिभेदं जनयेद् अज्ञानां कर्मसङ्गिनाम्।
जोषयेत् सर्वकर्माणि विद्वान् युक्तस्समाचरन्॥२६॥

प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः।
अहङ्कारविमूढात्मा कर्ताहमिति मन्यते॥२७॥

तत्त्ववित् तु महाबाहो गुणकर्मविभागयोः।
गुणाऽगुणेषु वर्तन्त इति मत्वा न सज्जते॥२८॥

प्रकृतेर्गुणसम्मूढास् सज्जन्ते गुणकर्मसु।
तानकृत्स्नविदो मन्दान् कृत्स्नाविन्न विचालयेत्॥२९॥

मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः॥३०॥

ये मे मतमिदं नित्यम् अनुतिष्ठन्ति मानवाः।
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः॥३१॥

ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम्।
सर्वज्ञानविमूढांस्तान् विद्धि नष्टानचेतसः॥३२॥

सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि।

प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति॥३३॥

इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ।
तयोर्न वशमागच्छेत् तौह्यस्य परिपन्थिनौ॥३४॥

श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वतुष्ठितात्।
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः॥३५॥

अर्जुनः—

अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः।
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः॥३६॥

श्रीभगवान्—

काम एष क्रोध एष रजोगुणसमुद्भवः।
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम्॥३७॥

धूमेनाव्रियते वह्निर् यथाऽऽदर्शो मलेन च।
यथोल्बेनावृतो गर्भस् तथा तेनेदमावृतम्॥३८॥

आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा।
कामरूपेण कौन्तेय दुष्पूरेणानलेन च॥३९॥

इन्द्रियाणि मनो बुद्धिर् अस्याधिष्ठानमुच्यते।
एतैर्विमोहयत्येष ज्ञानमावृत्त्य देहिनम्॥४०॥

तस्मात् त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ।
पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम्॥४१॥

इन्द्रियाणि पराण्याहुर् इन्द्रियेभ्यः परं मनः।
मनसस्तु परा बुद्धिर् यो बुद्धेः परतस्तु सः॥४२

एवं बुद्धेः परं बुद्धा संस्तभ्यात्मानमात्मना।
जहि शत्रुं महाबाहो कामरूपं दुरासदम्॥४३

इति श्रीमहाभारते शतसहस्रिकायांसंहितायां वैयासिक्यां
भीष्मपर्वणि पञ्चविंशोऽध्यायः॥२५॥
॥६३॥भगवद्गीतापर्वणि त्रयोदशोऽध्यायः॥१३॥
॥भगवद्गीताय तृतीऽयोध्यायः॥
[ अस्मिन्नध्याये ४३ श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1706636361मम.png"/>

॥षड्विशोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1706636376bbbb.png"/>
॥भगवद्गीताध्यायः॥४॥
<MISSING_FIG href="../books_images/U-IMG-1706636361मम.png"/>

श्रीभगवान्—

इमं विवस्वते योगं प्रोक्तवानहमव्ययम्।
विवस्वान् मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत्॥१॥

एवं परम्पराप्राप्तम् इमं राजर्षयो विदुः।
स कालेनेह महता योगो नष्टः परन्तप॥२॥

स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः।
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम्॥३॥

अर्जुनः—

अपरं भवतो जन्म परं जन्म विवस्वतः।
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति॥४॥

श्रीभगवान्—

बहूनि मे व्यतीतानि जन्मानि तव चार्जुन।
तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप॥५॥

अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन्।
प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया॥६॥

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत।
अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम्॥७॥

परित्राणाय साधूनां विनाशाय च दुष्कृताम्।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे॥८॥

जन्म कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः।
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन॥९॥

वीतरागभयक्रोधा मन्मया मामुपाश्रिताः।
बहवो ज्ञानतपसा पूता मद्भावमागताः॥१०

ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः॥११॥

काङ्ङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः।

क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा॥१२॥

चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः।
तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम्॥१३॥

न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा।
इति मां योऽभिजानाति कर्मभिर्न स बध्यते॥१४॥

एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः।
कुरु कर्मैव तस्मात् त्वं पूर्वैः पूर्वतरं कृतम्॥१५॥

किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः।
तत् ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात्॥१६॥

कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः।
अकर्मणश्चबोद्धव्यं गहना कर्मणो गतिः॥१७॥

कर्मण्यकर्म यः पश्येद् अकर्मणि च कर्म यः।
स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्नकर्मकृत्॥१८॥

यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः।
ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः॥१९॥

त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः।
कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित् करोति सः॥२०॥

निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः।
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम्॥२१॥

यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः।
समस्सिद्धावसिद्धौ च कृत्वाऽपि न निबध्यते॥२२॥

गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः।
यज्ञायाचरतः कर्म समग्रंप्रविलीयते॥२३॥

ब्रह्मार्पणं ब्रह्म हविर् ब्रह्माग्नौ ब्रह्मणा हुतम्।
ब्रह्मैव तेन गन्तव्यं ब्रह्म कर्म समाधिना॥२४॥

दैवमेवापरे यज्ञं योगिनः पर्युपासते।
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति॥२५॥

श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति।
शब्दादीन् विषयानन्य इन्द्रियाग्निषु जुह्वति॥२६॥

सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे।
आत्मसंयमयोगाग्नौजुह्वति ज्ञानदीपिते॥२७॥

द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथाऽपरे।
स्वाध्यायज्ञानयज्ञाश्च यतयस्संशितव्रताः॥२८॥

अपाने जुह्वति प्राणं प्राणेऽपानं तथाऽपरे।
प्राणापानगती रुद्ध्वाप्राणायामपरायणाः॥२९॥

अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति।
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः॥३०॥

यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम्।

नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम॥३१॥

एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे।
कर्मजान् विद्धि तान् सर्वान् एवं ज्ञात्वा विमोक्ष्यसे॥ ३२॥

श्रेयान् द्रव्यमयाद्यज्ञाज् ज्ञानयज्ञः परन्तप।
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते॥३३॥

तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया।
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः॥३४॥

यज्ज्ञात्वा न पुनर्मोहम् एवं यास्यसि पाण्डव।
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि॥३५॥

अपि चेदसि पापेभ्यस् सर्वेभ्यः पापकृत्तमः।
सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यसि॥३६॥

यथैधांसि समिद्धोऽग्निर् भस्मसात् कुरुतेऽर्जुन।
ज्ञानाग्निस्सर्वकर्माणि भस्मसात् कुरुते तथा॥३७॥

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते।
तत् स्वयं योगसंसिद्धः कालेनात्मनि विन्दति॥३८॥

श्रद्धावाल्ँलभते ज्ञानं तत्परस्संयतेन्द्रियः।
ज्ञानं लब्ध्वा परां शान्तिम् अचिरेणाधिगच्छति॥३९॥

अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति।
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः॥४०॥

योगसंन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम्।
आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय॥४१

तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनाऽऽत्मनः।
छित्त्वैनं संशयं योगम् आतिष्ठोत्तिष्ठ भारत॥४२

इति श्रीमहाभारते शतसहस्रिकायांसंहितायां वैयासिक्यां
भीष्मपर्वणि षड्विंशोऽध्यायः॥२६॥
॥६३॥ भगवद्गीतापर्वणि चतुर्दशोऽध्यायः॥१४॥
॥भगवद्गीतायांचतुर्थोऽध्यायः॥
[ अस्मिन्नध्याये ४२ श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1706637238मम.png"/>

॥ सप्तविंशोऽध्यायः ॥

<MISSING_FIG href="../books_images/U-IMG-1706637249bbbb.png"/>
॥ भगवद्गीताध्यायः ॥५॥
<MISSING_FIG href="../books_images/U-IMG-1706637238मम.png"/>

अर्जुनः—

संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि।
यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम्॥१॥

श्रीभगवान्—

संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ।
तयोस्तु कर्मसंन्यासात् कर्मयोगो विशिष्यते॥२॥

ज्ञेयस्स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति।
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात् प्रमुच्यते॥३॥

साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः।
एकमप्यास्थितस्सम्यग् उभयोर्विन्दते फलम्॥४॥

यत् साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते।
एकं साङ्ख्यंच योगं च यः पश्यति स पश्यति॥५॥

संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः।
योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति॥६॥

योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः।
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते॥७॥

नैव किश्चित् करोमीति युक्तो मन्येत तत्त्ववित्।
पश्यन् शृण्वन् स्पृशञ्जिघ्रन्नश्नन् गच्छन् स्वपन् श्वसन्॥८॥

प्रलपन् विसृजन गृहन्नुन्मिषन् निमिषन्नपि।
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन्॥९॥

ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः।
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा॥१०॥

कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि।
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वाऽऽत्मशुद्धये॥११॥

युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम्।
अयुक्तः कामकारेण फले सक्तो निबध्यते॥१२॥

सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी।

नवद्वारे पुरे देही नैव कुर्वन्न कारयन्॥१३॥

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः।
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते॥१४॥

नादत्ते कस्य चित् पापं न चैव सुकृतं विभुः।
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः॥१५॥

ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः।
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम्॥१६॥

तद्बुद्ध्यस्तदात्मानस् तन्निष्ठास्तत्परायणाः।
गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः॥१७॥

विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि।
शुनि चैव श्वपाके च पण्डितास्समदर्शिनः॥१८॥

इहैव तैर्जितस्सर्गो येषां साम्ये स्थितं मनः।
निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः॥१९॥

न प्रहृष्येत् प्रियं प्राप्य नोद्विजेत् प्राप्य चाप्रियम्।
स्थिरबुद्धिरसम्मूढो ब्रह्मविद्ब्रह्मणि स्थितः॥२०॥

बाह्यस्पर्शेष्वसत्तात्मा विन्दत्यात्मनि यत् सुखम्।
स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते॥२१॥

ये हि संस्पर्शजा भोगा दुःखयोनय एव ते।
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः॥२२॥

शक्नोतीहैव यस्सोढुं प्राक्शरीरविमोक्षणात्।
कामक्रोधोद्भवं वेगं स युक्तस्स सुखी नरः॥२३॥

योऽन्तःसुखोऽन्तरारामस्तथाऽन्तर्ज्योतिरेव यः।
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति॥२४॥

लभन्ते ब्रह्मनिर्वाणम् ऋषयः क्षीणकल्मषाः।
छिन्नद्वैधा यतात्मानस् सर्वभूतहिते रताः॥२५॥

कामक्रोधवियुक्तानां यतीनां यतचेतसाम्।
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम्॥२६॥

स्पर्शान् कृत्वा बहिर्वाह्यांश चक्षुश्चैवान्तरे भ्रुवोः।
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ॥२७॥

यतेन्द्रियमनोबुद्धिर् मुनिर्मोक्षपरायणः।
विगतेच्छाभयक्रोधो यस्सदा मुक्त एव सः॥२८॥

भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम्।
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति॥२९॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि सप्तविंशोऽध्यायः॥२७॥
॥६३॥भगवद्गीतापर्वणि पञ्चदशोऽध्यायः॥१५॥
॥भगवद्गीतायां पञ्चमोऽध्यायः॥
[अस्मिन्नध्याये २९ श्लोकाः ]

॥अष्टाविंशोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1706638055नन.png"/>
॥भगवद्गीताध्यायः॥ ६॥
<MISSING_FIG href="../books_images/U-IMG-1706638066मम.png"/>

श्रीभगवान्—

अनाश्रितः कर्मफलं कार्यं कर्म करोति यः।
स संन्यासी च योगी च न निरग्निर्नचाक्रियः॥१॥

यं संन्यासमिति प्राहुर् योगं तं विद्धि पाण्डव।
न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन॥२॥

आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते।
योगारूढस्य तस्यैव शमः कारणमुच्यते॥३॥

यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्यते।
सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते॥४॥

उद्धरेदात्मनाऽऽत्मानं नात्मानमवसादयेत्।
आत्मैव ह्यात्मनो बन्धुर् आत्मैव रिपुरात्मनः॥५॥

बन्धुरात्माऽऽत्मनस्तस्य येनात्मैवात्मना जितः।
अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत्॥६॥

जितात्मनः प्रशान्तस्य परमात्मा समाहितः।
शीतोष्णसुखदुःखेषु तथा मानावमानयोः॥७॥

ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः।
युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः॥८॥

सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु।
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते॥९॥

योगी युञ्जीत सततम् आत्मानं रहसि स्थितः।
एकाकी यतचित्तात्मा निराशीरपरिग्रहः॥१०॥

शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः।
नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम्॥११॥

तत्रैकाग्रंमनः कृत्वा यतचित्तेन्द्रियक्रियः।
उपविश्यासने युञ्ज्याद् योगमात्मविशुद्धये॥१२॥

समं कायशिरोग्रीवं धारयन्नचलं स्थिरः।
सम्प्रेक्ष्य नासिकाग्रंस्वं दिशश्चानवलोकयन्॥१३॥

प्रशान्तात्मा विगतभीर् ब्रह्मचारिव्रते स्थितः।
मनस्संयम्य मच्चित्तो युक्त आसीत मत्परः॥१४॥

युञ्जन्नेवं सदाऽऽत्मानं योगी नियतमानसः।
शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति॥१५॥

नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः।
न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन॥१६॥

युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु।

युक्तस्वप्नावबोधस्य योगो भवति दुःखहा॥१७॥

यदा विनियतं चित्तम् आत्मन्येवावतिष्ठते।
निस्पृहस्सर्वकामेभ्यो युक्त इत्युच्यते तदा॥१८॥

यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता।
योगिनो यतचित्तस्य युञ्जतो योगमात्मनः॥१९॥

यत्नोपरमते चित्तं निरुद्धं योगसेवया।
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति॥२०॥

सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम्।
वेत्ति यत्न न चैवायं स्थितश्चलति तत्त्वतः॥२१॥

यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः।
यस्मिन् स्थितो न दुःखेन गुरुणाऽपि विचाल्यते॥ २२॥

तं विद्याद्दुःखसंयोगवियोगं योगसंज्ञितम्।
स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा॥२३॥

सङ्कल्पप्रभवान् कामांस् त्यक्त्वा सर्वानशेषतः।
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः॥२४॥

शनैश्शनैरुपरमेद् बुद्ध्या धृतिगृहीतया।
आत्मसंस्थं133 मनः कृत्वा न किञ्चिदपि चिन्तयेत्॥२५॥

यतो यतो निश्चरति मनश्चञ्चलमस्थिरम्।

ततस्ततो नियम्यैतद् आत्मन्येव वशं नयेत्॥२६॥

प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम्।
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम्॥२७॥

युञ्जन्नेवं सदाऽऽत्मानं योगी विगतकल्मषः।
सुखेन ब्रह्मसंस्पर्शम् अत्यन्तं सुखमश्नुते॥२८॥

सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि।
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः॥२९॥

यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति॥३०॥

सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः।
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते॥३१॥

आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन।
सुखं वा यदि वा दुःखं स योगी परमो मतः॥३२॥

अर्जुनः—

योऽयं योगस्त्वया प्रोक्तस् साम्येन मधुसूदन।
एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिं स्थिराम्॥३३॥

चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम्।
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम्॥३४॥

श्रीभगवान्—

असंशयं महाबाहो मनो दुर्निग्रहं चलम्।
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते॥३५॥

असंयतात्मना योगो दुष्प्राप इति मे मतिः।
वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः॥३६॥

अर्जुनः—

अयतिश्श्रद्धयोपेतो योगाच्चलितमानसः।
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥३७॥

कञ्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति।
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि॥३८॥

एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः।
त्वदन्यस्संशयस्यास्य छेत्ता न ह्युपपद्यते॥३९॥

श्रीभगवान्—

पार्थ नैवेह नामुखविनाशस्तस्य विद्यते।
न हि कल्याणकृत् कश्चिद् दुर्गतिं तात गच्छति ॥४०॥

प्राप्य पुण्यकृतां लोकान् उषित्वा शाश्वतीस्समाः।
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते॥४१॥

अथवा योगिनामेव कुले भवति धीमताम्।
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम्॥४२॥

तत्रतं बुद्धिसंयोगं लभते पौर्वदेहिकम्।
यतते च ततो भूयस् संसिद्धौ कुरुनन्दन॥४३॥

पूर्वाभ्यासेन133 तेनैव ह्रियते ह्यवशोऽपि सः।
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते॥४४॥

प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः।
अनेकजन्मसंसिद्धस् ततो याति परां गतिम्॥४५॥

तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः।
कर्मिभ्याधिको योगी तस्माद्योगी भवार्जुन॥४६॥

योगिनामपि सर्वेषां मद्गतेनान्तरात्मना।
श्रद्धावान् भजते यो मां स मे युक्ततमो मतः॥४७॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि अष्टाविंशोऽध्यायः॥२८॥
॥६३॥भगवद्गीतापर्वणि षोडशोऽध्यायः॥१६॥
॥भगवद्गीतायां षष्ठोऽध्यायः॥
[ अस्मिन्नध्याये ४७ श्लोकाः]
<MISSING_FIG href="../books_images/U-IMG-1706671476मम.png"/>

॥ एकोनत्रिंशोऽध्यायः ॥

<MISSING_FIG href="../books_images/U-IMG-1706671759bbbb.png"/>
॥भगवद्गीताध्यायः॥७॥
<MISSING_FIG href="../books_images/U-IMG-1706671769मम.png"/>

श्रीभगवान्—

मय्यासक्तमनाः पार्थ योगं युञ्जन् मदाश्रयः।
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु॥१॥

ज्ञानं तेऽहं सविज्ञानम् इदं वक्ष्याम्यशेषतः।
यज्ज्ञात्वा नेह भूयोऽन्यज् ज्ञातव्यमवशिष्यते॥२॥

मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये।
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः॥३॥

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च।
अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा॥४॥

अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम्।
जीवभूतां महाबाहो ययेदं धार्यते जगत्॥५॥

एतद्योनीनि भूतानि सर्वाणीत्युपधारय।
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा॥६॥

मत्तः परतरं नान्यत् किचिदस्ति धनञ्जय।
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव॥७॥

रसोऽहमप्सु कौन्तेय प्रभाऽस्मि शशिसूर्ययोः।
प्रणवस्सर्ववेदेषु शब्दः खे पौरुषं नृषु॥८॥

पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ।
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु॥९॥

बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम्।
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम्॥१०॥

बलं बलवतां चाहं कामरागविवर्जितम्।
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ॥११॥

ये चैव सात्विका भावा राजसास्तामसाश्च ये।
मत्त एवेति तान् विद्धि न त्वहं तेषु ते मयि॥१२॥

त्रिभिर्गुणमयैर्भावैर् एभिस्सर्वमिदं जगत्।
मोहितं नाभिजानाति मामेभ्यः परमव्ययम्॥१३॥

देवी ह्येषा गुणमयी मम माया दुरत्यया।
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते॥१४॥

न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः।
माययाऽपहृतज्ञाना आसुरं भावमाश्रिताः॥१५॥

चतुर्विधा भजन्ते मां जनास्सुकृतिनोऽर्जुन।
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ।१६॥

तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते।

प्रियो हि ज्ञानिनोऽत्यर्थम् अहं स च मम प्रियः॥१७॥

उदारास्सर्व एवैते ज्ञानी त्वात्मैव मे मतम्।
आस्थितस्स हि युक्तात्मा मामेवानुत्तमां गतिम्॥१८॥

बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते।
वासुदेवस्सर्वमिति स महात्मा सुदुर्लभः॥१९॥

कामैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः।
तं तं नियममास्थाय प्रकृत्या नियतास्स्वया॥२०॥

यो यो यां यां तनुं भक्तश् श्रद्धयाऽर्चितुमिच्छति।
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम्॥२१॥

स तया श्रद्धया युक्तस् तस्याराधनमीहते।
लभते च ततः कामान् मयैव विहितान् हि तान्॥२२॥

अन्तवत् तु फलं तेषां तद्भवत्यमेधसाम्।
देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि॥२३॥

अव्यक्तं व्यक्तिमापन्नंमन्यन्ते मामबुद्धयः।
परं भावमजानन्तो ममाव्ययमनुत्तमम्॥२४॥

नाहं प्रकाशस्सर्वस्य योगमायासमावृतः।
मूढोऽयं नाभिजानाति लोको मामजमव्ययम्॥२५॥

वेदाहं समतीतानि वर्तमानानि चार्जुन।
भविष्याणि च भूतानि मां तु वेद न कश्चन॥२६॥

इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत।
सर्वभूतानि सम्मोहं सर्गे यान्ति परंतप॥२७॥

येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम्।
ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः॥२८॥

जरामरणमोक्षाय मामाश्रित्य यतन्ति ये।
ते ब्रह्म तद्विदुः कृत्स्नम् अध्यात्मं कर्म चाखिलम्॥२९॥

साधिभूताधिदैवं मां साधियज्ञं च ये विदुः।
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः॥३०॥

इति श्रीमहाभारते शतसहस्रिकायांसंहितायां वैयासिक्यां
भीष्मपर्वणि एकोनविंशोऽध्यायः॥२९॥
॥६३॥भगवद्गीतापर्वणि सप्तदशोऽध्यायः॥१७॥
॥भगवद्गीतायां सप्तमोऽध्यायः॥
[ अस्मिन्नध्याये ३० श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1706672330मम.png"/>

॥ त्रिंशोऽध्यायः ॥

<MISSING_FIG href="../books_images/U-IMG-1706672346NNNN.png"/>
॥भगवद्गीताध्यायः॥८॥
<MISSING_FIG href="../books_images/U-IMG-1706672330मम.png"/>

अर्जुनः—

किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम।
अधिभूतं च किं प्रोक्तम् अधिदैवं किमुच्यते॥१॥

अधियज्ञः कथं कोऽत्र देहेऽस्मिन् मधुसूदन।

प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः॥२॥

श्रीभगवान्—

अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते।
भूतभावोद्भवकरोविसर्गः कर्मसंज्ञितः॥३॥

अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम्।
अधियज्ञोऽहमेवात्र देहे देहभृतां वर॥४॥

अन्तकाले च मामेव स्मरन् मुक्त्वा कलेबरम्।
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः॥५॥

यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेबरम्।
तं तमेवैति कौन्तेय सदा तद्भावभावितः॥६॥

तस्मात् सर्वेषु कालेषु मामनुस्मर युध्य च।
मय्यर्पितमनोबुद्धिर् मामेवैष्यस्यसंशयः॥७॥

अभ्यासयोगयुक्तेन चेतसा नान्यगामिना।
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन्॥८॥

कवि पुराणमनुशासितारम्
अणोरणीयांसमनुस्मरेद्यः।
सर्वस्य धातारमचिन्त्यरूपम्
आदित्यवर्णं तमसः परस्तात्॥९॥

प्रयाणकाले मनसाऽचलेन
भक्त्या युक्तो योगबलेन चैव।
भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्
स तं परं पुरुषमुपैति दिव्यम्॥१०॥

यदक्षरं वेदविदो वदन्ति
विशन्ति यद्यतयो वीतरागाः।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति
तत् ते पदं सङ्ग्रहेण प्रवक्ष्ये॥११॥

सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च।
मूर्ध्न्याधायात्मनः प्राणम् आस्थितो योगधारणाम्॥ १२॥

ओमित्येकाक्षरं ब्रह्म व्याहरन मामनुस्मरन्।
यः प्रयाति त्यजन् देहं स याति परमां गतिम्॥१३॥

अनन्यचेतास्सततं यो मां स्मरति नित्यशः।
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः॥१४॥

मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम्।
नाप्नुवन्ति महात्मानस् संसिद्धिं परमां गताः॥१५॥

आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन।
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते॥१६॥

सहस्रयुगपर्यन्तम् अहर्यद्ब्रह्मणो विदुः।

रात्रिं युगसहस्रां तां तेऽहोरात्रविदो जनाः॥१७॥

अव्यक्ताद्व्यक्तयस्सर्वाः प्रभवन्त्यहरागमे।
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके॥१८॥

भूतग्रामस्स एवायं भूत्वा भूत्वा प्रलीयते।
रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे॥१९॥

परस्तस्मात् तु भावोऽन्यो व्यक्तोऽव्यक्तात् सनातनः।
यस्स सर्वेषु भूतेषु नश्यत्सु न विनश्यति॥२०॥

अव्यक्तोऽक्षर इत्युक्तम् तमाहुः परमां गतिम्।
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम॥२१॥

पुरुषस्स परः पार्थ भक्त्या लभ्यस्त्वनन्यया।
यस्यान्तस्स्थानि भूतानि येन सर्वमिदं ततम्॥२२॥

यत्र काले त्वनावृत्तिम् आवृत्तिं चैव योगिनः।
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ॥२३॥

अग्निर्ज्योतिरहश्शुक्लष् षण्मासा उत्तरायणम्।
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः॥२४॥

धूमो रात्रिस्तथा कृष्णष् षण्मासा दक्षिणायनम्।
तत्र चान्द्रमसं ज्योतिर् योगी प्राप्य निवर्तते॥२५॥

शुक्लकृष्णे गती ह्येते जगतश्शाश्वते मते।
एकया यात्यनावृत्तिम् अन्ययाऽऽवर्तते पुनः॥२६॥

नैते सृती पार्थ जानन् योगी मुह्यति कश्चन।
तस्मात् सर्वेषु कालेषु योगयुक्तो भवार्जुन॥२७॥

वेदेषु यज्ञेषु तपस्सु चैव
दानेषु यत् पुण्यफलं प्रदिष्टम्।
अत्येति तत् सर्वमिदं विदित्वा
योगी परं स्थानमुपैति चाद्यम्॥२८॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि त्रिंशोऽध्यायः॥३०॥
॥६३॥भगवद्गीतापर्वणि अष्टादशोऽध्यायः॥१८॥
॥भगवद्गीतायांअष्टमोऽध्यायः॥
[अस्मिन्नध्याये २८ श्लोकाः]
<MISSING_FIG href="../books_images/U-IMG-1706673322मम.png"/>

॥ एकत्रिंशोऽध्यायः ॥

<MISSING_FIG href="../books_images/U-IMG-1706673332NNNN.png"/>
॥ भगवद्गीताध्यायः ॥९॥
<MISSING_FIG href="../books_images/U-IMG-1706673322मम.png"/>

श्रीभगवान्—

इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे।
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात्॥१॥

राजविद्या राजगुह्यं पवित्रमिदमुत्तमम्।
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम्॥२॥

अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप।

अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि॥३॥

मया ततमिदं सर्वं जगदव्यक्तमूर्तिना।
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः॥४॥

न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम्।
भूतभृन्न च भूतस्थो ममात्मा भूतभावनः॥५॥

यथाऽऽकाशस्थितो नित्यं वायुस्सर्वत्रगो महान्।
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय॥६॥

सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम्।
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम्॥७॥

प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः।
भूतग्राममिमं कृत्स्नम् अवशं प्रकृतेर्वशात्॥८॥

न च मां तानि कर्माणि निबध्नन्ति धनञ्जय।
उदासीनवदासीनम् असक्तं तेषु कर्मसु॥९॥

मयाऽध्यक्षेण प्रकृतिस् सूयते सचराचरम्।
हेतुनाऽनेन कौन्तेय जगद्विपरिवर्तते॥१०॥

अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्।
परं भावमजानन्तो मम भूतमहेश्वरम्॥११॥

मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः।
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः॥१२॥

महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः।
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्॥१३॥

सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः।
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते॥१४॥

ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते।
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम्॥१५॥

अहं ऋतुरहं यज्ञस् स्वधाऽहमहमौषधम्।
मन्त्रोऽहमहमेवाज्यम् अहमभिरहं हुतम्॥१६॥

पिताऽहमस्य जगतो माता धाता पितामहः।
वेद्यं पवित्रमोंकार ऋक् साम यजुरेव च॥१७॥

गतिर्भर्ता प्रमुस्साक्षी निवासश्शरणं सुहृत्।
प्रभवः प्रलयस्स्थानं निधानं बीजमव्ययम्॥१८॥

तपाम्यहमहं वर्षं निगृह्णाभ्युत्सृजामि च।
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन॥१९॥

त्रैविद्या मां सोमपाः पूतपापा
यज्ञैरिष्ट्वास्वर्गतिं प्रार्थयन्ते।
ते पुण्यमासाद्य सुरेन्द्रलोकम्
अश्नन्ति दिव्यान् दिवि देवभोगान्॥२०॥

ते तं भुक्त्वा स्वर्गलोकं विशालं
क्षीणे पुण्ये मर्त्यलोकं विशन्ति।
एवं त्रयीधर्ममनुप्रपन्ना
गतागतं कामकामा लभन्ते॥२१॥

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्॥२२॥

येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः।
तेऽपि मामेव कौन्तेय यजन्त्याविधिपूर्वकम्॥२३॥

अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च।
न तु मामभिजानन्ति तत्त्वेनातश्चयवन्ति ते॥२४॥

यान्ति देवव्रता देवान् पितॄन् यान्ति पितृव्रताः।
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम्॥२५॥

पत्रंपुष्पं फलं तोयं यो मे भक्त्याप्रयच्छति।
तदहं भक्त्युपहृतम् अश्नामि प्रयतात्मनः॥२६॥

यत् करोषि यदश्नासि यज्जुहोषि ददासि यत्।
यत् तपस्यसि कौन्तेय तत् कुरुष्व मदर्पणम्॥२७॥

शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः।
संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि॥२८॥

समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः।

ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम्॥२९॥

अपि चेत् सुदुराचारो भजते मामनन्यभाक्।
साधुरेव स मन्तव्यस् सम्यग्व्यवसितो हि सः॥३०॥

क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति।
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति॥३१॥

मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः।
स्त्रियो वैश्यास्तथा शुद्रास् तेऽपि यान्ति परां गतिम्॥३२॥

किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा।
अनित्यमसुख लोकम् इमं प्राप्य भजस्व माम्॥३३॥

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु।
मामेवैष्यसि युक्त्वैवम् आत्मानं मत्परायणः॥३४॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि एकत्रिंशोऽध्यायः॥३१॥
॥६३ ॥भगवद्गीतापर्वणि एकोनविंशोऽध्यायः॥१९॥
॥भगवद्गीतायांनवमोऽध्यायः॥
[ अस्मिन्नध्याये ३४ श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1706674018मम.png"/>

॥द्वात्रिंशोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1706674149bbbb.png"/>
॥भगवद्गीताध्यायः॥१०॥
<MISSING_FIG href="../books_images/U-IMG-1706674137मम.png"/>

श्रीभगवान्—

भूय एव महाबाहो शृणु मे परमं वचः।
यत् तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया॥१॥

न मे विदुस्सुरगणाः प्रभवं न महर्षयः।
अहमादिर्हिदेवानां महर्षीणां च सर्वशः॥२॥

यो मामजमनादिं च वेत्ति लोकमहेश्वरम्।
असम्मूढस्स मर्त्येषु सर्वपापैः प्रमुच्यते॥३॥

बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमश्शमः।
सुखं दुःखं भवो भावो भयं चाभयमेव च॥४॥

अहिंसा समता तुष्टिस् तपो दानं यशोऽयशः।
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः॥५॥

महर्षयरस्सप्त पूर्वे चत्वारो मनवस्तथा।
मद्भावा मानसाजाता येषां लोक इमाः प्रजाः॥६॥

एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः।
सोऽविकम्पेन योगेन युज्यते नात्र संशयः॥७॥

अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते।

इति मत्वा भजन्ते मां बुधा भावसमन्विताः॥८॥

मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम्।
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च॥९॥

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्।
ददामि बुद्धियोगं तं येन मामुपयान्ति ते॥१०॥

तेषामेवानुकम्पार्थम् अहमज्ञानजं तमः।
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता॥११॥

अर्जुनः—

परं ब्रह्म परं धाम पवित्रं परमं भवान्।
पुरुषं शाश्वतं दिव्यम् आदिदेवमजं विभुम्॥१२॥

आहुस्त्वामृषयस्सर्वे देवर्षिर्नारदस्तथा।
असितो देवलो व्यासस् स्वयं चैव ब्रवीषि मे॥१३॥

सर्वमेतदृतं मन्ये यन्मां वदसि केशव।
न हि ते भगवन् व्यक्तिं विदुर्देवा न दानवाः॥१४॥

स्वयमेवात्मनाऽऽत्मानं वेत्थ त्वं पुरुषोत्तम।
भूतभावन भूतेश देवदेव जगत्पते॥१५॥

वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः।
याभिर्विभूतिभिर्लोकान् इमांस्त्वं व्याप्य तिष्ठसि॥१६॥

कथं विद्यामहं योगिंस् त्वां सदा परिचिन्तयन्।

केषु केषु च भावेषु चिन्त्योऽसि भगवन् मया॥१७॥

विस्तरेणाऽऽत्मनो योगं विभूतिं चजनार्दन।
भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम्॥१८॥

श्रीभगवान्—

हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः।
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे॥१९॥

अहमात्मा गुडाकेश सर्वभूताशयस्थितः।
अहमादिश्च मध्यं च भूतानामन्त एव च॥२०॥

आदित्यानामहं विष्णुर् ज्योतिषां रविरंशुमान्।
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी॥२१॥

वेदानां सामवेदोऽस्मि देवानामस्मि वासवः।
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना॥२२॥

रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम्।
वसूनां पावकश्चास्मि मेरुश्शिखरिणामहम्॥२३॥

पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम्।
सेनानीनामहं स्कन्दस् सरसामस्मि सागरः॥२४॥

महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम्।
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः॥२५॥

अश्वत्थस्सर्ववृक्षाणां देवर्षीणां च नारदः।

गन्धर्वाणां चित्ररथस् सिद्धानां कपिलो मुनिः॥२६॥

उच्चैश्श्रवसमश्वानां विद्धि माममृतोद्भवम्।
ऐरावतं गजेन्द्राणां नराणां च नराधिपम्॥२७॥

आयुधानामहं वज्रं धेनूनामस्मि कामधुक्।
प्रजनश्चास्मि कन्दर्पस् सर्पाणामस्मि वासुकिः॥२८॥

अनन्तश्चास्मि नागानां वरुणो यादसामहम्।
पितृृणामर्यमा चास्मि यमस्संयमतामहम्॥२९॥

प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम्।
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम्॥३०॥

पवनः पवतामस्मि रामश्शस्त्रभृतामहम्॥

झषाणां सकरश्चास्मि स्रोतसामस्मि जाह्नवी॥३१॥

सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन।
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम्॥३२॥

अक्षराणामकारोऽस्मि द्वन्द्वस्सामासिकस्य च।
अहमेवाक्षयः कालो धाताऽहं विश्वतोमुखः॥३३॥

मृत्युस्सर्वहरश्चाहम् उद्भवश्चभविष्यताम्।
कीर्तिश्श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा॥३४॥

बृहत्साम तथा सानां गायत्री छन्दसामहम्।
मासानां मार्गशीर्षोऽहम् ऋतूनां कुसुमाकरः॥३५॥

द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम्।
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम्॥३६॥

वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः।
मुनीनामप्यहं व्यासः कवीनामुशना कविः॥३७॥

दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम्।
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम्॥३८॥

यच्चापि सर्वभूतानां बीजं तदहमर्जुन।
न तदस्ति विना यत्स्यान्मया भूतं चराचरम्॥३९॥

नान्तोऽस्ति मम दिव्यानां विभूतीनां परंतप।
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया॥४०॥

यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा।
तत्तदेवावगच्छ त्वं मम तेजोंशसम्भवम्॥४१॥

अथवा बहुनैतेन किं ज्ञातेन तवार्जुन।
विष्टभ्याहमिदं कृत्स्नम् एकांशेन स्थितो जगत्॥४२॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि द्वात्रिंशोऽध्यायः॥ ३२॥
॥ ६३॥ भगवद्गीतापर्वणि विंशोऽध्यायः॥ २०॥
॥ भगवद्गीतायां दशमोऽध्यायः॥
[ अस्मिन्नध्याये ४२ श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1706700410मम.png"/>

॥ त्रयस्त्रिंशोऽध्यायः ॥

<MISSING_FIG href="../books_images/U-IMG-1706700514bbbb.png"/>
॥भगवद्गीताध्यायः॥११॥
<MISSING_FIG href="../books_images/U-IMG-1706700502मम.png"/>

अर्जुनः—

मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम्।
यत् त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम॥१॥

भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया।
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम्॥२॥

एवमेतद्यथात्थ त्वम् आत्मानं परमेश्वर।
द्रष्टुमिच्छामि ते रूपम् ऐश्वरं पुरुषोत्तम॥३॥

मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो।
योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम्॥४॥

श्रीभगवान्—

पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः।
नानाविधानि दिव्यानि नानावर्णाकृतीनि च॥५॥

पश्यादित्यान् वसून् रुद्रान् अश्विनौ मरुतस्तथा।
बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत॥६॥

इहैकस्थं जगत् कृत्स्नं पश्याद्य सचराचरम्।
मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि॥७॥

न तु मां शक्यसे152 द्रष्टुम् अनेनैव स्वचक्षुषा।
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम्॥

सञ्जयः—

एवमुक्त्वा ततो राजन् महायोगेश्वरो हरिः।
दर्शयामास पार्थाय परमं रूपमैश्वरम्॥८॥

अनेकवक्रनयनम् अनेकाद्भुतदर्शनम्।
अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम्॥७॥

दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम्।
सर्वाश्चर्यमयं देवम् अनन्तं विश्वतोमुखम्॥६॥

दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता।
यदि भास्सदृशी सा स्याद् भासस्तस्य महात्मनः॥७॥

तत्रैकस्थं जगत् कृत्स्नं प्रविभक्तमनेकधा।
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा॥५॥

ततस्स विस्मयाविष्टो हृष्टरोमा धनञ्जयः।
प्रणम्य शिरसा देवं कृताञ्जलिरभाषत॥४॥

अर्जुनः—

पश्यामि देवांस्तव देव देहे
सर्वांस्तथा भूतविशेषसङ्घान्।

ब्रह्माणमीशं कमलासनस्थम्
ऋषींश्च सर्वानुरगांश्च दिव्यान्॥१५॥

अनेकबाहूदरवक्रनेत्रं
पश्यामि त्वां सर्वतोऽनन्तरूपम्।
नान्तं न मध्यं न पुनस्तवादिं
पश्यामि विश्वेश्वर विश्वरूप॥१६॥

किरीटिनं गदिनं चक्रिणं च
तेजोराशिं सर्वतोदीप्तिमन्तम्।
पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्
दीप्तानलार्कद्युतिमप्रमेयम्॥१७॥

त्वमक्षरं परमं वेदितव्यं
त्वमस्य विश्वस्य परं निधानम्।
त्वमव्ययश्शाश्वतधर्मगोप्ता
सनातनस्त्वं पुरुषो मतो मे॥१८॥

अनादिमध्यान्तमनन्तवीर्यम्
अनन्तबाहुं शशिसूर्यनेत्रम्।
पश्यामि त्वां दीप्तहुताशवक्रं
स्वतेजसा विश्वमिदं तपन्तम्॥१९॥

द्यावापृथिव्योरिदमन्तरं हि
व्याप्तं त्वयैकेन दिशश्च सर्वाः।

दृष्ट्वाद्भुतं रूपमुग्रं तदेवं
लोकत्रयंप्रव्यथितं महात्मन्॥२०॥

अमी हि त्वा सुरसङ्घा विशन्ति
कोचिद्भीताः प्राञ्जलयो गृणन्ति।
स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घास्
स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः॥२१॥

रुद्रादित्या वसवो ये च साध्या
विश्वेऽश्विनौ मरुतश्चोष्मपाश्च।
गन्धर्वयक्षासुरसिद्धसङ्घा
वीक्षन्ते त्वां विस्मिताश्चैव सर्वे॥२२॥

रूपं महत् ते बहुवक्रनेत्रं
महाबाहो बहुबाहूरुपादम्॥
बहूदरं बहुदंष्ट्राकरालं
दृष्ट्वा लोकाः प्रव्यथितास्तथाऽहम्॥२३॥

नभः स्पृशं दीप्तमनेकवर्णं
व्यात्ताननं दीप्तविशालनेत्रम्।
दृष्ट्वा हि त्वा प्रव्यथितान्तरात्मा
धृतिं न विन्दामि शमं च विष्णो॥२४॥

दंष्ट्राकरालानि च ते मुखानि
दृष्ट्वैव कालानलसन्निभानि।

दिशो न जाने न लभे च शर्म
प्रसीद देवेश जगन्निवास॥२५॥

अमी च त्वां धृतराष्ट्रस्य पुत्रास्
सर्वे सहैवावनिपालसङ्घैः।
भीष्मो द्रोणस्सूतपुत्रस्तथाऽसौ
सहास्मदीयैरपि योधमुख्यैः॥२६॥

वक्राणि ते त्वरमाणा विशन्ति
दंष्ट्राकरालानि भयानकानि।
केचिद्विलग्नादशनान्तरेषु
संदृश्यन्ते चूर्णितैरुतमाङ्गैः॥२७॥

यथा नदीनां बहवोऽम्बुवेगास्
समुद्रमेवाभिमुखा द्रवन्ति।
तथा तवामी नरलोकवीरा
विशन्ति वक्राण्यभिविज्वलन्ति॥२८॥

यथा प्रदीप्तज्वलनं पतङ्गा
विशन्ति नाशाय समृद्धवेगाः।
तथैव नाशाय विशन्ति लोकास्
तवापि वक्राणि समृद्धवेगाः॥२९॥

लेलिह्यसे ग्रसमानस्समन्ता-
ल्लोकान् समग्रान्153 वदनैर्ज्वलद्भिः।

तेजोभिरापूर्य जगत् समग्रं
भासस्तवोग्राःप्रतपन्ति विष्णो॥३०॥

आख्याहि मे को भवानुग्ररूपो
नमोऽस्तु ते देववर प्रसीद।
विज्ञातुमिच्छामि भवन्तमाद्यं
न हि प्रजानामि तव प्रवृत्तिम्॥३१॥

श्रीभगवान्—

कालोऽस्मि लोकक्षयकृत् प्रवृद्धो
लोकान् समाहर्तुमिह प्रवृत्तः।
ऋतेऽपि त्वा न भविष्यन्ति सर्वे
येऽवस्थिताः प्रत्यनीकेषु योधाः॥३२॥

तस्मात् त्वमुत्तिष्ठ यशो लभस्व
जित्वा शत्रून् भुङ्क्ष्वराज्यं समृद्धम्।
मयैवैते निहताः पूर्वमेव
निमित्तमात्रं भव सव्यसाचिन्॥३३॥

द्रोणं च भीष्मं च जयद्रथं च
कर्णं तथाऽन्यानपि योधवीरान्।
मया हतांस्त्वं जहि मा व्यथिष्ठा
युद्ध्यस्व जेतासि रणे सपत्नान्॥३४॥

सञ्जयः—

एतच्छ्रुत्वा वचनं केशवस्य
कृताञ्जलिर्वेपमानः किरीटी।
नमस्कृत्वा भूय एवाह कृष्णं
सगद्गदंभीतभीतः प्रणम्य॥३५॥

अर्जुनः—

स्थाने हृषीकेश तव प्रकीर्त्या
जगत् प्रहृष्यत्यनुरज्यते च।
रक्षांसि भीतानि दिशो द्रवन्ति
सर्वे नमस्यन्ति च सिद्धसङ्घाः॥३६॥

कस्माच्च ते न नमेरन् महात्मन्
गरीयसे ब्रह्मणोऽप्यादिकर्त्रे।
अनन्त देवेश जगन्निवास
त्वमक्षरं सदसत् तत्परं यत्॥३७॥

त्वमादिदेवः पुरुषः पुराणस्
त्वमस्य विश्वस्य परं निधानम्।
वेत्ताऽसि वेद्यं च परं च धाम
त्वया ततं विश्वमनन्तरूप॥३८॥

वायुर्यमोऽग्निर्वरुणः शशाङ्कः
प्रजापतिस्त्वं प्रपितामहश्च।

नमो नमस्तेऽस्तु सहस्रकृत्वः
पुनश्च भूयोऽपि नमो नमस्ते॥३९॥

नमः पुरस्तादथ पृष्ठतस्ते
नमोऽस्तु ते सर्वत एव सर्व।
अनन्तवीर्यामितविक्रमस्त्वं
सर्वं समाप्नोषि ततोऽसि सर्वः॥४०॥

सखेति मत्वा प्रसभं यदुक्तं
हे कृष्ण हे यादव हे सखेति।
अजानता महिमानं तवेदं
मया प्रमादात् प्रणयेन वाऽपि॥४१॥

यच्चापहासार्थमसत्कृतोऽसि
विहारशय्यासनभोजनेषु।
एकोऽथवाऽप्यच्युत तत्समक्षं
तत् क्षामये त्वामहमप्रमेयम्॥४२॥

पिताऽसि लोकस्य चराचरस्य
त्वमस्य पूज्यश्च गुरुर्गरीयान्।
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो
लोकत्रयेऽप्यप्रतिमप्रभाव॥४३॥

तस्मात् प्रणम्य प्रणिधाय कार्यं
प्रसादये त्वामहमीशमीड्यम्।

पितेव पुत्रस्य सखेव सख्युः
प्रियः प्रियायार्हसि देव सोढुम्॥४४॥

अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा
भयेन च प्रव्यथितं मनो मे
तदेव मे दर्शय देव रूपं
प्रसीद देवेश जगन्निवास॥४५॥

किरीटिनं गदिनं चक्रहस्तम्
इच्छामि त्वां द्रष्टुमहं तथैव।
तेनैव रूपेण चतुर्भुजेन
सहस्रबाहो भव विश्वमूर्ते॥४६॥

श्रीभगवान्—

मया प्रसन्नेन तवार्जुनेदं
रूपं परं दर्शितमात्मयोगात्।
तेजोमयं विश्वमनन्तमाद्यं
यन्मे त्वदन्येन न दृष्टपूर्वम्॥४७॥

न वेद यज्ञाध्ययनैर्न दानैर्
न च क्रियाभिर्न तपोभिरुग्रैः
एवंरूपश्शक्य अहं नृलोके
द्रष्टुं त्वदन्येन कुरुप्रवीर॥४८॥

मा ते व्यथा मा च विमूढभावो
दृष्ट्वा रूपं घोरमीदृङ्यमेदम्।
व्यपेतभीःप्रीतमनाः पुनस्त्वं
तदेव मे रूपमिदं प्रपश्य॥४९॥

सञ्जयः—

इत्यर्जुनं वासुदेवस्तथोक्त्वा
स्वकं रूपं दर्शयामास भूयः।
आश्वासयामास च भीतमेनं
भूत्वा पुनस्सौम्यवपुर्महात्मा॥५०॥

अर्जुनः—

दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन।
इदानीमस्मि संवृत्तस् सचेताः प्रकृतिं गतः॥५१॥

श्रीभगवान्—

सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम।
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः॥५२॥

नाहं वेदैर्न तपसा न दानेन न चेज्यया।
शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा॥५३॥

भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप॥५४॥

मत्कर्मकृन्मत्परमो मद्भक्तस्सङ्गवर्जितः।
निर्वैरस्सर्वभूतेषु यस्स मामेति पाण्डव॥५५

इति श्रीमहाभारते शतसहस्रिकायांसंहितायां वैयासिक्यां
भीष्मपर्वणि त्रयस्त्रिंशोऽध्यायः॥३३॥
॥६३॥भगवद्गीतापर्वणि एकविंशोऽध्यायः॥२१॥
॥भगवद्गीतायांएकादशोऽध्यायः॥
[अस्मिन्नध्याये ५५ श्लोकाः]

<MISSING_FIG href="../books_images/U-IMG-1706701628मम.png"/>

॥ चतुस्त्रिंशोऽध्यायः ॥

<MISSING_FIG href="../books_images/U-IMG-1706701650bbbb.png"/>

भगवद्गीताध्यायः॥१२॥

<MISSING_FIG href="../books_images/U-IMG-1706701628मम.png"/>

अर्जुनः—

एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते।
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः॥१॥

श्रीभगवान्—

मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते।
श्रद्धया परयोपेतास् ते मे युक्ततमा मताः॥२॥

ये त्वक्षरमनिर्देश्यम् अव्यक्तं पर्युपासते।
सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम्॥३॥

संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः।
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः॥४॥

क्लेशोऽधिकतरस्तेषाम् अव्यक्तासक्तचेतसाम्।
अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते॥५॥

ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः।
अनन्येनैव योगेन मां ध्यायन्त उपासते॥६॥

तेषामहं समुद्धर्ता मृत्युसंसारसागरात्।
भवामि न चिरात् पार्थ मय्यावेशितचेतसाम्॥७॥

मय्येव मन आधत्स्व मयि बुद्धिं निवेशय।
निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः॥८॥

अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम्।
अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय॥९॥

अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव।
मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि॥१०॥

अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः।
सर्वकर्मफलत्यागं ततः कुरु यतात्मवान्॥११॥

श्रेयो हि ज्ञानमभ्यासाज् ज्ञानद्ध्यानं विशिष्यते।
ध्यानात् कर्मफलत्यागस् त्यागाच्छान्तिरनन्तरम्॥१२॥

अद्वेष्टा सर्वभूतानां मैत्रःकरुण एव च।
निर्ममो निरहङ्कारस् समदुःखसुखः क्षमी॥१३॥

संतुष्टस्सततं योगी यतात्मा दृढनिश्चयः।
मय्यर्पितमनोबुद्धिर् यो मे भक्तस्स मे प्रियः॥१४॥

यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः।
हर्षामर्षभयोद्वेगैर् मुक्तो यस्स च मे प्रियः॥१५॥

अनपेक्षश्शुचिर्दक्ष उदासीनो गतव्यथः।
सर्वारम्भपरित्यागी यो मद्भक्तस्स मे प्रियः॥१६॥

यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति।
शुभाशुभपरित्यागी भक्तिमान् यस्स मे प्रियः॥१७॥

समश्शत्रौ च मित्रे च तथा मानावमानयोः।
शीतोष्णसुखदुःखेषु समस्सङ्गविवर्जितः॥१८॥

तुल्यनिन्दास्तुतिर्मौनी संतुष्टो येन केन चित्।
अनिकेतस्स्थिरमतिर् भक्तिमान् मे प्रियो नरः॥१९॥

ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते।
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः॥२०॥

इति श्रीमहाभारते शतसहस्रिकायांसंहितायां वैयासिक्यां
भीष्मपर्वणि चतुस्त्रिंशोऽध्यायः॥ ३४॥
॥ ६३॥ भगवद्गीतापर्वणि द्वाविंशोऽध्यायः॥ २२॥
॥ भगवद्गीतायां द्वादशोऽध्यायः॥
[ अस्मिन्नध्याये २० श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1706711889मम.png"/>

॥ पञ्चत्रिंशोऽध्यायः ॥

<MISSING_FIG href="../books_images/U-IMG-1706711976नन.png"/>
॥भगवद्गीताध्यायः॥१३॥
<MISSING_FIG href="../books_images/U-IMG-1706711987मम.png"/>

अर्जुनः—

प्रकृतिं पुरुषं चैत्र क्षेत्रं क्षेत्रज्ञमेव च।
एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव॥१॥

श्रीभगवान्—

इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते।
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः॥२॥

क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत।
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम॥३॥

तत् क्षेत्रं यच्च यादृक्चयद्विकारि यतश्च यत्।
स च यो यत्प्रभावश्च तत् समासेन मे शृणु॥४॥

ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक्।
ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः॥५॥

महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च।
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः॥६॥

इच्छा द्वेषस्सुखं दुःखं सङ्घातश्चेतना धृतिः।
एतत् क्षेत्रं समासेन सविकारमुदाहृतम्॥७॥

अमानित्वमदम्भित्वम्अहिंसा क्षान्तिरार्जवम्।
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः॥८॥

इन्द्रियार्थेषु वैराग्यम् अनहङ्कार एव च।
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम्॥९॥

असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु।
नित्यं च समचित्तत्वम् इष्टानिष्टोपपत्तिषु॥१०॥

मयि चानन्ययोगेन भक्तिरव्यभिचारिणी।
विविक्तदेशसेवित्वमरतिर्जनसंसदि॥११॥

अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम्।
एतज्ज्ञानमिति प्रोक्तम् अज्ञानं यदतोऽन्यथा॥१२॥

ज्ञेयं यत् तत् प्रवक्ष्यामि यज्ज्ञात्वाऽमृतमश्नुते।
अनादिमत् परं ब्रह्म न सत्तन्नासदुच्यते॥१३॥

सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम्।
सर्वतश्श्रुतिमल्लोके सर्वमावृत्य तिष्ठति॥१४॥

सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम्।
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृच॥१५॥

बहिरन्तश्चभूतानाम् अचरं चरमेव च।
सूक्ष्मत्वात् तदविज्ञेयं दूरस्थं चान्तिके च तत्॥१६॥

अविभक्तं च भूतेषु विभक्तमिव च स्थितम्।
भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च॥१७॥

ज्योतिषामपि तज्ज्योतिस् तमसः परमुच्यते।
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम्॥१८॥

इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः।
मद्भक्त एतद्विज्ञाय मद्भावोयोपपद्यते॥१९॥

प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि।
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान्॥२०॥

कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते।
पुरुषस्सुखदुःखानां भोक्तृत्वे हेतुरुच्यते॥२१॥

पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान्।
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु॥२२॥

उपद्रष्टाऽनुमन्ता च भर्ता भोक्ता महेश्वरः।
परमात्मेति चाप्युक्तो देहेऽस्मिन् पुरुषः परः॥२३॥

य एवं वेत्ति पुरुषं प्रकृतिं च गुणैस्सह।
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते॥२४॥

ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना।
अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे॥२५॥

अन्ये त्वेवमजानन्तश् श्रुत्वाऽन्येभ्य उपासते।
तेऽपि133 चातितरन्त्येव मृत्युं श्रुतिपरायणाः॥२६॥

यावत् सञ्जायते किश्चित् सत्त्वं स्थावरजङ्गमम्।

क्षेत्रक्षेत्रज्ञसंयोगात् तद्विद्धि भरतर्षभ॥२७॥

समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्।
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति॥२८॥

समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम्।
न हिनस्त्यात्मनात्मानं ततो याति परां गतिम्॥२९॥

प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः।
यः पश्यति तथाऽऽत्मानम् अकर्तारं स पश्यति॥३०॥

यदा भूतपृथग्भावम् एकस्थमनुपश्यति।
तत एव च विस्तारं ब्रह्म सम्पद्यते तदा॥३१॥

अनादित्वान्निर्गुणत्वात् परमात्माऽयमव्ययः।
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते॥३२॥

यथा154 सर्वगतं सौक्ष्म्याद् आकाशं नोपलिप्यते।
सर्वत्रावस्थितो देहे तथाऽऽत्मा नोपलिप्यते॥३३॥

यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः।
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत॥३४॥

क्षेत्रक्षेत्रज्ञयोरेवम् अन्तरं ज्ञानचक्षुषा।
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम्॥३५॥

इति श्रीमहाभारते शतसहस्रिकायाां संहितायां वैयासिक्यां
भीष्मपर्वणि पञ्चत्रिंशोऽध्यायः॥ ३५॥
॥६३॥ भगवद्गीतापर्वणि त्रयोविंशोऽध्यायः॥ २३॥
॥ भगवद्गीतायां त्रयोदशोऽध्यायः॥
[ अस्मिन्नध्याये ३५ श्लोकाः ]

॥ षट्त्रिंशोऽध्यायः ॥

<MISSING_FIG href="../books_images/U-IMG-1706712487नन.png"/>

॥भगवद्गीताध्यायः॥१४॥

<MISSING_FIG href="../books_images/U-IMG-1706712498मम.png"/>

श्रीभगवान्—

परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्।
यज्ज्ञात्वा मुनयस्सर्वे परां सिद्धिमितो गताः॥१॥

इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः।
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च॥२॥

मम योनिर्महद्ब्रह्म तस्मिन् गर्भ दधाम्यहम्।
सम्भवस्सर्वभूतानां ततो भवति भारत॥३॥

सर्वयोनिषु कौन्तेय मूर्तयस्सम्भवन्ति याः।
तासां ब्रह्म महद्योनिर् अहं बीजप्रदः पिता॥४॥

सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः।
निबध्नन्ति महाबाहो देहे देहिनमव्ययम्॥५॥

तत्रसत्त्वं निर्मलत्वात् प्रकाशकमनामयम्।
सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ॥६॥

रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम्।
तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम्॥७॥

तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम्।

प्रमादालस्यनिद्राभिस् तन्निबध्नाति भारत॥८॥

सत्त्वंसुखे सञ्जयति रजः कर्मणि भारत।
ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत॥९॥

रजस्तमश्चाभिभूय सत्त्वं भवति भारत।
रजस्सत्वं तमश्चैव तमस्सत्त्वं रजस्तथा॥१०॥

सर्वद्वारेषु देहेऽस्मिन् प्रकाश उपजायते।
ज्ञानं यदा तदा विद्याद् विवृद्धं सत्त्वमित्युत॥११॥

लोभः प्रवृत्तिरारम्भः कर्मणामशमस्स्पृहा।
रजस्येतानि जायन्ते विवृद्धे भरतर्षभ।१२॥

अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च।
तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन॥१३॥

यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत्।
तदोत्तमविदां लोकान् अमलान् प्रतिपद्यते॥१४॥

रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते।
तथा प्रलीनस्तमसि मूढयोनिषु जायते॥१५॥

कर्मणस्सुकृतस्याहुस् सात्त्विकं निर्मलं फलम्।
रजसस्तु फलं दुःखम् अज्ञानं तमसः फलम्॥१६॥

सत्त्वात् सञ्जायते ज्ञानं रजसो लोभ एव च।
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च॥१७॥

ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः।
जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः॥१८॥

नान्यं गुणेभ्यः कर्तारं यदा द्रष्टाऽनुपश्यति।
गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति॥१९॥

गुणानेतानतीत्य त्रीन् देही देहसमुद्भवान्।
जन्ममृत्युजरादुःखैर् विमुक्तोऽमृतमश्नुते॥२०॥

अर्जुनः—

कैर्लिङ्गैस्त्रीन् गुणानेतान् अतीतो भवति प्रभो।
किमाचारः कथं चैतांस्त्रीन् गुणानतिवर्तते॥२१॥

श्रीभगवान्—

प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव।
न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति॥२२॥

उदासीनवदासीनो गुणैर्यो न विचाल्यते।
गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते॥२३॥

समदुःखसुखस्स्वस्थस् समलोष्टाश्मकाञ्चनः।
तुल्यप्रियाप्रियो धीरस् तुल्यनिन्दात्मसंस्तुतिः॥२४॥

मानावमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः।
सर्वारम्भपरित्यागी गुणातीतस्स उच्यते॥२५॥

मां च योऽव्यभिचारेण भक्तियोगेन सेवते।

स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते॥२६॥

ब्रह्मणो हि प्रतिष्ठाऽहम् अमृतस्याव्ययस्य च।
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च॥२७॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि षट्त्रिंशोऽध्यायः॥३६॥
॥६३॥भगवद्गीतापर्वणि चतुर्विंशोऽध्यायः॥२४॥
॥भगवद्गीतायां चतुर्विंशोऽध्यायः॥
[अस्मिन्नध्याये २७ श्लोकाः]

<MISSING_FIG href="../books_images/U-IMG-1706712805मम.png"/>

॥सप्तत्रिंशोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1706712827bbbb.png"/>

॥भगवद्गीताध्यायः॥१५॥

<MISSING_FIG href="../books_images/U-IMG-1706712805मम.png"/>

श्रीभगवान्—

ऊर्ध्वमूलमधःशाखम् अश्वत्थं प्राहुरव्ययम्।
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्॥१॥

अधोश्चोर्ध्वंप्रसृतास्तस्य शाखा
गुणप्रवृद्धा विषयप्रवालाः।
अधश्चमूलान्यनुसंततानि
कर्मानुबन्धीनि मनुष्यलोके॥२॥

न रूपमस्येह तथोपलभ्यते
नान्तो न चादिर्न च सम्प्रतिष्ठा।

अश्वत्थमेनं सुविरूढमूलम्
असङ्गशस्त्रेण दृढेन छित्त्वा॥३॥

ततः पदं तत् परिमार्गितव्यं
यस्मिन् गता न निवर्तन्ति भूयः।
तमेव चाद्यं पुरुषं प्रपद्ये
यतः प्रवृत्तिः प्रसृता पुराणी॥४॥

निर्मानमोहा जितसङ्गदोषा
अध्यात्मनित्या विनिवृत्तकामाः।
द्वन्द्वैर्विमुक्तास्सुखदुःखसंज्ञैर्
गच्छन्त्यमूढाः पदमव्ययं तत्॥५॥

न तद्भासयते सूर्यो न शशाङ्को न पावकः।
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम॥६॥

ममैवांशो जीवलोके जीवभूतस्सनातनः।
मनष्षष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति॥७॥

शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः।
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात्॥८॥

श्रोत्रं चक्षुस्स्पर्शनं च रसनं घ्राणमेव च।
अधिष्ठाय मनश्चायं विषयानुपसेवते॥९॥

उत्क्रामन्तं स्थितं वाऽपि मुञ्जानं वा गुणान्वितम्।

विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः॥१०॥

यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम्।
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः॥११॥

यदादित्यगतं तेजो जगद्भासयतेऽखिलम्।
यच्चन्द्रमसि यच्चाग्नौ तत् तेजो विद्धि मामकम्॥१२॥

गामाविश्य च भूतानि धारयाम्यहमोजसा।
पुष्णामि चौषधीस्सर्वास् सोमो भूत्वा रसात्मकः॥१३॥

अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः।
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्॥१४॥

सर्वस्य चाहं हृदि सन्निविष्टो
मत्तस्मृतिर्ज्ञानमपोहनं च।
वेदैश्च सर्वैरहमेव वेद्यो
वेदान्तकृद्वेदविदेह चाहम्॥१५॥

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च।
क्षरस्सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते॥१६॥

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः॥१७॥

यस्मात् क्षरमतीतोऽहम् अक्षरादपि चोत्तमः।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः॥१८॥

यो मामेवमसम्मूढो जानाति पुरुषोत्तमम्।
स सर्वविद्भजति मां सर्वभावेन भारत॥१९॥

इति गुह्यतमं शास्त्रम् इदमुक्तं मयाऽनघ।
एतद्वुद्ध्वाबुद्धिमान् स्यात् कृतकृत्यश्च भारत॥२०॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि सप्तत्रिंशोऽध्यायः॥३५॥
॥६३॥भगवद्गीतापर्वणि पञ्चविंशोध्यायः॥२५॥
॥भगवद्गीतायां पञ्चदशोऽध्यायः॥
[ अस्मिन्नध्याये २० श्लोकाः]
<MISSING_FIG href="../books_images/U-IMG-1706713203मम.png"/>

॥अष्टात्रिंशोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1706713221नन.png"/>
भगवद्गीताध्यायः॥१६॥
<MISSING_FIG href="../books_images/U-IMG-1706713203मम.png"/>

श्रीभगवान्—

अभयं सत्त्वसंशुद्धिर् ज्ञानयोगव्यवस्थितिः।
दानं दमश्च यक्षश्च स्वाध्यायस्तप आर्जवम्॥१॥

अहिंसा सत्यमक्रोधस् त्यागश्शान्तिरपैशुनम्।
दया भूतेष्वलोलुत्वं मार्दवं ह्रीरचापलम्॥२॥

तेजः क्षमा धृतिश्शौचम् अद्रोहो नातिमानिता।
भवन्ति सम्पदं दैवीम् अभिजातस्य भारत॥३॥

दम्भो दर्पोऽतिमानश्च क्रोधः पारुष्यमेव च।

अज्ञानं चाभिजातस्य पार्थ संपदमासुरीम्॥४

दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता।
मा शुचस्सम्पदं दैवीम् अभिजातोऽसि पाण्डव।५

द्वौ भूतस्सर्गौलोकेऽस्मिन् दैव आसुर एव च।
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु॥६॥

प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः।
न शौचं नापि चाचारो न सत्यं तेषु विद्यते॥७॥

असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्।
अपरस्परसम्भूतं किमन्यत् कामहैतुकम्॥८॥

एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः।
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः॥९॥

काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः।
मोहाद्गृहीत्वाऽसाग्राहान् प्रवर्तन्तेऽशुचिव्रताः॥१०॥

चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः।
कामोपभोगपरमा एतावदिति निश्चिताः॥११॥

आशापाशशतैर्बद्धाः कामक्रोधपरायणाः।
ईहन्ते कामभोगार्थम् अन्यायेनार्थसञ्चयान्॥१२॥

इदमद्य मया लब्धम् इमं प्राप्स्ये मनोरथम्।
इदमस्तीदमपि मे भविष्यति पुनर्धनम्॥१३॥

असौ मया हतश्शत्रुर् हनिष्ये चापरानपि।
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी॥१४॥

आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया।
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः॥१५॥

अनेकचित्तविभ्रान्ता मोहजालसमावृताः।
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ॥१६॥

आत्मसम्भावितास्स्तब्धा धनमानमदान्विताः।
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम्॥१७॥

अहकारं बलं दर्पं कामं क्रोधं च संश्रिताः।
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः॥१८॥

तानहं द्विषतः क्रूरान् संसारेषु नराधमान्।
क्षिपाम्यजस्रमशुभान् आसुरीष्वेव योनिषु॥१९॥

आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि।
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्॥२०॥

त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः।
कामः क्रोधस्तथा लोभस् तस्मादेतत् त्रयं त्यजेत्॥२१॥

एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः।
आचरत्यात्मनश्श्रेयस् ततो याति परां गतिम्॥२२॥

यश्शास्त्रविधिमुत्सृज्य वर्तते कामकारतः।

न स सिद्धिमवाप्नोति न सुखं न परां गतिम्॥२३॥

तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ।
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि॥२४॥

इति श्रीमहाभारते शतसहस्रकायांसंहितायां वैयासिक्यां
भीष्मपर्वणि अष्टात्रिंशोऽध्यायः॥३८॥
॥६३॥भगवद्गीतापर्वणि षड्विंशोऽध्यायः॥२६॥
॥भगवद्गीतायां षोडशोऽध्यायः॥
[ अस्मिन्नध्याये २४ श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1706713598मम.png"/>

॥एकोनचत्वारिंशोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1706713609नन.png"/>
॥भगवद्गीताध्यायः॥१७॥
<MISSING_FIG href="../books_images/U-IMG-1706713598मम.png"/>

अर्जुनः—

ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयाऽन्विताः।
तेषां निष्ठा तु का कृष्ण सत्वमाहो रजस्तमः॥१॥

श्रीभगवान्—

त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा।
सात्त्विकी राजसी चैव तामसी चेति तां शृणु॥२॥

सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत।
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धस्स एव सः॥३॥

यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः।

प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जनाः॥४॥

अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः।
दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः॥५॥

कर्शयन्तश्शरीरस्थं भूतग्राममचेतसः।
मां चैवान्तश्शरीरस्थं तान् विद्ध्यासुरनिश्चयान्॥६॥

आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः।
यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु॥७॥

आयुस्सत्त्वबलारोग्यसुखप्रीतिविवर्धनाः।
रस्यास्स्निग्धास्स्थिरा हृद्या आहारास्सात्त्विकप्रियाः॥८॥

कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः।
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः॥९॥

यातयामं गतरसं पूतिपर्युषितं च यत्।
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्॥१०॥

अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते।
यष्टव्यमेवेति मनस् समाधाय स सात्त्विकः॥११॥

अभिसन्धाय तु फलं दम्भार्थमपि चैव यत्।
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम्॥१२॥

विधिहीनमसृष्टान्नंमन्त्रहीनमदक्षिणम्।
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते॥१३॥

देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम्।
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते॥१४॥

अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्।
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते॥१५॥

मनःप्रसादस्सौम्यत्वं मौनमात्मविनिग्रहः।
भावसंशुद्धिरित्येतत् तपो मानसमुच्यते॥१६॥

श्रद्धया परया तप्तं तपस्तत् त्रिविधं नरैः।
अफलाकाङ्क्षिभिर्युक्तैस् सात्त्विकं परिचक्षते॥१७॥

सत्कारमानपूजार्थं तपो दम्भेन चैव यत्।
क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम्॥१८॥

मूढग्राहेणात्मनो यत् पीडया क्रियते तपः।
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम्॥१९॥

दातव्यमिति यद्दानं दीयतेऽनुपकारिणे।
देशे काले च पात्रे च तद्दानं सात्विकं स्मृतम्॥२०॥

यत् तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः।
दीयते च परिक्लिष्टं तद्दानं155 राजसं स्मृतम्॥२१॥

अदेशकाले यद्दानम् अपात्रेभ्यश्च दीयते।
असत्कृतमवज्ञातं तत् तामसमुदाहृतम्॥२२॥

ओंतत्सदिति निर्देशो ब्रह्मणस्त्रिविधस्स्मृतः।
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा॥२३

तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः।
प्रवर्तन्ते विधानोक्तास् सततं ब्रह्मवादिनाम्॥२४॥

तदित्यनभिसंधाय फलं यज्ञतपःक्रियाः।
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः॥२५॥

सद्भावे साधुभावे च सदित्येतत् प्रयुज्यते।
प्रशस्ते कर्मणि तथा सच्छन्दः पार्थ युज्यते॥२६॥

यज्ञे तपसि दाने च स्थितिस्सदिति चोच्यते।
कर्म चैव तदर्थीयं सदित्येवाभिधीयते॥२७॥

अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत्।
असदित्युच्यते पार्थ न च तत् प्रेत्य नो इह॥२८॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि एकोनचत्वारिंशोऽध्यायः॥३९॥
॥६३॥भगवद्गीतापर्वणि सप्तविंशोऽध्यायः॥२७॥
॥भगवद्गीतायां सप्तदशोऽध्यायः॥
[ अस्मिन्नध्याये २८ श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1706714092मम.png"/>

॥चत्वारिंशोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1706717779नन.png"/>
॥भगवद्गीताध्यायः॥१८॥
<MISSING_FIG href="../books_images/U-IMG-1706717795मम.png"/>

अर्जुनः—

संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम्।
त्यागस्य च हृषीकेश पृथक्केशिनिषूदन॥१॥

श्रीभगवान्—

काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः।
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः॥२॥

त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः।
यज्ञदानतपःकर्म न त्याज्यमिति चापरे॥३॥

निश्चयं शृणु मे तत्रत्यागे भरतसत्तम।
त्यागो हि पुरुषव्याघ्र त्रिविधस्सम्प्रकीर्तितः॥४॥

यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत्।
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम्॥५॥

एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च।
कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम्॥६॥

नियतस्य तु संन्यासः कर्मणो नोपपद्यते।
मोहात् तस्य परित्यागस् तामसः परिकीर्तितः॥७॥

दुःखमित्येव यत् कर्म कायक्लेशभयात् त्यजेत्।
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत्॥८॥

कार्यमित्येव यत् कर्म नियतं क्रियतेऽर्जुन।
सङ्गं त्यक्त्वा फलं चैव स त्यागस्सात्त्विको मतः॥९॥

न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्यते।
त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः॥१०॥

न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः।
यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते॥११॥

अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम्।
भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित्॥१२॥

पञ्चैतानि महाबाहो कारणानि निबोध मे।
साङ्ख्येकृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम्॥१३॥

अधिष्ठानं तथा कर्ता करणं च पृथग्विधम्।
विविधा च पृथक्चेष्टा दैवं चैवात्र पञ्चमम्॥१४॥

शरीरवाङ्मनोभिर्यत् कर्म प्रारभते नरः।
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः॥१५॥

तत्रैवं सति कर्तारम् आत्मानं केवलं तु यः।
पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः॥१६॥

यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते।

हत्वाऽपि स इमाँलोकान्न हन्ति न निबध्यते॥१७॥

ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना।
करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः॥१८॥

ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः।
प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि॥१९॥

सर्वभूतेषु येनैकं भावमव्ययमीक्षते।
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥२०॥

पृथक्त्वेन तु यज्ज्ञानं नानाभावान पृथग्विधान्।
वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम्॥२१॥

यत् तु कृत्स्नवदेकस्मिन् कार्ये सक्तमहैतुकम्।
अतत्त्वार्थवदल्पंच तत् तामसमुदाहृतम्॥२२॥

नियतं सङ्गरहितम् अरागद्वेषतः कृतम्।
अफलप्रेप्सुना कर्म यत्156 तत् सात्त्विकमुच्यते॥२३॥

यत् तु कामेप्सुना कर्म साहङ्कारेण वा पुनः।
क्रियते बहुलायासं तद्राजसमुदाहृतम्॥२४॥

अनुबन्धं क्षयं हिंसाम् अनपेक्ष्य च पौरुषम्।
मोहादारभ्यते कर्म यत् तत् तामसमुच्यते॥२५॥

मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः।
सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते॥२६॥

रागी कर्मफलप्रेप्सुर् लुब्धो हिंसात्मकोऽशुचिः।
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः॥२७॥

अयुक्तःप्राकृतस्स्तब्धश् शठो नैकृतिकोऽलसः।
विषादी दीर्घसूत्रीच कर्ता तामस उच्यते॥२८॥

बुद्धेर्भेदं धृतैश्चैव गुणतस्त्रिविधं शृणु।
प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय॥२९॥

प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये।
बन्धं मोक्षं च या वेत्ति बुद्धिस्सा पार्थ सात्त्विकी॥३०॥

यया धर्ममधर्मं च कार्यं चाकार्यमेव च।
अयथावत् प्रजानाति बुद्धिस्सा पार्थ राजसी॥३१॥

अधर्म धर्ममिति या मन्यते तमसाऽऽवृता।
सर्वार्थान् विपरीतांश्च बुद्धिस्सा पार्थ तामसी॥३२॥

धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः।
योगेनाव्यभिचारिण्या धृतिस्सा पार्थ सात्त्विकी॥३३॥

यया तु धर्मकामार्थान् धृत्या धारयतेऽर्जुन।
प्रसङ्गेन फलाकाङ्क्षी धृतिस्सा पार्थ राजसी॥३४॥

यया स्वप्नं भयं शोकं विषादं मदमेव च।

न विमुञ्चति दुर्मेधा धृतिस्सा पार्थ तामसी॥३५॥

सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ।
अभ्यासाद्रमते यत्रदुःखान्तं च निगच्छति॥३६॥

यत् तद्ग्रे विषमिव परिणामेऽमृतोपमम्।
तत् सुखं सात्त्विकं प्रोक्तम् आत्मबुद्धिप्रसादजम्॥३७॥

विषयेन्द्रियसंयोगाद् यत् तदग्रेऽमृतोपमम्।
परिणामे विषमिव तत् सुखं राजसं स्मृतम्॥३८॥

यदग्रेचानुबन्धे च सुखं मोहनमात्मनः।
निद्रालस्यप्रमादोत्थं तत् तामसमुदाहृतम्॥३९॥

न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः।
सत्त्वं प्रकृतिजैर्मुक्तं यदेभिस्स्यात् त्रिभिर्गुणैः॥४०॥

ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप।
कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः॥४१॥

शमो दमस्तपश्शौचं क्षान्तिरार्जवमेव च।
ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम्॥४२॥

शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम्।
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम्॥४३॥

कृषिगोरक्ष्यवाणिज्यं वैश्यं कर्म स्वभावजम्।
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम्॥४४॥

स्वे स्वे कर्मण्यभिरतस् संसिद्धिं लभते नरः।
स्वकर्मनिरतस्सिद्धिं यथा विन्दति तच्छृणु॥४५॥

यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम्।
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः॥४६॥

श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात्।
स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम्॥४७॥

सहजं कर्म कौन्तेय सदोषमपि न त्यजेत्।
सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः॥४८॥

असक्तबुद्धिस्सर्वत्र जितात्मा विगतस्पृहः।
नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति॥४९॥

सिद्धिं प्राप्तो यथा ब्रह्म तथाऽऽप्नोति निबोध मे।
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा॥५०॥

बुद्ध्या विशुद्धया युक्तो धृत्याऽऽत्मानं नियम्य च।
शब्दादीन् विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च॥५१॥

विविक्तसेवी लघ्वाशी यतवाक्कायमानसः।
ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः॥५२॥

अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम्।
विमुच्य निर्ममश्शान्तो ब्रह्मभूयाय कल्पते॥५३॥

ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति।

समस्सर्वेषु भूतेषु मद्भक्तिं लभते पराम्॥५४॥

भक्त्या मामभिजानाति यावान् यश्चास्मि तत्त्वतः।
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्॥५५॥

सर्वकर्माण्यपि सदा कुर्वाणो मध्यपाश्रयः।
मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम्॥५६॥

चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः।
बुद्धियोगमपाश्रित्य मच्चित्तस्सततं भव॥५७॥

मच्चित्तस्सर्वदुर्गाणि मत्प्रसादात् तरिष्यसि।
अथ चेत्त्वमहङ्कारान्न श्रोष्यसि विनङ्क्ष्यसि॥५८॥

यद्यहङ्कारमाश्रित्य न योत्स्य इति मन्यसे।
मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति॥५९॥

स्वभावजेन कौन्तेय निबद्धस्स्वेन कर्मणा।
कर्तुं नेच्छसि यन्मोहात् करिष्यस्यवशोऽपि तत्॥६०॥

ईश्वरस्सर्वभूतानां हृदेशेऽर्जुन तिष्ठति।
भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया॥६१॥

तमेव शरणं गच्छ सर्वभावेन भारत।
तत्प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम्॥६२॥

इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया।
विमृश्यैतदशेषेण यथेच्छसि तथा कुरु॥६३॥

सर्वगुह्यतमं भूयश् शृणु मे परमं वचः।
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम्॥६४॥

मन्मना भव मद्भको मद्याजी मां नमस्कुरु।
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे॥६५॥

सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः॥६६॥

इदं ते नातपस्काय नाभक्ताय कदाचन।
न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति॥६७॥

य इमं157 परमं गुह्यं मद्भक्तेष्वभिधास्यति।
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः॥६८॥

न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः।
भविता न च मे तस्माद् अन्यः प्रियतरो भुवि॥६९॥

अध्येष्यते च य इमं धर्म्यं संवादमावयोः।
ज्ञानयज्ञेन तेनाहम् इष्टस्स्यामिति मे मतिः॥७०॥

श्रद्धावाननसूयश्च शृणुयादपि यो नरः।
सोऽपि मुक्तश्शुभाल्ँलोकान् प्राप्नुयात् पुण्यकर्मणाम्॥७१॥

कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा।
कच्चिदज्ञानसम्मोहः प्रणष्टस्ते धनञ्जय॥७२॥

अर्जुनः—

नष्टो मोहस्स्मृतिर्लब्धा त्वत्प्रसादान्मयाऽच्युत।
स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव॥७३॥

सञ्जयः—

इत्यहं वासुदेवस्य पार्थस्य च महात्मनः।
संवादमिममश्रौषम् अद्भुतं158 रोमहर्षणम्॥७४॥

व्यासप्रसादाच्छ्रुतवान् एतद्गुह्यतमं परम्।
योगं योगेश्वरात् कृष्णात् साक्षात् कथयतस्स्वयम्॥ ७५॥

राजन् संस्मृत्य संस्मृत्य संवादमिममद्भुतम्।
केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः॥७६॥

तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः।
विस्मयो मे महाराज हृष्यामि च पुनः पुनः॥७७॥

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम॥७८॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि चत्वारिंशोऽध्यायः॥ ४०॥
॥ ६३॥ भगवद्गीतापर्वणि अष्टाविंशोऽध्यायः॥ २८॥
॥ भगवद्गीतायामष्टादशोऽध्यायः॥
[ अस्मिन्नध्याये ७८ श्लोकाः ]
[ भगवद्गीतापर्व समाप्तम् ]
<MISSING_FIG href="../books_images/U-IMG-1706759522मम.png"/>

॥एकचत्वारिंशोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1706759645bbbb.png"/>
( भीष्मवध पर्व)
<MISSING_FIG href="../books_images/U-IMG-1706759658मम.png"/>

कुरुपाण्डवसेनयोर्युद्धारम्भः॥

धृतराष्ट्रः—

एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च।
के पूर्वं प्राहरंस्तत्र पाण्डवाः कौरवास्तदा॥१॥

सञ्जयः—

भ्रातुर्वचनमाज्ञाय पुत्रो दुश्शासनस्तव।
भीष्मं प्रमुखतः कृत्वा प्रययौ सेनया सह॥२॥

तथैव पाण्डवास्सर्वे भीमसेनपुरोगमाः।
भीष्मेण युद्धमिच्छन्तस् सर्वे च सहिता ययुः॥३॥

क्ष्वेलाः किलकिलाशब्दाःक्रकरा गोविषाणकाः।
भेरीमृदङ्गमुरवा हयकुञ्जरनिःस्वनाः॥४॥

उभयोस्सेनयो र्ह्यासन्159 निस्वना नदतां नृणाम्।
वधं45 प्रतिनदन्तश्च तदाऽऽसीत् तुमुलं महत्॥५॥

महान्त्यनीकानि महासमुच्छ्रये
समागमे पाण्डवधार्तराष्ट्रयोः।
चकम्पिरे शङ्खमृदङ्गनिःस्वनैः
प्रकम्पितानीव वनानि वायुना॥६॥

नरेन्द्रनागाश्वरथाकुलानां
समागतानामशिवे मुहूर्ते।
बभूव घोषस्तुमुलश्चमूनां
वातोद्धतानामिव सागराणाम्॥७॥

तस्मिन् समुत्थिते शब्दे तुमुले रोमहर्षणे।
भीमसेनो महाबाहुः प्राणदद्गोवृषो यथा॥८॥

शङ्खदुन्दुभिनिर्घोषं वारणानां च बृंहितम्।
सिंहनादं160 च सैन्यानां आवृणोद्भीमनिस्वनः161॥९॥

हयानां हेषमाणानाम् अनीकेषु सहस्रशः।
सर्वानभ्यभवच्छब्दान् भीमसेनस्य निस्वनः॥१०॥

तं श्रुत्वा निनदं तस्य सैन्यास्तव वितत्रसुः।
जीमूतस्येव निनदं शक्राशनिसमस्वनम्॥११॥

वाहनानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः।

शब्देन भीमसेनस्य सिंहस्येवेतरे मृगाः॥१२॥

दर्शयन् घोरमात्मानं नवाभ्र इव नानदन्।
विभीषयंस्तव सुतान् तव सेनां समाद्रवत्॥१३॥

तमायान्तं महेष्वासं सोदर्याःपर्यवारयन्।
छादयन्तश्शरव्रातैर् मेघा इव दिवाकरम्॥१४॥

दुर्योधनश्च पुत्रस्ते दुर्मुखो दुष्प्रहस्तथा162
दुःशासनश्चातिरथस् तथा दुर्मर्षणो नृपः॥१५॥

विविंशतिश्चित्रसेनो वृषसेनो महारथः।
पुरुमित्रो जयो भोजस्सौमदत्तिश्च भूमिप॥१६॥

महाचापानि163 धुन्वन्तो मेघा इव सविद्युतः।
आददानाश्च नाराचान् शितानाशीविषोपमान्॥१७॥

अग्रतः164 पाण्डुसेनाया ह्यतिष्ठन् पृथिवीक्षितः॥१७॥

अथ तान् द्रौपदीपुत्रस् सौभद्रश्च महारथः।
नकुलस्सहदेवश्च धृष्टद्युम्नश्च पार्षतः॥१८॥

धार्तराष्ट्रान् प्रतिययुर् अर्दयन्तश्शितैश्शरैः।
वज्रैरिव महावेगैश् शिखराणि धराभृताम्॥१९॥

तस्मिन् प्रथमसङ्ग्रामे भीमज्यातलनिःस्वनैः।
तावकानां परेषां च नासीत् कश्चित् पराङ्मुखः॥२०॥

लाघवं द्रोणशिष्याणाम् अपश्यं भरतर्षभ।
निमित्तवेधिनां राजन् शरानुत्सृजतां भृशम्\।\।२१॥

नोपशाम्यति निर्घोषो धनुषां कूजतां तथा।
विनिश्चेरुश्शरा दीप्ता ज्योतींषीव नभस्थलात्॥२२॥

सर्वेत्वन्ये महीपालाः प्रेक्षका इव भारत।
ददृशुर्दर्शनीयाक्षा भीमं ज्ञातिसमागमम्॥२३॥

ततस्ते जातसंरम्भाः परस्परकृतैषिणः।
अन्योन्यस्पर्धया राजन् व्यायच्छन्त महारथाः॥ २४॥

कुरुपाण्डवसेने ते हस्त्यश्वरथसङ्कुले।
शुशुभाते रणेऽतीव पटे चित्रार्पिते यथा॥२५॥

ततस्ते पार्थिवास्सर्वे प्रगृहीतशरासनाः।
सहसैन्यास्समापेतुः पुत्रस्य तव शासनात्॥२६॥

युधिष्ठिरेण चादिष्टाः पार्थिवास्ते सहस्रशः।
विनदन्तस्समापेतुस् तव पुत्रस्य वाहिनीम्॥२७॥

उभयोस्सेनयो राजन् परस्परसमागमे।
अन्तर्धीयत चादित्यस् सैन्येन रजसा वृतः॥२८॥

प्रयुध्यतां प्रभग्नानां पुनरावर्ततामपि।
तत्र स्वेषां परेषां वा विशेषो नोपपद्यते॥२९॥

तस्मिंस्तु तुमुले युद्धे वर्तमाने भयावहे।
अति सर्वाण्यनीकानि पिता तेऽव्यभिरोचत165॥३०॥

इति श्रीमहाभारते शतसहस्रिकायांसंहितायां वैयासिक्यां
भीष्मपर्वणि एकचत्वारिंशोऽध्यायः ॥ ४१ ॥
॥ ६४ ॥ भीष्मवधपर्वणि प्रथमोऽध्यायः ॥ १ ॥
[ अस्मिन्नध्याये ३०॥श्लोकाः]

<MISSING_FIG href="../books_images/U-IMG-1706865939Screenshot2023-12-07155820.png"/>

\।\। द्विचत्वारिंशोऽध्यायः ॥

<MISSING_FIG href="../books_images/U-IMG-1706865967Screenshot2023-12-07155812.png"/>

कुरुपाण्डवसेनयोर्द्वन्द्वयुद्धवर्णनम्॥
_________

सञ्जयः—

पूर्वाह्णेतस्य रौद्रस्य युद्धमह्नोविशां पते।
प्रावर्तत महाघोरं राज्ञां देहावकर्तनम्॥१॥

कुरूणां पाण्डवानां चसङ्ग्रामे विजिगीषताम्।
सिंहानामिव संहृदो दिवमुर्वी च नादयन्॥२॥

आसीत् किलकिलाशब्दस् तलशङ्खरवैस्सह।
जज्ञिरे सिंहनादाश्च शूद्राणां प्रतिगर्जताम्॥३॥

तल166त्राभिहताश्चैव ज्याशब्दा भरतर्षभ।
पत्तीनां पादशब्दाश्च वाजिनां च महास्वनाः॥४॥

तोत्राङ्कुशनिपाताश्च आयुधानां च निःस्वनाः।
घण्टाशब्दाश्च नागानाम् अन्योन्यमभिधावताम्॥५॥

तस्मिन् समुत्थिते शब्दे तुमुले रोमहर्षणे।
तथैव रथनिर्घोषः पर्जन्यनिनदोपमः॥६॥

ते मनः क्रूरमाधाय समभित्यक्तजीविताः।
पाण्डवाश्चाभ्यवर्तन्त कुरवश्चोच्छ्रितध्वजाः॥७॥

स्वयं शान्तनवो राजन्नभ्यधावद्धनञ्जयम्।
प्रगृह्य कार्मुकं घोरं कालदण्डोपमं रणे॥८॥

अर्जुनोऽपि धनुर्गृह्य गाण्डीवं लोकविश्रुतम्।
अभ्यधावत तेजस्वी गाङ्गेयं रणमूर्धनि॥९॥

तावुभौ कुरुशार्दूलौ परस्परजयैषिणौ।
गाङ्गेयस्तु रणे पार्थं विद्ध्वानाकम्पयद्वली॥१०॥

तथैव पाण्डवो राजन् भीष्मं नाकम्पयद्युधि।
सात्यकिस्तु महेष्वासः कृतवर्माणमभ्ययात्॥११॥

तयोस्सुतुमुलं युद्धम् अभवद्रोमहर्षणम्॥११॥

सात्यकिः कृतवर्माणं कृतवर्मा च सात्यकिम्।

आनर्च्छतुश्शरैस्तीक्ष्णैस्तक्षमाणौ परस्परम्॥१२॥

तौ शरार्पितसर्वाङ्गौशुशुभाते महाबलौ ।
वसन्ते पुष्पशवलौपुष्पिताविव किंशुकौ॥१३॥

अभिमन्युर्महेष्वासो बृहद्वलमयोधयत्॥१४॥

ततः कौसलको राजा सौभद्रस्य विशां पते।
ध्वजं चिच्छेद समरे सारथिं च न्यपातयत्॥१५॥

सौभद्रस्तु ततः क्रुद्धः पतिते रथसारथौ।
बृ167हद्बलं महाराज विव्याधनिशितैश्शरैः॥१६॥

अथापराभ्यां भल्लाभ्यां शिताभ्यामरिमर्दनः।
ध्वजमेकेन चिच्छेद बिभेदेकेन सारथिम्॥१७॥

अन्योन्यं च शरैस्तीक्ष्णैः क्रुद्धौ राजंस्ततक्षतुः॥१७॥

मानिनं समरे दृप्तं कृतवैरं महारथम्।
भीमसेनस्तव सुतं दुर्योधनमयोधयत्॥१८॥

तावुभौ नरशार्दूलौ कुरुमुख्यौ महारथौ।
अन्योन्यं शरवर्षाभ्यां ववर्षाते रणाजिरे॥१९॥

तौ वीक्ष्य तु महात्मानौ कृतिनो चित्रयोधिनौ।
विस्मयस्सर्वभूतानां समपद्यत भारत॥२०॥

दुश्शासनस्तु नकुलं प्रत्युद्याय महारथः।

अविध्यन्निशितैर्बाणैर् बहुभिर्मर्मभेदिभिः॥२१॥

तस्य माद्रीसुतः केतुं सशरं च शरासनम्।
चिच्छेद विशिखैस्तीक्ष्णैः प्रहसन्निव भारत॥२२॥

अथैनं पञ्चविंशत्या क्षुद्रकाणां समर्पयत्॥२३॥

पुत्रस्तु तव दुर्धर्षो नकुलस्य महाहवे
बाणैर्युगं च चिच्छेद ध्वजं चास्य न्यपातयत्॥२४॥

दुर्मुखस्सहदेवं तु प्रत्युद्याय महारथम्।
विव्याध शरवर्षेण यतमानं महाहवे॥२५॥

सहदेवस्ततो वीरो दुर्मुखस्य महामृधे।
शरेण भृशतीक्ष्णेन पातयामास सारथिम्॥२६॥

तावन्योन्यं समासाद्य समरे युद्धदुर्मदौ।
ततक्षाते शरैर्घोरैः कृतप्रतिकृतैषिणौ॥२७॥

युधिष्ठिरस्स्वयं राजा मद्रराजमयोधयत्।
तस्य मद्रपतिश्चापि धनुश्चिच्छेद मारिष॥२८॥

तदपास्य धनुश्छिन्नं कुन्तीपुत्रो युधिष्ठिरः।
अन्यत् कार्मुकमादाय वेगवद्वलवत्तरम्॥२९॥

ततो मद्रेश्वरं राजा शरैस्सन्नतपर्वभिः।
छादयामास सङ्कुद्धस् तिष्ठ तिष्ठेति चाब्रवीत्॥३०॥

धृष्टद्युम्नस्ततो द्रोणम् अभ्यधावत भारत।
तस्य द्रोणस्सुसङ्क्रुद्धः परासुकरणं दृढम्॥३१॥

त्रिधा चिच्छेद समरे यतमानस्य कार्मुकम्।
शरं चैव महाघोरं कालदण्डमिवापरम्॥३२॥

प्रेषयामास समरे सोऽस्य काये न्यमज्जत॥३२॥

अथान्यद्धनुरादाय सायकांश्च चतुर्दश।
द्रोणं द्रुपदपुत्रस्तु प्रेषयामास संयुगे॥३३॥

तावन्योन्यं सुसङ्क्रुद्धौ चक्रतुस्सुभृशं रणम्॥३४॥

मागधस्सौमदत्तिं तु रभसं रभसो युधि।
प्रत्युद्ययौ महाराज तिष्ठतिष्ठेति चाब्रवीत्॥३५॥

दक्षिणं सौमदत्तेस्तु निर्बिभेद रणे भुजम्।
सौमदत्तिश्श168रं तस्य जत्रुदेशे समर्पयत्॥३६॥

तयोस्समभवद्युद्धं घोररूपं विशां पते।
दृप्तयोस्समरे तूर्णं वृत्रवासवयोरिव॥३७॥

बा169ह्लीकं तु रणे क्रुद्धं धृष्टकेतुस्समभ्ययात्॥३७॥

बाह्लीकस्तु रणे राजन् धृष्टकेतुममर्षणम्।
शरैर्दशभिरानर्च्छत् सिंहनादं ननाद च॥३८॥

धृष्टकेतुस्सुसङ्क्रुद्धो बाह्लीकं नवभिश्शरैः।
विव्याध समरे तूर्णं मत्तो मत्तमिव द्विपम्॥३९॥

तौ तत्रसमरे दृप्तौ चेरतुश्च मुहुर्मुहुः।
समीयतुस्सुसङ्क्रुद्धावङ्गारकबुधाविव॥४०॥

राक्षसं क्रूरकर्माणं क्रूरकर्मा घटोत्कचः।
अलम्बुसं प्रत्युदियाद् बलं शक्र इवाहवे॥४१ ॥

107टोत्कचस्ततस्तूर्णं राक्षसेन्द्रं महाहवे।
नवत्या सायकैस्तीक्ष्णैर् अर्दयामास भारत॥४२॥

अलम्बुसस्तु समरे भैमसेनिंमहाबलम्।
बहुधा वारयामास सायकैर्नतपर्वभिः॥४३॥

व्यभ्राजेतां ततस्तौ तु संयुगे शरविक्षतौ।
यथा देवासुरे युद्धे बलशक्रौमहारथौ॥४४॥

शिखण्डी समरे राजन् द्रौणिमभ्यर्दयद्वली॥४५॥

अश्वत्थामा ततः क्रुद्धश् शिखण्डिनमुपस्थितम्॥
नाराचेन सुतीक्ष्णेन भृशं विद्ध्वाह्यकम्पयत्॥४६॥

शि170खण्ड्यपि ततो राजन् द्रोणपुत्रमताडयत्॥४६॥

सायकेन सुतीक्ष्णेन पीतेन निशितेन च।

समाजघ्नतुरन्योन्यं शरैर्बहुविधैर्नृप॥४७॥
भगदत्तं रणे शूरं विराटो वाहिनीपतिः।
अभ्ययात् त्वरितो राजंस् ततो युद्धमवर्तत॥४८॥

विराटो भगदत्तं च शरवर्षेण भारत।
अभ्यवर्षत् सुसङ्क्रुद्धो मेघो वृष्ट्या इवाचलम्॥४९॥

भगदत्तस्ततः क्षिप्रं विराटं वाहिनीपतिम्।
छादयामास नाराचैर् मेघस्सूर्यमिवोदितम्॥५०॥

बृहत् क्षत्रं तु कैकेयं कृपश्शारद्वतो ययौ।
तं कृपश्शरवर्षेण च्छादयामास भारत॥५१॥

गौतमं चापि कैकेयः शरवृष्ट्याऽभ्यपूरयत्॥५२॥
तावन्योन्यं हयान् हत्वा धनुषी विनिकृत्य च।

विरथावसियुद्धाय समीयतुररिन्दमौ॥५३॥
तयोस्समभवद्युद्धं घोररूपं सुदारुणम्॥५३॥

द्रुपदस्तु ततो राजन् सैन्धवं वै जयद्रथम्।
अभ्ययात् समरे हृष्टो हृष्टरूपं परन्तपः॥५४॥

ततस्सैन्धवको राजा द्रुपदं विशिखैस्त्रिभिः।
ताडयामास समरे स च तं प्रत्यविध्यत॥५५॥

तयोस्समभवद्युद्धं घोररूपं सुदारुणम्।
ईक्षितृप्रीतिजननं दृप्तशार्दूलयोरिव॥५६॥

विकर्णस्तु सुतस्तूर्णं युधामन्युं महाबलम्।
अभ्ययाज्जवनैरश्वैस् ततो युद्धमवर्तत॥५७॥

विकर्णस्तु युधामन्युं विद्धा नाकम्पयच्छरैः।
युधामन्युर्विकर्णं च तदद्भुतमिवाभवत्॥५८॥

सुशर्माणं नृपव्याघ्रश् चेकितानो महावलः।
अभ्यर्दयत् सुसङ्क्रुद्धः पाण्डवार्थे पराक्रमी॥५९॥

सुशर्मा तु महाराज चेकितानं महारथम्।
महता शरवर्षेण वारयामास संयुगे॥६०॥

चेकितानोऽपि सङ्क्रुद्धस् सुशर्माणं महाहवे।
शरैश्च छादयामास महामेघ इवाचलम्॥६१॥

शकुनिः प्रतिविन्ध्यं तु पराक्रान्तं पराक्रमी।
171भ्यद्रवत राजेन्द्र सिंहो मत्तमिव द्विपम्॥६२॥

यौधिष्ठिरस्तु सङ्क्रुद्धस् सौबलं निशितैश्शरैः।
व्यदारयत सङ्ग्रामे मघवानिव शम्बरम्॥६३॥

शकुनिः प्रतिविन्ध्यं तु प्रतिविन्ध्यस्तमाहवे।
व्यदारयन्महाप्राज्ञश् शरैस्सन्नतपर्वभिः॥६४॥

सुदक्षिणं च राजेन्द्र काम्भोजानां जनेश्वरम्।
श्रुतसोमः पराक्रान्तो ह्यभ्यद्रवत संयुगे॥६५॥

सुदक्षिणस्तु समरे मैमसेनिंमहाबलम्।
विद्ध्वानाकम्पयत् संख्ये मैनाकमिव पर्वतम्॥६६॥

श्रुतसोमस्तु सङ्क्रुद्धः काम्भोजं तु नराधिपम्।
172रैर्बहुभिरानर्च्छद् दारयन्निव सर्वशः॥६७॥

इरावानथ सङ्क्रुद्धश् श्रुतायुषममर्षणम्।
प्रत्युद्ययौ रणे यत्तो घोररूपतरं ततः॥६८॥

आर्जुनिस्तत्र समरे हयान् हत्वा महारथः।
ननाद तत् कर्म रणे सर्वसैन्यान्यपूजयन्॥६९॥

इरावानपि सङ्क्रुद्धश् श्रु173तकीर्तिर्महारणे।
निजघान गदाग्रेण ततो युद्धमवर्तत॥७०॥

विन्दानुविन्दावावन्त्यौकुन्तिभोजं महारथम्।
ससैन्यं ससुतं वीरम् अयुध्येतां परन्तपौ॥७१॥

तत्राद्भुतमपश्याम आवन्त्यानां पराक्रमम्।
अयुध्येतां स्थिरौ भूत्वा महत्या सेनया सह॥७२॥

अनुविन्दस्तु गदया कुन्तिभोजमताडयत्।
कुन्तिभोजश्च तं क्षिप्रं शरव्रातैरवाकिरत्॥७३॥

कुन्तिभोजसुतश्चापि विन्दं विव्याध सायकैः।
स तु तं प्रतिविव्याध तदद्भुतमिवाभवत्॥७४॥

केकया भ्रातरः पञ्च गान्धारान् पञ्च मारिष।
ससैन्यास्तु ससैन्यांस्तु योधयन्ति महारणे॥७५॥

वीरबाहुश्च ते पुत्रो वैराटिंरथसत्तमम्।
174त्तरं योधयत्तूर्णं विव्याध निशितैश्शरैः॥७६॥

उत्तरश्चापि तं वीरं विव्याध निशितैश्शरैः।
ततो युद्धं समभवद् घोररूपं विशां पते॥७७॥

उलूकं तु शतानीकश् शरैर्बहुभिरावृणोत्।
उलूकश्चापि तं बाणैर् निशितैर्लोमवापिभिः॥७८॥

तयोर्युद्धं समभवद् घोररूपं विशां पते।
दारयेतां रणे शस्त्रैर् अन्योन्यमपराजितौ॥७९॥

आसन् द्वन्द्वसहस्राणि नरवारणवाजिनाम्।
पाण्डवानां च समरे तावकानां च संयुगे॥८०॥

मुहूर्तमिव तद्युद्धम् आसीन्मधुरदर्शनम्।
तत उन्मत्तवद्राजन्न प्राज्ञायत किञ्चन॥८१॥

गजो गजेन समरे रथी च रथिनं ययौ।
अश्वोऽश्वं समरे प्रेत्य पदातिश्च पदातिनम्॥८२॥

एवं युद्धं सुदुर्धर्षं प्रव्याकुलमजायत।
सङ्कुले तत्र युध्यन्ति समासाद्य परस्परम्॥८३॥

तत्र देवर्षिसिद्धाश्च चारणाश्चसमागताः।
प्रैक्षन्त ते रणे घोरं देवासुरसमं भुवि॥८४॥

ततो दन्तिसहस्राणि रथानां चापि मारिष।
अश्वौघाः पुरुषौघाश्च विपरीतान् समाययुः॥८५॥

तत्रतत्रैव दृश्यन्ते रथवारणपत्तयः।
सादिनश्च नरव्याघ्र युध्यमाना मुहुर्मुहुः175॥८६॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि द्विचत्वारिंशोऽध्यायः॥ ४२ ॥
॥ ६४ ॥ भीष्मवधपर्वणि द्वितीयोऽध्यायः ॥ २ ॥
[अस्मिन्नध्याये ८६ ॥ श्लोकाः]
<MISSING_FIG href="../books_images/U-IMG-1706888461Screenshot2023-12-07155820.png"/>

\।\। त्रिचत्वारिंशोऽध्यायः ॥

<MISSING_FIG href="../books_images/U-IMG-1706888524Screenshot2023-12-08194923.png"/>

सङ्कलयुद्धवर्णनम् ॥

<MISSING_FIG href="../books_images/U-IMG-1706888461Screenshot2023-12-07155820.png"/>

सञ्जयः—

राजञ्शतसहस्राणि तत्रतत्रतदा तदा।
निर्मर्यादं प्रवृत्तानि तत् ते वक्ष्यामि भारत॥१॥

न पुत्रः पितरं जज्ञे न पिता पुत्रमौरसम्।
न भ्राता भ्रातरं तत्र स्वस्रीयं च न मातुलः॥२॥

स्वस्रीयो मातुलं चापि सखायं च सखा तथा।
आविष्टा इव युध्यन्ते पाण्डवाः कुरुभिस्सह॥३॥

रथानीकं रथव्याघ्राः केचिदभ्यपतन् रथैः।
176भज्यन्त युगैरेव युगानि भरतर्षभ॥४॥

रथेषाश्च रथेषाभिः कुबरा रथकूबरैः।
संहतैस्संहताः केचित् परस्परजिघांसवः॥५॥

न शेकुश्चलितुं केचित् समुपेत्य रथा रथैः।
प्रभिन्नास्सुमहाकायास् सन्निपत्य गजा गजैः॥६॥

बहुधा दारयामासुः विषाणैरितरेतरम्।
सतोमरपताकैश्च वारणा वरवारणैः॥७॥

अभिपत्य महाराज वेगवद्भिर्महाबलैः।
दन्तैरभिहतास्तत्रचुक्रुशुः परमातुराः॥८॥

अभिनीताश्च शिक्षाभिस् तोत्राङ्कुशनिपातनैः।
सुप्रभिन्नाः प्रभिन्नानां सुमुखाभिमुखं ययुः॥९॥

प्रभिन्नैरपि सम्भिन्नाः केचित् तत्र महागजाः।
क्रौञ्चवन्निनदं कृत्वा प्राद्रवन्त ततस्ततः॥१०॥

सम्यक् प्रणिहिता नागाःप्रभिन्नकरटामुखाः।
यष्टितोमरनाराचैर् निर्विद्धा वरवारणाः॥११॥

विनेदुश्छिन्नवर्माणो निपेतुश्च गतासवः।
प्रधावन्ति दिशस्सर्वा नदन्तो भैरवान् रवान्॥१२॥

गजानां पादरक्षास्तु व्यूढोरस्काःप्रहारिणः।
इषुभिश्च धनुर्भिश्च विमलैश्च परश्वथैः॥१३॥

गदाभिर्मुसलैश्चैव भिण्डिवालैस्सतोमरैः।
आयसैर्विमलैश्चैव निस्त्रिशैर्विमलैश्शितैः॥१४॥

प्रगृहीतैश्च संरब्धा सावमानास्ततस्ततः।
व्यदृश्यन्त महाराज परस्परजिघांसवः॥१५॥

राजमानास्तु निस्त्रिंशास् संरक्ता नरशोणितैः।
प्रत्यदृश्यन्त शूराणाम् अन्योन्यमभिधावताम्॥१६॥

अवक्षिप्तावधूतानाम् असीनां वीरबाहुभिः।
सञ्जज्ञे तुमुलश्शब्दः पततां परमर्मसु॥१७॥

गदामुसलरुग्णानां भिन्नानां च वरासिभिः।
91न्तिदन्तावभिन्नानां मृदितानां च दन्तिभिः॥१८॥

तत्र तत्र नरौघाणां क्रोशतामितरेतरम्।
177श्रूयन्त महाराज वाचः क्रूरास्सुदारुणाः॥१९॥

अन्योन्यं युध्यतां तेषां शूराणामनिवर्तिनाम्।
शुश्रुवुर्दारुणा वाचः प्रेतानामिव भारत॥२०॥

हयैरपि हयारोहाश् चामरापीडधारिभिः।
इंसैरिव महावेगैर् अन्योन्यमभिदुद्रुवुः॥२१॥

तैर्विमुक्ता महाप्रासा जाम्बूनदविभूषणाः।
आशुगा विमलास्तीक्ष्णास् सम्पेतुर्भुजगोपमाः॥२२॥

अश्वैरुग्रजवैः केचिद् आपेतुर्महतो रथात्॥२२॥
शिरांसि चिच्छिदुर्वीरा रथिनामश्वसादिनः॥२३॥

बहूनपि हयारोहान् भल्लैरानतपर्वभिः।
रथिनस्तान् समाजध्नुर् बाणगोचरमागतान्॥२४॥

नगमेघप्रतीकाशान् आक्षिप्य तुरगान् गजान्।
178मृदुश्च रणे तत्र हयान् कनकभूषणान्॥२५॥

कुम्भेषु पातयामासुः पार्श्वेष्वपि च वारणाः।
प्रा179सैर्विनिहताः केचिद्विनेदुः परमातुराः॥२६॥

साश्वारोहान् हयान् केचिद् उन्मथ्य वरवारणाः।
सहसा चिक्षिपुस्तत्रसङ्कुले भैरवे सति॥२७॥

साश्वारोहान् विषाणाग्रैर् उत्क्षिप्य तुरगान् गजाः।
रथौघानभिमृद्गन्तस् सध्वजान् परिचक्रमुः॥२८॥

पु180रस्तादभितः पश्चात् केचिदत्र महागजाः।

साश्वारोहान् हयाञ्जनुः करैस्सचरणैस्तथा॥२९॥

केचिदुन्मध्य दन्तेषु साश्वानपि महारथान्।
विकर्षन्तो दिशस्सर्वास्सम्पेतुस्स181र्वतो गजाः॥३०॥

मुक्तास्तु रथिभिर्बाणा रुक्मपुङ्खास्सुतेजनाः।
अकुण्ठिताग्रा निष्पेतुर् नागेषु च हयेषु च॥३१॥

नराश्वकायान्निर्भिद्य लौहानि कवचानि च।
निपेतुर्विमलाश्शक्त्यो वीरबाहुभिरर्पिताः॥३२॥

महोल्काप्रतिमा घोरास् तत्र तत्र विशां पते।
द्वीपिचर्मावनद्धैश्च व्याघ्रचर्माशयैरपि॥३३॥

विकोशैर्विमलैः खङ्गैर् अभिजघ्नुः पदातयः॥३३॥

द्रुतं प्लुतमभिक्रान्तम् एकपार्श्वतिरोहितम्।
विदर्शयन्तस्संपेतुः खड्गचर्मपरश्वथैः॥३४॥

182क्तिभिर्दारिताः केचित् संच्छिन्नाश्च परश्वथैः।
हस्तिभिर्मृदिताङ्गाश्च क्षुण्णाश्च तुरगैस्तथा॥३५॥

रथ183नेमिनिकृत्ताश्च निकृत्ताश्च शितैश्शरैः।
विचुक्रुशुर्नरा राजंस् तत्र तत्रात्मबान्धवान्॥३६॥

पुत्रानन्ये पितॄनन्ये भ्रातॄंश्च सह बान्धवैः।

मातुलान् भागिनेयांश्च परानपि च संयुगे॥३७॥

विकीर्णान्त्रास्सुबहवो भग्नसक्थाश्च भारत।
बाहुभिस्सुभुजाश्छिन्नाः पार्थेषु च विदारिताः॥३८॥

ऋन्दन्तस्समदृश्यन्त तृषिता जीवितेप्सवः॥३९॥

तृष्णापरिगताः केचिद् अल्पसत्त्वा विशां पते।
भूमौ निपतितास्सङ्ख्ये मृगुयांचक्रिरे जलम्॥४०॥

रुधिरौघपरिक्लिन्नाः क्लिश्यमानाश्चसंयुगे।
व्यनिन्दन् भृशमात्मानं तव पुत्रांश्च सङ्गतान्॥४१॥

अपरे क्षत्रियाश्शूराः कृतवैराः परस्परम्।
न च शस्त्रं प्रमुञ्चन्ति न चाक्रन्दन्ति मारिष॥४२॥

तर्जयन्ति च संहृष्टास् तत्र तत्र परस्परम्।
संदश्य दशनैश्चापि क्रोधात् स्वदशनच्छदान्॥४३॥

भ्रुकुटीकुटिलैर्वकैः प्रेक्षन्ते स्म परस्परम्।
तर्जयित्वा च संहृष्टाः प्राणार्ताश्शरविक्षताः॥४४॥

अप184रे क्लिश्यमानास्तु शरार्ता व्रणपीडिताः।
निष्कूजनास्समपद्यन्त दृढसत्त्वा महाबलाः॥४५॥

अन्ये तु विरथाश्शूराः रथमन्यस्य संयुगे।
प्रार्थयाना निपतिताः संक्षुण्णा परवारणैः॥४६॥

अशोभन्त महाराज योधास्तत्र सहस्रशः।
रु185धिरोक्षितसर्वाङ्गाः पुष्पिता इव किंशुकाः॥४७॥

चुक्रुशुस्तेष्वनीकेषु बहवो भैरवस्वनाः।
वर्तमाने तदा भीमे तस्मिन् वीरवरक्षये॥४८॥

निजघान पिता पुत्रं पुत्रश्च पितरं रणे।
स्वस्रीयो मातुलं चापि स्वस्रीयं चापि मातुलः॥४९॥

सखा सखायं च तथा सम्बन्धी बान्धवं तथा॥४९॥

एवमेव क्षयो वृत्तः कुरूणां पाण्डवैस्सह॥५०॥
वर्तमाने तथा तस्मिन् निर्मर्यादे महाहवे।

भीष्ममासाद्य पार्थानां वाहिनी समकम्पत॥५१॥

केतुना पञ्चतालेण तालेन भरतर्षभ।
राजतेन महाबाहुर् उच्छ्रितेन महारथे॥५२॥

बभौ भीष्मस्तदा राजंश् चन्द्रमा इव मेरुणा॥५२॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि त्रिचत्वारिंशोऽध्यायः॥४३॥
॥६४॥ भीष्मवधपर्वणि तृतीयोऽध्यायः॥३॥
[ अस्मिन्नध्याये ५२॥श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1706892794Screenshot2023-12-07155820.png"/>

॥चतुश्चत्वारिंशोऽध्यायः॥
<MISSING_FIG href="../books_images/U-IMG-1706893335Screenshot2023-12-08194923.png"/>

उत्तरकुमारवधः॥

<MISSING_FIG href="../books_images/U-IMG-1706893357Screenshot2023-12-07155820.png"/>

सञ्जयः—

गतपूर्वाह्णभूयिष्ठे तस्मिन्नहनि दारुणे।
वर्तमाने महारौद्रे महावीरवरक्षये॥१॥

दुर्मुखः कृतवर्मा च कृपश्ल्शयो विविंशतिः।
भीष्मं जुगुपुरासाद्य तव पुत्रेण चोदिताः॥२॥

एतैर्गुप्तो महेष्वासैःपञ्चभिः पावकोपमैः।
पाण्डवानामनीकानि विजगाहे महारथः॥३॥

चेदिकाशिकरुषेषु पाञ्चालेषु च भारत।
भीष्मस्य बहुधा तालश् चरन् केतुरदृश्यत॥४॥

धनूंषि रथिनां भीष्मस्सो186ष्णीषाणि शिरांसि च।
बाहूनपि रथांचोरून् तथा च विपुलान् ध्वजान्॥५॥

विचकर्त महावेगैर् भलैस्सन्नतपर्वभिः॥५॥

एकैकेन तु मातङ्गाना187राचेन महात्मनः॥
ताडितास्सहसा जग्मुः पृथिवीं पर्वतोपमाः॥६॥

नृत्यन्स रथमार्गेषु भीष्मश्चरति पार्थिव॥७॥

दुराधर्षस्तु शत्रूणां मनांसि समकम्पयत्।
हयांश्च सहयारोहान् पातयामास संयुगे॥८॥

सरथेन महेष्वासो विचरन् बहुधा बली।
मण्डलानि विचित्राणि गोमूत्रादीनि भारत॥९॥

अन्यान् बहुविधान्नागान् रथेन रथकोविदः।
विस्मापयञ् शूरसङ्घान् विचरञ्जाह्नवीसुतः॥१०॥

अभिमन्युस्ततः क्रुद्धः पिशङ्गैस्तुरगोत्तमैः।
संयुक्तं रथमास्थाय प्रायाद् भीष्मरथं प्रति॥११॥

जाम्बूनदविचित्रेण कर्णिकारेण केतुना।
अभ्यवर्तत भीष्मं च ताञ् शल्यप्रमुखान् नृपान्॥१२॥

188तालकेतुना कार्ष्णिस् समासाद्य महारथः।
भीष्मेण युयुधे वीरस् तस्य चानुरथैस्सह॥१३॥

कृतवर्माणमेकेन शल्यं पञ्चभिराशुगैः।
विद्ध्वानवभिरानर्च्छच् छिताग्रैः प्रपितामहम्॥१४॥

पूर्णायतविसृष्टेन सम्यक् प्रणिहितेन च।
ध्वजमेकेन विव्याध जाम्बूनदविभूषितम्॥१५॥

दुर्मुखस्य तु भल्लेन सर्वावरणभेदिना।

जहार सारथेःकायाच् छिरस्सन्नतपर्वणा॥१६॥

विविंशतिं विभिर्बाणैस् सर्वावरणभेदिभिः।
धनुचिच्छेद चै189केन हत्वा चाश्वान् व्यनादयत्॥१७॥

कृपस्य निशितायैस्तु हयांस्तीक्ष्णजवैश्शरैः।
जघान समरे क्रुद्धो नृत्यन्निव महारथः॥१८॥

तस्य लाघवमालोक्य तुष्टुवुर्दैवतान्यपि।
लब्धलक्षतया कार्ष्णेस् सर्वे भीष्ममुखाश्च ते॥१९॥

सत्त्ववन्तममन्यन्त साक्षादिव धनञ्जयम्॥१९॥

तस्य लाघवमार्गस्थं ह्यलातसदृशप्रभम्।
दिशःपर्यपतच्चापं गाण्डीवमिव घोषवत्॥२०॥

तमुद्यन्तं महावेगैर् भीष्मो दशभिराशुगैः।
विव्याध समरे वीरम् आर्जुनिंपरवीरहा॥२१॥

ध्वजं चास्य त्रिभिर्भल्लैश् चिच्छेद परमौजसा।
सारथिं च त्रिभिर्बाणैर् आजधान महाव्रतः॥२२॥

तथैव कृतवर्मा च कृपश्शल्यश्च दुर्मुखः।
विविंशतिस्तथा राजन् पञ्चयोधा महारथाः॥२३॥

नि190जघ्नुर्निशितैर्बाणैर् अभिमन्युं महाबलम्॥२४॥

अभिमन्युर्महावीरो विद्धो वीरैस्तु पञ्चभिः।
तदा नाकम्पयत् कार्ष्णिर् मैनाक इव पर्वतः॥२५॥

स तैः परिधृतश्शूरो धार्तराष्ट्रैर्महारथैः।
ववर्ष शरवर्षाणि कार्ष्णिः पञ्चरथान् प्रति॥२६॥

ततस्तेषां महास्त्राणि संवार्य शरघृष्टिभिः।
ननाद वलवान् कार्ष्णिर् भीष्माय विसृजञ् शरान्॥२७॥

सौभद्रस्य तदा राजन् बाह्वोर्बलमदृश्यत।
यतमानं महेष्वासं भीष्ममर्दयतश्शरैः॥२८॥

पराक्रान्तस्य तस्यैवं भीष्मोऽपि प्राहिणोच्छरान्।
191 तांश्चिच्छेद समरे भीष्मचापच्युताञ् शरान्॥२९॥

ततो ध्वजममोघेषुर् भीष्मस्य नवभिश्शरैः।
चिच्छेद समरे वीरस् तत उच्चुक्रुशुर्जनाः॥३०॥

स राजतो महास्कन्धस् तालो हेमविभूषितः।
सौभद्रविशिखैश्छिन्नः पपात भुवि भारत॥३१॥

तं च सौभद्रविशिखैः पातितं भरतर्षभ।
दृष्ट्वा भीमो ननादोच्चैस्सौभद्रमभिपालयन्॥३२॥

अथ भीष्मस्स्वयं राजन् दिव्यमस्त्रमुदारधीः।
प्रादुश्चक्रे महारौद्रं रणे तस्मिन् महाबलः॥३३॥

ततश्शतसहस्रेण शराणां नतपर्वणाम्।
अवाकिरदमेयात्मा सौभद्रं प्रपितामहः॥३४॥

ततो दश महेष्वासाः पाण्डवानां महारथाः।
रक्षार्थमभ्यधावन्त सौभद्रं त्वरिता रथैः॥३५॥

विराटस्सह पुत्रेण धृष्टद्युम्नश्च पार्षतः।
भीमश्च केकयाश्चैव सात्यकिश्च विशां पते॥३६॥

तेषां जवेनापततां भीष्मोऽपि त्वरितो रणे।
पाञ्चाल्यं त्रिभिरानर्च्छत् सात्यकिं च त्रिभिश्शरैः॥३७॥

पूर्णायतविसृष्टेन क्षुरेण निशितेन च।
ध्वजमेकेन चिच्छेद भीमसेनस्य पत्रिणा॥३८॥

जाम्बूनदमयश्श्रीमान् केसरी स नरोत्तम।
पपात भीमसेनस्य भीष्मेण मथितो रथात्॥३९॥

ततो भीमस्त्रिभिर्विद्ध्वाभीष्मं शान्तनवं रणे।
कृपमेकेन विव्याध कृतवर्माणमष्टभिः॥४०॥

प्रगृहीताग्रहस्तेन वैराटिरपि दुन्तिना।
अभ्यद्रवत राजानं मद्राधिपतिमुत्तरः॥४१॥

तस्य वारणराजस्य जवेनापततो रथी।
शल्यो निवारयामास वेगमप्रतिमं रणे॥४२॥

तस्य प्रगृह्य नागेन्द्रो बृहतस्साधुवाहिनः।

पदा युगमधिष्ठाय जघान चतुरो हयान्॥४३॥

स हताश्वे रथे तिष्ठन् मद्राधिपतिरायसीम्।
उत्तरान्तकरीं शक्तिं चिक्षेप भुजगोपमाम्॥४५॥

तया भिन्नतनुत्राणः प्रविश्य विपुलं तमः।
स पपात गजस्कन्धात् प्रमुक्ताङ्कुशतोमरः॥४६॥

समादाय च शल्योऽसिम् अवप्लुत्य रथोत्तमात्।
वारणेन्द्रस्य विक्रम्य चिच्छेदाशु महाकरम्॥४७॥

भिन्नमर्मा शरव्रातैश छिन्नहस्तस्सवारणः।
भीममार्तस्वरं कृत्वा पपात च ममार च॥४८॥

एतदीदृशकं कृत्वा मद्रराजो नराधिपः।
आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः॥४९॥

उत्तरं तु हतं दृष्ट्वा वैराटिर्भ्रातरं तदा।
कृतवर्मणा च सहितं दृष्ट्वा शल्यमवस्थितम्॥४९॥

शङ्खः क्रोधात् प्रजज्वाल हविषा हव्यवाडिव।

स विष्फार्य महचापं शक्रचापोपमं बली।
अभ्यधावज्जिघांसुस्तं शल्यं मद्राधिपं युधि॥५०॥

महता रथवंशेन समन्तात् परिवारितः।
सृजन् बाणमयं वर्षं प्रायाच्छल्यरथं प्रति॥५१॥

तमापतन्तं सम्प्रेक्ष्य मत्तवारणविक्रमम्।

तावकानां रथास्सप्त समन्तात् पर्यवारयन्॥५२॥

मद्रराजं परीप्सन्तो मृत्योर्दंष्ट्रान्तरं गतम्॥५३॥

ततो भीष्मो महाबाहुर् विनद्य जलदो यथा।
तालमात्रं धनुर्बिभ्रत् शङ्खमभ्यद्रवद्रणे॥५४॥

तमुद्यन्तमुदीक्ष्यैनं महेष्वासं महाबलम्।
संत्रस्ता पाण्डवी सेना वातवेगहतेव नौः॥५५॥

ततोऽर्जुनस्संत्वरितश् शङ्खस्यासीत् पुरस्सरः।
भीष्माद्रक्ष्योऽयमद्येति ततो युद्धमवर्तत॥५६॥

हाहाकारस्ततो राजन् योधानां युधि युध्यताम्।
तेजस्तेजसिसंसक्तम् इत्येवंवि192स्मयो ह्यभूत्॥५७॥

अथ शल्यो गदापाणिर् अवतीर्य महारथात्।
शङ्खस्य चतुरो वाहान् अवधीद्भरतर्षभ॥५८॥

स हताश्वो रथे तिष्ठन् खड्गमादाय विद्रुतः।
बीभत्सोस्स्यन्दनं प्राप्य पुनश्शान्तिमविन्दत॥५९॥

ततो भीष्मरथात् तूर्णं प्रपतन्ति पतत्रिणः।
यैरन्तरिक्षं भूमिश्च सर्वतोऽभूत् समावृतम्॥६०॥

पाञ्चाल्यानथ मात्स्यांश्चकेकयांश्च प्रभद्रकान्।
भीष्मः प्रहरतां श्रेष्ठः पातयामास मार्गणैः॥६१॥

उत्सृज्य समरे राजन् पाण्डवं सव्यसाचिनम्।
अभ्यवर्तत पाञ्चाल्यं द्रुपदं सेनया वृतम्॥६२॥

प्रियं सम्बन्धिनं राजञ्शरानवकिरन् बहून्॥६२॥

अग्निनेव प्रदग्धानि वनानि शिशिरात्यये।
शरदग्धान्यदृश्यन्त सैन्यानि द्रुपदस्य च॥६३॥

अतिष्ठच्च रणे भीष्मो विधूम इव पावकः।
मध्यन्दिने यथाऽऽदित्यं तपन्तमिव तेजसा॥६४॥

न शेकुः पाण्डवेयस्य योधा भीष्मं निरीक्षितुम्।
वीक्षां चक्रुस्समन्तात् ते पाण्डवा भयपीडिताः॥६५॥

त्रातारं नाभ्यगच्छन्त गावश्शीतार्दिता इव॥६६॥

अथास्मिन् विद्रुते सैन्ये निरुत्साहे विमर्दिते।
हाहाकारो महानासीत् पाण्डुसैन्येषु मारिष॥६७॥

ततो भीष्मश्शान्तनवो नित्यं मण्डलकार्मुकः।
मुमोच बाणान् दीप्ताग्रान् अहीनाशीविषानिव॥६८॥

शरैरेकायनीकुर्वन् दिशस्सर्वा यतव्रतः।
जघान पाण्डवरथान् आदिश्यादिश्य भारत॥६९॥

ततस्सैन्येषु भन्नेषु मथितेषु च सर्वशः।
प्राप्ते चास्तं दिनकरे न प्राज्ञायत किञ्चन॥७०॥

भीष्मं च समुदीर्यन्तं दृष्ट्वा पार्था महाहवे।
अपहारमकुर्वस्ते सैन्यानां भरतर्षभ॥७२॥

इति श्रीमहाभारते शतसहस्रिकायांसंहितायां वैयासिक्यां
भीष्मपर्वणि चतुश्चत्वारिंशोऽध्यायः॥ ४४ ॥
॥ ६४ ॥ भीष्मवधपर्वणि चतुर्थोऽध्यायः ॥ ४ ॥
[ अस्मिन्नध्याये ७१ श्लोकाः ]
[ प्रथमदिवसे प्रथमापहारस्समाप्तः ]
<MISSING_FIG href="../books_images/U-IMG-1706895593Screenshot2023-12-07155820.png"/>

\।\। पञ्चचत्वारिंशोऽध्यायः ॥

<MISSING_FIG href="../books_images/U-IMG-1706895627Screenshot2023-12-07155812.png"/>

धृष्टद्युम्नेन क्रौञ्चव्यूहनिर्माणम्॥

______

सञ्जयः—

कृतेऽपहारे सैन्यानां प्रथमे भरतर्षभ।
भीष्मे च युधि संहृष्टे राजन् दुर्योधनेऽपि च॥१॥

धर्मराजस्ततस्तूर्णम् अभिगम्य जनार्दनम्।
भ्रातृभिस्सहितस्सर्वैस सर्वैश्च पृथिवीश्वरैः॥૨॥

शोकसन्तप्तहृदयश् चिन्तयानः पराजयम्।
वार्ष्णेयमब्रवीद्राजन् दृष्ट्वा भीष्मस्य विक्रमम्॥३॥

युधिष्ठिरः—

कृष्ण पश्य महेष्वासं भीष्मं भीमपराक्रमम्।
शरैर्दहन्तं सैन्यं मे ग्रीष्मे कक्षमिवानलम्॥४॥

कथमेनं महात्मानं शक्ष्यामः प्रतिवीक्षितुम्।
लेलिद्यमानं सैन्यं मे हविष्मन्तमिवानलम्॥५॥

एनं हि पुरुषव्याघ्रं धनुष्मन्तं महाबलम्।
दृष्ट्वा विप्रद्रुतं सैन्यं मदीयं मार्गणाहतम्॥६॥

शक्यो जेतुं यमस्सङ्ख्ये वज्रपाणिश्च संयुगे।
वरुणः पाशभृच्चापि कुबेरो वा गदाधरः॥७॥

न तु भीष्मो महातेजाश्शक्यो जेतुं महाबलः॥७॥

सोऽहमेवं गते भग्नोभीष्मेणाथ जयेप्सुना॥८॥

191त्मनो बुद्धिदौर्बल्याद् भीष्ममासाद्य केशव।
वनं यास्यामि वार्ष्णेय श्रेयो मे तत्रजीवितुम्॥९॥

न त्विमान् पृथिवीपालान् दातुं भीष्माय मृत्यवे।
क्षपयिष्यति सेनां मे कृष्ण भीष्मो महास्त्रवित्॥१०॥

यथाऽनलं प्रज्वलितं पतङ्गास्समभिद्रुताः।
विनाशायैव गच्छन्ति तथा मे सैनिका जनाः॥११॥

क्षयं नीतोऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी।
पाण्डवा भ्रातरश्चैव कर्शिताश्शरपीडिताः॥१२॥

मत्कृते भ्रातृभाषेन राज्यावष्टास्तथा सुखात्।
जीवितुं बहुमन्येऽहं जीवितं ह्यद्य दुर्लभम्॥१३॥

जीवितस्य हि शेषेण तपस्तप्स्यामि दुश्चरम्।
न घातयिष्यामि रणे मित्राणीमानि केशव॥१४॥

रथान् मे बहुसाहस्रान दिव्यैरस्त्रैर्महाबलः।
पातयत्यनिशं भीष्मः प्रवराणां प्रहारिणाम्॥१५॥

किं नु कृत्वा हितं मे स्याद् ब्रूहि माधव माचिरम्।
मध्यस्थमिव पश्यामि समरे सव्यसाचिनम्॥१६॥

एको भीमः परं शक्त्या युध्यत्येष महाभुजः।
केवलं बाहुवीर्येण क्षत्रधर्ममनुस्मरन्॥१७॥

गदया वीरघातिन्या यथोत्साहं महामनाः।
करोत्यसुकरं कर्म रथाश्वगजपत्तिषु॥१८॥

नालमेष क्षयं कर्तुं परसैन्यं च मारिष।
आर्जवेनैव युद्धेन वीर वर्षशतैरपि॥१९॥

एकोऽस्त्रवित् सहायोऽयम् सोऽप्यस्मान् समुपेक्षते।
निर्दह्यमानान् भीष्मेण द्रोणेन च महात्मना॥२०॥

दिव्यान्यस्त्राणि भीष्मस्य द्रोणस्य च महात्मनः।
धक्ष्यन्ति क्षत्रियानद्य प्रयुक्तानि पुनःपुनः॥२१॥

कृष्ण भीष्मस्सुसंरब्धस् सहितस्सर्वपार्थिवैः।
क्षपयिष्यति नो नूनं तादृशोऽस्य पराक्रमः॥२२॥

स त्वं पश्य महेष्वासं योगेश्वर महारथम्।

भीष्मं यश्शमयेत् संख्ये दावाग्निंजलदो यथा॥२३॥

तव प्रसादाद्गोविन्द पाण्डवा निहतद्विषः।
स्वराज्यमनुसम्प्राप्ता मोदिष्यन्ति सबान्धवाः॥२४॥

सञ्जयः—

एवमुक्त्वा च कृष्णं स दध्यौराजा महामनाः।
चिरमन्तर्मना भूत्वा शोकोपहतचेतनः॥२५॥

शो193कार्तं तमथो ज्ञात्वा दुःखोपहतचेतसम्।
अब्रवीत् तत्र गोविन्दो हर्षयन्निव पाण्डवान्॥२६॥

श्रीभगवान्—

माशुचो भरतश्रेष्ठ न त्वं शोचितुमर्हसि।
यस्य ते भ्रातरश्शूरास् सर्वलोकस्य धन्विनः॥२७॥

अहं च प्रियकृद्राजन् सात्यकिश्चमहायशाः।
विराटद्रुपदौ चोभौ धृष्टद्युम्नश्चपार्षतः॥२८॥

तथैव सबलाश्चेमे राजानो राजसत्तम।
त्वत्प्रसादं प्रतीक्षन्ते त्वद्भक्ताश्चविशां पते॥२९॥

अयं ते पार्षतो नित्यं हितकामः प्रिये रतः।
सेनापत्यमनुप्राप्तो धृष्टद्युम्नो महाबलः॥३०॥

शिखण्डी च महाबाहो भीष्मस्य निधनं किल।

करिष्यति न सन्देहो नृपाणां युधि पश्यताम्॥३१॥

सञ्जयः—

एतच्छ्रुत्व194महाराज धृष्टद्युम्नं महारथम्।
अब्रवीत् स हि धर्मात्मा वासुदेवस्य शृण्वतः॥३२॥

युधिष्ठिरः—

धृष्टद्युम्न निबोधेदं यत्त्वा वक्ष्यामि दुर्धरम्।
नातिक्रम्यं भवेत् तच्च वचनं मम भाषितम्॥३३॥

भवान् सेनापतिर्मे स्याद् वासुदेवेन सम्मितः।
कार्तिकेयो यथा पूर्वं सेनानीरभवत् पुरा॥३४॥
तथा त्वमपि पाण्डूनां सेनानीर्भव पार्षत॥३४॥

सञ्जयः—

195च्छ्रुत्वा जहृषुःपार्थाःपार्थिवाश्च महारथाः।
साधु साध्विति तद्वाक्यम् ऊचुस्सर्वे महीक्षितः॥ ३५॥
पुनरप्यब्रवीद्राजा धृष्टद्युम्नं महाबलम्॥३६॥

युधिष्ठिरः—

स त्वं पुरुषशार्दूल विक्रम्य जहि कौरवान्।
अहं च तेऽनुयास्यामि भीम कृष्णौ च मारिष॥३७॥
माद्रीपुत्रौ च सहितौ द्रौपदेयाश्च सङ्गताः।

ये चान्ये पृथिवीपालाः प्रधानाः पुरुषर्षभ॥३८॥
196हायं तव दुर्धर्ष करिष्यन्ति महारणे॥३८॥

सञ्जयः—

एतच्छ्रुत्वा महाबाहुर् धर्मराजस्य धीमतः।
अब्रवीद्वचनं भूयः पार्षतो राजसन्निधौ॥३९॥

धृष्टद्युम्नः—

197हं द्रोणान्तकः पार्थ विहितश्शम्भुना पुरा॥४०॥
कर्णं भीष्मं तथा द्रोणं तथा शल्यं जयद्रथम्।
सर्वानद्य रणे दृप्तान् प्रतियोत्स्यामि पार्थिव॥४१॥

सञ्जयः—

तच्छ्रुत्वा वचनं सर्वे जहृषुःपृथिवीश्वराः।
पा198ण्डवाश्च सकृष्णास्ते मुदमापुः परन्तप॥४२॥

समुद्यते पार्थिवेन्द्रे पार्षते शत्रुसूदने।
प्र199हृष्टः पाण्डवो राजा तदा कृष्णस्य शृण्वतः॥४३॥
तमब्रवीत् ततः पार्थः पार्षतं पृतनापतिम्॥४३॥

युधिष्ठिरः—

व्यूहःक्रौञ्चारुणो नाम सर्वशत्रुनिबर्हणः।

यं बृहस्पतिरिन्द्राय तदा देवासुरेऽब्रवीत्॥४४॥

तं यथावत् प्रतिव्यूहं परानीकविमर्दनम्।
अदृष्टपूर्वं राजानः पश्यन्तु कुरुभिस्सह॥४५॥

सञ्जयः—

तथोक्तस्स नृपस्तेन विष्णुर्वज्रभृता यथा।
प्र200भाते सर्वसैन्यानां व्यूहं चक्रे स चाग्रतः॥४६॥

बार्हस्पत्येन विधिना व्यूहमार्गविचक्षणः।
प्रभाते सर्वसैन्यानाम् अग्रे चक्रे धनञ्जयम्॥४७॥

आदित्यपथगः केतुस् तस्याद्भुतत201 ड-म-करो मम")मो महान्।
शासनात् पुरुहूतस्य निर्मितो विश्वकर्मणा॥४८॥

इन्द्रायुधसवर्णाभिः पताफाभिरलङ्कृतः।
आकाशग इवाकाशे गन्धर्वनगरोपमः॥४९॥

नृत्यमान इवाभाति रथचर्यासु मारिष।
तेन रत्नवता पार्थस् स च गाण्डीवधन्वना॥५०॥

202भूव परमोपेतः सुमेरुरिव भानुना॥५१॥

शि203खाऽऽसीद्द्रुपदो राजा महत्या सेनया वृतः।

कुन्तिभोजश्च चैद्यश्च चक्षुरासीज्जनेश्वर॥५२ ॥

दशार्णगाःप्रयागाश्च कशेरुकगणैस्सह।
अनूपगाःकिराताश्च ग्रीवायां भरतर्षभ॥५३ ॥

पटच्चरैश्च हूणैश्च राजन् पौरवकैस्तथा।
निषादैस्सहितश्चापि पृष्ठमासीद्युधिष्ठिरः॥५४ ॥

पक्षौ तु भीमसेनश्च धृष्टद्युम्नश्च पार्षतः॥५४॥

द्रौपदेयाश्च कार्ष्णिश्च सात्यकिश्च महारथः।
पिशाचा दरदाश्चैव पुण्ड्राःकुण्डीविषैस्सह॥५५॥

निकुम्भा धेनुकाश्चैव तंकणाः परतंकणाः।
बाह्लिकास्तित्तिराश्चैव चोलाः पाण्ड्याश्च भारत॥५६॥

एते जनपदा राजन् दक्षिणं पक्षमाश्रिताः॥५७ ॥

204ग्निवेश्या जगत्कुण्डा मलदाना महारथाः।
शबरा बर्बराश्चैव वत्साश्च सह नाकुलैः॥५८ ॥

नकुलस्सहदेवश्च वामं पक्षं समाश्रिताः॥५८॥

स्थानामयुतं पक्षौ शिरस्तु नियुतं तथा।
पृष्ठमर्बुदमेवासीत् सहस्राणि च विंशतिः॥५९ ॥

ग्रीवायां नियुतं चापि सहस्राणि च सप्ततिः।
पक्षकोटिप्रपक्षेषु पक्षान्तेषु च वारणाः॥६०॥

जग्मुः परिवृता राजंश चरन्त इव पर्वताः॥६१॥

जघनं पालयामास विराटस्सह केकयै।
काशिराजश्च शैब्यश्च रथानामयुतैस्त्रिभिः॥६२॥

एवमेतं महाव्यूहम् यूह्य भारत पाण्डवाः।
सूर्यस्योदयमिच्छन्ति स्थिता युद्धाय दंशिताः॥६३॥

तेषामादित्यवर्णानि विमलानि महान्ति च।
श्वेतच्छत्राण्यशोभन्त वारणेषु रथेषु च॥६४॥

इति श्रीमहाभारते शतसहस्रिकायांसंहितायां वैयासिक्यां
भीष्मपर्वणि पञ्चचत्वारिंशोऽध्यायः॥ ४५ ॥
॥ ६४ ॥ भीष्मवधपर्वणि पञ्चमोऽध्यायः॥५ ॥
[ अस्मिन्नध्याये ६४ श्लोकाः]
[द्वितीयदिवस युद्धम् ]
<MISSING_FIG href="../books_images/U-IMG-1706868179Screenshot2023-12-07155820.png"/>

॥ षट्चत्वारिंशोऽध्यायः ॥

<MISSING_FIG href="../books_images/U-IMG-1706868217Screenshot2023-12-25124330.png"/>

भीष्मादिभिः प्रतिव्यूहरचना ॥

_______

सञ्जयः—

क्रौञ्चंततो महाव्यूहम् अभेद्यं तनयस्तव।
व्यूहं दृष्ट्वा महाघोरं पार्थेनामिततेजसा॥१॥

आचार्यमुपसङ्गम्य कृपं शल्यं च मारिष।
सौमदत्तिं विकर्णं च अश्वत्थामानमेव च॥२॥

दुःशासनादीन भ्रातॄंश्च सर्वानेव च भारत।
अन्यांश्चसुबहूञ् शूरान् युद्धाय समुपागतान्॥३॥

प्राहेदं वचनं काले हर्षयंस्तनयस्तव॥३॥

दुर्योधनः—

नानाशस्त्रप्रहरणास् सर्वे शस्त्रास्त्रकोविदाः।
एकैकं हि समर्था हि यूयं सर्वे महारथाः॥४॥

पाण्डुपुत्रान् रणे हन्तुं ससैन्यान् किमु संहताः॥५॥

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्।
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्॥६॥

संस्थानाश्शूरसेनाश्च खर्वकाः कुकुरास्तथा।
आरोचकास्त्रिगर्ताश्च भद्रका यवनास्तथा॥७॥

शत्रुञ्जयेन सहितास् तथा दुःशासनेन च।
वि205कर्णेन च धीरेण तथा नन्दोपनन्दकैः॥८॥

चित्रसेनेन सहितास् सहिताः पारिभद्रकैः।
भीष्ममेवाभिरक्षन्तु सर्वसैन्यपुरस्कृताः॥९॥

सञ्जयः—

दु206र्योधनवचश्श्रुत्वा सर्व एव महारथाः।
तथेत्येनं नृपा ऊचुस् तदा द्रोणपुरोगमाः॥१०॥

ततो द्रोणश्च भीष्मश्च तव पुत्रेण मारिष।
अव्यूहन्त महाव्यूहं पाण्डवान् प्रति चाहवे॥११॥

भीष्मस्सैन्येन महता समन्तात् परिवारितः।
ययौ प्रकर्षन् महतीं वाहिनीं सुरराडिव॥१२॥

तमन्वयान्महेष्वासो भारद्वाजः प्रतापवान्।
कुन्तलैश्च दशार्णैश्च मागधैश्च विशां पते \।१३॥

विदर्भैर्मेकलैश्चैव कर्णप्रावरणैरपि।
204हितास्सर्वसैन्येन भीष्ममाहवशोभिनम्॥१४॥

गान्धारास्सिन्धुसौवीराश् शिबयोऽथ वसातयः।
शकुनिश्च स्वसैन्येन भारद्वाजमपालयत्॥१५॥

ततो दुर्योधनो राजा सहितस्सर्वसोद्रैः।
207श्मान्तकैर्निषण्णैश्च तथा काश्मीरकोसलैः॥१६॥

दरदैश्चूचुपैश्चैव तथा क्षुद्रकमालवैः।
अभ्यरक्षत संहृष्टस् सौबलेयस्य वाहिनीम्॥१७॥

भूरिश्रवाश्शलश्शल्यो भगदत्तश्च मारिष।
विन्दानुविन्दावावन्त्यो वामं पक्षमपालयन्॥१८॥

सोमदत्तस्सुशर्मा च काम्भोजश्च सुदक्षिणः।

श्रुतायुश्च208शतायुश्च दक्षिणं पक्षमाश्रिताः॥१९॥

अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः।
महत्या सेनया सार्धं सेनापृष्ठे व्यवस्थिताः॥२०॥

पृष्ठगोपास्तु तस्यासन नानादेश्या जनेश्वराः।
केतुमान् वसुदानश्च पुलः काश्यस्य चाभिभूः॥२१॥

ततस्ते तु नरास्सर्वे हृष्टा युद्धाय भारत।
दध्मुश्शङ्खान् मुदा युक्तास् सिंहनादान् व्यनादयन्॥२२॥

तेषां श्रुत्वा तु हृष्टानां कुरुवृद्धः पितामहः।
सिंहनादं विनद्योच्चैश् शङ्खं दध्मौ प्रतापवान्॥२३॥

ततश्शङ्खाश्च भैर्यश्च प209णवानकगोमुखाः।
210र्वतश्चाप्यवाद्यन्त स शब्दस्तुमुलोऽभवत्॥२४॥

ततश्श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ।
प्रदध्मतुश्शङ्खवरौ हेमरत्नपरिष्कृतौ॥२५॥

पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः।
तथैव बलवान् राजन् भीमकर्मा वृकोदरः॥२६॥

युधिष्ठिरश्च धर्मात्मा माद्रीपुत्रौ च पाण्डवौ।

अभिमन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान्॥२७॥

काशिराजश्च शैब्यश्च शिखण्डी च महारथः।
धृष्टद्युम्नो विराटश्च सात्यकिश्च महारथः॥२८॥

पावाल्याश्च महेष्वासा द्रौपद्याः पञ्च चात्मजाः।
सर्वे दध्मुर्महाशङ्खान् सिंहनादांश्च नेदिरे॥२९॥.

211 घोषस्सुमहांस्तत्र वीरैस्तैस्समुदीरितः।
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयत्॥३०॥

एवमेते महाराज प्रहृष्टाः कुरुपाण्डवाः।
पुनर्युद्धाय सञ्जग्मुस् स्प212र्धमानाः परस्परम्॥३१॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायांवैयासिक्यां
भीष्मपर्वणि षट्चत्वारिंशोऽध्यायः॥ ४६ ॥
॥ ६४ ॥ भीष्मवधपर्वणि षष्ठोऽध्यायः॥ ६ ॥
[द्वितीयदिवसयुद्धम्]
[ अस्मिन्नध्याये ३१ श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1706857264Screenshot2023-12-07155820.png"/>

॥ सप्तचत्वारिंशोऽध्यायः ॥
<MISSING_FIG href="../books_images/U-IMG-1706857459Screenshot2023-12-07155812.png"/>

भीष्मार्जुनयोर्युद्धम्॥

_______

धृतराष्ट्रः—

एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च।
कथं प्रहरतां श्रेष्ठास् सम्प्रहारं प्रचक्रिरे॥१॥

सञ्जयः—

तथा व्यूढेष्वनीकेषु सन्नद्धरुचिरध्वजाः।
तावकाः पाण्डवैस्सार्धं यथाऽयुध्यन्त तच्छृणु॥२॥

अपारमिव सन्दृश्य सागरप्रतिमं बलम्।
तेषां मध्ये स्थितो राजा पुत्रो दुर्योधनस्तव॥३॥

अब्रवीत् तावकान् सर्वान् युद्ध्यध्वमिति दंशितान्॥३॥

ते मनः क्रूरमास्थाय समभित्यक्तजीविताः।
पाण्डवानभ्यवर्तन्त सर्वे एवोच्छ्रितध्वजाः॥४॥

ततो युद्धं समभवत् तुमुलं रोमहर्षणम्।
तावकानां परेषां च व्यतिषक्तरथद्विपम्॥५॥

मुक्तास्तु रथिभिर्बाणा रुक्मपुङ्खास्सुतेजनाः।
सन्निपेतुरतीवोग्रानागेषु च हयेषु च॥६॥

तथा प्रवृत्ते सङ्ग्रामे धनुरुद्यम्य दंशितः।

ववर्ष शरवर्षाणि कुरुवृद्धः पितामहः॥७॥

सौभद्रे भीमसेने च शैनेये च महारथे।
कैकेये च विराटे च धृष्टद्युम्ने च पार्षते॥८॥

एतेषु नरसिंहेषु मात्स्यकारूशचेदिषु।
अविषक्तं महाव्यूहं त213म्मिन् वीरपरक्षये॥९॥

सर्वेषामेव सैन्यानाम् आसीव्द्यातिकरो महान्॥१०॥

सादिनो ध्व214जनागाश्च हतप्रवरवाजिनः।
विप्रकीर्णरथानीकास् समपद्यन्त पाण्डवाः॥११॥

ततोऽर्जुनो नरव्याघ्रो दृष्ट्वा भीष्मं महारथम्।
वार्ष्णेयमब्रवीत् क्रुद्धो याहि यत्रपितामहः॥१२॥

एष भीष्मस्सुसङ्क्रुद्धवार्ष्णेय मम वाहिनीम्।
नाशयिष्यति सङ्ग्रामे दुर्योधनहिते रतः॥१३॥

एष द्रोणःकृपश्शल्यो विकर्णश्च जनार्दन।
धार्तराष्ट्राश्च सहिता दुर्योधनपुरोगमाः॥१४॥

पाञ्चालान्निहनिष्यन्ति रक्षिता दृढधन्वना॥१४॥

सोऽहं भीष्मं वधिष्यामि सैन्यहेतोर्जनार्दन॥१५॥

तमब्रवीद्वासुदेवो यत्तो भव धनञ्जय।

एष त्वां प्रापये वीर पितामहरथं प्रति॥१६॥

एवमुक्त्वा ततः कृष्णो रथं तं लोकविश्रुतम्।
प्रेषयामास भीष्मस्य रथं प्रति जनेश्वर॥१७॥

चलद्वहुपताकेन बलाकावर्णवाजिना।
समुच्छ्रितमहाभीमनदद्वानरकेतुना॥१८॥

महता मेघनादेन रथेनादित्यवर्चसा।
विनिघ्नन् कौरवानीकं शूरसेनांश्च पाण्डवः॥१९॥

प्रायाच्छरणदश्शीघ्रं सुहृदां हर्षवर्धनः॥१९॥

तमापतन्तं वेगेन प्रभिन्नमिव वारणम्।
त्रासयन्तं रणे शूरान् स्तंभयन्तं च सायकैः॥२०॥

सै215न्धवप्रमुखैर्गुप्तश्शू216रसेनैश्च केकयैः।
सहसा प्रत्युदीयाय भीष्मश्शान्तनवोऽर्जुनम्॥२१॥

को हि गाण्डीवधन्वानम् अन्यः कुरुपितामहात्।
द्रोणवैकर्तनाभ्यां वा रथी संयातुमर्हति॥२२॥

ततो भीष्मो महाराज सर्वलोकमहारथः।
अर्जुनं सप्तसप्तत्या नाराचानां समर्पयत्॥२३॥

द्रोणश्च पञ्चविंशत्या कृपश्शारद्वतस्त्रिभिः\।
दुर्योधनश्चतुःषष्ट्या शल्यश्च नवभिश्शरैः॥२४॥

सैन्धवो नवभिश्चैव शकुनिश्चापि पञ्चभिः।
विकर्णो नवभिर्भल्लै राजन् विव्याध पाण्डवम्॥२५॥

तैर्विद्धस्स महेष्वासैस् समन्तान्निशितैश्शरैः।
न विव्यथे महाबाहुर् भिद्यमान इवाचलः॥२६॥

स भीष्मं पञ्चविंशत्या कृपं च दशभिश्शरैः।
द्रोणं षष्ठ्या नरव्याघ्रो विकर्णं च त्रिभिश्शरैः॥२७॥

आर्तायनिं त्रिभिर्बाणै राजानं चापि पञ्चभिः।
प्रत्यविध्यदमेयात्मा पाण्डवो युद्धदुर्मदः॥२८॥

तं सात्यकिर्विराटश्च धृष्टद्युम्नश्च पार्षतः।
सौभद्रो द्रौपदेयाश्च परिवव्रुर्धनञ्जयम्॥२९॥

ततो द्रोणं महेष्वासं गाङ्गेयस्य प्रिये रतम्।
अभ्यवर्तत पाञ्चाल्यस् संयुक्तस्सह सोमकैः॥३०॥

भीष्मस्तु रथिनां श्रेष्ठो राजन् विव्याध पाण्डवम्।
अशीत्या निशितैर्बाणैस् तदाऽक्रोशन्त पाण्डवाः॥३१॥

तेषां च निनदं श्रुत्वा प्रहृष्टानां प्रधर्षकम्।
प्रविवेश ततो मध्यं रथसिंहः प्रतापवान्॥३२॥

तेषां महारथानां च मध्यं प्राप्य धनञ्जयः।
चिक्रीड धनुषा राजँलक्ष्यान् कृत्वा महारथान्॥३३॥

क्षत्रियाणां शिरांस्युग्रैःकृन्तन् शस्त्रैर्महारथः।

शून्यान् कृत्वा रथोपस्थान् व्यचरत् फल्गुनस्तदा॥३४॥

ततो दुर्योधनो राजा भीष्ममाह जनेश्वरः।
पीड्यमानं स्वकं सैन्यं दृष्ट्वा पार्थेन संयुगे॥३५॥

दुर्योधनः—

एष पाण्डुसुतस्तात कृष्णेन सहितो बली।
यततां सर्वसैन्यानां मूलं नः परिकृन्तति॥३६॥

त्वयि जीवति गाङ्गेय द्रोणे च रथिनां वरे।
त्वत्कृते चैष कर्णो वै न्यस्तशस्त्रो महारथः॥३७॥

न युध्यति रणे पार्थान् हितकामस्सदा मम।
स तथा कुरु गाङ्गेय यथा हन्येत फल्गुनः॥३८॥

सञ्जयः—

एवमुक्तस्तदा राजन् पिता देवव्रतस्तव।
धिक् क्षत्रधर्ममित्युक्त्वा ययौ पार्थरथं प्रति॥३९॥

उभौ श्वेतहयौ राजन् संसक्तौ दृढधन्विनौ।
सिंहनादं भृशं कृत्वा बाणशङ्खरवैस्सह॥४०॥

द्रौणिर्दुर्योधनश्चैव विकर्णश्च महारथः।
परिवार्य रणे भीष्मम् अभ्यरक्षन् पितामहम्॥४१॥

तथैव पाण्डवास्सर्वे परिवार्य धनञ्जयम्।
स्थिता युद्धाय महते ततो युद्धमवर्तत॥४२॥

गा217ङ्गेयस्तु रणे पार्थम् आनर्च्छन्नवभिश्शरैः।
तमर्जुनः प्रत्यविध्यद् दशभिर्मर्मभेदिभिः॥४३॥

ततश्शरसहस्रेण सुप्रयुक्तेन भारत।
धनञ्जयो जयप्रेप्सुः भीष्मस्यावारयद्दिशः॥४४॥

शरजालं ततस्तत् तु शरजालेन भारत।
वारयामास पार्थस्य भीष्मशान्तनवो युधि॥४५॥

उभौ परमसंहृष्टावुभौ युद्धाभिनन्दिनौ।
निर्विशेषमयुध्येतां कृतप्रतिकृतैषिणौ॥४६॥

भीष्मचापविमुक्तानि शरजालानि सङ्घशः।
शीर्यमाणान्यदृश्यन्त भिन्नान्यर्जुनसायकैः॥४७॥

तथैवार्जुनमुक्तानि शरजालानि भागशः।
गाङ्गेयशरनुन्नानि न्यपतन्त महीतले॥४८॥

अर्जुनः पञ्चविंशत्या भीष्ममार्च्छच्छितैश्शरैः।
भीष्मोऽपि समरे पार्थ विव्याध निशितैश्शरैः॥४९॥

अन्योन्यस्य हयान् विद्ध्वाध्वजौ च सुमहाद्युती।
रथेषां रथचक्रे च श218स्त्रैश्चिक्रीडतू रणे॥५०॥

ततः क्रुद्धो महाराज भीष्मश्शान्तनवश्शरैः।

वासुदेवं ततस्तीक्ष्णैर् आजघान स्तनान्तरे॥५१॥

भीष्मचापच्युतैर्बाणैर् निर्विद्धो मधुसूदनः।
विरराज रणे राजन् सपुष्प इव किंशुकः॥५२॥

ततोऽर्जुनो भृशं क्रुद्धो निर्विद्धं वीक्ष्य माधवम्।
सारथिं कुरुवृद्धस्य निर्बिभेद शितैश्शरैः॥५३॥

यतमानौ तु तौ वीरावन्योन्यस्य वधं प्रति।
न तौ शेकतुरन्योन्यम् अतिसन्धातुमाहवे॥५४॥

तौ मण्डलानि चित्राणि गतप्रत्यागतानि च।
अदर्शयेतां बहुधा सूतसामर्थ्यजं बलम्॥५५॥

अन्तरं च प्रहारेषु तर्कयन्तौ परस्परम्।
राजन्नन्तरमार्गस्थौ स्थितावास्तां मुहुर्मुहुः॥५६॥

उभौ सिंहरवोन्मिश्रं शङ्खशब्दं प्रचक्रतुः।
तथैव चापनिर्घोषं चक्रतुस्तौ महारथौ॥५७॥

तयौश्शङ्खनिनादेन रथनेमिस्वनेन च।
दारिता सहसा भूमिश् चकम्पे च ननाद च॥५८॥

न तयोरन्तरं कश्चिद्रणे पश्यति भारत।
धर्माश्रितस्य हि तथा न किञ्चिद्वृजिनं क्वचित्॥५९॥

तावुभौ समरे वीरावन्योन्यसमरे उभौ।
चिह्नमात्रेण भीष्मं तु जज्ञिरे तत्रकौरवाः॥६०॥

तथा पाण्डुसुताः पार्थ चिह्नमात्रेण जज्ञिरे॥६१॥

तयोर्नृसिंहयो राजन् युद्धं दृष्ट्वाऽतिविक्रमम्।
विस्मयं सर्वभूतानि जग्मुर्भारतसंयुगे॥६२॥

अन्योन्यं शरजालेन तावदृश्यौ बभूवतुः।
प्रकाशतां पुनर्यातौ क्षणेन भरतर्षभौ॥६३॥

ततो देवास्सगन्धर्वाश् चारणाश्च सहर्षिभिः।
219न्योन्यं प्रत्यभाषन्त तयोर्दृष्ट्वा पराक्रमम्॥६४॥

न शक्यौ युधि संरब्धौ जेतुमेतौ कथञ्चन।
सदैत्यासुरगन्धर्वैः देवैरपि सवासवैः॥६५॥

आश्चर्यभूतं लोकेऽस्मिन् युद्धमेतन्महाद्भुतम्।
नैतादृशानि युद्धानि भूतपूर्वाणि संयुगे॥६६॥

न हि शक्यो रणे भीष्मो जेतुं पार्थेन धीमता।
सधनुश्च रथस्थश्चविसृजश्चापि सायकान्॥६७॥

तथैव पाण्डवं युद्धे दैवैरपि दुरासदम्।
न हि जेतुं रणे भीष्म उत्सहेत धनुर्धरम्॥६८॥

इति स्म वाचश्श्रुयन्ते प्रोच्चरन्तस्ततस्ततः।
गाङ्गेयार्जुनयोस्सङ्ख्ये त्वत्कृते भरतर्षभ॥६९॥

ततस्त्वदीया योधाश्च पाण्डवेयाश्च भारत।

अन्योन्यं समरे जघ्नुस् तयोस्तत्र समागमे॥७०॥

शितधारैस्तथा खङ्गैर् विमलैश्चपरश्वधैः।
उभयोस्सेनयोश्शूरा न्यकृन्तन्त परस्परम्॥७१॥

वर्तमाने तथा घोरे तस्मिन् वीरवरक्षये।
द्रोणपाञ्चालयो राजन् महानासीत् समागमः॥७२॥

इति श्रीमहाभारते शतसहस्रिकायांसंहितायांवैयासिक्यां
भीष्मपर्वणि सप्तचत्वारिंशोऽध्यायः॥ ४७ ॥
॥ ६४ ॥ भीष्मवधपर्वणि सप्तमोऽध्यायः॥ ७ ॥
[ अस्मिन्नध्याये ७२ लोकाः]
<MISSING_FIG href="../books_images/U-IMG-1706862522Screenshot2023-12-07155820.png"/>

॥ अष्टचत्वारिंशोऽध्यायः ॥

<MISSING_FIG href="../books_images/U-IMG-1706862566Screenshot2023-12-08194923.png"/>

द्रोणधृष्टद्युम्नयोर्युद्धम्॥

________

धृतराष्ट्रः—

कथं द्रोणो महेष्वासः पाञ्चाल्यश्चापि पार्षतः।
रणे समीयतुर्यत्तौ तन्ममाचक्ष्व सञ्जय॥१॥

दैवमेव परं मन्ये पौरुषं तु निरर्थकम्।
यत्र शान्तनवो भीष्मो नाहनद्युधि पाण्डवम्॥२॥

भीष्मो हि समरे क्रुद्धो हन्याल्लोकांश्चराचरान्।
स कथं पाण्डवं युद्धे नातरत् सञ्जयाद्य वै॥३॥

सञ्जयः—

शृणु राजन् स्थिरो भूत्वा युद्धमेतत् सुदारुणम्।
न शक्यः पाण्डवो जेतुं देवैरपि सवासवैः॥४॥

द्रोणस्तु निशितैर्बाणैर् धृष्टद्युम्नमयोधयत्।
सारथिं चास्य भल्लेन ध्वजं चैकेन विव्यथे॥५॥

तथाऽस्य चतुरो वाहांश् चतुर्भिस्सायकोत्तमैः।
पीडयामास सङ्क्रुद्धो धृष्टद्युम्नस्य मारिष॥६॥

धृष्टद्युम्नस्ततो द्रोणं नवत्या निशितैश्शरैः।
विव्याध समरे वीरस् तिष्ठ तिष्ठेति चाब्रवीत्॥७॥

ततः पुनरमेयात्मा भारद्वाजः प्रतापवान्।
शरैस्सञ्च्छादयामास धृष्टद्युन्नममर्षणम्॥८॥

सन्दधे च शरं घोरं पार्षतान्तचिकीर्षया।
शक्राशनिसमस्पर्शं कालदण्डमिवापरम्॥९॥

हाहाकारो महानासीत् सर्वसैन्यस्य मारिष।
तमिषुं संहितं दृष्ट्वा भारद्वाजेन धीमता॥२०॥

तत्राद्भुतमपश्याम धृष्टद्युम्नस्य पौरुषम्।
य एकस्समरे वीरस् तस्थौ गिरिरिवाचलः॥११॥

तं च सृष्टं महाघोरम् आयान्तं मृत्युमात्मनः।
चिच्छेद शरवर्येण भारद्वाजस्य संयुगे॥१३॥

तत उच्चक्रुशु र्हृष्टाः पाञ्चालास्सह पाण्डवैः।
धृष्टद्युम्नेन तत् कर्म कृतं दृष्ट्वा सुदुष्करम्॥ १३ ॥

अथ शक्तिं महावेगां रुक्मवैडूर्यभूषिताम्।
द्रोणस्य निधनाकाङ्क्षी चिक्षेप त्वरयाऽन्वितः॥ १४ ॥

तामापतन्तीं सहसा शक्तिं कनकभूषिताम्।
त्रिधा चिच्छेद् समरे भारद्वाजो हसन्निव॥ १५ ॥

शक्तिं तां विहतां दृष्ट्वा धृष्टद्युम्नःप्रतापवान्।
ववर्ष शरवर्षाणि द्रोणं प्रति जनेश्वर॥ १६ ॥

शरवर्षं ततस्तूर्ण सन्निवार्य महारथः।
द्रोणो द्रुपदपुत्रस्य मध्ये चिच्छेद कार्मुकम्॥ १७ ॥

स च्छिन्नधन्वा समरे गदां गुर्वी महाबलः।
द्रोणाय प्रेषयामास अश्मसारमयीं दृढाम्॥ १८ ॥

सा गदा वेगवन्मुक्ता प्रायाद्द्रोणजिघांसया॥
तत्राद्भुतमपश्याम भारद्वाजस्य विक्रमम्॥ १९ ॥

लाघवाव्द्यंसयामास गढ़ां हेमविभूषिताम्॥ १९ ॥

ध्वंसयित्वा गदां चैव प्रेषयामास पार्षते।
भल्लान् सुनिशितान् पीतान् रुक्मपुङ्खान् सुदारुणान्॥२० ॥

ते तस्य कवचं भित्त्वा पपुश्शोणितमाहवे॥२१॥

अथान्यद्धनुरादाय धृष्टद्युम्नो महामनाः।

द्रोणं युधि पराक्रम्य शरैर्विव्याध पञ्चभिः॥ २२ ॥

रु220धिराक्तौ ततस्तौ तु शुशुभाते नरर्षभौ।
वसन्तसमये राजन् पुष्पिताविव किंशुकौ॥२३ ॥

अमर्षितस्ततो राजन् पराक्रम्य चमूमुखे।
द्रोणो द्रुपदपुत्रस्य पुनश्चिच्छेद कार्मुकम्॥ २४ ॥

अथैनं छिन्नधन्वानं शरैस्सन्नतपर्वभिः।
अभ्यवर्षदमेयात्मा वृष्टया शैलभिवाम्बुदः॥२५ ॥

सारथिं चास्य भल्लेन रथनीडादपाहरत्॥२५ ॥

अथास्य चतुरो वाहांश् चतुर्भिर्निशितैश्शरैः।
पातयामास समरे सिंहनादं ननाद च॥२६ ॥

भल्लेन चास्य तीक्ष्णेन हस्ताच्चापमपातयत्॥२७ ॥

स च्छिन्नधन्वा विरथो हताश्वो इतसारथिः।
गदापाणिरवारोहत् ख्यापयन् पौरुषं महत्॥२८ ॥

तामस्य विशिखैस्तूर्णं पातयामास भारत।
स्थादनवरूढस्य तदद्भुतमिवाभवत्॥ २९ ॥

ततस्स विपुलं चर्म शतचन्द्रं मनोहरम्।
खङ्गं च विपुलं दिव्यं प्रगृह्य सुमहाभुजः॥३० ॥

अभिदुद्राव वेगेन द्रोणस्य वधकाङ्क्षया।

आमिषार्थी यथा सिंहो वने मत्तमिव द्विपम्॥ ३१ ॥

तत्राद्भुतमपश्याम भारद्वाजस्य पौरुषम्।
लाघवं चास्त्रयोगं च बलं बाहोश्च मारिष॥ ३२ ॥

यदेनं शरवर्षेण सङ्क्रुद्धस्समवारयत्।
न शशाक ततो गन्तुं बलवानपि संयुगे॥ ३३ ॥

निवारितस्तु द्रोणेन धृष्टद्युम्नो महारथः।
न्यवारयच्छरौघांस्तांश् चर्मणा कृतहस्तवत्॥ ३४ ॥

ततो भीमो महाबाहुस् सहसाऽभ्यपतद्वली।
साहाय्यकारी समरे पार्षतस्य महात्मनः॥ ३५ ॥

स द्रोणं निशितैर्बाणै राजन् विव्याध सप्तभिः।
पार्षतं च रथं तूर्णम् अन्यमारोहयत् तदा॥ ३६ ॥

ततो दुर्योधनो राजन् कलिङ्गं समचोदयत्।
सैन्येन महता गुप्तं भारद्वाजस्य रक्षणे॥ ३७ ॥

ततस्सा महतीसेना कलिङ्गानां जनेश्वर।
भीममभ्युद्ययौ तूर्णं तव पुत्रस्य शासनात्॥ ३८ ॥

पाञ्चाल्यमपि सन्त्यज्य द्रोणःप्रहरतां वरः।
विराटद्रुपदौक्रुद्धौ योधयामास संयुगे॥ ३९ ॥

धृष्टद्युम्नोऽपि समरे धर्मराजानमन्वयात्।

ततः प्रववृते युद्धं तुमुलं रोमहर्षणम्॥ ४० ॥

कलिङ्गानां च समरे भीमस्य च महात्मनः।
जगत स्तु क्षयकरं221 घोररूपं भयानकम्॥ ४१ ॥

इति श्रीमहाभारते शतसहस्निकायां संहितायां वैयासिक्यां
भीष्मपर्वणि अष्टचत्वारिंशोऽध्यायः॥ १८ ॥
॥ ६४॥ भीष्मवधपर्वणि अष्टमोऽध्यायः॥ ८ ॥
[ अस्मिन्नध्याये ४१ श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1706718506मम.png"/>

॥एकोनपञ्चाशोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1706718534NNNN.png"/>
भीमसेनेन कलिङ्गादिवधः॥
<MISSING_FIG href="../books_images/U-IMG-1706718506मम.png"/>

धृतराष्ट्रः—

मम पुत्रसमादिष्टः कलिङ्गो वाहिनीपतिः।
कथमद्भुतकर्माणं भीमसेनं महाबलम्॥ १ ॥

चरन्तं गदया वीरं दण्डपाणिमिवान्तकम्।
योधयामास समरे कलिङ्गस्सह सेनया॥ २ ॥

सञ्जयः—

पुत्रेण तव राजेन्द्र स तथोक्तो महावलः।

महत्या सेनया गुप्तः प्रायाद्भीमरथं प्रति॥ ३ ॥

तामापतन्तीं महतीं कलिङ्गानां महाचमूम्।

रथनागाश्वकलिलां प्रगृहीतमहागदः॥ ४ ॥

भीमसेनः कलिङ्गानाम् आर्च्छद्भारत वाहिनीम्।
केतुमन्तं च नैषादिम् आयान्तं सह चेदिभिः॥ ५ ॥

ततश्श्रुतायुस्सङ्क्रुद्धो222 राज्ञा केतुमता सह।
आससाद रणे भीमं व्यूढानीको महाबलः॥ ६ ॥

अथास्त्रैर्बहुसाहस्रैः कलिङ्गानां जनेश्वर।
अयुतेन गजानां च निषादैस्सह केतुमान्॥ ७ ॥

भीमसेनं रणे राजन् समन्तात् पर्यवारयत्॥ ७ ॥

चेदिमत्स्यकरूशाश्च भीमसेनपदानुगाः।
अभ्यधावन्त समरे निषादैस्सह राजभिः॥ ८ ॥

ततः प्रववृते युद्धं घोररूपं भयानकम्।
परेषां तव योधानां परस्परजिघांसया॥ ९ ॥

घोररूपं ततो युद्धं भीमस्य सहसा परैः।
यथेन्द्रस्य महाराज महत्या दैत्यसेनया॥ १० ॥

तस्य सैन्यस्य सङ्ग्रामे युध्यमानस्य भारत।
बभूव सुमहाञ्शब्दस् सागरस्येव गर्जतः॥ ११ ॥

अन्योन्यस्य तदा योधा विकर्तन्तो विशां पते।
महीं चक्रुश्चितां सर्वां मांसशोणितकर्दमैः॥ १२ ॥

योधांश्च स्वान् परान् वापि नाभ्यजानञ्जिघांसया।
स्वानप्याददतेऽस्माकं शूरास्समरदुर्जयाः॥ १३ ॥

विमर्दस्सुमहानासीद् अल्पानां बहुभिस्सह।
कलिङ्गैस्सह चेदीनां निषादैश्च विशां पते॥ १४ ॥

कृत्वा पुरुषकारं तु यथाशक्ति महाबलाः।
भीमसेनं परित्यज्य संन्यवर्तन्त चेदयः॥ १५ ॥

सर्वे कलिङ्गकाश्चैव सन्निवृत्तेषु चेदिषु।
स्वबाहुबलमास्थाय अभ्यवर्षन्त पाण्डवम्॥ १६ ॥

न चचाल रथोपस्थाद् भीमसेनो महाबलः।
शितैरवाकिरद्बाणैः223 कलिङ्गानां वरूथिनीम्॥ १७ ॥

कालिङ्गश्च महेष्वासः पुत्रश्चास्य महारथः।
शक्रदेव224 इति ख्यातो जघ्नतुः पाण्डवं शरैः॥ १८ ॥

ततो भीमो महाबाहुर् प्रगृह्य रुचिरं धनुः।
योधयामास कालिङ्गान् स्वबाहुबलमाश्रितः॥ १९ ॥

शक्रदेवस्तु समरे विसृजन् सायकान् बहून्
ववर्ष शरवर्षाणि तपान्ते जलदो यथा॥ २० ॥

जघान चाश्वान् समरे भीमसेनस्य सायकैः॥ २१ ॥

हताश्वे स रथे तिष्ठन् भीमसेनो महाबलः।

शक्रदेवाय चिक्षेप सर्वशैक्यायसीं गदाम्॥ २२ ॥

गदयाऽभिहतो राजन् कलिङ्गतनयो रथात्।
सध्वजस्सह सूतेन जगाम धरणीतलम्॥ २३ ॥

हतमात्मसुतं दृष्ट्वा कलिङ्गानां जनेश्वरः।
रथैरनेकसाहस्रैर् भीमस्यावारयद्दिशः॥ २४ ॥

अयुतेन गजानां च निषादैः परिवारितः।
ततो भीमो महाबाहुस् रथादाप्लुत्य225 हृष्टवत्॥ २५ ॥

निस्त्रिशमाददे घोरं चिकीर्षुः कर्म दुष्करम्।
चर्म चाप्रतिमं राजन्नार्षभं पुरुषर्षभः॥ २६ ॥

नक्षत्रैरर्धचन्द्रैश्च शातकुम्भमयैश्चितम्।
कलिङ्गस्तु ततः क्रुद्धो धनुर्ज्यामवमृज्य226 च॥ २७ ॥

परिगृह्य227 शरं तीक्ष्णम् एकं सर्पविषोपमम्।
प्राहिणोद्भीमसेनाय जयकाङ्क्षी जनेश्वरः॥ २८ ॥

तमापतन्तं वेगेन प्रेरितं निशितं शरम्।
भीमसेनो द्विधा राजंश् चिच्छेद विपुलासिना॥ २९ ॥

उदक्रोशच्च संहृष्टस् त्रासयानो वरूथिनीम्॥ २९ ॥

कालिङ्गोऽथ ततः क्रुद्धो भीमसेनाय संयुगे।

तोमरान् प्राहिणोच्छीघ्रं चतुर्दश शिलाशितान्॥ ३० ॥

तानप्राप्तान् महाबाहुः स्वगतानेव पाण्डवः।
चिच्छेद समरे राजन्नसम्भ्रान्तो वरासिना॥ ३१ ॥

निकृत्य तु रणे भीमस् तोमरान् वै चतुर्दश॥ ३२ ॥

भानुमन्तं ततो भीमः प्राद्रवत् पुरुषोत्तमः।
भानुमानपि सङ्क्रुद्धश् शरवर्षैरवाकिरत्॥ ३३ ॥

ननाद सिंहवन्नादं नादयानो नभस्थलम्॥ ३३ ॥

न तु तन्ममृषे भीमस्सिंहनादं महारणे।
ततस्स्वनेन महता विननाद महाबलः॥ ३४ ॥

तेन नादेन वित्रस्ता कलिङ्गानां वरूथिनी।
न भीमं समरे मेने मानुषं भरतर्षभ॥ ३५ ॥

गजमारुह्य228 बलवान् मदवारणविक्रमः।
भानुमान् शरवर्षेण वर्षयामास पाण्डवम्॥ ३६ ॥

भीमसेनाय सङ्क्रुद्धः प्रेरयामास तं गजम्।
पुरस्तादभिधावन्तं विनदन्तं महागजम्॥ ३७ ॥

तदा229 चरन्महाराज विनद्य विपुलस्वनम्।
सासिर्वेगवदाप्लुत्य दन्ताभ्यां वारणोत्तमम्॥ ३८ ॥

आरुरोह ततो मध्यं नागराजस्य मारिष।
खङ्गेन पृथुना मध्ये भानुमन्तमथाच्छिनत्॥३९॥

उत्तरा230 युधि नश्चास्य हत्वा भीमो रणोत्कटः।
गुरुभारसहे स्कन्धे नागस्यासिमपातयत्॥४०॥

छिन्नस्कन्धस्स निनदन् पपात गजयूथपः।
आरुग्णस्सिन्धुवेगेन सानुमानिव पर्वतः॥४१॥

गजात् पतत आह्लुत्य रणे भरतसत्तम।
खड्गपाणिरदीनात्मा तस्थौ भुवि सुदंशितः॥४२॥

चचार च बहून् मार्गान् भीमः प्रहरतां वरः।
अग्निचक्रमिधाविद्धं सर्वतः प्रत्यदृश्यत॥४३॥

अश्वबृन्देषु नागेषु रथनीकेषु चाभिभूः।
पदातीनां च सङ्घेषु विनिघ्नञ्शोणितोक्षितः॥४४॥

श्येनवव्द्यचरद्भीमो रणे तु स बलोत्कटः।
छिन्दस्तेषां शरीराणि शिरांसि च महाबलः॥४५॥

खङ्गेन शितधारेण संयुगे गजयोधिनाम्।
पदातिरेकस्संङ्क्रुद्धश् शत्रूणां भयवर्धनः॥४६॥

मोहयामास शूरांस्तान् कालान्तकयमोपमः॥४७॥

पदातिभिः231 पदातींश्च अश्वानश्वैर्गजान गजैः।
रथान् रथैश्च बहुधा जघान समरे बली॥४८॥

मूढास्तमेव चरणे विनदन्तस्समाद्रवन्॥४८॥

सोऽसिमुद्यम्य चरणे वेगेन विचरन् नदन्।
निकृत्य रथिनां चाजौ रथेषाश्च युगानि च॥४९॥

जघान रथिनश्चापि बलवानरिमर्दनः।
भीमसेनश्चरन् मार्गान् बहून् दृढपराक्रमः॥५०॥

भ्रान्तमाविद्धमुद्भ्रान्तम् आप्लुतं प्रसृतं प्लुतम्।
संहतं समुदीक्षं च दर्शयामास पाण्डवः॥५१॥

केचिदग्रासिना छिन्नाः पाण्डवेन महात्मना।
विनेदुर्भिन्नवर्माणो निपेतुश्च गतासवः॥५२॥

छिन्नदन्ताग्रहस्ताश्च भिन्नकुम्भास्तथाऽपरे।
वियोधास्स्वान्यनीकानि मृग्नन्ति वरवारणाः॥५३॥

निपेतुरुर्व्यां च तथा विनदन्तो महारवान्॥५४॥

गजांश्च गजयन्तृृंश्च गजहस्तांश्च भारत।
छिन्नांश्च तोमरावापान महामात्रशिरांसि च॥५५॥

परिस्तोमानि चित्राणि कक्ष्याश्च कनकोज्ज्वलाः।
ग्रैवेयाण्यथ232 शक्तीश्च पताकाश्च ध्वजांस्तथा॥५६॥

तूणीराण्यथ योक्त्राणि विचित्राणि धनूंषि च।
अग्निकुण्डानि शुभ्राणि तोमरांश्चाङ्कुशैस्सह॥५७॥

घण्टाश्च विविधा राजन् हेमगर्भान्त्सरूनपि।
पततः पातितांश्चैव पश्यामस्सह सादिभिः॥५८॥

छिन्नगात्रैश्छिन्नहस्तैर् निहतैर्वरवारणैः।
आसीत् तस्मिन् रणे भूमिः पतिः पर्वतैरिव॥५९॥

विमृद्यैवं महानागान् ममर्दाश्वान महाबलः।
अश्वारोहवरांश्चैव पातयामास भारत॥६०॥

तद्धोरमभवद्युद्धं तस्य तेषां च भारत॥६०॥

खलीनान्यथ चित्राणि कशाश्च कनकोज्ज्वलाः।
परिस्तोमाश्च प्रासाश्च ऋष्टयश्च महाधनाः॥६१॥

कवचान्यथ चित्राणि चित्राण्यास्तरणानि च।
तत्रापविद्धान्येतानि पश्यामस्तत्र सङ्घशः॥६२॥

चकर्त रथनीडांश्च रथचक्राणि चाभिभूः।
तैः कीर्णां वसुधां चक्रे शबलां कुसुमैरिव॥६३॥

आप्लुत्य रथिनः कांश्चित् परामृश्य महाबलः।
पातयामास खङ्गेन सध्वजानपि पाण्डवः॥६४॥

मुहुरुत्पततो दिक्षु धावतश्च यशस्विनः।

आकाङ्क्षमाणाञ्233 शरणं पालयामास पाण्डवः॥६५॥

भीमस्य विक्रमं दृष्ट्वा गजाश्वरथयोधिनः।
मार्गाश्च चरतश्चित्रान् व्यस्मयन्त रणे जनाः॥६६॥

निजघान पताकाश्च ध्वजदण्डान् बहूंश्च सः।
खङ्गेनान्यांश्च चिच्छेद नादेनान्यांश्च भीषयत्॥६७॥

ऊरुवेगेन चाप्यन्यान् पातयामास भूतले।
अपरे चैनमालोक्य भयात् पञ्चत्वमागताः॥६८॥

एवं स बहुलां सेनां कलिङ्गानां तरस्विनाम्।
विनिघ्नन् व्यचरद्भीमो युगान्ताग्निरिवाहवे॥६९॥

ततः कलिङ्गसैन्यानां प्रमुखे भरतर्षभ।
श्रुतायुषमभिप्रेक्ष्य भीमसेनस्समभ्ययात्॥७०॥

तमायान्तमभिप्रेक्ष्य कलिङ्गो नवभिश्शरैः।
भीमसेनममेयात्मा प्रत्यविध्यत् स्तनान्तरे॥७१॥

कलिङ्गबाणाभिहतस् तोत्रार्दित इवद्विपः।
भीमसेनः प्रजज्वाल क्रोधेनाग्निरिवोत्थितः॥७२॥

श्रुतायुस्तु234 ततो राजन् योजयित्वा महारथम्।
भीमं सम्पादयामास रथेन रथिनां वरम्॥७३॥

तमारुह्य रथं तूर्णं कौन्तेयश्शत्रुसूदनः।
कलिङ्गमभिदुद्राव तिष्ठ तिष्ठति चाब्रवीत्॥७४॥

ततश्श्रुतायुर्बलवान् भीमाय निशिताञ् शरान्।
प्रेषयामास सङ्क्रुद्धो दर्शयन् हस्तलाघवम्॥७५॥

स कार्मुकच्युतैर्बाणैर् रुक्मपुङ्खैर्महाहवे।
कलिङ्गेन तदा भीमो विद्धस्सप्तभिराशुगैः॥७६॥

सञ्चुक्रोध तदा भीमो दण्डाहत इवोरगः॥७७॥

क्रुद्धस्स चापमायम्य बलवद्बलिनां वरः।
कलिङ्गमवधीत् पार्थो भीमस्सप्तभिरायसैः॥७८॥

क्षुराभ्यां चक्ररक्षौ तु कलिङ्गस्य महाबलौ।
सत्यदेवं च सत्यं च प्राहिणोद्यमसादनम्॥७९॥

ततः पुनरमेयात्मा नाराचैश्च त्रिभिः पुनः।
बिभेद समरे वीरः प्रेक्ष्य भीमस्समाप्लुतम्॥८०॥

पत्त्यश्वरथमातङ्गं141 रणे भीमः प्रतापवान्॥८०॥

हतारोहाश्चमातङ्गाः पाण्डवेन कृता रणे।
विप्रजग्मुरनीकेषु मेघा वातहता इव॥८१॥

मृद्रन्तस्स्वान्यनीकानि विनदन्तश्शरातुराः।

योधा235 निपेतुर्मातङ्गैर् निहतास्तुरगैर्भुवि॥८२॥

ततो भीमो महाघोषं शङ्खं दध्मौ महाबलः।
सर्वकालिङ्गसैन्यानां मनांसि समकम्पयत्॥८३॥

मोहस्तेन कलिङ्गानाम् आविवेश परन्तप॥८४॥

प्रचकम्प च तत् सैन्यं वाहनानि च भारत।
मार्गाश्चचरतश्चित्रान् धावतश्च यशस्विनः॥८५॥

मुहुश्रोत्पततो दिक्षु भीमस्य च महात्मनः।
दृष्ट्वा कर्म सुदुर्घर्षं व्यस्मयन्त रणे जनाः॥८६॥

हन्यमानं भयत्रस्तं सैन्यं तत् समकम्पत।
क्षोभ्यमाणमसम्बाधं ग्राहेणेव महत् सरः॥८७॥

त्रासितेषु च सैन्येषु भीमेनाद्भुतकर्मणा।
पुनरावर्तमानेषु विद्रवत्सु समन्ततः॥८८॥

सर्वकालिङ्गयोधेषु पाण्डूनां ध्वजिनीपतिः।
अब्रवीत् स्वान्यनीकानि युध्यध्वमिति मारिष॥८९॥

सेनापतिवचश्श्रुत्वा शिखण्डिप्रमुखा रथाः।
भीममेवाभ्यवर्तन्त स्थानीकैः प्रहारिभिः॥९०॥

धर्मराजश्च तान् सर्वान् पालयन् पृष्ठतोऽन्वगात्॥९०॥

महता मेघघोषेण गजानीकेन दंशितः।

सर्वसैन्यानि संचोद्य धृष्टद्युम्नो महाबलः॥९१॥

भीमसेनस्य जग्राह पार्ष्णिं सत्पुरुषैस्सह॥९२॥

न हि पाश्चालपुत्रस्य लोके कश्चन विद्यते।
भीमशैनेययोरन्यः नरः प्रियतमो भुवि॥९३॥

स तं पश्यन् कलिङ्गेषु चरन्तमरिसूदनम्।
भीमसेनं महाबाहुं पार्षतः परवीरहा॥९४॥

ननर्द पुरुषव्याघ्रो जहृषे च परन्तपः।
शङ्खं च समरे दध्मौ सिंहनादं ननाद च॥९५॥

पारावतसवर्णैश्च संयुक्ते तुरगोत्तमैः।
शोभमानो236 महोत्सेधे रथे हेमविभूषिते॥९६॥

कोविदारध्वजं दृष्ट्वा भीमसेनस्समाश्वसत्॥९६॥

धृष्टद्युम्नस्तु तं दृष्ट्वा कलिङ्गैस्समभिद्रुतम्।
भीमसेनममेयात्मा त्राणायाजौ समभ्ययात्॥९७॥

तौ दूरात् सात्यकिं दृष्ट्वा धृष्टद्युम्नवृकोदरौ।
कलिङ्गान् समरे वीरौ योधयन्तौ यशस्विनौ॥९८॥

स तत्र गत्वा शैनेयो जवेन जयतां वरः।
भीमपार्षतयोः पार्ष्णिं जग्राह पुरुषोत्तमः॥९९॥

स कृत्वा कदनं तत्र प्रगृहीतशरासनः।

आस्थितो रौद्रमात्मानं जघान समरे परान्॥१००॥

कलिङ्गप्रभवां चैव मांसशोणितकर्दमाम्।
रुधिरस्यन्दिनीं तत्र भीमः प्रावर्तयद्बली॥१०१॥

अन्तरेण कलिङ्गानां पाण्डूनां चैव वाहिनीम्॥१०२॥

तस्याः पारमपाराया भीमसे

नस्य237

गच्छतः।

आक्रोशन्त सुता दृष्ट्वा तावका भरतर्षभ॥१०३॥

कालोऽयं भीमरूपेण युध्यतीति भयार्दिताः॥१०३॥

ततश्शान्तनवश्श्रुत्वा निनदन्तं महाहवे।
अभ्ययात् त्वरितो भीमं व्यूढानीकः परन्तपः॥१०४॥

तं सात्यकिर्भीमसेनो धृष्टद्युम्नश्च पार्षतः।
अभ्यद्रवन्त वेगेन रथैर्हेमपरिष्कृतैः॥१०५॥

परिवार्य च ते सर्वे गाङ्गेयं द्रुतमाहवे।
त्रिभिस्त्रिभिश्शरैर्घोरर् भीष्मं विव्यथुराहवे॥१०६॥

प्रत्यविध्यत् ततस्सर्वान् पिता देवव्रतस्तव।
यतमानान् महेष्वासांस् त्रिभिस्त्रिभिरजिह्मगैः॥१०७॥

ततश्शरसहस्रेण सन्निवार्य महारथान्।
हयान् काञ्चनसन्नाहान् भीमस्य न्यहनच्छरैः॥१०८॥

हताश्वे तु रथे तिष्ठन् भीमसेनः प्रतापवान्।

शक्तिं चिक्षेप समरे गाङ्गेयस्य रथं प्रति॥१०९॥

अप्राप्तामेव तां शक्तिं राजन् देवव्रतश्शरैः।
त्रिधा चिच्छेद समरे सा व्यशीर्यत भूतले॥११०॥

ततश्शैक्यायसीं गुर्वीं प्रगृह्य महतीं गदाम्।
भीमसेनो रथात् तूर्णं पुप्लुवेभरतर्षभ॥१११॥

भीष्ममेवाभ्ययात्229 तूर्णं जिघांसुः पाण्डवर्षभः।
सात्यकोऽपि ततस्तूर्णं भीमस्य प्रियकाम्यया॥११२॥

सारथिं कुरुवृद्धस्य पातयामास भारत॥११३॥

भीष्मस्तु निहते तस्मिन् सारथौ रथिनां वरः।
वातायमानैस्तैर238श्वैर् अपनीतो रणाजिरात्॥११४॥

भीमसेनस्ततो राजन्नपयाते महाव्रते।
प्रजज्वाल महावह्निर् दहन् कक्षमिवैधितः॥११५॥

स हत्वा सर्वकालिङ्गान् सेनामध्ये व्यतिष्ठत।
पश्यतां सर्वसैन्यानाम् अपोवाह यशस्विनम्॥११६॥

सम्पूज्यमानः पाञ्चाल्यैर् मत्स्यैश्च भरतर्षभ।
धृष्टद्युम्नं परिष्वज्य समेयादथ सात्यकिम्॥११७॥

अथाब्रवीद्भीमसेनं सात्यकिः परवीरहा।

प्रहर्षयन229्यदश्रेष्ठो धृष्टद्युम्नस्य पश्यतः॥११८॥

सात्यकिः—

दिष्टया कलिङ्गराजश्व राजपुत्रश्च केतुमान्।
सत्यदेवश्च कालिङ्गः कलिङ्गाश्च मृधे हताः॥११९॥

स्वबाहुबलवीर्येण गजाश्वरथसङ्कुलः।
महाव्यूहः कलिङ्गानाम् एकेन मृदितस्त्वया॥१२०॥

सञ्जयः—

एवमुक्त्वा शिनेर्नप्ता दीर्घबाहुररिन्दम।
रथाद्रथमभिप्लुत्य पर्यष्वजत पाण्डवम्॥१२१॥

ततस्स्वरथमारुह्य पुनरेव महारथः।
तावकानवधीत् क्रुद्धो भीमस्य बलमादधत्॥१२२॥

इति श्रीमहाभारते शतसहस्त्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि एकोनपञ्चाशोऽध्यायः॥४९॥
॥६४॥ भीष्मवधपर्वणि नवमोऽध्यायः॥९॥
[अस्मिन्नध्याये १२२ श्लोकाः]
<MISSING_FIG href="../books_images/U-IMG-1706111870मम.png"/>

॥पञ्चाशोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1706112050नन.png"/>

अर्जुनयुद्धवर्णनम्॥

<MISSING_FIG href="../books_images/U-IMG-1706112068मम.png"/>

सञ्जयः—

ततोऽपराह्णभूयिष्ठे तस्मिन्नहनि दारुणे।
रथाश्वनरनागानां सादिनां चाभवत् क्षयः॥१॥

द्रोणपुत्रेण शल्येन कृपेण च महात्मना।
समसज्जत पाञ्चाल्यस् त्रिभिरेतैर्महारथैः॥२॥

स लोकविदितानश्वान् निजघान महाबलः।
द्रौणेः पाञ्चालदायादश् शितैर्दशभिराशुगैः॥३॥

ततश्शल्यरथं तूर्णम् आस्थाय हतवाहनः।
द्रौणिः पाञ्चालदायादम् अभ्यवर्षदथेषुभिः॥४॥

धृष्टद्युम्नं तु संसक्तं द्रौणिना वीक्ष्य भारत।
सौभद्रोऽभ्यपतत् तूर्णं विकिरन् निशिताञ् शरान्॥५॥

स शल्यं पञ्चविंशत्या कृपं च नवभिश्शरैः।
विव्याध समरे राजन् अश्वत्थामानमेव च॥६॥

आर्जुनिं तु ततस्तूर्णं द्रौणिर्विव्याध पत्रिणा।
शल्यो द्वादशभिस्तीक्ष्णैः कृपश्च निशितैस्त्रिभिः॥७॥

लक्ष्मणस्तव पौत्रस्तु सौभद्रं समवस्थितम्।
अभ्यवर्षत संहृष्टस् ततो युद्धमवर्तत॥८॥

दौर्योधनिस्तु सङ्क्रुद्धस् सौभद्रं निशितैश्शरैः।
विव्याध समरे राजन विशिखैर्मर्मभेदिभिः॥९॥

अभिमन्युस्ततः क्रुद्धो लक्ष्मणं भरतर्षभ।
शरैः पञ्चाशतै राजन् क्षिप्रहस्तो व्यविध्यत॥१०॥

लक्ष्मणोऽपि धनुस्तस्य ततश्चिच्छेद पत्रिणा॥
मुष्टिदेशे महाराज तत उच्चुक्रुशुर्जनाः॥११॥

तद्विहाय धनुश्छिन्नं सौभद्रः परवीरहा।
अन्यदा दत्तबलवान् कार्मुकं बलवत्तरम्॥१२॥

तौ तत्रसमरे यत्तौ कृतप्रतिकृतैषिणौ।
अन्योन्यं विशिखैस्तीक्ष्णैर् जघ्नतुः पुरुषर्षभौ॥१३॥

ततो दुर्योधनो राजा पुत्रं दृष्ट्वा महाबलम्।
पीडितं तव पौत्रेण ततः प्रायाज्जनेश्वरः॥१४॥

सन्निवृत्ते तव सुते सर्व एव जनाधिपाः।
आर्जुनिं रथवंशेन समन्तात् पर्यवारयन्॥१५॥

स तैः परिवृतश्शूरैश् शूरो युधि सुदुर्जयैः।
न तदा विव्यथे राजन् कृष्णतुल्यपराक्रमः॥१६॥

सौभद्रमथ संसक्तं दृष्ट्वा पुत्रं धनञ्जयः।

अभिदुद्राव सङ्क्रुद्धस् त्रातुकामस्स्वमात्मजम्॥१७॥

ततस्सरथनागाश्वा भीष्मद्रोणपुरोगमाः।
अभ्यवर्तन्त राजानस् सहसा सव्यसाधिनम्॥१८॥

उद्धूतं सहसा भौमं नागाश्वरथसादिभिः।
दिवाकररथं प्राप्तं रजस्तीव्रमदृश्यत॥१९॥

तानि नागसहस्राणि भूमिपालशतानि च।
तस्य बाणपथं प्राप्य नाभ्यवर्तन्त सर्वशः॥२०॥

प्रणेदुस्सर्वसैन्यानि बभूवुस्तिमिता दिशः॥२०॥

रजसा239 चाधृतास्सर्वा दिशो राजन् कथञ्चन॥२१॥

कुरूणां जनयंस्तीव्रं प्रत्यदृश्यत दारुणम्॥२१॥

न चान्तरिक्षं न दिशो न भूमिर्न च भास्करः।
प्राज्ञायत नरश्रेष्ठ शरसङ्घैः किरीटिनः॥२२॥

विप्रद्रुतरथाः240 केचिद् दृश्यन्ते रथपुङ्गवाः॥२३॥

विरथा रथिनश्चान्ये धावमानास्ततस्ततः।
रणे तस्मिन्नदृश्यन्त सायुधास्साङ्गदैर्भुजैः॥२४॥

हयारोहा हयांस्त्यक्त्वा गजारोहांश्च दन्तिनः।

अर्जुनस्य भयाद्राजन् व्यद्रवन्त समन्ततः॥२५॥

रथेभ्यश्च हयेभ्यश्च गजेभ्यश्च नराधिपाः।
पातिताः पात्यमानाश्च दृश्यन्तेऽर्जुनपीडिताः॥२६॥

सगदानुद्यतान् बाहून् सखाङ्गांश्च विशां पते।
सप्रासांश्च सतूणीरान् सशरान् सशरासनान॥२७॥

साङ्कुशान् सपताकांश्च तत्र तत्रार्जुनो नृणाम्।
न्यकृन्तत रणे क्रुद्धो बिभ्रद्रौद्रं वपुस्तदा॥२८॥

परिघाणां विकीर्णानां मुद्गराणां च पार्थिव।
प्रासानां भिण्डिपालानां निखिशानां च भारत॥२९॥

परश्वथानां241 तीक्ष्णानां तोमराणां च भारत।
वर्मणां चापविद्धानां कवचानां च संयुगे॥३०॥

ध्वजानां चर्मणां चैव व्यजनानां च सर्वशः।
छत्राणां हेमदण्डानां चामराणां च भारत॥३१॥

प्रतोदानां च योक्राणां कशानां चैव मारिष।
राशयः प्रत्यदृश्यन्त विकीर्णानां विशां पते॥३२॥

नासीत् तत्रपुमान् कश्चित् तव सैन्यस्य भारत॥३२॥

न तत्रासीत् पुमान् कश्चित् तव सैन्येषु भारत।
योऽर्जुनं समरे वीरं प्रत्युदीयान्महारथम्॥३३॥

यो242 यो हि समरे पार्थं प्रत्युद्याति विशां पते।
स सङ्ख्ये विशिखैस्तीक्ष्णैः परलोकाय नीयते॥३४॥

तेषु विभ्राम्यमाणेषु तव योधेषु सर्वशः।
अर्जुनो वासुदेवश्च शङ्खौ दध्मतुरुत्तमौ॥३५॥

तत् प्रभग्नं बलं दृष्ट्वा पिता देवव्रतस्तव।
अब्रवीत् समरे शूरो भारद्वाजं यशस्विनम्॥३६॥

भीष्मः—

एष पाण्डुसुतो वीरः कृष्णेन सहितो बली।
तथा करोति सैन्यानि यथा कुर्याद्धनञ्जयः॥३७॥

न ह्येष समरे शक्यो जेतुमन्यैः कथञ्चन।
अस्यैतद्243 दृश्यते रूपं क्रुद्धस्येव पिनाकिनः॥३८॥

न निवर्तयितुं चापि शक्येयं महती चमूः।
अन्योन्यप्रेक्षया पश्य द्रवतीयं वरूथिनी॥३९॥

एष चास्तं गिरिश्रेष्ठं भानुमान् प्रत्यपद्यत।
चक्षूंषि सर्वलोकस्य संहरन्निव भारत॥४०॥

सेनापहारं232 सम्प्राप्तं मन्येऽहं पुरुषर्षभ॥४१॥

श्रान्ता भीताश्च नो योधा न योत्स्यन्ति कथञ्चन॥४२॥

सञ्जयः—

एवमुक्त्वा ततो भीष्मो द्रोणमाचार्यसत्तमम्।
अपहारमथो चक्रे तावकानां महारथः॥४३॥

ततस्सरथनागाश्वा जयं प्राप्य ससोमकाः।
पाञ्चालाःपाण्डवाश्चैव प्रणेदुश्च पुनः पुनः॥४४॥

प्रययुश्शिबिराथैव धनञ्जयपुरस्कृताः।
वादित्रघोषैस्संहृष्टाः प्रनृत्यन्तो महारथाः॥४५॥

ततोऽपहारस्सैन्यानां तव तेषां च भारत।
अस्तं गच्छति सूर्ये च सन्ध्याकालेऽभ्यवर्तत॥४६॥

इति श्रीमहाभारते शतसहस्त्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि पञ्चाशोऽध्यायः॥ ५०॥
॥६४॥ भीष्मवधपर्वणि दशमोऽध्यायः॥१०॥
[द्वितीयापहारः समाप्तः]
[ अस्मिन्नध्याये ४६ श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1706114107मम.png"/>

॥एकपञ्चाशोऽध्यायः॥
<MISSING_FIG href="../books_images/U-IMG-1706114121bbbb.png"/>

उभयपक्षयोर्व्यूहरचना॥

<MISSING_FIG href="../books_images/U-IMG-1706114135मम.png"/>

सञ्जयः—

प्रभातायां तु शर्वर्यां भीष्मश्शान्तनवस्तदा।
अनीकान्यनुसंयाने व्यादिदेश परन्तपः॥१॥

गारुडं च महाव्यूहं चक्रे शान्तनवस्तदा।

पुत्राणां ते जयाकाङ्क्षी वृद्धः कुरुपितामहः॥२॥

गरुडस्य तु यत् तुण्डं पिता देवव्रतस्तव।
चक्षुषी च भरद्वाजः कृतवर्मा च भारत॥३॥

अश्वत्थामा कृपश्चैव शिर आस्तां यशस्विनौ।
त्रिगर्तैर्मद्रकैकेयैर् वाटधानैश्च संयुगे॥४॥

भूरिश्रवाश्शलश्शल्यो भगदत्तश्च मारिष।
मद्रकास्सिन्धुसौवीरास् तथा पञ्चनदाश्च ये॥५॥

जयद्रथेन सहिता ग्रीवा ह्यासन् विशां पते॥५॥

पृष्ठे दुर्योधनो राजा सोदरैस्सह सानुगैः॥६॥

विन्दानुविन्दावावन्त्यौ काम्भोजश्च नराधिपः।
पुच्छमासन् महाराज शूरसेनाश्च सर्वशः॥७॥

मागधाश्च कलिङ्गाश्च कशेरुकगणैस्सह।
दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य दंशिताः॥८॥

कर्णादाश्च विकुञ्जाश्च मुद्गाःकुण्डीविषास्तथा।
बृहद्बलेन सहिता वामपार्श्वमुपास्थिताः॥९॥

व्यूहं दृष्ट्वा तु सैन्यस्य सव्यसाची परंतपः।
धृष्टद्युम्नेन सहितः प्रत्यव्यूहत पाण्डवः॥१०॥

व्यूहेन चार्धचन्द्रेण व्यूहं तमतिदारुणम्॥१०॥

दक्षिणं शृङ्गमास्थाय भीमसेनो व्यरोचत॥११॥

नानाशस्त्रौघसम्पन्नैर् नानादेश्यैर्नृपैर्घृतः।
तमन्वेति विराटश्च द्रुपदश्च महायशाः॥१२॥

तदनन्तरमेवासीन्नीलो नीलायुधो विभुः।
नीलादनन्तरश्चापि धृष्टकेतुर्महाबलः॥१३॥

चेदिकाशिकरूषैश्च पौरवैश्चैव रक्षितः।
धृष्टद्युम्नश्शिखण्डी च पाञ्चालाश्च प्रभद्रकाः॥१४॥

मध्ये सैन्यस्य महतस् स्थिता युद्धाय भारत॥१४॥

तत्रानु धर्मराजश्च गजानीकेन दंशितः॥१५॥

ततस्तु सात्यकी राजन् द्रौपद्याः पञ्च चात्मजाः।
अभिमन्युस्ततश्शूर इरावांश्च ततः परम्॥१६॥

भैमसेनिस्ततो राजन् केकयाश्च महारथाः।
एते सर्वे महाराज वामं पार्श्वमपालयन॥१७॥

सर्वस्य जगतो गोप्ता गोप्ता यस्य जनार्दनः।
तत्रानु रथिनां श्रेष्ठो वामशृङ्गे व्यवस्थितः॥१८॥

एवमेतं महाव्यूहं प्रत्यव्यूहन्त पाण्डवाः।
वधार्थं तव पुत्राणां तत्पक्षे ये समाश्रिताः॥१९॥

ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम्।

तावकानां244 परेषां च निघ्नतामितरेतरम्॥२०॥

अश्वौघाश्च रथौघाश्च गजौघाश्च विशां पते।
सम्पतन्तरस्स्म दृश्यन्ते निघ्नमानाः परस्परम्॥२१॥

धावतां च रथौघानां युध्यतां च पृथक् पृथक्।
बभूव तुमुलश्शब्दो विमिश्रो दुन्दुभिस्वनैः॥२२॥

एवं245 तु नरवीराणां निघ्नतामितरेतरम्।
सुसम्प्रहारे तुमुले रौद्रमासीत् तदा वपुः॥२३॥

इति श्रीमहाभारते शतसहस्रिकार्या संहितायां वैयासिक्यां
भीष्मपर्वणि एकपञ्चाशोऽध्यायः॥५१॥
॥६४॥ भीष्मवधपर्वणि एकादशोऽध्यायः॥११॥
[ अस्मिन्नध्याये २३ श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1706114560मम.png"/>

॥द्विपञ्चाशोऽध्यायः॥
<MISSING_FIG href="../books_images/U-IMG-1706114573bbbb.png"/>

[ तृतीयदिवसयुद्धारम्भः ]
<MISSING_FIG href="../books_images/U-IMG-1706114587मम.png"/>

संकुलयुद्धवर्णनम्॥१॥

सञ्जयः—

एवं व्यूढेष्वनीकेषु तावकेष्वितरेषु च।
धनञ्जयो स्थानीकं पीडयंस्तव भारत॥१॥

शरैरतिरथो युद्धे पातयामास पार्थिवान्॥१॥

ते वध्यमानाः पार्थेन कालेनेव युगक्षये।
धार्तराष्ट्रा रणे यत्ताः पाण्डवान् प्रत्ययोधयन्॥२॥

प्रार्थयाना यशो दीप्तं मृत्युं कृत्वा निवर्तनम्॥३॥

एकाग्रमनसो भूत्वा पाण्डवानां वरूथिनीम्।
बभञ्जुर्बहुशो राजंस तैश्चाभज्यन्त संयुगे॥४॥

पतद्भिश्च246 रथैर्भिन्नैर्गजैः पत्तिभिरेव च।
प्रभग्नैस्स्यन्दनैश्चासीद् युद्धमेतत् प्रवर्तितम्॥५॥

द्रवद्भिश्च247 रथैर्भग्नैर् परिवर्तद्भिरेव च।
पाण्डवाः कौरवेयाश्च न प्राज्ञायत किश्चन॥६॥

उदतिष्ठद्रजो भौमं छादयानं दिवाकरम्।
न दिशः प्रदिशो वापि जज्ञिरेऽत्रसमागताः॥७॥

अनुमानेन संज्ञाभिर् नामगोत्रैश्च संयुगे।
अवर्तत तदा युद्धं तत्रतत्र विशां पते॥८॥

व्यूहो नाभिद्यत तदा कौरवाणां कथञ्चन।
रक्षितस्सत्यसन्धेन248 भारद्वाजेन मारिष॥९॥

तथैव पाण्डवेयानां रक्षितस्सव्यसाचिना।
नाभिद्यत महाब्यूहो भीमेन च सुरक्षितः॥१०॥

सेनाग्नादभिनिष्पत्य प्रायुध्यंस्तत्रमानवाः।
उभयोस्सेनयो राजन् व्यतिषक्ताः परस्परम्॥११॥

हयारोहा हयारोहान् पातयामासुराहवे।
यष्टिभिर्विमलाभिश्च249 प्रासैरपि च संयुगे॥१२॥

रथी रथिनमासाद्य बाणैः कनकभूषणैः।
पातयामास250 समरे शरैस्सन्नतपर्वभिः॥१३॥

गजारोहा गजारोहान् नाराचशरतोमरैः।
संसक्तान् पातयामासुस् तव तेषां च सङ्घशः॥१४॥

पत्तिसङ्घा रणे पत्तीन् भिण्डिपालपरश्वथैः।
निपातयन्ति संहृष्टाः परस्परजिगीषवः॥१५॥

रथी251 च समरे राजन्नासाद्य गजयोधिनम्।
सगजं पातयामास गजी च रथिनां रथात्॥१६॥

रथिनं च हयारोहः प्रासेन भरतर्षभ।
पातयामास समरे रथी च हयसादिनम्॥१७॥

पदाती252 रथिनं सङ्ख्ये रथी चापि पदातिनम्।
न्यपातयच्छितैश्शस्त्रैस् सेनयोरुभयोरपि॥१८॥

गजारोहा हयारोहान् पातयामासुराहवे।

हयारोहा गजस्थांश्च तदद्भुतमिवाभवत्॥१९॥

निस्त्रिंशैर्निशितैस्तीक्ष्णैः पातयामासुराहवे।
वारणस्थैश्च समरे हतास्तत्र पदातयः॥२०॥

पातिताः प्रत्यदृश्यन्त तैश्चापि गजयोधिनः॥२०॥

हस्तिसङ्घा हयारोहैस् सादिसङ्घाश्च दन्तिभिः।
पात्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः॥२१॥

ध्वजैस्तत्रापविद्धैश्च तोमरैः कार्मुकैस्तथा।
प्रासैस्तदा गदाभिश्च चक्रेः253 कर्पणकैस्तथा॥२२॥

शक्तिभिः कवचैश्चितैः कणपैरङ्कुशैरपि।
निस्त्रिंशैर्विमलेश्चापि स्वर्णपुङ्खैश्शरैस्तथा॥२३॥

परिस्तोमैः कुथाभिश्च कम्बलैश्च महाधनैः।
विबभौ भूर्नरश्रेष्ठ स्रग्दामभिरिवाचिता॥२४॥

नराश्वकायैः पतितैर् दन्तिनां च महाहवे।
शरीरैस्स्यन्दनैर्भग्नैर्235 विकीर्णैश्च समन्ततः॥२५॥

अगम्यरूपा पृथिवी मांसशोणितकर्दमा॥२६॥

प्रशशाम रजो भौमम् उक्षितं गजशोणितैः।
दिशश्च विमलास्सर्वास सम्बभूवुर्जनेश्वर॥२७॥

उत्थितान्यगणेयानि कबन्धानि समन्ततः।
चिह्नभूतानि जगतो विनाशार्थानि भारत॥२८॥

तस्मिन् युद्धे महारौद्रे वर्तमाने सुदारुणे।
प्रत्यदृश्यन्त रथिनो धावमानास्ततस्ततः॥२९॥

ततो द्रोणश्च भीष्मश्च सैन्धवश्च जयद्रथः।
पुरुमित्रो विकर्णश्च शकुनिश्चापि सौबलः॥३०॥

एते समरदुर्धर्षास् सिंहतुल्यपराक्रमाः।
पाण्डवानामनीकानि बभञ्जुस्समरे स्थिताः॥३१॥

तथैव भीमसेनोऽपि राक्षसश्च घटोत्कचः।
सात्यकिश्चेकितानश्च द्रौपदेयाश्च भारत॥३२॥

तावकांस्तव पुत्रांश्च सहितान् सर्वराजभिः।
द्रावयामासुराजिस्थास् त्रिदशा दानवानिव॥३३॥

तथा ते समरेऽन्योन्यं निघ्नन्तः क्षत्रियर्षभाः।
रक्तोक्षिता घोररूपा विरेजुर्दानवा इव॥३४॥

विजित्य च रिपून् वीरास् सेनयोरुभयोरपि।
व्यदृश्यन्त महामात्रा ग्रहा इव नभस्स्थले॥३५॥

ततो रथसहस्रेण पुत्रो दुर्योधनस्तव।
अभ्ययात् पाण्डवान् युद्धे राक्षसं च घटोत्कचम्॥३६॥

तथैवापततश्शूरान् महत्या सेनया घृतान्।

भीष्मद्रोणौ महात्मानौ वारयामासतुश्शरैः॥३७॥

किरीटी तु ततः क्रुद्धस् समन्तात् पार्थिवोत्तमान्।
आर्जुनिस्सात्यकिश्चैव सौबलं ययतुर्बलम्॥३८॥

ततः प्रववृते घोरस् सङ्ग्रामो रोमहर्षणः।
तावकानां परेषां च मृत्युं कृत्वा निवर्तनम्॥३९॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि द्विपञ्चाशोऽध्यायः॥५२॥
॥६४॥ भीष्मवधपर्वणि द्वादशोऽध्यायः॥१२॥
[ अस्मिन्नध्याये ३९ श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1706115857मम.png"/>

॥त्रिपञ्चाशोऽध्यायः॥
<MISSING_FIG href="../books_images/U-IMG-1706115844bbbb.png"/>

अर्जुनादियुद्धवर्णनम्॥

<MISSING_FIG href="../books_images/U-IMG-1706115831मम.png"/>

सञ्जयः—

ततस्ते पार्थिवाः क्रुद्धाः फल्गुनं वीक्ष्य संयुगे।
रथैरनेकसाहस्रैस् समन्तात् पर्यवारयन्॥१॥

अथैनं रथवंशेन कोष्ठकीकृत्य भारत।
शरैरनेकसाहस्रैस् समन्तात् पर्यवारयन्॥२॥

शक्तीश्च254 विमलास्तीक्ष्णा गदाश्चपरिघैस्सह।
प्रासान् परश्वथांश्चैव मुद्गरान् मुसलानपि॥३॥

चिक्षिपुस्समरे वीरा धनञ्जयरथं प्रति॥३॥

शस्त्राणामथ तां घृष्टिं समन्तात् पतितां रथे।
रुरोध समरे पार्थश् शरैः कनकभूषणैः॥४॥

तत्र तल्लाघवं दृष्ट्वा बीभत्सोरतिमानुषम्।
देवदानवगन्धर्वाः पिशाचोरगराक्षसाः॥५॥

साधु साध्विति भाषन्तो विस्मयं परमं ययुः॥६॥

सात्यकिश्चाभिमन्युश्च124 महत्या सेनया घृतौ।
गान्धारान् समरे शूरान् वारयेतां ससौबलान्॥७॥

तत्र सौबलकाश्शूराः वार्ष्णेयस्य रथं प्रति।
तिलशश्चिच्छिदुः क्रोधान्नानाप्रहरणैस्तथा॥८॥

सात्यकिश्चरथं त्यक्त्वा वर्तमाने महाहवे।
अभिमन्युरथं तूर्णम् आरुरोह परंतपः॥९॥

तावेकरथमारूढौ सौबलेयस्य वाहिनीम्।
जघ्नतुर्निशितैर्बाणैस् तीक्ष्णैस्सन्नतपर्वभिः॥१०॥

द्रोणभीष्मौ रणे यत्तौ धर्मराजस्य वाहिनीम्।
व्यदारयेतामिषुभिः कङ्कपत्रैरजिह्मगैः॥११॥

ततो धर्मसुतो राजा माद्रीपुत्रौ च पण्डवौ।
मिषतां सर्वसैन्यानां द्रोणानीकमुपाद्रवन्॥१२॥

तत्रासीत् तुमुलं युद्धं भैरवं रोमहर्षणम्।
यथा दैवासुरं युद्धं पूर्वमासीत् सुदारुणम्॥१२॥

पिता पुत्रश्च समरे कुर्वाणौ कर्म दुष्करम्।
राजानं प्रत्युदीयातां भीमसेनघटोत्कचौ॥१३॥

तत्राद्भुतमपश्याम हैडिम्बस्य पराक्रमम्॥१४॥

अतीत्य पितरं युद्धे यदयुध्यत भारत।
दुर्योधनस्य141 महतीं द्रावयामास वाहिनीम्॥१५॥

दुर्योधनस्ततोऽभ्येत्य तावुभावण्यवारयत्॥१६॥

भीमसेनस्तु सङ्क्रुद्धो दुर्योधनममर्षणम्।
हृद्यविध्यत् पृषत्केन प्रहसन्निव पाण्डवः॥१७॥

ततो दुर्योधनो राजा प्रहारपरिपीडितः।
निषसाद रथोपस्थे कश्मलं च जगाम ह॥१८॥

तं विसंज्ञमथो ज्ञात्वा त्वरमाणोऽस्य सारथिः।
अपोवाह रणाद्राजंस् तव सैन्यमभज्यत॥१९॥

विद्रुतां तु तदा सेनां द्रवमाणां समन्ततः।
पार्षतश्चापि तत् सैन्यं तव पुत्रस्य मारिष॥२०॥

द्रोणस्य248 च ततस्संख्ये गाङ्गेयस्य च पश्यतः।

जघान विशिखैस्तीक्ष्णैस् तवानीकं विशां पते॥२१॥

द्रवमाणं तु तत् सैन्यं तव पुत्रस्य मारिष।
नाशक्नुतां वारयितुं भीष्मद्रोणौ महारथौ॥२२॥

निवार्यमाणं भीष्मेण द्रोणेन च महात्मना।
अभिदुद्राव वेगेन भीमेनार्दितमाहवे॥२३॥

तथा रथसहस्राणि विद्रवन्ति रणाजिरे॥२३॥

एकस्थौ च रणे शूरौ शैनेयकुरुपुङ्गवौ।
शरौघैस्समरे सेनां नाशयेतां समन्ततः॥२४॥

शुशुभाते तदा तौ तु शैनेयकुरुपुङ्गवौ।
अमावास्यां गतौ यद्वत् सोमसूर्यौ नभस्स्थले॥२५॥

अर्जुनस्तु ततः क्रुद्धस् तव सैन्यं विशां पते।
ववर्ष255 शरवर्षेण धाराभिरिव तोयदः॥२६॥

मध्यमानं ततस्तत् तु शरैः पार्थस्य संयुगे।
दुद्राव कौरवं सैन्यं विषादभयपीडितम्॥२७॥

द्रवमाणं256 तु तत् सैन्यं तदा दृष्ट्वा महारथौ।
भीष्मद्रोणौ257 महावीर्यौ त्वरमाणौ महारणे॥२८॥

वारयेतां सुसंरब्धौ दुर्योधनहितैषिणौ॥३०॥

ततो दुर्योधनो राजा समाश्वस्य विशां पते।
न्यवर्तयत तत् सैन्यं द्रवमाणं समन्ततः॥३१॥

यत्र यत्रहि पुत्रं ते ये ये पश्यन्ति भारत।
तत्र तत्र न्यवर्तन्त क्षत्रियाणां महारथाः॥३२॥

तान् निवृत्तान् समीक्ष्याथ ततोऽन्ये हीतरे जनाः।
अन्योन्यस्पर्धया राजल्ँलज्जयाऽन्ये व्यवस्थिताः॥३२॥

पुनरावर्ततां तेषां वेग आसीद्विशां पते।
पूर्यतस्सागरस्येव चन्द्रस्योदयने यथा॥३३॥

सन्निवृत्तांस्ततस्तांस्तु दृष्ट्वा राजा सुयोधनः।
अब्रवीत् त्वरितो गत्वा भीष्मं शान्तनवं वचः॥३४॥

दुर्योधनः—

पितामह निबोधेदं यत् त्वां वक्ष्यामि भारत।
नानुरूपमिदं मन्ये त्वयि जीवति कौरव॥३५॥

द्रोणे च रथिनां श्रेष्ठे सपुत्रेससुहृज्जने।
कृपे चैव महेष्वासे द्रवतीयं वरूथिनी॥३६॥

न पाण्डवान् प्रतिबलांस् तव मन्ये महाबल।
तथा द्रोणस्य सङ्ग्रामे द्रौणेश्चैव कृपस्य च॥३७॥

अनुप्राह्याः पाण्डुसुतास् तवनूनं पितामह।
यथेमां क्षमसे वीर वध्यमानां वरूथिनीम्॥३८॥

सोऽहं वाच्यस्त्वया वीर पूर्वमेवेह संयुगात्।
न योत्स्येऽहं रणे वीर पाण्डवान् प्रति भारत॥३९॥

श्रुत्वा ततोऽहं वाक्यं त आचार्यस्य च भारत।
कर्णेन सहितः कृत्यं चिन्तयिष्ये यथातथम्॥४०॥

यदि नाहं परित्याज्यो युवाभ्यामत्रसंयुगे।
विक्रमेणानुरूपेण युध्येतां पुरुषोत्तमौ॥४१॥

सञ्जयः—

एतच्छ्रुत्वा वचो भीष्मः प्रहसन् वै पुनः पुनः।
अब्रवीत् तव पुत्रं तु सामपूर्वमिदं वचः॥४२॥

भीष्मः—

बहुशोऽसि मया राजंस् तथ्यमुक्तं हितं वचः।
अजेयाः पाण्डवा युद्धे देवैरपि सवासवैः॥४३॥

यत् तु शक्यं मया कर्तुं वृद्धेनाद्य गतायुषा।
करिष्यामि यथाशक्ति पश्येदानीं सुबालवत्॥४४॥

अद्य पाण्डुसुतान् सर्वान् ससैन्यान् सह बन्धुभिः।
समरे वारयिष्यामि सर्वसैन्यस्य पश्यतः॥४५॥

सञ्जयः—

एवमुक्तास्तु भीष्मेण पुत्रास्तव जनेश्वर।
दध्मुश्शङ्खान् मुदा युक्ता हर्षसम्पूर्णमानसाः॥४६॥

ततश्शङ्खांश्च258 भेरीश्च समन्तात् पर्यवादयन्॥४६॥

पाण्डवाश्च ततो राजञ् श्रुत्वा तं निनदं महत्।
दध्मुश्शङ्खांश्च भेरीश्च मुरजांश्च व्यनादयन्॥४७॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि त्रिपञ्चाशोऽध्यायः॥५३॥
॥६४॥भीष्मवधपर्वणि त्रयोदशोऽध्यायः॥१३॥
[ अस्मिन्नध्याये ॥४७॥श्लोकाः]
<MISSING_FIG href="../books_images/U-IMG-1706117109मम.png"/>

॥चतुःपञ्चाशोऽध्यायः॥
<MISSING_FIG href="../books_images/U-IMG-1706117119bbbb.png"/>

स्वप्रतिज्ञां विहाय गृहीतचक्रेण कृष्णेन पादचारेण भीष्मं हन्तुमभियानम्॥१॥ अर्जुनेन कृष्णस्य प्रतिनिवर्तनम्॥२॥

<MISSING_FIG href="../books_images/U-IMG-1706117132मम.png"/>

धृतराष्ट्रः—

प्रतिज्ञाते तु भीष्मेण तस्मिन् युद्धे सुदारुणे।
पाण्डवान् वारयिष्येति कथं युयुधिरे नृपाः॥१॥

मम पुत्रस्य वाक्यैस्तु क्रोधितश्च महाव्रतः।
भीष्मः किमकरोत् तत्र पाण्डवेयेषु सञ्जय॥२॥

ये141 चान्ये पृथिवीपालाः किमकुर्वन्त मामकैः।
पितामहे च पश्चालाश् शूरा युद्धाभिनन्दिनः॥३॥

सञ्जयः—

गतपूर्वाह्णभूयिष्ठे तस्मिन्नहनि दारुणे।
जयं प्राप्तेषु हृष्टेषु पाण्डवेषु महात्मसु॥४॥

सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव।
अभ्ययाज्जवनैरश्वैः पार्थमेव धनञ्जयम्॥५॥

महत्या सेनया गुप्तस् तव पुत्रैश्च भारत॥५॥

प्रावर्तत ततो युद्धं तुमुलं रोमहर्षणम्।
अस्माकं पाण्डवैस्सार्धं सेनयोर्भरतर्षभ॥६॥

धनुषां कूजतां तत्र तलानां चाभिहन्यताम्।
महान् समभवच्छब्दो गिरीणामिव दीर्यताम्॥७॥

तिष्ठ स्थितोऽस्मि विद्ध्येनं निवर्तस्व स्थिरो भव।
स्थितोऽस्मि प्रहरस्वेति वाचोऽश्रूयन्त सर्वशः॥८॥

काञ्चनेषु तनुत्रेषु किरीटेषु ध्वजेषु च।
शिलानामिव शैलेषु पततां च महाध्वनिः॥९॥

पतितान्युत्तमाङ्गानि बाहवश्च विभूषिताः।
व्यवेष्टन्त महीं प्राप्य शतशोऽथ सहस्रशः॥

१०॥

हृतोत्तमाङ्गाः केचित् तु तथैवोद्यतकार्मुकाः।
प्रगृहीतायुधाश्चैव तस्थुः पुरुषसत्तमाः॥११॥

प्रावर्तत महावेगा नदी रुधिरवाहिनी।

मातङ्गाङ्गशिला रौद्रा मांसशोणितकर्दमा॥१२॥

नराश्वद्विरदेन्द्राणां शरीरप्रभवा तथा।
परलोकार्णवमुखी गृध्रगोमायुमोदिनी॥१३॥

नैवं दृष्टं श्रुतं चापि युद्धमेतादृशं पुरा।
यथा तव सुतानां च पाण्डवानां च भारत॥१४॥

नासीद्रथपथस्तत्र योधैर्युधि निपातितैः।
गजैश्च पतितैर्नीलैर् गिरिशृङ्गैरिवाघृतः॥१५॥

विकीर्णैः कवचैश्चित्रैर् ध्वजैश्छत्रैश्च मारिष।
शुशुभे तद्रणस्थानं शरदीव नभस्स्थलम्॥१६॥

विनिर्भिन्ना नराः केचिद् दन्तपीडाप्रकर्षणाः।
अर्दितास्सममरे शत्रून् अभ्यधावन्त दंशिताः॥१७॥

तात भ्रातस्सखे बन्धो वयस्य मम मातुल।
मा मां परित्यजेत्यन्ये चुक्रुशुः पतिता रणे॥१८॥

आदावभ्येहि मा गच्छ किं भीतोऽसि क्वयास्यसि।
स्थितोऽहं समरे मा भैर् इति चान्ये विचुक्रुशुः॥१९॥

ततो भीष्मश्शान्तनवो नित्यं मण्डलकार्मुकः।
मुमोच बाणान् दीप्ताग्नान् अहीनाशीविषानिव॥२०॥

शरैरेकायनीकुर्वन् दिशस्सर्वा यतव्रतः।

जघान पाण्डवरथान आविश्याविश्य259 भारत॥२१॥

स नृत्यन् रथमार्गेषु दर्शयन् हस्तलाघवम्।
अलातचक्रवत् संख्ये तत्र तत्र स्म दृश्यते॥२२॥

तमेकं समरे वीरं पाण्डवास्सह सृव्जयैः।
अनेकशतसाहस्रैस् समपश्यन्त लाघवात्॥२३॥

मायाकृतात्मानमिव भीष्मं तं तत्र मेनिरे॥२४॥

पूर्वस्यां दिशि तं दृष्ट्वा प्रतीच्यां ददृशुर्जनाः।
उदीच्यां दक्षिणस्यां च लघुत्वात् प्रत्यदृश्यत॥२५॥

एवं स समरे वीरो गाङ्गेयः प्रत्यदृश्यत॥२५॥

न चैनं पाण्डवेयानां कश्चिच्छक्नोति वीक्षितुम्।
विशिखानेव पश्यामो भीष्मचापच्युतान् बहून्॥२६॥

कुर्वाणं समरे कर्म सूदयानं च वाहिनीम्॥२७॥

व्याक्रोशन्त रणे तत्र वीरास्ते बहवो बहु॥२७॥

अमानुषेण वपुषा चरन्तं पितरं तव।
शलभा इव राजेन्द्र पतन्ति विधिचोदिताः॥२८॥

भीष्माग्निमभिसङ्क्रुद्धं विनाशाय सहस्रशः॥२९॥

न हि मोघश्शरःकश्चिद् आसीद्भीष्मस्य संयुगे।
नरनागाश्वकार्येषु बहुत्वाल्लघुयोधिनः॥३०॥

प्रच्छादयञ्260

शरान् भीष्मो निशितान् कङ्कपत्रिणः।

अश्वमेकेन बाणेन गजमेकेन पत्रिणा॥३१॥

चिच्छेद समरे राजन वज्रेणेव शिलोच्चयम्॥३१॥

गजांश्च सगजारोहान् वर्मिणश्चापरानपि।
छिनत्त्येकेन261 बाणेन सुमुक्तेन पतत्रिणा॥३२॥

गजं कंकटसन्नद्धं वज्रेणेव शिलोच्चयम्॥३३॥

द्वित्रानपि229 गजान् भीष्मो वर्मितान् पिण्डितानपि।
नाराचेन सुमुक्तेन निजघान पिता तव॥३४॥

यो यो भीष्मं नरव्याघ्रम् अभ्येति युधि कश्चन।
मुहूर्तदृष्टस्सहसा पतितो भुवि दृश्यते॥३५॥

एवं सा धर्मराजस्य वध्यमाना महाचमूः।
भीष्मेणातुलवीर्येण262 व्यशीर्यत सहस्रधा॥३६॥

प्राकम्पत महासेना शरवर्षेण पीडिता॥३६॥

ताडिता235 पाण्डवी सेना बहुधा सा व्यभज्यत।
पश्यतो वासुदेवस्य पार्थस्य च शिखण्डिनः॥३७॥

यतमाना254 महावीर्याः पाण्डवास्सोमकास्तथा।

नाशक्नुवन् वारयितुं भीष्मबाणप्रपीडिताः॥३८॥

महेन्द्रसमवीर्येण वध्यमाना महाचमूः।
अभज्यत महाराज धर्मपुत्रस्य पश्यतः॥३९॥

आविद्धध्वजनागं च पतितध्वजकूबरम्।
अनीकं पाण्डुपुत्राणां हाहाभूतमदृश्यत॥४०॥

जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा।
प्रियं सखायं चाक्रन्दत् सखा दैवबलात्कृतः॥४१॥

विमुच्य कवचानन्ये पाण्डुपुत्रस्य सैनिकाः।
विकीर्य केशान् धावन्तः प्रत्यदृश्यन्त भारत॥४२॥

तद्गोकुलमिवोद्भ्रान्तम् उद्भ्रान्तरथकुञ्जरम्।
ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा॥४३॥

प्रभज्यमानं सैन्यं तु दृष्ट्वा यादवनन्दनः।
उवाच पार्थं वीभत्सुं प्रगृह्य रथमुत्तमम्॥४४॥

श्रीभगवान्—

अयं स कालस्सम्प्राप्तः पार्थ यः काङ्क्षितस्त्वया।
प्रहरास्मै नरव्याघ्र न चेन्मोहाद्विमुह्यसे॥४५॥

यत्पुरा कथितं वीर त्वया राज्ञां समागमे॥४६॥

भीष्मद्रोणमुखान् सर्वान् धार्तराष्ट्रस्य सैनिकान्।
सानुबन्धान हनिष्यामि ये मां योत्स्यन्ति संयुगे॥४७॥

इति तत् कुरु कौन्तेय सत्यं वाक्यमरिन्दम॥४७॥

स्वसैन्यं पश्य बीभत्सो धावमानमितस्ततः।
द्रवतश्च महीपालान् पश्य यौधिष्ठिरे बले॥४८॥

दृष्ट्वा भीष्मं च समरे व्यात्ताननमिवान्तकम्।
भयार्ताः प्रपलायन्ते सिंहात् क्षुद्रमृगा इव॥४९॥

सञ्जयः—

एवमुक्तः263 प्रत्युवाच वासुदेवं धनञ्जयः॥५०॥

अर्जुनः—

चोदयाश्वान् यतो भीष्मो विगाहे तद्बलार्णवम्॥५०॥

सञ्जयः—

ततोऽश्वान् रजतप्रख्यांश् चोदयामास केशवः।
यतो भीष्मरथो राजन् दुष्प्रेक्ष्यो रश्मिमानिव॥५१॥

ततस्तत् पुनरावृत्तं युधिष्ठिरबलं महत्।
दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यन्तमाहवे॥५२॥

ततो भीष्मः कुरुश्रेष्ठ सिंहवाद्विनदन् मुहुः।
धनञ्जयरथं शीघ्रं शरवर्षैरवाकिरत्॥५३॥

क्षणेनातिरथस्तस्य सहयस्सहसारथिः।
शरवर्षेण महता सञ्छन्नो न प्रकाशते॥५४॥

वासुदेवस्त्वसम्भ्रान्तो धैर्यमास्थाय वीर्यवान्।
चोदयामास तानश्वान् विभिन्नान् भीष्मसायकैः॥ ५५॥

ततोऽर्जुनो धनुर्गृह्य दिव्यं जलनिस्स्वनम्।

पातयामास264 भीष्मस्य धनुरिछत्वा शितैश्शरैः॥५६॥

सञ्छिन्नधन्वा कौरव्यः पुनरन्यन्महद्धनुः।
निमेषान्तरमात्रेण सज्यं चक्रे पिता तव॥५७॥

विचकर्ष ततो दोर्भ्यांधनुस्तज्जलदस्वनम्।
अथास्य तदपि क्रुद्धश् चिच्छेद धनुरर्जुनः॥५८॥

तस्य तत् पूजयामास लाघवं शन्तनोस्सुतः॥५९॥

भीष्मः—

साधु पार्थ महाबाहो साधु पाण्डवनन्दन।
त्वय्येवैतद्युक्तरूपं महत् कर्म धनञ्जय॥६०॥

प्रीतोऽस्मि ते भृशं पार्थ कुरु युद्धं मया सह॥६०॥

सञ्जयः—

इति पार्थं प्रशस्याथ प्रगृह्यान्यन्महद्धनुः।
मुमोच समरे वीरश् शरान् पार्थरथं प्रति॥६१॥

अदर्शयद्वासुदेवो हयज्ञाने परं बलम्।
मोघान् कुर्वञ् शरांस्तस्य माण्डलान्यचरल्लघु॥६२॥

तथा भीष्मस्तु सुदृढं वासुदेवधनञ्जयौ।
विव्याध निशितैस्तीक्ष्णैस् सर्वगात्रेषु मारिष॥६३॥

शुशुभाते नरव्याघ्रौ भीष्मस्य शरपीडितौ।
गोवृषाविव संरब्धौ विषाणोल्लेखनङ्कितौ॥६४॥

पुनश्चापि सुसङ्क्रुद्धश शरैश्शतसहस्रशः।

कृष्णयोर्युधि संरब्धो भीष्मः प्राच्छादयद्दिशः॥६५॥

पार्थोऽपि समरे क्रुद्धो भीष्मस्यावारयद्दिशः॥६६॥

वार्ष्णेयं च शरैस्तीक्ष्णैः कम्पयामास रोषितः।
मुहुरस्य स्वयं भीष्मः प्रहस्य स्वनवत् तदा॥६७॥

कृष्णस्तु समरे दृष्ट्वा भीष्मं भीमपराक्रमम्।
सम्प्रेक्ष्य च महाबाहुः पार्थस्य मृदुयुद्धताम्॥६८॥

भीष्मं च शरवर्षाणि सृजन्तमनिशं युधि।
प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोः॥६९॥

वरान् वरान् विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान्।
युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बले॥७०॥

अमृष्यमाणो भगवान् केशवः परवीरहा।
अचिन्तयदमेयात्मा नास्ति यौधिष्ठिरं बलम्॥७१॥

एकाह्नाऽपि रणे भीष्मो नाशयेद्देवदानवान्।
किमु पाण्डुसुतान् युद्धे सबलान् सपदानुगान्॥७२॥

द्रवते च महासैन्यं पाण्डवस्य महात्मनः॥७२॥

एते च कौरवास्तूर्णं प्रभग्नान् वीक्ष्य सोमकान्।
प्राद्रवन्ति रणे दृष्ट्वा हर्षयन्तः पितामहम्॥७३॥

सोऽहं भीष्मं निहत्याद्य पाण्डवार्थाय दंशितः।
भारमेनं विनेष्यामि पाण्डवानां महात्मनाम्॥७४॥

अर्जुनोऽपि शरैस्तीक्ष्णैर् वध्यमानोऽपि संयुगे।
कर्तव्यं नाभिजानाति रणे भीष्मस्य गौरवात्॥७५॥

तथा चिन्तयतस्तस्य भूय एव पितामहः।
प्रेषयामास सङ्क्रुद्धश् शरान् पार्थरथं प्रति॥७६॥

तेषां बहुत्वात् सुभृशं शराणां
दिशोऽथ सर्वाः पिहिता बभूवुः265
नैवान्तरिक्षं न दिशो न भूमिर्-
न भास्करोऽदृश्यत रश्मिमाली॥७७॥

ववुश्च वातास्तुमुलास्सधूमा
दिशश्च सर्वाःक्षुभिता बभूवुः।
द्रोणो विकर्णोऽथ जयद्रथश्च
भूरिश्रवाः कृतवर्मा कृपश्च॥७८॥

श्रुतायुरम्बष्ठपतिश्च राजा
विन्दानुविन्दौ च महीक्षितश्च।
प्राच्याश्च सौवीरगणाश्च सर्वे
वसातयः क्षुद्रकमालवाश्च॥७९॥

किरीटिनं त्वरमाणाभिसस्रुर्
निदेशगाश्शान्तनवस्य राजन्।

तं वाजिपादातरथौघजालैर्
अनेकसाहस्रशतैर्ददर्श॥८०॥

किरीटिनं सम्परिवार्यमाणं
शिनेर्नप्ता वारणयूथपैश्च।
निरीक्षमाणास्सुभृशं141 नृपालास्
ते पाण्डवेया व्यथिता बभूवुः॥८१॥

ततस्तु दृष्ट्वाऽर्जुनवासुदेवौ
पदातिनागाश्वरथैस्समन्तात्।
अभिद्रुतौ शस्त्रभृतां वरिष्ठौ
शिनिप्रवीरोऽभिससार तूर्णम्॥८२॥

ततो ह्यनीकानि महाधनुष्मान्
शिनिप्रवीरस्सहसाऽभिपत्य।
चकार साहाय्यमथार्जुनस्य
विष्णुर्यथा वृत्रनिषूदनस्य॥८३॥

विकीर्णनागाश्वरथध्वजौघं
भीष्मेण वित्रासितसर्वयोधम्।
युधिष्ठिरानीकमभिद्रवन्तं
प्रोवाच संदृश्य शिनिप्रवीरः॥८४॥

सात्यकिः—

क क्षत्रिया यास्यथ नैष धर्मस्
सतां पुरस्तात् कथितः पुराणः।
मा स्म प्रतिज्ञां त्यजत प्रवीरास्
स्वं वीरधर्मं परिपालयध्वम्॥८५॥

सञ्जयः—

तान् वासवानन्तरजो निशाम्य
नरेन्द्रमुख्यान् द्रवतस्समन्तात्।
पार्थस्य दृष्ट्वा मृदुयुद्धतां च
भीष्मं च सङ्ख्येसमुदीयमाणम्॥

अमृष्यमाणस्स ततो महात्मा
यशस्विनं सर्वदशार्हभर्ता।
उवाच शैनेयमभिप्रशंसन्
दृष्ट्वा कुरूनापततस्समग्रान्॥८६॥

श्रीभगवान्—

ये यान्ति यान्त्वेव शिनिप्रवीर
येऽवस्थितास्सात्वत तेऽपि यान्तु।
भीष्मं रथात् पश्य निपात्यमानं
द्रोणं च सङ्ख्ये सगणं मयाऽद्य॥८७॥

266 सारथेस्सात्वत कौरवाणां
क्रुद्धस्य मुच्येत रणेऽद्य कश्चित्॥८८॥

तस्मादहं गृह्य रथाङ्गमुग्रं
प्राणं हरिष्यामि महाव्रतस्य
निहत्य भीष्मं सगणं तथाऽऽजौ
द्रोणं च शैनेय रथप्रवीरौ॥८९॥

प्रीतिं करिष्यामि धनञ्जयस्य
राज्ञश्च भीमस्य तथाऽश्विनोश्च॥
निहत्य सर्वान् धृतराष्ट्रपुत्रान
तत्पक्षिणो ये च नरेन्द्रमुख्याः॥९०॥

राज्ये च राजानमजातशत्रुं
सम्पादयिष्याम्यहमद्य हृष्टः॥९१॥

सञ्जयः—

इतीदमुक्त्वा स महानुभावस्
सस्मार चक्रं निशितं पुराणम्।
सुदर्शनं चिन्तितमात्रमेव
तस्याग्रहस्तं स्वयमारुरोह॥९२॥

तच्चक्रपद्मं267 प्रगृहीतमाजौ
रराज नारायणबाहुनालम्।
यथाऽऽदिपद्मं268 तरुणार्कवर्णं
रराज नारायणनाभिजातम्॥९३॥

तत्कृष्णक्रोपोदयसूर्यवर्चः
क्षुरान्ततीक्ष्णाग्रसुजातपत्रम्।
तस्यैव देहोरुसरः प्ररूढं
रराज नारायणबाहुनालम्॥९४॥

ततस्सुनाभं वसुदेवसुनुस्
सूर्यप्रभं वज्रसमप्रभावम्।
क्षुरान्तमुद्यम्य भुजेन चक्रं
रथादवप्लुत्य विसृज्य वाहान्॥९५॥

स कम्पयन् गां चरणैर्महात्मा
वेगेन कृष्णः प्रससार भीष्मम्।
मदान्धमाजौ समुदीर्णदर्पं
सिंहो जिघांसन्निव वारणेन्द्रम्॥९६॥

सोऽभिद्रवन् भीष्ममनीकमध्ये
क्रुद्धो महेन्द्रावरजः प्रमाथी।
व्यालम्बिपीताम्बरधृक् चकाशे
घनो यथा सूर्यमरीचिनद्धः॥९७॥

सुदर्शनं चास्य रराज शौरेः
करस्थितं269 तच्च सुनालयुक्तम्।

यथा हि पद्मं तरुणं सुवर्णं
रराज नारायणनाभिजातम्॥९८॥

तच्चक्रपद्मं270 शुभकोटिपत्रं
गोविन्दकान्तिव्रजसूर्यबुद्धम्।
तस्यैव देहोरुसरःप्ररूढं
रराज नारायणनाभिजातम्॥९९॥

तमात्तचक्रं प्रणदन्तमुचैः
क्रुद्धं महेन्द्रावरजं समीक्ष्य।
सर्वाणि भूतानि भृशं विनेदुः
क्षयं कुरूणामिति चिन्तयित्वा॥१००॥

स वासुदेवःप्रगृहीतचक्रस्
संवर्तयिष्यन्निव सर्वलोकम्।
अभ्युत्पतँलोकगुरुर्बभासे
भूतानि धक्ष्यन्निव धूमकेतुः॥१०१॥

तमापतन्तं प्रगृहीतचक्रं
समीक्ष्य देवं द्विपदां वरिष्ठम्।
असम्भ्रमं कार्मुकबाणपाणिर्
रथे स्थितश्शान्तनवोऽभ्युवाच॥१०२॥

भीष्मः—

एह्येहि फुल्लाम्बुजपत्रनेत्र
नमोऽस्तु ते देववराप्रमेय।
प्रसह्य मां पातय लोकनाथ
रथोत्तमाद्भुतशरण्य सङ्ख्ये॥१०३॥

त्वया हतस्यापि ममाऽद्य कृष्ण
श्रेयः परस्मिन्निह चैव लोके।
सम्भावितोऽस्म्यन्धकवृष्णिनाथ
लोकैस्त्रिभिर्वीर तवाभियानात्॥१०४॥

सञ्जयः—

रथादवप्लुत्य ततस्त्वरावान्
पार्थोऽप्यनुद्रुत्य यदुप्रवीरम्।
जग्राह पीनोत्तमलम्बबाहुं
वाह्वोर्हरिं व्यायतपीनबाहुः॥१०५॥

निगृह्यमाणश्च तमादिदेवो
भृशं सरोषः किल नाम योगी।
आदाय वेगेन जगाम जिष्णुं
विष्णुर्महावात इवैकधृक्षम्॥१०६॥

पार्थस्तु विष्टभ्य बलेन पादौ
भीष्मान्तिकं तूर्णमभिद्रवन्तम्।

बलान्निजग्राह हरिं किरीटी
पदे च राजन् दशमे कथञ्चित्॥१०७॥

अवस्थितं तु प्रणिपत्य कृष्णं
प्रीतोऽर्जुनः काञ्चनचित्रमौलिः।
उवाच कोपं प्रतिसंहरेति
गतिर्भवान् केशव पाण्डवानाम्॥१०८॥

न हास्यते कर्म यथाप्रतिज्ञं
पुत्रैश्शपे केशव सोदरैश्च।
अन्तं करिष्यामि यथा कुरूणां
त्वयाऽहमिन्द्रानुज सम्प्रयुक्तः॥१०९॥

ततः प्रतिज्ञां समयं च तस्य
जनार्दनः प्रीतमना निशम्य।
स्थितः प्रिये कौरवसत्तमस्य
रथं सचक्रः पुनरारुरोह॥११०॥

ततः139 प्रतिज्ञां समवाप्य भीष्मः
कृताञ्जलिस्स्तुत्यमथाकरोद्वै।
त्रैविक्रमे यस्य वपुर्बभासे
तथैव दृष्ट्वा तु समुज्ज्वलन्तम्॥१११॥

पुनस्त्वरन् वै वरदो जिघांसुः
प्रगृह्य शङ्खं द्विषतां निहन्ता।
विनादयामास दिशो नभश्च
स पाञ्चजन्यस्य रवेण शौरिः॥११२॥

व्याविद्धनिष्काङ्गदकुण्डलं तं
रजोविकीर्णाश्चितपद्मनेत्रम्।
विशुद्धदंष्ट्ंप्रगृहीतशङ्खं
विचुक्रुशुः प्रेक्ष्य कुरुप्रवीराः॥११३॥

मृदङ्गभेरीपटहप्रणादा
नेमिस्वना दुन्दुभिनिस्स्वनाश्च।
ससिंहनादाश्च बभूवुरुर्व्यां
सर्वेष्वनीकेषु कुरूतमानाम्॥११४॥

गाण्डीवघोषस्स्तनयित्नुकल्पो
जगाम पार्थस्य नभो दिशश्च।
जग्मुश्च बाणा विमलाः प्रसन्नास्
सर्वा दिशः पाण्डवचापमुक्ताः॥११५॥

तं कौरवाणामधिपो जवेन
भीष्मेण भूरिश्रवसा च सार्धम्।

अभ्युद्ययावुद्यतबाणपाणिः
कक्षं दिधक्षन्निव धूमकेतुः॥११६॥

अथार्जुनाय प्रजहार भल्लान्
भूरिश्रवास्सप्त सुवर्णपुङ्खान्।
दुर्योधनस्तोमरमुग्रधन्वा271
शल्यो गदां शान्तनवश्च शक्तिम्॥११७॥

स सप्तभिस्सप्त शरप्रवेकान्
संवार्य भूरिश्रवसा प्रसृष्टान्।
शितेन दुर्योधनबाहुमुक्तं
क्षुरेण तत्तोमरमुन्ममाथ॥११८॥

ततश्शुभामापततीं स शक्तिं
विद्युत्प्रभां शान्तनवेन मुक्ताम्।
गदां च मद्राधिपवेगमुक्तां
द्वाभ्यां शराभ्यां निचकर्त वीरः॥११९॥

ततो भुजाभ्यां बलवद्विकृष्य
चित्रं धनुर्गाण्डिवमप्रमेयम्।
माहेन्द्रमस्त्रं विधिवत् सुघोरं
प्रादुश्चकाराद्भुतमन्तरिक्षे॥१२०॥

तेनोत्तमास्त्रेण ततो महात्मा
सर्वाण्यनीकानि महाधनुष्मान्।
शरौघजालैर्विमलाग्निवर्णैर्
निवारयामास किरीटमाली॥१२१॥

भीष्मं शरैस्सम्परिवार्य सङ्ख्ये
चिच्छेद भूरिश्रवसश्च चापम्।
शल्यञ्च विद्ध्वा नवभिः पृषत्कैर्
दुर्योधनं वक्षसि निर्बिभेद॥१२२॥

शिलीमुखाः पार्थधनुःप्रमुक्ता
रथान् ध्वजान् बाणधनूंषि बाहून्।
निकृत्य देहान् विविशुः परेषां
नरेन्द्रनागेन्द्रतुरङ्गमाणाम्॥१२३॥

ततो दिशश्चाऽनुदिशश्च पार्थश्
शरैस्सुधारैर्निशितैर्वितत्य।
गाण्डीवशब्देन मनांसि तेषां
किरीटमाली व्यथया चकार॥१२४॥

तस्मिंस्तथा घोरतमे प्रवृत्ते
शङ्खस्वना दुन्दुभिनिस्स्वनाश्च।

ससिंहनादाश्च बभूवुरुर्व्यां
सर्वेष्वनीकेषु तथा कुरूणाम्॥१२५॥

अन्तर्हिता गाण्डिवनिस्स्वनेन
बभूवुरुग्राश्च रणप्रणादाः॥१२६॥

गाण्डीवशब्दं तमथो विदित्वा
विराटराजप्रमुखा नरेन्द्राः।
पाञ्चालराजो द्रुपदश्च वीरस्
तं देशमाजग्मुरदीनसत्त्वाः॥१२७॥

सर्वाणि सैन्यानि च तावकानि
यतो यतो गाण्डिवजः प्रणादः।
ततस्ततस्सन्नतिमेव चक्रुः
पुनः पुनर्धार्तराष्ट्रास्समग्राः॥१२८॥

न तं प्रतीतोऽभिससार कश्चित्
तस्मिन् सुघोरे नृप सम्प्रहारे॥१२८॥

हताः प्रवीरास्सरथास्ससूता
हयाश्वनागाश्च निघाततप्ताः॥

महापताकाश्शुभरुक्मकक्ष्याः
परीतसत्वास्सहसा निपेतुः॥१२९॥

किरीटिना भिन्नतनुत्रकायाः
दृढं हताः पत्रिभिरुग्रवेगैः।
पार्थेन भल्लैर्विमलैशितायैः
निकृत्तयन्त्रा निहतेन्द्रजालाः॥१३०॥

ध्वजा महान्तो ध्वजिनीपतीनाम्
पदातिसङ्घाश्च रथाश्च सङ्ख्ये।
हयाश्च नागाश्च धनञ्जयेन
बाणाहताःपेतुरदीनसत्त्वाः॥१३१॥

ऐन्द्रेण तेनास्त्रवरेण राजन्
प्रकीर्णविच्छिन्नशिरोरुकायाः॥१३२॥

ततश्शरौघैर्निशितैः किरीटी
प्रवर्तयामास नदीं सुघोराम्।
नृनागवाजिक्षतलोहितोदां
नरान्त्रमज्जा272 स्थितकमांसफेनाम्॥१३३॥

प्रभूतरक्षोगणभूतजुष्टां
शिरःकपालाकुलशङ्खजुष्टाम्।
गजाश्ववालाकुलकेशशाद्वलां
प्रपातिताश्वेभशरीरकच्छपाम्॥१३४॥

नराश्वशीर्षादिसहस्रमण्डुकां
गजाश्वशीर्षाकुलचारुमत्स्याम्।
पादोरुचार्वञ्चितसर्पजुष्टां
सझिल्लिकाचामरचारुफेनिलाम्॥१३५॥

प्रकीर्णनानाकवचाख्यकर्कटां
शरीरसङ्घाटसहस्रवाहिनीम्।
नरास्थिनागाश्वनिकृत्तशर्करां
विनाशिनीं भीरुभयावहां सदा॥१३६॥

श्वकङ्कसालावृकगृध्रसङ्कलां
तरक्षुभिर्भूतगणैः प्रजुष्टाम्।
क्रूरां महावैतरणीप्रकाशां
व्यपेतकूलां ददृशुर्मनुष्याः॥१३७॥

प्रवर्तितां चार्जुनबाणसङ्खैर्
मेदोवसासृक्प्रवहां सुभीमाम्।
ते चेदिपाञ्चालकरूशमात्स्याः
पार्थाश्च सर्वे सहिताः प्रतेरुः॥१३८॥

इतप्रवीराणि बलानि दृष्ट्वा
किरीटिना शत्रुभयावहेन।

वित्रस्यमाना ध्वजिनी परेषां
आसीन्मृगी273 सिंहभयातुरेव॥१३९॥

हतद्रुतां तव पुत्रसेनां
दृष्ट्वा तदा भारतवृष्णिसिंहौ।
विनेदतुस्तावतिहृष्यमाणौ
गाण्डीवधन्वा च जनार्दनश्च॥१४०॥

ततो रविं संहृतरश्मिजालं
दृष्ट्वा भृशं शस्त्रपरिक्षताङ्गाः।
तमैन्द्रमस्त्रं विततं सुघोरम्
असह्यमुद्वीक्ष्य युगान्तकल्पम्॥१४१॥

अथापहारं कुरवस्सभीष्मास्
सद्रोणदुर्योधनबाह्लिकाश्च।
चक्रुर्निशां सन्धिगतां समीक्ष्य
विभावसोर्लोहितरागयुक्ताम्॥१४२॥

अवाप्य कीर्ति च यशश्च लोके
विमृद्य शत्रूंश्च धनञ्जयोऽपि।
ययौ नरेन्द्रैस्सह सोदरैश्च
समाप्तकर्मा शिबिरं निशायाम्॥१४३॥

ततः प्रजज्ञे तुमुलः कुरूणां
निशामुखे घोरतरः प्रणादः॥१४३॥

कौरवसैनिकाः—

रणे रथानामयुतं निहत्य
तथा274 गजानामयुतानि सप्त।
प्राच्याश्च सौवीरगणाश्च सर्वे
निपातिताः क्षुद्रकमालवाश्च॥१४४॥

महत् कृतं कर्म धनञ्जयेन
कर्तुं यथा नार्हति कश्चिदन्यः।
श्रुतायुरम्बष्ठपतिश्च राजा
तथा च दुर्मर्षणचित्रसेनौ॥१४५॥

द्रोणः कृपस्सैन्धवबाह्लिकौच
भूरिश्रवाश्शल्यशलौ च राजन्।
स्वबाहुवीर्येण जितास्सभीष्माः
किरीटिना लोकमहारथेन॥१४६॥

सञ्जयः—

इति ब्रुवन्तश्शिबिराणि जग्मुस्
सर्वे गणा भारत ये त्वदीयाः॥

उल्कासहस्रैश्च सुसम्प्रदीप्तैर्
विभ्राजमानैश्च तथा प्रदीपः।
किरीटिवित्रासितसर्वयोधा
जग्मुर्निवेशं ध्वजिनी कुरूणाम्॥१४८॥

इति श्रीमहाभारते शतसहस्रिकायांसंहितायां वैयासिक्यां
भीष्मपर्वणि चतुःपञ्चाशोऽध्यायः॥५४॥
॥६४॥भीष्मवधपर्वणि चतुर्दशोऽध्यायः॥१४॥
[ तृतीयापहारस्समाप्तः ]
[ अस्मिन्नध्याये १४८ श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1706195913मम.png"/>

॥पञ्चपञ्चाशोऽध्यायः॥
<MISSING_FIG href="../books_images/U-IMG-1706195902NNNN.png"/>

भीष्मार्जुनयुद्धवर्णनम्॥

<MISSING_FIG href="../books_images/U-IMG-1706195889मम.png"/>

सञ्जयः—

व्युष्टां निशां भारत भारतानाम्
अनीकिनीनां प्रमुखे महात्मा।
ययौ सपत्नान् प्रति जातकोपो
घृतस्समग्रेण बलेन भीष्मः॥१॥

तं द्रोणदुर्योधनबाह्लिकाश्च
तथैव दुर्मर्षणचित्रसेनौ।
जयद्रथञ्चातिबलो बलौघैर्
नृपास्तथाऽन्येऽभिययुस्समस्ताः॥२॥

स तैर्महद्भिश्च महारयैश्च
तेजस्विभिर्वीर्यवद्भिश्च राजन्।
रराज राजा तु स राजमध्ये
मध्ये सुराणामिव देवराजः॥३॥

तस्मिन्ननीकप्रमुख विषक्ता
दोधूयमाना वितताः पताकाः।
सुरक्तपीतासितपाण्डुराभा
महागजस्कन्धगता विरेजुः॥४॥

सा वाहिनी शान्तनवेन गुप्ता
महारथैर्वारणवाजिभिश्च।
बभौ सविद्युत्स्तनयित्रुघोषा
जलागमे द्यौरिव जातमेघा॥५॥

ततो रणायाभिमुखी प्रयाता
प्रत्यर्जुनं शान्तनवाभिगुप्ता।
ससार सेना सहसा कुरूणां
वेगो यथा भीम इवापगायाः॥६॥

तं275 व्यूढनानाद्विपगूढसारं
वराश्वपादातरथौघयुक्तम्।

व्यूहं महामेघनिभं महात्मा
ददर्श दूरात् कपिराजकेतुः॥७॥

स निर्ययौ केतुमता रथेन
नरर्षभश्श्वेतहयेन काले।
जये276 धृतश्शत्रुवरूथिनीनां
यथा सुरेन्द्रोऽसुरवाहिनीनाम्॥८॥

नारायणेनेन्द्र इवाभिगुप्तश्
शशीव सूर्येण समेयिवान् यथा।
तथा महात्मा सह केशवेन
वरूथिनीनां प्रमुखे रराज॥९॥

सोपस्करं सोत्तरबन्धुरेषं
यत्तं यदूनामृषभेण सङ्ख्ये।
कपिध्वजं प्रेक्ष्य रथं विषेदुस्
सदैव पुत्रैस्तव कौरवेयाः॥१०॥

प्रकल्पितं गुप्तमुदायुधेन
किरीटिना श्वेतहयेन तेन।
महानुभावेन277 महारथेन
कृतं तदा व्यूहमचिन्त्यरूपम्॥११॥

ततस्तु राजन् ददृशुस्त्वदीयाश्
चतुश्चतुर्व्यालसहस्रकीर्णम्॥११॥

यथैव पूर्वेऽहनि धर्मराज्ञा
व्यूहः कृतः कौरवसत्तमेन।
यथा न भूतो भुवि मानुषेषु
न दृष्टपूर्वो न च संश्रुतो नः॥१२॥

ततो महावेगसमाहतानि
भेरीसहस्राणि विनेदुराजौ।
शङ्खस्वनास्तूर्यरवाः प्रणेदुस्
सर्वेष्वनीकेषु ससिंहनादाः॥१३॥

ततस्सबाणानि महान्ति तानि
विष्फार्यमाणानि धनूंषि वीरैः।
क्षणेन भेरीपणवप्रणादान्
अन्तर्दधुश्शङ्खमहास्वनांश्च॥१४॥

तच्छङ्खशब्दाहतमन्तरिक्षम्
उद्धूतभौमद्रुतरेणुजालम्॥
महानुभावाश्च ततः प्रकाशम्
आलोक्य वीरास्सहसाऽभिपेतुः॥१५॥

रथी रथेनाभिहतस्ससूतः
पपात साश्वस्सरथस्सकेतुः।

गजो गजेनाभिहतः पपात
पदातिना चाभिहतः पदातिः॥१६॥

आवर्तमानान्यभिवर्तमानैर्278
घोराण्यनीकानि279 सुदर्शनानि।
प्रासैश्च खङ्गैश्च समाहतानि
सदश्वबृन्दानि सदश्वबृन्दैः॥१७॥

सुवर्णतारागणभूषितानि280
सूर्यप्रभाभानि शरावराणि।
विदार्यमाणानि परश्वथैश्च
प्रासैश्च खङ्गैश्च निपेतुरुर्व्याम्॥१८॥

गजैर्विषाणापरगात्ररुग्णाः
केचित् ससूता रथिनः प्रपेतुः।
गजर्षभाश्चापि गजर्षभेण
निपातिता बाणहताः पृथिव्याम्॥१९॥

गजौघवेगोद्धतसादितानां
श्रुत्वा निपेतुस्सहसा मनुष्याः॥
आर्तस्वरं सादिपदातियूनां
विषाणगात्रापरतापितानाम्॥२०॥

सम्भ्रान्तनागाश्वरथे मुहूर्ते
महाक्षये सादिपदातियूनाम्।
महारथैस्सम्परिवार्यमाणं
संदृश्य दूरात् कपिराजकेतुम्॥२१॥

तं281 पश्चतालोच्छ्रिततालकेतुस्
सदश्ववेगाद्भुतवेगपातः।
महास्त्रबाणाशनिदीप्तिमन्तं
किरीटिनं शान्तनवोऽभ्यधावत्॥२२॥

तं कार्तवीर्यप्रतिमानकल्पम्
इन्द्रोपमं द्रोणमुखा भिसञ्जुः॥
कृपस्तदा शल्यविविंशती च
दुर्योधनस्सोमदत्तश्च राजन्॥२३॥

ततो रथानीकमुखानुपेत्य
सर्वास्रवित् काञ्चनचित्रवर्मा।
जवेन शूरोऽभिससार सर्वास्
तानर्जुनस्यात्मभवोऽभिमन्युः॥२४॥

तेषां महास्त्राणि महारथानाम्
282 भीमकर्मा विनिहत्य कार्ष्णिः।
बभौ तदा मन्त्रहुतश्शिखीव
सदोगतस्सन् भगवानिवाग्निः॥२५॥

ततस्स तूर्णं रुधिरोदफेनां
कृत्वा नदीं वैशसने कुरूणाम्।
जगाम सौभद्रमतीत्य भीष्मो
महारथं पार्थमदीनसत्त्वम्॥२६॥

283तः प्रहस्याद्भुतविक्रमेण
गाण्डीवमुक्तेन शिलाशितेन॥
विपाठजालेन महास्त्रजालं
निशातयामास किरीटमाली॥२७॥

तमुत्तमं सर्वधनुर्धराणाम्
असक्तकर्मा कपिराजकेतुः।
भीष्मं महात्माऽभिववर्ष तूर्णं
शरौघजालैर्विमलैश्च भल्लैः॥२८॥

एवं284विधं कार्मुकभीमनादम्
अदीनवत् सत्पुरुषोत्तमाभ्याम्।
ददर्श लोकः कुरुसृञ्जयाश्च
तद् द्वैरथं भीष्मधनञ्जयाभ्याम्॥२९॥

इतिश्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि पञ्चपञ्चाशोऽध्यायः॥५५॥
॥६४॥ भीष्मवधपर्वणि पञ्चदशोऽध्यायः॥१५॥
[ अस्मिन्नध्याये २९॥ श्लोकाः ]
————

॥षट्पञ्चाशोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1706197851नन.png"/>

धृष्टद्युम्नेन शलपुत्रवधः॥

<MISSING_FIG href="../books_images/U-IMG-1706197884मम.png"/>

सञ्जयः—

द्रौणिर्भूरिश्रवाश्शल्यश् चित्रसेनश्च मारिष।
पुत्रस्सांयमनेश्चैव सौभद्रं समयोधयन्॥१॥

संसक्तमतितेजोभिस् तमेकं ददृशुर्जनाः।
पञ्चभिर्मनुजव्याघ्रैर् गजैस्सिंहशिशुं यथा॥२॥

नातिलक्ष्यतया कश्चिन्न शौर्ये न पराक्रमे।
बभूव सदृशः काष्णैर् नास्त्रे नापि च लाघवे॥३॥

तथा तमात्मजं युद्धे विक्रमन्तमरिन्दमम्।
दृष्ट्वा पार्थस्सुसम्पन्नं सिंहनाद ननाद ह॥४॥

पीडयानं139 च तत् सैन्यं पौत्रंतव विशां पते।
ददर्श राजन् पाश्चाल्यस् सेनापतिररिन्दमः॥५॥

स च तां धार्तराष्ट्राणां ध्वजिनीं परवीरहा।
अत्यरोचत सौभद्रस् तेजसा च बलेन च॥६॥

तस्य लाघवमार्गस्थम् आदित्यसदृशप्रभम्।
व्यदृश्यत महच्चापं समरे युध्यतः परैः॥७॥

द्रौणिमेकेषुणा विद्ध्वाशल्यं विव्याध पञ्चभिः।
ध्वजं सांयमनेश्चैव सोऽष्टाभिश्चिच्छिदे ततः॥८॥

रुक्मदण्डां285 महाशक्तिं प्रेषितां सौमदत्तिना।
शितेनोरगसङ्काशां पत्रिणाऽभिजघान ताम्॥९॥

शलस्य तु महावेगान् अस्यतस्समरे शरान्।
धनुश्चिच्छेद247 भल्लेन तीव्रवेगेन फाल्गुनिः॥१०॥

जघानार्जुनदायादश् चतुर्भिश्चतुरो हयान्॥१०॥

भूरिश्रवाश्च286 शल्यश्च द्रौणिस्सांयमनिश्शलः।
नात्यवर्तन्त संरब्धाः कार्ष्णेर्बाहुबलोदयात्॥११॥

ततस्त्रिगर्ता राजेन्द्र सहितास्तत्र केकयैः।
पञ्चत्रिंशत्सहस्राणि पुत्रेण तव चोदिताः॥१२॥

धनुर्वेदविदां287 श्रेष्ठा ह्यजेया अरिभिर्युधि।
सहपुत्रं जिघांसन्तः परिवव्रुःकिरीटिनम्॥१३॥

तौ तु तत्रपितापुत्रौ परिक्षिप्तौ महारथौ।
ददर्श राजन् पाञ्चाल्यस् सेनापतिरमित्रजित्॥१४॥

पारावताश्चंरथम् आस्थाय परवीरहा।
धनुर्विष्फार्यसङ्क्रुद्धश् चोदयित्वा च वाहिनीम्॥१५॥

ययौ स मद्रकानीकं केकयांश्च परंप॥१६॥

तेन कीर्तिमता गुप्तम् अनीकं दृढधन्वना।
संरब्धरथनागाश्वं योत्स्यमानमशोभत॥१७॥

सोऽर्जुनप्रमुखे288 यात्वा पाञ्चाल्यः कुरुनन्दन।
त्रिभिश्शारद्वतं बाणैर् भुजदेशे समर्पयत्॥१८॥

ततस्स मद्रराजानं विव्याध दशभिश्शरैः।
हृष्ट229 एकं जघानाश्वं भल्लेन कृतवर्मणः॥१९॥

दमनं चापि दायादं पौरवस्य महात्मनः।
जघान विमलाग्रेण नाराचेन परंतपः॥२०॥

ततस्सांयमनेः पुत्रः पाञ्चाल्यं युद्धदुर्मदम्।
अविध्यत्289 त्रिंशता बाणैर् दशभिश्चास्य सारथिम्॥ २१॥

सोऽतिविद्धो महेष्वासस् सृक्विणी परिसंलिहन्।
भल्लेन भृशतीक्ष्णेन निचकर्तास्य कार्मुकम्॥२२॥

अथैनं पञ्चविंशत्या क्षिप्रमेव समपर्यत्।
अथाश्वांश्चावधीद्राजन् रथरक्षौ290 च सारथिम्॥२३॥

स हताश्वे रथे तिष्ठन् ददर्श भरतर्षभ।
पुत्रःसांयमनेः पुत्रं पाञ्चाल्यं च यशस्विनम्॥२४॥

स प्रगृह्य महाघोरं निस्त्रिशिं वरमायुधम्।
पदातिस्तूर्णमभ्यागाद् रथस्थं पुरुषर्षभम्॥२५॥

तं महौघमिवायान्तं स्वेपतन्तमिवोरगम्।
भ्रान्तावरणनिस्त्रिंशं कालसृष्टमिवान्तकम्॥२६॥

दीप्यमानं यथा वह्नि मत्तवारणवारणम्।
पश्यतां पाण्डुपुत्राणां प्रवेगस्समपद्यत॥२७॥

तस्य पाश्चालपुत्रस्तु प्रतीपमभिधावतः।
पीतनिस्त्रिशहस्तस्य शरावरणधारिणः॥२८॥

बाणवेगमतीतस्य रथाभ्याशमुपेयुषः।
त्वरन् सेनापतिः क्रुद्धो बिभेद गदया शिरः॥२९॥

निस्त्रिंशस्तस्य229 राजेन्द्र सम्प्रभग्नशरावरः।
हतस्य पततो हस्ताद् वेगेन न्यपतद्भुवि॥३०॥

तं निहत्य गदाग्रेण लेभे परमकं यशः।
पुत्रःपाश्चालराजस्य इन्द्रो बलमिवेश्वरः॥३१॥

तस्मिन् हते महेष्वासे शल्यपुत्रे महारथे।
हाहाकारो महानासीत् तव सैन्यस्य मारिष॥३२॥

ततस्सांयमनिःक्रुद्धो दृष्ट्वा निहतमात्मजम्।
अभिदुद्राव वेगेन पाञ्चाल्यं युद्धदुर्मदम्॥३३॥

तौतत्र समरे वीरौ समेतौ रथिनां वरौ।
ददृशुस्सर्वराजानः कुरवः पाण्डवास्तथा॥३४॥

ततस्सांयमनिः क्रुद्धः पार्षतं परवीरहा।
आजघान त्रिभिर्बाणैस् तोत्रैरिव महाद्विपम्॥३५॥

तथैव पार्षतो वीरश् शल्यं समितिशोभनम्।
आजघान291 शरैः क्रुद्धस् ततो युद्धमवर्तत॥३६॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि षट्पञ्चाशोऽध्यायः॥५६॥
॥६४॥ भीष्मवधपर्वणि षोडशोऽध्यायः॥१६॥
[ अस्मिन्नध्याये ३६॥ श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1706199492मम.png"/>

॥सप्तपञ्चाशोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1706199561NNNN.png"/>

भीमसेनादियुद्धवर्णनम्॥

<MISSING_FIG href="../books_images/U-IMG-1706199584मम.png"/>

धृतराष्ट्रः—

दैवमेव परं मन्ये पौरुषादपि सञ्जय।
यत् सैन्यं मम पुत्रस्य पाण्डुपुत्रेण वध्यते॥१॥

नित्यं हि मामकांस्तात हतानेव स्म शंससि।
उदग्रांश्च प्रहृष्टांश्च नित्यं शंससि पाण्डवान्॥२॥

विभग्रांश्च प्रनष्टांश्च नित्यं शंससि मामकान्।
हीनान् पुरुषकारेण निरुत्साहांश्च सञ्जय॥३॥

युध्यमानान् यथाशक्ति घटमानाञ्जयं प्रति।
मामकांश्च रणे तात निहतानेव शंससि॥४॥

पाण्डवा विजयन्त्येव हीयन्ते चैव मामकाः॥४॥

सोऽहं तीव्राणि दुःखानि दुर्योधनकृतानि च।
समश्रौषमहं तात दुस्सहानि बहूनि च॥५॥

उपायं तु न पश्यामि येन जेया हि पाण्डवाः।
मामका वा जयं युद्धे प्राप्नुयुर्येन सञ्जय॥६॥

सञ्जयः—

गजवाजिमनुष्याणां तथैव रथिनां क्षयम्।

शृणु राजन स्थिरो भूत्वा तवैवापनयं महत्॥७॥

धृष्टद्युम्नस्तु शल्येन पीडितो निशितैश्शरैः।
पीडयामास सङ्क्रुद्धो मद्राधिपतिमायसैः॥८॥

तत्राद्भुततरं चक्रे पार्षतः परवीरहा।
न्यवारयत यत् संख्ये शल्यं समितिशोभनम्॥९॥

नान्तरं ददृशे कश्चित् तयोः पुरुषसिंहयोः।
मुहूर्तमिव तद्युद्धं तयोस्समभवत् तदा॥१०॥

ततश्शल्यो महाराज धृष्टद्युम्नस्य संयुगे।
धनुश्चिच्छेद भल्लेन पीतेन निशितेन च॥११॥

अथैनं शरवर्षेण च्छादयामास भारत।
गिरिं जलागमे यद्वद् धाराभिर्जलदो यथा॥१२॥

अभिमन्युस्ततः क्रुद्धो धृष्टद्युम्ने निपीडिते।
अभिदुद्राव वेगेन मद्रराजरथं प्रति॥१३॥

ततो मद्राधिपरथं कार्ष्णिःप्राप्यातिकोपनः।
आर्तायनिममेयात्मा विव्याध निशितैश्शरैः॥१४॥

ततस्तु तावका राजन् परीप्सन्तोऽर्जुनिं रणे।
मद्रराजरथं तूर्णं परिवार्योपतस्थिरे॥१५॥

दुर्योधनो दुर्विषहो दुर्मुखो दुस्सहस्तथा।
दुर्मर्षणश्च राजेन्द्र चित्रसेनो विविंशतिः॥१६॥

सत्यव्रतः पुरुमित्रो विकर्णश्च महारथः।
एते मद्राधिपरथं पालयन्तस्स्थिता रणे॥१७॥

भीमसेनस्ततः क्रुद्धो धृष्टद्युम्नश्च पार्षतः।
द्रौपदेयाश्चाभिमन्युर् माद्रीपुत्रौ च पाण्डवौ॥१८॥

नानारूपाणि शस्त्राणि विसृजन्तो विशां पते।
अभ्यवर्तन्त संहृष्टाः परस्परवधैषिणः॥१९॥

ततस्समाययुर्वीरा राजन् दुर्मन्त्रिते तव॥२०॥

तस्मिन् दाशरथे युद्धे वर्तमाने भयावहे।
तावकानां परेषां च प्रेक्षका रथिनोऽभवन्॥२१॥

अस्त्राण्यनेकरूपाणि292 विसृजन्तो महारथाः।
अन्योन्यमभिगर्जन्तस् सम्प्रहारं प्रचक्रिरे॥२२॥

ते तदा जातसंरम्भास् सर्वेऽन्योन्यं जिघांसवः।
महाशस्त्राणि मुञ्चन्तस् समापेतुरमर्षिणः॥२३॥

दुर्योधनस्तु सङ्क्रुद्धो धृष्टद्युम्नममर्षणम्।
विव्याध निशितैर्बाणैश् चतुर्भिस्समरे द्रुतम्॥२४॥

दुर्मर्षणश्च विंशत्या चित्रसेनश्च सप्तभिः।
दुर्मुखो नवभिर्बाणैर्293 दुस्सहश्चापि सप्तभिः॥२५॥

विविंशतिस्स्त्रिभी राजन् विकर्णः पञ्चभिश्शरैः।
तान् प्रत्यविध्यद्राजेन्द्र पार्षतश्शत्रुतापनः॥२६॥

एकैकं पञ्चविंशत्या दर्शयन् पाणिलाघवम्।
सत्यव्रतं च समरे पुरुमित्रंच भारत॥२७॥

अभिमन्युरविध्यत् तान् तावकान् नृपतीन् नृप।
प्रत्येकं समरे वीरान् दशभिर्दशभिश्शरैः॥२८॥

माद्रीपुत्रौ तु समरे मातुलं प्रीतिवर्धनौ।
छादयेतां शरैर्घोरैस् तदद्भुतमिवाभवत्॥२९॥

ततश्शल्यो महाराज स्वस्रीयौयुद्धदुर्मदौ।
शरैर्बहुभिरानर्च्छत् कृतप्रतिकृतैषिणौ॥३०॥

माद्रीपुत्रौ141 पुनः क्रुद्धौ शल्यं विव्यधतुश्शरैः॥३०॥

वार्यमाणश्शरैर्घोररै्मद्रराजो न विव्यथे॥३१॥

ततो दुर्योधनं दृष्ट्वा भीमसेनो महाबलः।
दिदृक्षुः कलहस्यान्तं गदां जग्राह पाण्डवः॥३२॥

तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम्।
भीमसेनं महाबाहुंपुत्रास्ते प्राद्रवन् भयात्॥३३॥

दुर्योधनस्ततः क्रुद्धो मागधं समचोदयत्।
अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम्॥३४॥

मागध

स्तं294

स्थानीकैर् भीमसेनं समभ्ययात्॥३४॥

आपतन्तं गजानीकं दृष्ट्वा पार्थो वृकोदरः।
गदापाणिरवारोहद्248 रथात् सिंह इवोन्नदन्॥३५॥

अश्मसारमयीं गुर्वी प्रगृह्य महतीं गदाम्।
अभ्यधावद्गजानीकं व्यादितास्य इवान्तकः॥३६॥

स गजान् गदया निघ्नन् व्यचरत् समरे बली।
भीमसेनो गदापाणिर् वृत्रहा दानवेष्विव॥३७॥

तस्य नादेन महता मनोहृदयकम्पिना।
प्रावेपन्त च सम्भीता गजा भीमस्य नर्दतः॥३८॥

ततस्तु द्रौपदीपुत्रास् सौभद्रश्च महारथः।
नकुलस्सहदेवश्च धृष्टद्युम्नश्च पार्षतः॥३९॥

पृष्ठं भीमस्य रक्षन्तश् शरवर्षेण वारणान्।
अभ्यधावन्त वर्षन्तो मेघा इव गिरीन् यथा॥४०॥

नाकुलिस्तु शतानीकश् समरे शत्रुपूगहा।
शरैः क्षुरप्रैर्भल्लैश्च वत्सदन्तैर्वरासिभिः॥४१॥

न्यहनच्चोत्तमाङ्गानि पाण्डवो गजयोधिनाम्॥४२॥

शिरोभिः254 प्रपतद्भिश्च बाहुभिश्च विभूषितैः।

अश्मवृष्टिरिवाभाति229 पाणिभिश्च सहाङ्कुशैः॥४३॥

हृतोत्तमाङ्गास्स्कन्धेषु गजानां गजयोधिनः।
अदृश्यन्ताचलाग्रेषु द्रुमा भग्नशिपा इव॥४४॥

मागधोऽथ महीपालो गजमैरावतोपमम्।
प्रेषयामास समरे सौभद्रस्य रथंप्रति॥४५॥

तमापतन्तं सम्प्रेक्ष्य मागधस्य महागजम्।
जघानैकेषुणा वीरस्सौभद्रः परवीरहा॥४६॥

तस्यावर्जितनागस्य कार्ष्णिःपरपुरञ्जयः।
राज्ञो राजतपुङ्खेन भल्लेनापाहरच्छिरः॥४७॥

धृष्टद्युम्नहतानन्यान् विमुखान् समरे गजान्।
पततः पतितांश्चान्यान् पार्षतेन महात्मना॥४८॥

विगाह्य तं गजानीकं भीमसेनोऽपि मारिष।
व्यचरत् समरे मृद्गन् गजानिन्द्रो गिरीनिव॥४९॥

एकप्रहारनिहतान् भीमसेनेन दन्तिनः।
अपश्याम रणे तस्मिन् गिरीन् वज्रहतानिव॥५०॥

भग्नदन्तान् भग्नकरान् भग्नसक्थींश्च वारणान्।
भग्नपृष्ठत्रिकानन्यान् निहतान् सह सादिभिः॥५१॥

द्रवतस्सीदतश्चान्यान् विमुखान् समरे गजान्।

भीमसेनस्य229 मार्गेषु पतितान् पर्वतोपमान्॥५२॥

अपश्याम हतान् राजन् गजान् निष्टनतोऽपरान्॥५२॥

वमन्तो रुधिरं चान्ये भिन्नकुम्भा महागजाः।
विह्वलन्तो गता भूमिं शैला इव धरातले॥५३॥

मेदोरुधिरदिग्धाङ्गो वसामेदस्समुक्षितः।
व्यचरत् समरे वीरो दण्डपाणिरिवान्तकः॥५४॥

गजानां रुधिराक्रान्तां गदां बिभ्रद्वृकोदरः।
घोरः प्रतिभयश्चासीत् पिनाकीव पिनाकभृत्॥५५॥

निर्मथ्यमानाः क्रुद्धेन भीमसेनेन दन्तिनः।
सहसा प्राद्रवन् भीता मृदित्वा तव वाहिनीम्॥५६॥

तं हि वीरा महेष्वासास् सौभद्रप्रमुखा नृपाः।
पर्यरक्षन्त सङ्क्रुद्धा वज्रायुधमिवामराः॥५७॥

शोणिताक्तां गदां बिभ्रद् उक्षितो गजशोणितैः।
कृतान्त इव रौद्रात्मा भीमसेनो व्यदृश्यत॥५८॥

व्यायच्छमानं गदया दिक्षु सर्वासु भारत।
अपश्याम रणे भीमं नृत्यन्तमिव शङ्करम्॥५९॥

यमदण्डोपमां गुर्वीम् इन्द्राशनिसमस्वनाम्।
अपश्याम गदां राजन् रौद्रां परमदारुणाम्॥६०॥

केशमज्जासृगभ्यक्तो रौद्रं बिभ्रत्तदा वपुः।
मारुतिर्भीमसेनस्तु295 व्यनिघ्नत्तव वाहिनीम्॥६१॥

यथा पशूनां सङ्घातं यष्ट्या पालः प्रकालयत्।
तथा296 भीमो गजानीकं गदया समकालयत्॥६२॥

गदया वध्यमानास्ते मार्गणैश्च समन्ततः।
स्वान्यनीकानि मृद्गन्तः प्राद्रवन् कुञ्जरास्तव॥६३॥

महावात इवाभ्राणि विधमित्वा स वारणान्।
अतिष्ठत् तुमुले भीमस् श्मशान इव शूलधृक्॥६४॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि सप्तपञ्चाशोऽध्यायः॥५७॥
॥६४॥ भीष्मवधपर्वणि सप्तदशोऽध्यायः॥१७॥
[ अस्मिन्नध्याये ६४॥ श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1706201226मम.png"/>

॥अष्टपञ्चाशोऽध्यायः॥
<MISSING_FIG href="../books_images/U-IMG-1706201245नन.png"/>

सात्यकिभूरिश्रवसोस्समागमः॥

<MISSING_FIG href="../books_images/U-IMG-1706201259मम.png"/>

सञ्जयः—

तस्मिन् हते गजानीके पुत्रो दुर्योधनस्तव।
भीमसेनवधायैव सर्वसैन्यमचूचुदत्॥१॥

ततस्सर्वाण्यनीकानि तव पुत्रस्य शासनात्।

अभ्यधावन् भीमसेनं नदन्तं सिंहवद्रणे॥२॥

तं वलौघमपर्यन्तं देवैरपि दुरासदम्।
आपतन्तं सुदुष्पारं समुद्रमिव पर्वणि॥३॥

रथनागाश्वकलिलं शङ्खदुन्दुभिनादितम्।
अनन्तरथपादातं रजसा सर्वतो वृतम्॥४॥

भीमसेनो महाराज नृपोदधिमिवापरम्।
सेनासागरमक्षोभ्यं वेलेव समवारयत्॥५॥

तदाश्चर्यमपश्याम पाण्डवस्य महात्मनः।
भीमसेनस्य समरे कर्मामानुषकर्मणः॥६॥

266दीर्णां पृतनां सर्वां साश्वान् सरथकुञ्जरान्।
असम्भ्रमं भीमसेनो गदया समपोथयत्॥७॥

261 संवार्य बलौधांस्तान् गदया बलिनां वरः।
अतिष्ठत् समरे भीमो गिरिर्मेरुरिवाचलः॥८॥

तस्मिंस्तु तुमुले घोरे काले परमदारुणे।
भ्रातृभिस्सह पुत्रैश्च धृष्टद्युम्नो महाबलः॥९॥

द्रौपदेयाश्चाभिमन्युश् शिखण्डी चापराजितः।
न प्राजहन् भीमसेनं भये जाते महाबलम्॥१०॥

ततश्शैक्यायसीं गुर्वीं प्रगृह्य महतीं गदाम्।

अवधीत् तावकान् योधान् दण्डपाणिरिवान्तकः॥११॥

पोथयन् रथबृन्दानि वाजिबृन्दानि चाभिभूः।
व्यचरत् समरे भीमो युगान्ते पावको यथा॥१२॥

ऊरुवेगेन सङ्कर्षन् रथजालानि पाण्डवः।
विनिघ्नन् व्यचरत् संख्ये युगान्ते कालवद्विभुः॥१३॥

बलानि च ममर्दाशु नलिनानीव कुञ्जरः॥१३॥

रथेभ्यो रथिनश्चापि गजेभ्यो गजयोधिनः।
सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातिनः॥१४॥

पातयामास141 राजेन्द्र युद्धभूम्यां महाबलः॥१५॥

तत्र तत्र हतैश्चापि मनुष्यगजवाजिभिः।
विबभौ229 कर्म तद्रौद्रं रुद्रस्येव युगक्षये॥१६॥

यमदण्डोपमामुग्राम्297 इन्द्राशनिसमस्वनाम्।
ददृशुर्भीमसेनस्य रौद्रीं विशसनीं गदाम्॥१७॥

आविध्यतो गढ़ां तस्य कौन्तेयस्य महात्मनः।
गदा मारुतबेगाऽभूद्विष्फूर्जितमिवाशनेः॥१८॥

तं298 तथा महतीं सेनां त्रासयानं पुनःपुनः।
दृष्ट्वा मृत्युमिवायान्तं सर्वेषां विस्मयोऽभवत्॥१९॥

यतो यतस्समुद्युक्तो गदामुद्यम्य पाण्डवः।
ततस्ततो व्यदीर्यन्त सर्वसैन्यानि भारत॥२०॥

विदारयन्तं सैन्यानि बलेनामितविक्रमम्।
व्यादितास्यमनीकानि ग्रसमानमिवान्तकम्॥२१॥

समरे भीमकर्माणं प्रगृहीतमहागदम्।
दृष्ट्वा वृकोदरं भीष्मस् तत एनं समभ्ययात्॥२२॥

छादयञ् शरवर्षेण पर्जन्य इव वृष्टिमान्।
भीमसेनं रणे भीष्मो व्यात्ताननमिवान्तकम्॥२३॥

महता मेघघोषेण रथेनादित्यवर्चसा।
भीष्मं भीमो महाबाहुः प्रत्युदीयादमर्षणम्॥२४॥

तस्मिन् क्षणे सात्यकिस्सत्यसन्धश्
शिनिप्रवीरोऽभ्यपत्तत् पितामहम्।
निघ्नन्नमित्रान् धनुषा दृढेन
स कम्पयंस्तव पुत्रस्य सैन्यम्॥२५॥

तं यान्तमश्वैरजतप्रकाशैश्
शरान् वमन्तं निशितान् सुपुङ्खान्।

नाशक्नुवन् प्रेक्षयितुं तदानीं
सर्वे गणा भारत ये त्वदीयाः॥२६॥

अविध्यदेनं दशभिश्शिताग्रैर्
अलम्बुसोऽसौ समरे तदानीम्॥२६॥

शरैश्चतुर्भिः प्रतिविद्ध्य तं च
नप्ता शिनेरभ्यपतद्रथेन।
समागतं घृष्णिवरं निशम्य
मध्ये रिपूणां परिवर्तमानम्॥२७॥

प्रावर्तयन्तं कुरुपुङ्गवाश्च
पुनः पुनश्च प्रणदन्तमाजौ।
नाशक्नुवन् वारयितुं वरिष्ठं
सैन्यं हि तूर्णं स्वमिवापतन्तम्॥२८॥

तत्रापि299 कश्चिन्न विषक्त आसीद्
ऋते राजन् सोमदत्तस्य पुत्रान्॥२९॥

सोऽप्याददानो धनुरुग्रवेगं
भूरिश्रवा भारत सौमदत्तिः।

दृष्ट्वा रथाश्वान् सारथिचोद्यमानान्300
प्रत्यद्रवत् सात्यकिं योद्धुकामः॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि अष्टपञ्चाशोऽध्यायः॥५८॥
॥६४॥ भीष्मवधपर्वणि अष्टादशोऽध्यायः॥१८॥
[ अस्मिन्नध्याये ३०॥ श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1706202340मम.png"/>

॥एकोनषष्टितमोऽध्यायः॥
<MISSING_FIG href="../books_images/U-IMG-1706202349नन.png"/>

भीमेन दुर्योधनानुजाष्टकवधः॥१॥ घटोत्कचभयेन कुरुभिः सेना पहारः॥२॥

<MISSING_FIG href="../books_images/U-IMG-1706202358मम.png"/>

सञ्जयः—

ततो भूरिश्रवा राजन् सात्यकिं नवभिश्शरैः।
समविध्यत् सुसङ्क्रुद्धस्तोत्रैरिव महाद्विपम्॥१॥

कौरव्यं सात्यकिश्चैव शरैस्सन्नतपर्वभिः।
पर्यवारयव्यग्रस् सर्वसैन्यस्य पश्यतः॥२॥

ततो दुर्योधनो राजा सोदरैः परिवारितः।
सौमदत्ति रणे यत्तस् समन्तात् पर्यवारयत्॥३॥

तथैव पाण्डवास्सर्वे सात्यकिं तु महारणे।
परिवार्य स्थितास्सङ्ख्ये तव पुत्रस्य पश्यतः॥४॥

भीमसेनस्ततः क्रुद्धो गदामुद्यम्य भारत।
दुर्योधनमुखान् सर्वान् पुत्रांस्ते पर्यकालयत्॥५॥

रथैरनेकसाहस्रैस्301 समन्तात् पर्यवारयत्।
नन्दकस्तव पुत्रस्तु भीमसेनं महाबलम्॥६॥

विव्याध निशितैष्षड्भिः कङ्कपत्रैश्शिलाशितैः॥६॥

दुर्योधनस्तदा राजन् भीमसेनं महाहवे।
आजघानोरसि क्रुद्धो मार्गणैर्नभिश्शितैः॥७॥

ततो भीमो महाबाहुर् आस्थाय स्वरथं महत्।
स्मयमानश्च कोपेन स्वसारथिमथाव्रवीत्॥८॥

भीमः—

एते महारथाश्शूरा धार्तराष्ट्रास्समागताः।
मामेवाभिमुखास्तूर्णम् उपतिष्ठन्ति दंशिताः॥९॥

एतानद्य हनिष्यामि पश्यतस्ते न संशयः।
तस्मान्ममाश्वान् सङ्ग्रामे यत्तस्संयच्छ सारथे॥१०॥

सञ्जयः—

एवमुक्त्वा ततः पार्थः पुत्रंतव विशां पते।
विव्याध दशभिस्तीक्ष्णैश् शरैः कनकभूषणैः॥११॥

नन्दकं स त्रिभिर्बाणैः प्रत्यविध्यत् स्तनान्तरे॥१२॥

तं302 तु दुर्योधनष्षष्ट्या विद्ध्वा भारत संयुगे।
त्रिभिरन्यैस्सुनिशितैर् विशोकं प्रत्यविध्यत॥१३॥

भीमस्य च रणे राजन् धनुश्चिच्छेद भास्वरम्।
मुष्टिदेशे भृशं तीक्ष्णैर् विध्वा राजन् महाशरैः॥१४॥

समरे303 प्रेक्ष्य यन्तारं विशोकं तु घृकोदरः।
पीडितं विशिखैस्तीक्ष्णैस् तव पुत्रेण धन्विना॥१५॥

अमृष्यमाणस्संरब्धो304 धनुर्दिव्यं परामृशत्॥१५॥

पुत्रस्य ते महाराज वधार्थं भरतर्षभ।
समधत्तातिसङ्क्रुद्धः क्षुरप्रं लोमवापिनम्॥१६॥

तेन चिच्छेद नृपतेर् भीमः कार्मुकमुत्तमम्॥१७॥

अपविद्ध्य धनुश्छिन्नं क्रोधेन प्रज्वलन्निव।
अन्यत् कार्मुकमादाय सत्वरं वेगवत्तरम्॥१८॥

तत्र सन्धाय सशरं कालमृत्युसमप्रभम्।
तेनाजघान सङ्क्रुद्धो भीमसेनं स्तनान्तरे॥१९॥

स गाढविद्धो व्यथितस् सर्वगात्रैर्विचेतनः।
निषसाद रथोपस्थे मूर्च्छामभिजगाम ह॥२०॥

तं दृष्ट्वा व्यथितं भीमम् अभिमन्युपुरोगमाः।
नामृष्यन्त महेष्वासाः पाण्डवानां महारथाः॥२१॥

ततस्सुतुमुलां वृष्टिं शस्त्राणामुग्रतेजसाम्।
अपातयन् महाराज तव पुत्रस्य मूर्धनि॥२२॥

प्रतिलभ्य ततस्संज्ञां भीमसेनो महाबलः।
दुर्योधनं त्रिभिर्विद्ध्वापुनर्विव्याध पञ्चभिः॥२३॥

शल्यं च पञ्चविंशत्या शरैस्सन्नतपर्वभिः।
रुक्मपुङ्खैर्महेष्वासस् स विद्धोव्यपयाद्रणात्॥२४॥

प्रत्युद्ययुस्तदा भीमं तव पुत्राश्चतुर्दश।
सेनापतिस्सुषेणश्च जलसन्धस्सुलोचनः॥२५॥

उग्रो भीमरथो भीमो भीमबाहुरलोलुपः।
दुर्मुखो दुष्प्रधर्षश्च विचित्रो विकटस्समः॥२६॥

विसृजन्तो बहून् बाणान् कोपसंरक्तलोचनाः।
भीमसेनमभिद्रुत्य विव्यधुश्चापि पाण्डवम्॥२७॥

पुत्रांस्तु तव सम्प्रेक्ष्य भीमसेनो महाबलः।
सृक्विणी संलिहन् वीरः पशुमध्ये वृको यथा॥२८॥

अभिपत्य163 महाबाहुर् गरुत्मानिव पन्नगान।
सेनापतेः क्षुरप्रेण शिरश्चिच्छेद भारत॥२९॥

जलसन्धं त्रिभिर्बाणैर् अनयद्यमसादनम्।
सुषेणं च ततो हत्वा प्रेषयामास मृत्यवे॥३०॥

उग्रस्य सशिरस्त्राणं शिरश्चन्द्रोपमं भुवि।
पातयामास भल्लेन कुण्डलाभ्यां विभूषितम्॥३१॥

भीमबाहुं च सप्तत्या साश्वकेतुं ससारथिम्।
निनाय भरतश्रेष्ठ परलोकाय भारत॥३२॥

भीमं भीमरथं चोभौभीमसेनो हसन्निव।
पुत्रौ ते युद्धदुर्मत्तावनयद्यमसादनम्॥३३॥

ततस्सुलोचनं248 भीमः क्षुरप्रेण महाहवे।
मिषतां सर्वसैन्यानाम् अनयद्यमसादनम्॥३४॥

पुत्रास्तु तव तं दृष्ट्वा भीमसेनपराक्रमम्।
शेषा ये चाऽभवंस्तत्र ते भीमस्य भयात् तदा॥३५॥

विप्रसस्रुर्दिशो राजन् वध्यमाना महात्मना॥३५॥

ततोऽब्रवीच्छान्तनवस् सर्वानेव समागतान॥३६॥

भीष्मः—

एवं305 भीमो रणे क्रोधी सर्वानेव महारथान्।

यथाप्रज्ञं यथाशूरं यथाश्रेष्ठं च सङ्गतान्॥३७॥

चरन् न्यपातयत् क्रुद्धस् सम्प्रधावत मा चिरम्॥३७॥

सञ्जयः—

एवमुक्तास्ततस्सर्वे धार्तराष्ट्रस्य सैनिकाः।
अभ्यद्रवन्त सङ्क्रुद्धा भीमसेनममर्षणम्॥३८॥

भगदत्तः124 प्रभिन्नेन कुञ्जरेण विशां पते।
अभ्ययात् सहसा तत्र यत्र भीमो व्यवस्थितः॥३९॥

आपतन्नेव च रणे भीमसेनं शिलीमुखैः।
अदृश्यं समरे चक्रे महामेघो रविं यथा॥४०॥

अभिमन्युमुखास्तत्र306नामृष्यन्त महारथाः।
भीमस्याच्छादनं सङ्ख्ये स्वबाहुबलमाश्रिताः॥४१॥

त एनं शरवर्षेण समन्तात् पर्यवारयन्॥४२॥

स शस्त्रवृष्ट्याऽभिहतस् समरे तैर्महारथैः।
प्राग्जोतिषगजो राजन्नानालिङ्गैस्सुतेजनैः॥४३॥

सञ्जातरुधिरोत्पीडः प्रेक्षणीयोऽभवद्रणे।
गभस्तिभिरिवार्कस्य संस्यूतो जलदो महान्॥४४॥

सञ्चोदितो मदस्रावी तान् सर्वानभ्यधावत।

द्विगुणं जवमास्थाय कम्पयन्निव मेदिनीम्॥४५॥

तस्य यत् सुमहद्युद्धं दृष्ट्वा सर्वे महारथाः।
असह्यं मन्यमानास्ते नाव्यग्रमनसोऽभवन्॥४६॥

ततस्तु नृपतिः क्रुद्धो भीमसेनं स्तनान्तरे।
आजधान महाराज शरेणानतपर्वणा॥४७॥

सोऽतिविद्धो महेष्वासस् तेन राज्ञा महाबलः।
मूर्च्छयाऽभिपरीतात्मा ध्वजयष्टिमुपाश्रयत्॥४८॥

तांस्तु भीतान् समालक्ष्य भीमसेनं च मूर्च्छितम्।
ननाद बलवन्नादं भगदत्तः प्रतापवान्॥४९॥

ततो घटोत्कचो राजन् भीमं वीक्ष्य तथा गतम्।
सङ्क्रुद्धो राक्षसो घोरस् तत्रैवान्तरधीयत॥५०॥

स कृत्वा दारुणां मायां भीरूणां भववर्धिनीम्।
प्रत्यदृश्यन्निमेषार्धाद् घोररूपं समास्थितः॥५१॥

ऐरावतं समारुह्य अष्टदन्तं महाबलम्।
कैलासगिरिसङ्काशं वज्रपाणिरिवाभ्ययात्॥५२॥

तथाऽन्ये चैव दिङ्नागास् त्रासयन्तोऽनुयायिनः।
अञ्जनो वामनश्चैव महापद्मश्च सुप्रभः॥५३॥

त्रय एते महानागा राक्षसैस्समधिष्ठिताः।
महाकायास्त्रिधा राजन् विस्रवन्तो मदं बहु॥५४॥

तेजोवीर्यबलोपेता महाबलपराक्रमाः॥५४॥

घटोत्कचश्च307 दिङनागांश्चोदयन् सततस्तदा।
सगजं भगदत्तं तु हन्तुकामः परंतपः॥५५॥

ते चान्ये चोदिता राजन् राक्षसैस्तैर्महाबलैः।
परिपेतुस्सुसंरब्धाश् चतुर्वन्ताश्चतुर्दिशम्॥५६॥

भगदत्तस्य तं नागं विषाणैस्समपीडयन्॥५७॥

सम्पीड्यमानस्तैर्नागैर् वेदनार्तश्शरातुरः।
व्यनदत् सुमहानादम् इन्द्राशनिसमस्वनम्॥५८॥

मृदित्वा308 सर्वसैन्यानि तव पुत्रस्य भारत।
व्यनर्दत महाघोषो भैमसेनिशरार्दितः॥५९॥

तस्य तं नदतो नादं सुघोरं भीमनिस्स्वनम्।
श्रुत्वा भीष्मोऽब्रवीद्द्रोणं राजानं च सुयोधनम्॥६०॥

भीष्मः—

एष युध्यति सङ्ग्रामे हैडिम्बेन महात्मना।
भगदत्तो महेष्वासः कृच्छ्रेण परिवर्तते॥६१॥

राक्षसश्च महामायस् स च राजाऽतिकोपनः।
एतौ समेतो समरे कालमृत्यूपमावुभौ॥६२॥

एषोऽश्रूयत हृष्टानां पाण्डवानां महास्वनः।
हस्तिनश्चैव309 सुमहान् भीमस्य नदतो ध्वनिः॥६३॥

गच्छामस्तत्र भद्रं वो राजानं परिरक्षितुम्।
अरक्ष्यमाणस्समरे क्षिप्रं प्राणान् विमोक्ष्यति॥६४॥

ते त्वरध्वं महावीर्या मा चिरं कुरुतानघाः।
महान् हि वर्तते रौद्रस् सङ्ग्रामो रोमहर्षणः॥६५॥

भक्तश्च कुलपुत्रश्च शूरश्च पृतनापतिः।
युक्तं तस्य परित्राणं कर्तुमस्माभिरच्युताः॥६६॥

सञ्जयः—

भीष्मस्य तद्वचश्श्रुत्वा सर्व एव महारथाः।
द्रोणभीष्मौपुरस्कृत्य भगदत्तपरीष्सया॥६७॥

उत्तमं जवमास्थाय प्रययुर्यत्र सोऽभवत्॥६७॥

तान् प्रयातान् समालोक्य युधिष्ठिरपुरोगमाः।
पञ्चालाः पाण्डवैस्सार्धं पृष्ठतोऽनुययुः परान्॥६८॥

तान्यनीकान्यथालोक्य राक्षसः परवीरहा।
ननाद सुमहानादं विस्फोटमशनेरिव॥६९॥

तस्य तं निनदं श्रुत्वा दृष्ट्वा नागांश्च युध्यतः।
भीष्मश्शान्तनवो राजन् भारद्वाजमभाषत॥७०॥

भीष्मः—

न रोचते मे सङ्क्रामो हैडिम्वेन महात्मना॥७१॥

बलवीर्यसमायुक्तस्ससहायश्च साम्प्रतम्।
नैष शक्यो महारौद्र इन्द्रेणापि युधा क्वचित्॥७२॥

लब्धलक्षः प्रहारी च वयं च श्रान्तवाहनाः।
पाञ्चालैः पाण्डवैश्चैव दिवसं शरविक्षताः॥७३॥

इदानीं310 युधि निर्जेतुं न शक्योऽसौ स राक्षसः॥७३॥

अस्तमभ्येति सविता रात्रौ योद्धुं न शक्यते।
अपहारमतः कुर्मश् श्वो योत्स्यामः परैस्सह॥७४॥

सञ्जयः—

पितामहवचश्श्रुत्वा तथा चक्रुरमर्षिताः।
उपायेनापयानं ते घटोत्कचभयार्दिताः॥७५॥

कौरवेषु निघृत्तेषु पाण्डवा जितकाशिनः।
सिंहनादान् भृशं चक्रुश् शङ्खान् दध्मुश्च भारत॥७६॥

एवं तदभवद्युद्धं दिवसं भरतर्षभ।
पाण्डवानां कुरूणां च पुरस्कृत्य घटोत्कचम्॥७७॥

ततस्तु कौरवा राजन् प्रययुश्शिबिरं स्वकम्।

प्राप्ते तदा निशाकाले पाण्डवेयैः पराजिताः॥७८॥

शरविक्षतगात्राश्च पाण्डुपुत्रा महारथाः
युद्ध्वा सुमनसो राजन् जग्मुस्स्वशिबिरं प्रति॥७९॥

पुरस्कृत्य महाराज भीमसेनघटोत्कचौ॥८०॥

पूजयन्तो यथान्यायं मुदिताः प्रियदर्शनाः।
नदन्तो विविधान्नादांस् तूर्यमिश्रितनिस्वनाः॥८१॥

सिंहनादांश्चकुर्वाणा विमिश्राञ् शङ्खनिस्स्वनैः।
विनदन्तो महात्मानः कम्पयन्तश्च मेदिनीम्॥८२॥

कम्पयन्तश्च राजेन्द्र पुत्राणां ते मनांस्युत॥८२॥

तव पुत्राश्च राजेन्द्र तथैव शरविक्षताः।
प्रयाताश्शिबिरायैव निशाकाले परंतप॥८३॥

दुर्योधनस्तु नृपतिर् दीनो भ्रातृवधेन च।
मुहूर्तं चिन्तयामास बाष्पशोकसमाकुलः॥८४॥

ततः कृत्वा विधिं तत्र शिबिरस्य यथाविधि।
प्रदध्यौ शोकसन्तप्तो भ्रातृव्यसनकर्शितः॥८५॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि एकोनषष्टितमोऽध्यायः॥५९॥
॥६४॥ भीष्मवधपर्वणि एकोनविंशोऽध्यायः॥१९॥
[ अस्मिन्नध्याये ८५॥ श्लोकाः ]
[ चतुर्थापहारः समाप्तः ]
<MISSING_FIG href="../books_images/U-IMG-1706204330मम.png"/>

॥षष्टितमोऽध्यायः॥
<MISSING_FIG href="../books_images/U-IMG-1706334097bbbb.png"/>

भीष्मेण दुर्योधनं प्रति विश्वोपाख्यानकथनम्॥

<MISSING_FIG href="../books_images/U-IMG-1706334108मम.png"/>

धृतराष्ट्रः—

भयं मे सुमहज्जातं विस्मयश्चैव सञ्जय।
श्रुत्वा पाण्डुकुमाराणां कर्म देवैस्सुदुष्करम्॥१॥

पुत्राणां वै परिभवंश्रुत्वा सङ्ख्ये महत्तरम्।

चिन्ता मे महती जाता कथमेतद्भविष्यति॥२॥

ध्रुवं विदुरवाक्यानि धक्ष्यन्ति हृदयं मम।
तथा हि दृश्यते सर्वं दैवयोगेन सञ्जय॥३॥

यत्र भीष्ममुखान् सर्वान् अस्त्रज्ञान् योधसत्तमान्।
पाण्डवानामनीकानि योधयन्ति प्रहारिणः॥४॥

केनावध्या महात्मानः पाण्डुपुत्रा महाबलाः।
केन दत्तवरास्तात किमु ज्ञानं विदन्ति ते॥५॥

केन क्षयं न विन्दन्ति दिवि तारागणा इव॥५॥

पुनः पुनर्न मृष्यामि हतसैन्योऽस्मि पाण्डवैः।
मय्येव दण्डः पतति दैवादेष सुदारुणः॥६॥

यथाऽवध्याः पाण्डुसुता यथा वध्याश्च मे सुताः।
एतन्मे सर्वमाचक्ष्व याथातथ्येन सञ्जय॥७॥

न हि पारं प्रपश्यामि दुःखस्यास्य कथञ्चन।
समुद्रस्येव महतो भुजाभ्यां प्रतरन् नरः॥८॥

पुत्राणां व्यसनं मन्ये ध्रुवं प्राप्तं सुदारुणम्॥९॥

घातयिष्यति मे सर्वान् पुत्रान् भीमो न संशयः।
न हि पश्यामि तं वीरं यो मे रक्षेत् सुतान् रणे॥१०॥

ध्रुवं विनाशस्समरे पुत्राणां मम सञ्जय।
तस्मान्मे कारणं सूत युक्तिं चैव विशेषतः॥११॥

पृच्छते हि यथातत्त्वं सर्वमाख्याहि सञ्जय॥११॥

दुर्योधनश्च यच्चक्रे दृष्ट्वा स्वान् विमुखान् रणे।
भीष्मद्रोणौ कृपश्चैव सौबलोऽथ जयद्रथः॥१२॥

द्रौणिर्वापि महेष्वासो विकर्णो वा महाबलः॥१३॥

निश्चयो वाऽपि कस्तेषां तदा ह्यासीन्महात्मनाम्।
विमुखेषु महाप्राज्ञ मम पुत्रेषु सञ्जय॥१४॥

सञ्जयः—

शृणु राजन्नवहितश् श्रुत्वा चैवावधारय॥१४॥

नैव मन्त्रकृतं किंचिन्नैव मायां तथाविधाम्।
न वै विभीषिकां काश्विद् राजन् कुर्वन्ति पाण्डवाः॥ १५॥

युध्यन्ति ते यथान्यायं शक्तिमन्तश्च संयुगे॥१६॥

धर्मेण229 सर्वकार्याणि जीवितादीनि भारत।
आरभन्ते सदा पार्थाःप्रार्थयाना महद्यशः॥१७॥

229 ते युद्धान्निवर्तन्ते धर्मोपेता महावलाः।
श्रिया परमया युक्ता यतो धर्मस्ततो जयः॥१८॥

तेनावध्या रणे पार्था जययुक्ताश्च पार्थिव।
तव पुत्रा दुरात्मानः पापेष्वभिरतास्सदा॥१८॥

निष्ठुरा हीनकर्माणस् तेन हीयन्ति संयुगे॥१९॥

सुबहूनि नृशंसानि पुत्रैस्तव जनेश्वर।
निकृतानीह पाण्डूनां नीचैरिव यथा नरैः॥२०॥

सर्वं च तदनादृत्य पुत्राणां तव किल्विषम्।
सापह्नवास्सदैवासन् पाण्डवाः पाण्डुपूर्वज॥२१॥

न चैतान् बहुमन्यन्ते पुत्रास्तव विशां पते॥२२॥

तस्य पापस्य सततं क्रियमाणस्य कर्मणः।
सम्प्राप्तस्सुमहान् घोरो विपाको दुर्नयात् तव॥२३॥

स तं भुङ्क्ष्व महाराज सपुत्रस्ससुहृद्रणः।
नावबुध्यसि यद्राजन् वार्यमाणस्सुहृजनैः॥२४॥

विदुरेणाथ भीष्मेण द्रोणेन च कृपेण च।
तथा मया वार्यमाणो न गृह्णास्यसद्विभो॥२५॥

वाक्यं हितं च तथ्यं च मर्त्यः पथ्यमिवौषधम्॥२५॥

पुत्राणां मतमास्थाय जितान् मन्यसि पाण्डवान्॥२६॥

शृणु राजन् यथातत्वं यन्मां त्वं परिपृच्छसि।
कारणं भरतश्रेष्ठ पाण्डवानां जयं प्रति॥२७॥

ततोऽहं कथयिष्यामि यथाश्रुतमरिन्दम्॥२७॥

दुर्योधनेन संपृष्ट एतदर्थं पितामहः।
दृष्ट्वा भ्रातृृन् रणे सर्वान् निर्जितान् सुमहारथान्॥२८॥

शोकसम्मूढहृदयो निशाकाले स कौरवः।
पितामहं महाप्राज्ञं विनयेनोपगम्य तु॥२९॥

यदब्रवीत् सुतस्तेऽसौ तत् त्वं शृणु जनेश्वर॥३०॥

दुर्योधनः—

भवान्311 द्रोणश्च कर्णश्च द्रौणिश्च कृप एव च।
कृतवर्मा च हार्दिक्यःकाम्भोजश्च सुदक्षिणः॥३१॥

भूरिश्रवा विकर्णश्च भगदत्तश्च वीर्यवान्।
महारथास्समाख्याताः कुरूणां कीर्तिवर्धनाः॥३२॥

त्रयाणामपि लोकानां पर्याप्ता इति मे मतिः।
पाण्डवानां समस्तानां न तिष्ठन्ति पराक्रमे॥३३॥

तत्र मे संशयो जातस् तत्त्वमाचक्ष्व पृच्छतः।
यं समाश्रित्य कौन्तेया जयन्त्यस्मान् पदे पदे॥३४॥

भीष्मः—

शृणु राजन्नवहितो यत् त्वा वक्ष्यामि कौरव।
बहुशश्च मयोक्तोऽसि न च मे तत् त्वया कृतम्॥३५॥

क्रियतां312 पाण्डवैस्सार्धं शमो भरतसत्तम।
एतत् क्षममहं मन्ये पृथिव्यास्तव चाभिभोः॥३६॥

भुङ्क्ष्वेमां पृथिवीं सर्वां स्वपुत्रैस्सङ्गतस्सुखी।
दुर्हृदस्तापयन् सर्वान् नन्दयंश्चापि बान्धवान्॥३७॥

न च मे क्रोशतस्तात श्रुतवानसि यत् पुरा।
तदिदं समनुप्राप्तं यत् पाण्डूनवमन्यसे॥३८॥

यश्च हेतुरवध्यत्वे तेषामक्लिष्टकर्मणाम्।
तं शृणुष्व महाराज मम कीर्तयतः प्रभो॥३९॥

नास्ति लोकेषु स पुमान् न भूतो न भविष्यति।
ससुरासुरमर्त्येषु313 यो विद्यात् तत्त्वतो हरिम्॥४०॥

यत् तु मे कथितं तात मुनिभिर्भावितात्मभिः।
पुराणं तत्त्वधर्मज्ञैस् तच्छृणुष्व यथातथम्॥४१॥

पुरा किल सुरास्सर्वे ऋषयश्च समागताः।
पितामहमुपासेदुः पर्वते मानसोत्तरे॥४२॥

प्रजापतिरथाऽपश्यद् आसीनो महदद्भुतम्।
विमानं प्रज्वलद्भासा स्थितं प्रवरमम्बरे॥४३॥

ध्यानेनावेक्ष्य तद्ब्रह्मा कृत्वा च नियतोऽञ्जलिम्।
नमश्चकार हृष्टात्मा परमं परमेश्वरम्॥४४॥

ऋषयश्चापि देवाश्च दृष्ट्वा ब्रह्माणमुत्थितम्।
तस्थुः प्राञ्जलयस्सर्वे पश्यन्तो महदद्भुतम्॥४५॥

यथावच्च तमभ्यर्च्य ब्रह्मा ब्रह्मविदां वरः।
जगाद जगतस्स्रष्टा परं परमधर्मवित्॥४६॥

ब्रह्मा—

विश्वावसुर्विश्वमूर्तिर्हि विश्वे

विष्वक्सेनो विश्वकर्मा वशी च।

विश्वेश्वरो वासुदेवोऽसि तस्माद्

योगात्मानं दैवतं त्वामुपैमि॥४७॥

जय विश्वमहादेव जय लोकहिते रत।
जय योगमयो देव जय योगेश्वरेश्वर॥४८॥

भूतभव्यभवोद्भाव जय सौम्यात्मजात्मज।
असङ्ख्येयगुणाजेय सर्वलोकपरायण॥४९॥

नारायण सुदुष्पार जय शार्ङ्गधनुर्धर।
जय सर्वगुणोपेत विश्वमूर्ते निरामय॥५०॥

विश्वेश्वर महाबाहो जय लोकार्थतत्पर।
महोरगवराहाद्य314 हरिकेश विभो जय॥५१॥

हरिवासदिशामीश विश्ववासामिताञ्चय।
व्यक्ताव्यक्तस्थितस्थान नियतेन्द्रिय सेन्द्रिय॥५२॥

असङ्ख्येयात्मभावज्ञ जय गम्भीर कामद।
अनन्त विदितात्मा त्वम् अद्भुताद्भुतभावन॥५३॥

कृतकार्य कृतप्रज्ञ धर्मज्ञ विजयावह।
गुणात्मन् सर्वभूतात्मन् स्फुटसम्भूतसम्भव॥५४॥

भूतात्मन् सर्वलोकेश जय भूतविभावन।
आत्मयोने महाभाग कल्पसंक्षेपतत्पर॥५५॥

उद्भावनमनूद्भाव जय ब्रह्मजनप्रिय।
निसर्गमार्गनिरत कामेश परमेश्वर॥५६॥

अमृतोद्भवसद्भाव युक्ताग्निविजयप्रद्।
प्रजापतिपते देव पद्मनाभ महाभुज॥५७॥

आत्मभूतमहाभूत धर्मात्मञ्जय सर्वदा॥५७॥

क्षितिः पादोद्भवा315 देव दिग्बाहुर्द्यौर्महाशिरः।

मूर्तिस्तेऽहं सुराः कायश् चन्द्रादित्यौ च चक्षुषी॥५८॥

बलं तपश्च सत्यं च धर्मः कामस्तवात्मजाः।
तेजोऽभिः पवनश्श्वास आपस्ते स्वेदसम्भवाः॥५९॥

अश्विनौ श्रवणौ देव जिह्वा देवी सरस्वती।
वेदारस्संस्कारनिष्ठा हि त्वयीदं जगदास्थितम्॥६०॥

न सङ्ख्यां न परीमाणं न तेजो न पराक्रमम्।
न बलं योगयोगेश विजानीमः परन्तप॥६१॥

त्वद्भक्तिनिरता देव नियमस्थास्समाहिताः।
अर्चयामस्सदा विष्णुं परमेशं महेश्वरम्॥६२॥

ऋषयो देवगन्धर्वयक्षराक्षसपन्नगाः।
पिशाचा मानुषाश्चैव मृगपक्षिनगास्तथा॥६३॥

एवमादि मया सृष्टं पृथिव्यां त्वत्प्रसादजम्।
पद्मनाभ विशालाक्ष कृष्ण दुस्स्वप्ननाशन॥६४॥

त्वं गतिस्सर्वभूतानां तेनेदं त्वन्मुखं जगत्।
त्वत्प्रसादेन देवेश सुखिनो विबुधास्सदा॥६५॥

पृथिवी निर्भया देव त्वत्प्रसादाद्भविष्यति।
तस्माद्भव विशालाक्ष यदुवंशविवर्धनः॥६६॥

धर्मसंस्थापनार्थाय दैतेयानां वधाय च।

जगतो रक्षणार्थाय प्रसादं कुरु मे प्रभो॥६७॥

यत् तत् परमकं गुह्यं त्वत्प्रसादमयं विभो।
वासुदेव तदेवं तु मया गीतं यथातथम्॥६८॥

सृष्ट्वा सङ्कर्षणं देवं स्वयमात्मानमात्मना।
सृज त्वमात्मना कृष्ण प्रद्युम्नं चात्मसम्भवम्॥६९॥

प्रद्युम्नादनिरुद्धं च यं प्राहुर्विष्णुमव्ययम्।
अनिरुद्धोऽसृजत् साम्बं ब्रह्माणं लोकधारिणम्॥७०॥

वासुदेवमयस्सोऽहं त्वयैवास्मि विनिर्मितः।
वासुदेवेति तं विद्याद् येनाहं निर्मितः प्रभो॥७१॥

तस्माद्याचामि लोकेश चतुरात्मानमात्मना।
विभज्य भागमात्मानं व्रज वै मानुषीं तनुम्॥७२॥

तत्रासुरवधं कृत्वा सर्वलोकसुखाय वै।
धर्मं प्राप्य यशः प्राप्य योगं प्राप्स्यसि तत्त्वतः॥७३॥

ततो दिशश्च लोकाश्च देवाश्चामितविक्रम।
तैस्तैश्च नामभिर्भक्ता गायन्ति परमात्मकम्॥७४॥

सर्वभूतेश्वरं देवं योगयोगेश्वरं विभुम्॥७५॥

स्थिताश्च सर्वे त्वयि भूतसङ्घाः

कृत्वाऽऽश्रयं त्वां वरदं सुबाहो।

अनादिमध्यान्तमपारयोगं

लोकस्य सेतुं प्रवदन्ति विप्राः॥७६॥

इति श्रीमहाभारते शतसहस्रिकायांसंहितायां वैयासिक्यां
भीष्मपर्वणि षष्टितमोऽध्यायः॥६०॥
॥६४॥भीष्मवधपर्वणि विंशोऽध्यायः॥२०॥
[ अस्मिन्नध्याये ७६॥ श्लोकाः]
<MISSING_FIG href="../books_images/U-IMG-1706451042मम.png"/>

॥एकषष्टितमोऽध्यायः॥
<MISSING_FIG href="../books_images/U-IMG-1706451055bbbb.png"/>

विश्वोपाख्यानम्॥

<MISSING_FIG href="../books_images/U-IMG-1706451042मम.png"/>

भीष्मः—

ततस्स भगवान् देवो लोकानां परमेश्वरः।
ब्रह्माणं प्रत्युवाचेदं स्निग्धगम्भीरया गिरा॥१॥

विदितं तत् तु लोकात्मन् सर्वं तु तव चेप्सितम्।
तथा तद्भवतीत्युक्त्वा तत्रैवान्तरधीयत॥२॥

ततो देवर्षिगन्धर्वा विस्मयं परमं गताः।
कौतूहलपरास्सर्वे प्रजापतिमथाब्रुवन्॥३॥

देवर्षिगन्धर्वाः—

को न्वयं यो भगवता प्रणम्य विनयाद्विभो।
वाग्भिस्स्तुतोवरिष्ठाभिश् श्रोतुमिच्छाम तं वयम्॥४॥

भीष्मः—

एवमुक्तस्स भगवान् प्रत्युवाच पितामहः।
देवब्रह्मर्षिगन्धर्वान् सर्वान् मधुरया गिरा॥५॥

ब्रह्मा—

यत्तत् परं भविष्यं च भवितव्यं च यत् परम्।
भूतात्मा यः प्रसूश्चैव ब्रह्मवर्चः परं पदम्॥६॥

तेनाहं कृतसंवादः प्रसन्नेन सुरर्षभाः।
जगतोऽनुग्रहार्थाय याचितो वै जगत्पतिः॥७॥

मानुषं लोकमातिष्ठ वासुदेव इति श्रुतः।
असुराणां वधार्थाय सम्भवस्व महीतले॥८॥

सङ्ग्रामे निहता ये च दैत्यदानवराक्षसाः।
त इमे नृषु सम्भूता घोररूपा महाबलाः॥९॥

तेषां वधार्थं भगवान् नरेण सहितो वशी।
मानुषीं योनिमास्थाय चरिष्यति महीतले॥१०॥

नरनारायणावेतौ पुराणावृषिसत्तमौ।
सम्भूतौ मानुषे लोके सहितावमितद्युती॥११॥

अजेयौ हि रणे यत्तौ सहितावमरैरपि।
मूढास्त्वेतौ न जानन्ति नरनारायणावृषी॥१२॥

यस्याहमात्मजो ब्रह्मा सर्वस्य जगतः पतिः।

वासुदेवोऽर्चनीयो वै सर्वलोकमहेश्वरः॥१३॥

न वै मनुष्योऽयमिति कदाचित् सुरसत्तमाः।
अवज्ञेयो महावीर्यश् शङ्खचक्रगदाधरः॥१४॥

एतत् पुरुषसंज्ञं वै पुराणं रूपमुत्तमम्।
एतत् परमकं गुह्यं एतत् परमकं यशः॥१५॥

एतत् परमकं ब्रह्म एतत् परमकं महः।
एतदक्षरमव्यक्तम् एतद्वै शाश्वतं महः॥१६॥

एतत् पुरुषसंज्ञं तु हीयते जायते न च।
एतत् परमकं धाम एतत् परमकं सुखम्॥१७॥

एतत् परमकं सत्यं कीर्तितं विश्वकर्मणा॥१७॥

तस्मात् सेन्द्रैस्सुरैस्सार्धं लोकैश्चामितविक्रमः।
नावज्ञेयो वासुदेवो मानुषोऽयमिति प्रभुः॥१८॥

यश्च मानुषमात्रोऽयम् इति ब्रूयात् स मन्दधीः।
हृषीकेशमविज्ञाय तमाहुः तामसात्मकम्॥१९॥

यो योगिनं महात्मानं प्रविष्टं मानुषीं तनुम्।
अवमन्येद्वासुदेवं तमाहुस्तामसं जनाः॥२०॥

वासुदेवं जगद्वन्द्यंश्रीवत्साङ्कं सुवर्चसम्।
पद्मनाभं न जानन्ति तमाहुस्तामसं जनाः॥२१॥

किरीटकौस्तुभधरं मित्राणामभयप्रदम्।

अवजानन् महात्मानं घोरे तमसि मज्जति॥२२॥

एवं विदिततत्त्वार्थो लोकानामीश्वरेश्वरः।
वासुदेवो316 नमस्कार्यो लोकैस्सर्वैस्सुरोत्तमाः॥२३॥

तस्याहमात्मजो ब्रह्मा सर्वस्य जगतः प्रभुः॥२४॥

भीष्मः—

एवमुक्त्वा स भगवान् देवान् सर्षिगणान् पुरा।
विसृज्य सर्वभूतानि जगाम भवनं स्वकम्॥२५॥

ततो देवास्सगन्धर्वा मुनयोऽप्सरसोऽपि च।
कथां तां ब्रह्मणा गीतां श्रुत्वा प्रीता दिवं ययुः॥२६॥

एतच्छ्रुतं मया तात मुनीनां भावितात्मनाम्
वासुदेवं कथयतां समवाये पुरातनम्॥२७॥

रामस्य जामदद्ग्यस्य मार्कण्डेयस्य धीमतः।
व्यासनारयोश्चापि श्रुतं श्रुतवतां वर॥२८॥

एतमर्थं च विज्ञाय श्रुत्वा च प्रभुमव्ययम्।
वासुदेवं महात्मानं लोकानामीश्वरेश्वरम्॥२९॥

जानामि317 भरतश्रेष्ठ कृष्णं नारायणं प्रभुम्॥२९॥

यस्यासीदात्मजो ब्रह्मा सर्वस्य जगतः पिता।
कथं न वासुदेवोऽर्च्यस् सेव्यश्चैवेह मानवैः॥३०॥

वारितोऽसि पुरा तात मुनिभिर्वेदपारगैः।
मा गास्त्वं वासुदेवेन विग्रहं तेन धीमता॥३१॥

मा तात पाण्डवैस्सार्धं तच्च मोहान्न बुध्यसे॥३२॥

मन्ये318 त्वां राक्षसं क्रूरम् अथवा तामसात्मकम्।
यस्माद्द्विषसि गोविन्दं पाण्डवं च धनञ्जयम्॥३३॥

नरनारायणौ देवौ कोऽन्यो द्वेष्टा हि मानवः॥३३॥

तस्माद्ब्रवीमि ते राजन्नेष वै शाश्वतोऽव्ययः।
सर्वलोकमयो नित्यश् शास्ता धाता धरो ध्रुवः॥३४॥

यो धारयति लोकांस्त्रश्चराचरगुरुः प्रभुः।
योद्धा जयश्च यो धाता सर्वप्रकृतिरीश्वरः॥३५॥

राजन् सत्त्वमयो ह्येष तमोरागविवर्जितः।
यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः॥३६॥

तस्य माहात्म्ययोगेन योगेनास्त्रबलेन च।
धृताः पाण्डुसुता राजञ् जयश्चैषां भविष्यति॥३७॥

श्रेयोयुक्तां सदा बुद्धिं पाण्डवानां ददाति सः।
बलं चैव रणे नित्यं भयेभ्यश्चैव रक्षति॥३८॥

स एष शाश्वतो देवस् सर्वगुह्यमयश्शिवः।
वासुदेव इति ख्यातो यन्मां त्वं पृष्टवानसि॥३९॥

141 एष कृष्णः कौरव्य पाण्डवार्थमिहागतः॥४०॥

ब्राह्मणैः क्षत्रियैर्वैश्यैश् शूद्रैश्च कृतलक्षणैः।
अर्चनीयश्च सेव्यश्च नित्ययुक्तैस्स्वकर्मसु॥४१॥

द्वापरस्य युगस्यान्ते चादौ कलियुगस्य च।
सात्वतं विधिमास्थाय गीतस्सङ्कर्षणेन यः॥४२॥

कृष्णेति नाम्ना विख्यात इमं लोकं स रक्षति॥४२॥

स एष सर्वामरमर्त्यलोकं
समुद्रकक्ष्यान्तरिताः पुरीश्च।
युगे युगे मानुषं चैव वासं
पुनः पुनस्सृजते वासुदेवः॥४३॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि एकषष्टितमोऽध्यायः॥६१॥
॥६४॥ भीष्मवधपर्वणि एकविंशोऽध्यायः॥२१॥
[ अस्मिन्नध्याये ४३॥ श्लोकाः ]

<MISSING_FIG href="../books_images/U-IMG-1706452084मम.png"/>

॥द्विषष्टितमोऽध्यायः॥
<MISSING_FIG href="../books_images/U-IMG-1706452190bbbb.png"/>

भीष्मेण विश्वोपाख्यानकथने वासुदेवमाहात्म्यकथनम्॥१॥ युधिष्ठिरस्य कृष्णसमाश्रयणेन विजय इति कथनम्॥२॥

<MISSING_FIG href="../books_images/U-IMG-1706452204मम.png"/>

दुर्योधनः—

वासुदेवो महद्भुतं सर्वलोके गुरुश्च यः।
तस्यागमं प्रतिष्ठां च श्रोतुमिच्छे पितामह॥१॥

भीष्मः—

वासुदेवो महद्भूतं सम्भूतमिह दैवतम्।
319 परं पुण्डरीकाक्षाद् दृश्यते भरतर्षभ॥२॥

श्रुतं मे तात रामस्य जामदग्न्यस्य जल्पतः।
नारदस्य च देवर्षेःकृष्णद्वैपायनस्य च॥३॥

असितो देवलश्चापि वालखिल्यास्तपोधनाः।
मार्कण्डेयश्च गोविन्दं कथयत्यद्भुतं महत्॥४॥

सर्वभूतादिभूतात्मा महात्मा पुरुषोत्तमः।
आपो वायुश्च तेजश्च त्रयमेतदकल्पयत्॥५॥

स सृष्ट्वा पृथिवीं देवीं सर्वलोकेश्वरः प्रभुः।
अप्सु वै शयनं चक्रे महात्मा पुरुषोत्तमः॥६॥

सर्वदेवमयो देवश् शयानश्शयने सुखम्।
मुखतस्सोऽग्निमसृजत् प्राणाद्वायुमथापि च॥७॥

सरस्वतीं च वेदांश्च वासुदेवो महायशाः।
एष लोकान् ससर्जादौ देवानृषिगणैस्सह॥८॥

निधनं चैव मृत्युं च प्रजानां प्रभवाष्ययौ॥८॥

एष धर्मश्च धर्मज्ञो वरदस्सर्वकामदः।
एष कर्ता च कार्यं च आदेरादिस्स्वयं प्रभुः॥९॥

भूतं भव्यं भविष्यच्चपूर्वमेतद्कल्पयत्।
उभे सन्ध्ये दिवः स्वं च नियमांश्च जनार्दनः॥१०॥

ऋषींश्चैवापि गोविन्दस् तपश्चैवमकल्पयत्॥११॥

स्रष्टा124 यो जगतश्चापि महात्मा प्रभुरव्ययः।
अग्रजस्सर्वभूतानां सङ्कर्षणमकरुपयत्॥१२॥

शेषं चाकल्पयद्देवम् अनन्तमिति यं विदुः॥१२॥

यो धारयति भूतानि धरां चेमां सपर्वताम्।
ध्यानयोगेन विप्राश्च तं विदन्ति महौजसः॥१३॥

कर्णस्रोतोभवश्चापि मधुर्नाम महासुरः।
तमुग्रमुग्रकर्माणम् उग्रबुद्धिं समाश्रितम्॥१४॥

हरन्तं320 ब्रह्मणो वेदाञ् जघान ब्रह्मणः पिता॥१५॥

ब्रह्मणोऽपचितिं कुर्वन् महात्मा पुरुषोत्तमः॥१५॥

तस्य तात वधादेव देवदानवमानवाः।
मधुसूदनमित्याहुर् ऋषयश्च जनार्दनम्॥१६॥

वराहं नारसिंहं च त्रिविक्रममिति प्रभुम्॥१७॥

एप धाता विधाता च सर्वेषां प्राणिनां प्रभुः।
परं हि पुण्डरीकाक्षान्न भूतं न भविष्यति॥१८॥

असृजन्मुखतो विप्रान् बाहुभ्यां क्षत्रियांस्तथा।
वैश्यांश्चाप्यूरुतो राजञ् शूद्रान् पद्भ्यां तथैव च॥१९॥

तपसा242 नियतं देवम् ईशानं सर्वदेहिनाम्।
ब्रह्मभूतममावास्यां पौर्णमास्यां तथैव च॥२०॥

योगभूतं परिचरन् केशवं महदाप्नुयात्॥२०॥

केशवः परमं तेजस् सर्वलोकपितामहः॥२१॥

एवमाहुर्हुषीकेशं मुनयो वै नराधिप।
एवमेन विजानीहि आचार्यं पितरं गुरुम्॥२२॥

कृष्णो यस्य प्रसीदेत लोकास्तेनाक्षया जिताः॥२२॥

यश्चैनं वै भयस्थाने केशवं शरणं व्रजेत्।
अध्यायं शृणुयाच्चैनं स्वस्तिमान् स भवेन्नरः॥२३॥

ये च कृष्णं प्रपद्यन्ते ते न मुह्यन्ति मानवाः।
भये महति मग्नांश्च त्राति नित्यं जनार्दनः॥२४॥

एतद्युधिष्ठिरो ज्ञात्वा याथातथ्येन भारत।
सर्वात्मानं महात्मानं केशवं जगदीश्वरम्॥२५॥

प्रपन्नश्शरणं राजन् योगिनामीश्वरं प्रभुम्॥२६॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि द्विषष्टितमोऽध्यायः॥६२॥
॥६४॥भीष्मवधपर्वणि द्वाविंशोऽध्यायः॥२२॥
[ अस्मिन्नध्याये २६॥ श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1706450453मम.png"/>

॥त्रिषष्टितमोऽध्यायः॥
<MISSING_FIG href="../books_images/U-IMG-1706450466bbbb.png"/>

भीष्मेण दुर्योधनं प्रति ब्रह्मर्षिकृतकृष्णस्तवकथनम्॥१॥ तथा कृष्णस्य पाण्डवेषु प्रीतिकथनपूर्वकं तैः सह शमकरणविधानम्॥२॥

<MISSING_FIG href="../books_images/U-IMG-1706450453मम.png"/>

भीष्मः—

स्तवं वै ब्रह्मसंयुक्तं शृणु कृष्णस्य भारत।
ब्रह्मर्षिभिश्च देवैश्च पुरा यः कथितो भुवि॥१॥

साध्यानामपि देवानां देवदेवेश्वरं प्रभुम्।
लोकभावनभावज्ञं विदित्वा नारदोऽब्रवीत्॥२॥

नारदः—

भूतं भव्यं भविष्यच्च मार्कण्डेयोऽभ्युवाच ह।
यज्ञानामपि यज्ञश्च तपश्च तपसामपि॥३॥

देवानामपि देवं च त्वामाह भगवान् भृगुः।
पुराणे321 वैभवं रूपं विष्णोऽभूत्तव चेति वै॥४॥

वासुदेवो322 वसूनां त्वं शक्रं स्थापयिता तदा॥४॥

देवदेवोऽसि देवानाम् इति द्वैपायनोऽब्रवीत्॥५॥

पूर्वे प्रजानिसर्गे च दक्षमाहुः प्रजापतिम्।
स्रष्टारं सर्वभूतानाम् अङ्गिरास्त्वामथाऽब्रवीत्॥६॥

अव्यक्तं ते शरीरस्थं व्यक्तं ते मनसि स्थितम्।
देवानां सम्भवश्चेति देवलस्त्वसितोऽब्रवीत्॥७॥

शिरसा ते दिवं व्याप्तं बाहुभ्यां धरणी धृता।
जठरं ते त्रयो लोकाः पुरुषस्त्वं सनातनः॥८॥

देवास्त्वामभिजानन्ति तपसा भावितास्सदा॥८॥

आत्मदर्शनतृप्तानाम् ऋषीणामृषिसत्तम।
राजर्षीणामुदाराणाम् आहवेष्वनिवर्तिनाम्॥९॥

सर्वभूतप्रधानानां गतिस्त्वं पुरुषोत्तम॥१०॥

एतद्द्वैपायनःप्राह स्तुत्वा वै पुरुषोत्तमम्।
एतद्विस्तरतश्चापि संक्षेपाच्च प्रकीर्तितः॥११॥

केशवस्य यथातत्त्वं सुप्रीतो भव केशवे॥११॥

सञ्जयः—

एतच्छ्रुत्वा तु वचनं भीष्मस्य तनयस्तव।
केशवं बहुमेने च पाण्डवांश्च महारथान्॥१२॥

तमब्रवीन्महाराज भीष्मश्शान्तनवस्तदा॥१३॥

भीष्मः—

माहात्म्यं ते श्रुतं राजन् केशवस्य महात्मनः।
नरस्य च यथातत्त्वंयन्मां त्वं परिपृच्छसि॥१४॥

यदर्थं नृषु सम्भूतौ नरनारायणावुभौ।
अवध्यौ च यथा वीरौ संयुगेष्वपराजितौ॥१५॥

यथा च पाण्डवा राजन् न वध्या युधि कस्यचित्॥१५॥

प्रीतिमान्323 हि यथा कृष्णः पाण्डवेषु महात्मसु।
तस्माद्ब्रवीमि राजेन्द्र शमो भवतु पाण्डवैः॥१६॥

पृथिवीं भुङ्क्ष्व सहितो भ्रातृभिर्बलिभिर्वशी।
नरनारायणौ देवाववज्ञाय विनङ्क्ष्यसि॥१७॥

सञ्जयः—

एवमुक्त्वा पिता गुह्यं तूष्णीमासीद्विशां पते।
व्यसर्जयच्चराजानं शयनं च विवेश ह॥१८॥

राजा च शिबिरं प्रायात् प्रणिपत्य महात्मने।
शिश्ये च शयने शुभ्रे तां रात्रिं भरतर्षभ॥१९॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि त्रिषष्टितमोऽध्यायः॥६३॥
॥६४॥भीष्मवधपर्वणि त्रयोविंशोऽध्यायः॥२३॥
[ अस्मिन्नध्याये १९॥ श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1706449656मम.png"/>

॥चतुष्षष्टितमोऽध्यायः॥
<MISSING_FIG href="../books_images/U-IMG-1706449674नन.png"/>

कुरुपाण्डवयोर्मकरश्येनव्यूहरचनापूर्वकं युद्धारम्भः॥

<MISSING_FIG href="../books_images/U-IMG-1706449656मम.png"/>

सञ्जयः—

तस्यां रात्र्यां व्यतीतायां निर्ययुः कुरुपुङ्गवाः।
पुरस्कृत्य महात्मानं भीष्मं शान्तनवं युधि॥१॥

अभ्यधावन्त सङ्क्रुद्धाः परस्परजिघांसवः।
सर्वे ते सहिता राजन् समालोक्य परस्परम्॥२॥

पाण्डवा धार्तराष्ट्राश्च राजन् दुर्मन्त्रिते तव।
व्यूहौ च व्यूह्य संरब्धास् सम्प्रवृद्धाः प्रहारिणः॥३॥

अरक्षन् मकरव्यूहं भीष्मो राजन् समन्ततः।
तथैव पाण्डवा राजन्नरक्षन् व्यूहमात्मनः॥४॥

अजातशत्रुश्शत्रूणां मनांसि समकम्पयत्।

श्येनवव्द्यूह्य तं व्यूहं धौम्यस्य वचनात् स्वयम्॥५॥

124 हि तस्य सुविज्ञात अग्निचित्येषु भारत।
मकरस्तु महाव्यूहस् तव पुत्रस्य धीमतः॥६॥

स्वयं सर्वेण सैन्येन द्रोणेनानुमतस्तदा।
यथाव्यूहं शान्तनवस्सोऽन्ववर्तत तत् पुनः॥७॥

स निर्ययौ महानीकात् पिता देवव्रतस्तव।
महता रथवंशेन संवृतो बलिनां वरः॥८॥

इतरे त्वन्वयुस्सर्वे यथास्थानमवस्थिताः
रथिनः पत्तयश्चापि दन्तिनस्सादिनस्तथा॥९॥

तान् दृष्ट्वा द्रवतस्सङ्ख्ये पाण्डवा अपि भारत।
श्येनव्यूहेन संव्यूह्य समनह्यन्त संयुगे॥१०॥

अशोभत मुखे तस्य भीमसेनो महाबलः।
नेत्रे शिखण्डी दुर्धर्षो धृष्टद्युम्नश्च पार्षतः॥११॥

शीर्षे तस्याभवद्वीरस् सात्यकिस्सत्यविक्रमः।
विधून्वन् गाण्डिवं पार्थो ग्रीवायामभवत् तदा॥१२॥

अक्षौहिण्या242 समग्राया वामपक्षोऽभवत् तदा।
महात्मा द्रुपदश्श्रीमान् मत्स्येन सह संयुगे॥१३॥

दक्षिणे चाभवत् पक्षे कैकेयोऽक्षौहिणीपतिः।

पृष्ठतो द्रौपदेयाश्च सौभद्रश्चापि वीर्यवान्॥१४॥

पुच्छे समभवच्छ्रीमान् स्वयं राजा युधिष्ठिरः।
भ्रातृभ्यां सहितो वीरो यमाभ्यां चारुविक्रमः॥१५॥

प्रविश्य च तदा भीमो मकरस्सागरं यथा।
भीष्ममासाद्य सङ्ग्रामे च्छादयामास सायकैः॥१६॥

ततो भीष्मो महास्त्राणि पातयामास संयुगे।
मोहयन् पाण्डुपुत्राणां व्यूढं सैन्यं महारणे॥१७॥

सम्मुह्यमाने सैन्ये तु त्वरमाणो धनञ्जयः।
भीष्मं शरसहस्रेण विव्याध रणमूर्धनि॥१८॥

प्रतिसंवार्य चास्त्राणि भीष्ममुक्तानि संयुगे।
स्वेनानीकेन हृष्टेन युद्धाय समुपस्थितः॥१९॥

ततो दुर्योधनो राजा भारद्वाजमभाषत।
पूर्वं दृष्ट्वा क्षयं घोरं बलस्य बलिनां वरः॥२०॥

भ्रातॄणां च वधं युद्धे स्मरमाणो महारथः॥२०॥

दुर्योधनः—

आचार्य सततं त्वं हि हितकामो भवान् मम॥२१॥

वयं हि त्वां समाश्रित्य भीष्मं चैव पितामहम्।
देवानपि रणे जेतुं प्रार्थयामो न संशयः॥२२॥

किमु पाण्डुसुतान् युद्धे हीनवीर्यपराक्रमानु॥२२॥

सञ्जयः—

एवमुक्तस्ततो द्रोणस् तव पुत्रेण भारत।
उवाच तत्र राजानं सङ्क्रुद्ध इव निश्वसन्॥२३॥

द्रोणः—

बालिशस्त्वं न जानीषे पाण्डवानां पराक्रमम्।
न शक्या हि यथा जेतुं पाण्डवा हि महाबलाः॥२४॥

यथावलं यथावीर्यं कर्म कुर्यामहं324 हि ते॥२५॥

सञ्जयः—

इत्युक्त्वा ते सुतं राजन्नाभ्यपद्यत वाहिनीम्।
अभिनत् पाण्डवानीकं प्रेक्षमाणस्य सात्यकेः॥२६॥

सात्यकिस्तु ततो द्रोणं वारयामास भारत।
तयोः प्रववृते युद्धं घोररूपं भयावहम्॥२७॥

शैनेयं तु रणे क्रुद्धो भारद्वाजः प्रतापवान्।
अविध्यन्निशितैर्बाणैर् जत्रुदेशे स्मयन्निव॥२८॥

भीमसेनस्ततः क्रुद्धो भारद्वाजमयुध्यत।
संरक्षन् सात्यकिं राजन् द्रोणाच्छस्त्रभृतां वरात्॥२९॥

ततो द्रोणश्च भीष्मश्च तथा शल्यश्च भारत।
भीमसेनं रणे क्रुद्धाश् छादयाञ्चक्रिरे शरैः॥३०॥

अथाभिमन्युस्सङ्क्रुद्धोद्रौपदेयाश्च भारत।
विव्यधुर्निशितैर्बाणैस्320 सर्वांस्तानुद्यतायुधान्॥३१॥

द्रोणभीष्मौ शरैः क्रुद्धाश् छादयन्ति समन्ततः॥३१॥

प्रत्युद्ययौ शिखण्डीच महेष्वासो महाहवे।
प्रगृह्य बलवद्वीरो धनुर्जलदनिस्स्वनम्॥३२॥

अभ्यवर्षच्छरैस्तूर्णं छादयानो दिवाकरम्॥३३॥

शिखण्डिनं समासाद्य भरतानां पितामहः।
अवर्जयत सङ्ग्रामं स्त्रीत्वं तस्यानुसंस्मरन्॥३४॥

ततो द्रोणो महेष्वासश् शिखण्डिनमभिद्रवत्।
रक्षमाणो रणे भीष्मं तव पुत्रेण चोदितः॥३५॥

शिखण्डी तु समासाद्य द्रोणं शस्त्रभृतां वरम्।
अवर्जयत सन्त्रस्तो युगान्ताग्निमिवोत्थितम्॥३६॥

ततो बलेन महता पुत्रस्तव विशां पते।
जुगोप भीष्ममासाद्य प्रार्थयानो महद्यशः॥३७॥

तथैव पाण्डवा राजन् पुरस्कृत्य धनञ्जयम्।
भीष्ममेवाभ्यवर्तन्त जये कृत्वा दृढां मतिम्॥३८॥

तद्युद्धमभवद्धोरं देवानां दानवैरिव।
जयमाकाङ्क्षतां युद्धे यशश्च सुमहद्रणे॥३९॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि चतुष्पष्टितमोऽध्यायः॥६४॥
॥६४॥भीष्मवधपर्वणि चतुर्विंशोऽध्यायः॥२४॥
[ अस्मिनध्याये ३९॥ श्लोकाः]
<MISSING_FIG href="../books_images/U-IMG-1706351014मम.png"/>

॥पञ्चषष्टितमोऽध्यायः॥
<MISSING_FIG href="../books_images/U-IMG-1706351378नन.png"/>

संकुलयुद्धवर्णनम्॥

<MISSING_FIG href="../books_images/U-IMG-1706351014मम.png"/>

सञ्जयः—

अकरोत् तुमुलं युद्धं भीष्मश्शान्तनवस्तदा।
भीमसेनभयाच्चैवपुत्रांस्तारयितुं तव॥१॥

पूर्वाह्णेतस्य रौद्रस्य अह्नो युद्धमवर्तत।
कुरूणां पाण्डवानां च मुख्यशूरविनाशनम्॥२॥

तस्मिन्नाकुलसङ्ग्रामे वर्तमाने भयानके।
अभवत् तुमुलश्शब्दस् संस्पृशन् गगनं महत्॥३॥

नदद्भिश्च महानागैर् हेषमाणैश्च वाजिभिः।
भेरीशङ्खमृदङ्गैश्च तुमुलस्समपद्यत॥४॥

युयुत्सवस्ते सङ्क्रुद्धा विजयाय महीक्षितः।

अन्योन्यमभिगर्जन्ति गोष्ठेष्विव महर्षभाः॥५॥

शिरसां पात्यमानानां समरे निशितैश्शरैः।
अश्मवृष्टिरिवाकाशे बभूव भरतर्षभ॥६॥

कुण्डलोष्णीषधारीणि जातरूपोज्ज्वलानि च।
पतितानि स्म दृश्यन्ते शिरांसि भरतर्षभ॥७॥

विशिखोन्मथितैर्गात्रैर् बाहुभिश्च सकार्मुकैः।
सहस्ताभरणैश्चान्यैर् अभवच्छादिता मही॥८॥

कवचोपहितैर्गात्रैर् हस्तैश्च समलङ्कृतैः।
मुखैश्च325 चन्द्रसंकाशै रक्तान्तनयनैश्शुभैः॥९॥

गजवाजिमनुष्याणां सर्वगात्रैश्च भूषितैः।
आसीत् सर्वा समाकीर्णा मुहूर्तेन वसुन्धरा॥१०॥

रजोमेघैश्च तुमुलैश् शस्त्रविद्युत्प्रकाशितैः।
आयुधानां च निर्घोषस् स्तनयित्नुसमोऽभवत्॥११॥

स सम्प्रहारस्तुमुलः कटुकश्शोणितोदकः।
प्रावर्तत कुरूणां च पाण्डवानां च भारत॥१२॥

तस्मिन् महाहवे घोरे तुमुले रोमहर्षणे।

प्रावर्षञ् शरवर्षाणि क्षत्रिया रुधिराणि च॥१३॥

प्राक्रोशन् कुञ्जरास्तत्र शरवर्षप्रतापिताः।
तावकानां परेषां च संयुगे भरतर्षभ॥१४॥

संरब्धा326नां च वीराणां शूराणामनिवर्तिनाम्।
धनुर्ज्यातलशब्देन न प्राज्ञायत किश्चन॥१५॥

उत्थितेषु कबन्धेषु सर्वतश्शोणितोदके।
समरे पर्यधावन्त नृपा रिपुवधोद्यताः॥१६॥

शरशक्तिगदाभिस्ते खङ्गैश्चामिततेजसः।
निजध्नुस्समरे सेनाम् अन्योन्यस्य परन्तपाः॥१७॥

बाहूनामुत्तमाङ्गानां कार्मुकाणां च भारत।
गदानां परिघाणां च हस्तानां चोरुभिस्सह॥१८॥

पादानां भूषणानां च केयूराणां च सङ्घशः।
राशयस्स्म प्रदृश्यन्ते भीष्मभीमसमागमे॥१९॥

बभूवुः कुञ्जरास्तत्र शरैर्विद्धास्सहस्रशः।
अश्वाश्च पर्यधावन्त परस्परवधैषिणः॥२०॥

हतारोहा दिशो जग्मुश् शरघातप्रपीडिताः॥२०॥

तावकानां परेषां च योधानां राजसत्तम।
अश्वानां कुञ्जराणां च रथानां च वरूथिनाम्॥२१॥

राशयस्स्म प्रदृश्यन्ते तत्रतत्रविशां पते॥२२॥

गदाभिः परिघैः प्रासैर् बाणैस्सन्नतपर्वभिः।
जघ्नुः परस्परं तत्र क्षत्रियाः कालघोदिताः॥२३॥

अपरे बाहुभिर्वीरा नियुद्धकुशला युधि।
बाहुभिस्समसज्जन्त आयसैः परिघैरिव॥२४॥

मुष्टिभिर्जानुभिश्चैव तलैश्चैव विशां पते।
अन्योन्य327जघ्नेरेवीरास् तावकाः पाण्डवैस्सह॥२५॥

दुर्योधनमते घोरे अक्षद्यूताभिदेवने।
भीष्मे युधि पराक्रान्ते भीमसेनेन भारत॥२६॥

प्रावर्तत नदी घोरा शौणितौघतरङ्गिणी।
सेनामध्ये च महती केशशैवलशाद्वला॥२७॥

हतारोहा हया राजन् रथिनो विरथा युधि।
विचेरुस्तत्र328 सङ्ग्रामे निस्त्रिंशवरधारिणः॥२८॥

पतितैः पात्यमानैश्च विचेष्टद्भिश्च भूतले।
घोरमायोधनं329 जज्ञे तत्र तत्र जनेश्वर॥२९॥

विरथा रथिनश्चात्र निस्त्रिंशवरधारिणः।

अन्योन्यमभिधावन्ति परस्परवधैषिणः॥३०॥

ततो दुर्योधनो राजा कलिङ्गैर्बहुभिर्वृतः।
परिवार्य रणे भीष्मं पाण्डवानभ्यवर्तत॥३१॥

तथैव पाण्डवात्सर्वे परिवार्य घृकोदरम्।
भीष्ममभ्यपतन् क्रुद्धा रणे रभसवाहनाः॥३२॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि पञ्चषष्टितमोऽध्यायः॥६५॥
॥६४॥भीष्मवधपर्वणि पञ्चविंशोऽध्यायः॥२५॥
[ अस्मिन्नध्याये ३२॥ श्लोकाः]
<MISSING_FIG href="../books_images/U-IMG-1706349183मम.png"/>

॥षट्षष्टितमोऽध्यायः॥
<MISSING_FIG href="../books_images/U-IMG-1706349194NNNN.png"/>

संकुलयुद्धवर्णनम्॥

<MISSING_FIG href="../books_images/U-IMG-1706349183मम.png"/>

सञ्जयः—

दृष्ट्वा भीष्मेण संसक्तान् भ्रातॄनन्यांश्च बान्धवान्।
समभ्यधावद्गाङ्गेयम् उद्यतास्त्रो धनञ्जयः॥१॥

पाञ्चजन्यस्य निर्घोषं श्रुत्वा वै गाण्डिवस्य च।
ध्वजं च दृष्ट्वा पार्थस्य सर्वान् नो भयमाविशत्॥२॥

असञ्जमानं वृक्षेषु धूमराजिमिवोत्थितम्।
बहुवर्णं विचित्रं च दिव्यं वानरलक्षणम्॥३॥

अपश्याम रणे राजन् ध्वजं गाण्डीवधन्वनः॥३॥

सुवर्णपृष्ठं गाण्डीवं रणे द्रक्ष्यामि भारत।
विद्युतं मेघमध्यस्थां भ्राजमानामिवाम्बरे॥४॥

अश्रौषं च भृशं तत्र पाण्डवस्याभिगर्जतः।
सुघोरं तलशब्दं च निघ्नतस्तव वाहिनीम्॥५॥

चण्डवातो यथा मेघस् सविद्युत्स्तनयित्नुमान्।
दिशस्सञ्च्छादयन् सर्वाश् शरवर्षैस्समन्ततः॥६॥

अभ्यधावत गाङ्गेयं भैरवास्त्रो धनञ्जयः॥७॥

दिशं प्रतीचीं प्राचीं वा न जानीमोऽस्त्रमोहिताः।
कान्दिग्भूताश्श्रान्तपत्रा229 हताश्वा हतचेतसः॥८॥

अन्योन्यमभिसंश्लिष्य330 योधास्ते भरतर्षभ।
भीष्ममेवाभ्यलीयन्त सह सर्वैस्तवात्मजैः॥९॥

तेषामार्तायनमभूद्भीष्मश्शान्तनवो रणे॥९॥

समुपेत्य च विनस्ता रथेभ्यो रथिनस्तदा।
सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः॥१०॥

श्रुत्वा331 गाण्डीवनिर्घोषं विष्फूर्जितमिवाशनेः।

सर्वसैन्यानि भीतानि व्यवालीयन्त सर्वशः॥११॥

ततः काम्भोजमुख्याश्च ते हंसपथकर्णिकाः।
गोपासनबलौघाश्च332 गोपासनपतिस्तदा॥१२॥

मद्रसौवीरगान्धारैस् त्रिगर्तेश्च विशां पते।
पूर्वकालिङ्गमुख्यैश्च कलिङ्गाधिपतिस्सह॥१३॥

नानानरगणौघाश्च दुश्शासनपुरस्सराः।
जयद्रथश्च नृपतिस् सहितस्तैश्च राजभिः॥१४॥

गजारोहवराश्चैव तव पुत्रेण चोदिताः।
चतुर्दशसहस्राणि सौबलं पर्यवारयन्॥१५॥

ततस्ते सहितास्सर्वे विभक्तरथवाहनाः।
पाण्डवान् समरे जग्मुस् तावका भरतर्षभ॥१६॥

चेदिकाशिपदातैश्च रथैः पाञ्चालसृञ्जयैः।
सहिताः पाण्डवास्सर्वे धृष्टद्युम्नपुरोगमाः॥१७॥

तावकान् समरे जघ्नुर् धर्मपुत्रेण चोदिताः॥१८॥

रथैश्च वारणैरश्वैः पदातैश्च समीरितम्।
घोरमायोधनं जज्ञे महाभ्रसदृशं रजः॥१९॥

तोमरप्रासनाराचैर् गजैश्च गजयोधिनाम्।
बलेन महता भीष्मस् समासक्तः किरीटिना॥२०॥

आवन्त्यः काशिराजेन भीमसेनेन सैन्धवः।
अजातशत्रुर्मद्राणाम् ऋषभेण यशस्विना॥२१॥

सहपुत्रस्सहामात्यश् शल्येन समसज्जत।
विकर्णस्सहदेवेन चित्रसेनश्शिखण्डिना॥२२॥

मात्स्यो दुर्योधनमगाच् छकुनिं च विशां पते।
द्रुपदश्चेकितानश्च333 सात्यकिश्च महारथः॥२३॥

द्रोणेन समसज्जन्त सपुत्रेण विशां पते।
कृपश्च254 कृतवर्मा च धृष्टकेतुमभिद्रुतौ॥२४॥

एवं प्रजविताश्वानि भ्रान्तनागरथानि च।
सैन्यानि समसज्जन्त प्रयुद्धानि समन्ततः॥२५॥

निरभ्रे विद्युतस्तीव्रा दिशश्च रजसा घृताः।
प्रादुरासन् महोल्काश्च सनिर्घाता विशां पते॥२६॥

चण्डा बभूवुर्वाताश्च पांसुवर्षं पपात च।
नभस्यन्तर्दधे सूर्यस् सैन्येन रजसा वृतः॥२७॥

प्रमोहस्सर्वभूतानाम् अद्भुतस्समपद्यत॥२७॥

रजसा चाभिभूतानाम् अस्रजालैश्च मज्जताम्।
वीरबाहुविसृष्टानां सर्वावरणभेदिनाम्॥२८॥

संघातश्शरजालानाम् अतीव समपद्यत॥२९॥

प्रकाशं चक्रुराकाशम् उद्यतानि भुजोत्तमैः।
नक्षत्रविमलाभानि शस्त्राणि भरतर्षभ॥३०॥

आर्षभाणि334 विचित्राणि रुक्मजालावृतानि च।
सम्पेतुर्दिक्षु सर्वासु चर्माणि भरतर्षभ॥३१॥

सूर्यवर्णैश्च निस्त्रिं

शैः पात्यमानानि सर्वशः।
दिक्षु सर्वास्वदृश्यन्त शरीराणि शिरांसि च॥३२॥

भग्नचक्राक्षनीडाश्च निपातितमहाध्वजाः।
हताश्वाः पृथिवीं जग्मुस्तत्र तत्र महारथाः॥३३॥

परिपेतुर्हयश्रेष्ठा केचिच्छस्त्रकृतव्रणाः।
राजन् विपरिवर्तन्तो हतेषु रथयोधिषु॥३४॥

शराहता भग्नगात्रा वद्धयोक्राहयोत्तमाः।
युगानि पर्यकर्षन्त तत्र तत्र स्म भारत॥३५॥

अदृश्यन्त ससूताश्च साश्वास्सरथयोधिनः।
एकेन बलिना राजन् वारणेन हता रणे ॥३६॥

गन्धहस्तिमदस्रावम् आघ्राय बहवो रणे।
सन्निपाते बलौघानां गजान् ममृदिरे गजाः॥३७॥

सम्भग्नैश्चमहामात्रैर् निपतद्भिर्गतासुभिः।
बभूवायोधनं छन्नं नाराचाभिहतैर्गजैः॥३८॥

सन्नद्धानां बलौघानां प्रेषितर्वरवारणैः।
निपेतुर्युधि335 सम्भग्नास्सयोधास्सध्वजा रथाः॥३९॥

नागराजोपमैर्हस्तैर् नागैराक्षिप्य संयुगे।
अदृश्यन्त रथा राजन् सम्भग्नरथकूबराः॥४०॥

विकीर्णशरजालाश्च केशेष्वाक्षिप्य दन्तिभिः।
द्रुमशाखा इवाक्षिप्य निष्पिष्टा रथिनो रणे॥४१॥

रथेषु च रथान् सक्तान् आक्षिप्य वरवारणाः।
विक्षिपन्तो दिशस्सर्वास् सम्पेतुस्सर्वशब्दगाः॥४२॥

तेषां तदा कर्षतां च गजानां रूपमाबभौ।
सरस्सु नलिनीजालं विषक्तमिव कर्षताम्॥४३॥

एवं सञ्छादितं तत्र बभूवायोधनं महत्।
सादिभिश्च पदातैश्च सध्वजैश्च महारथैः॥४४॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि षट्षष्टितमोऽध्यायः॥६६॥
॥६४॥ भीष्मवधपर्वणि षड्विंशोऽध्यायः॥ २६॥
[ अस्मिन्नध्याये ४४॥ श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1706347823मम.png"/>

॥सप्तषष्टितमोऽध्यायः॥
<MISSING_FIG href="../books_images/U-IMG-1706347374bbbb.png"/>

सङ्कलयुद्धवर्णनम्॥

<MISSING_FIG href="../books_images/U-IMG-1706347402मम.png"/>

सञ्जयः—

शिखण्डी सह मात्स्येन विराटेन विशां पते।
भीष्ममेव महेष्वासम् आससाद सुदुर्जयम्॥१॥

द्रोणं कृपं विकर्णं च महेष्वासान महाबलान्।
राज्ञश्चान्यान् रणे राजन् बहूनार्च्छद्धनञ्जयः॥२॥

सैन्धवं च सहामात्यं महेष्वासं सबन्धुभिः।
प्राच्यांश्च दाक्षिणात्यांश्च भूमिपालान् विशां पते॥३॥

पुत्रं च तवदुर्धर्षं दुर्योधनममर्षिणम्।
दुष्षहं चैव समरे भीमसेनोऽभ्यवर्तत॥४॥

सहदेवस्तु शकुनिम् उलूकं च महारथम्।
पितापुत्रौ229 महेष्वासौ अभ्यवर्षत् सुदुर्जयौ॥५॥

युधिष्ठिरो महाराज राजानीकं महारथः।
समवर्तत सङ्ग्रामे पुत्रेण निकृतस्तव॥६॥

माद्रीपुत्रस्तु नकुलश् शूरसङ्क्रन्दनो युधि।

त्रिगर्तानां336 रथोदारैस समसज्जत पाण्डवः॥७॥

सात्यकिश्चेकितानश्च242 सौभद्रश्च महारथः।
धृष्टकेतुश्च समरे राक्षसश्च घटोत्कचः॥८॥

अभ्यवर्तन्त सङ्ग्रामे दुर्धर्षान् साल्वकेकयान्॥८॥

नाकुलिश्च शतानीकस् समरे रथपुङ्गवः।
पुत्राणां ते स्थानीकं अभ्यवर्तत दुर्धरः॥९॥

सेनापतिरमेयात्मा धृष्टद्युम्नो महाबलः।
द्रोणेन समरे राजन्समियायेन्द्रकर्मणा॥१०॥

एवमेते महेष्वासास् तावकाःपाण्डवैस्सह।
समेत्य समरे शूरास् सम्प्रहारं प्रचक्रिरे॥११॥

मध्यंदिनगते सूर्ये प्रतापयति सर्वतः।
कुरवः पाण्डवेयाश्च निजघ्नुरितरेतरम्॥१२॥

ध्वजिनो हेमंचित्राङ्गा विचरन्तो रणाजिरे।
सपताका रथा रेजुर् वैयाघ्रपरिवारणाः॥१३॥

समेतानां च समरे जिगीषूणां परस्परम्।
बभूव तुमुलश्शब्दस् सिंहानामिव नर्दताम्॥१४॥

तत्राद्भुतमपश्याम सम्प्रहारं सुदारुणम्।

यदकुर्वन् रणे वीराः कुरवः पाण्डवैस्सह॥१५॥

नैव स्वं न दिशो राजन् न सूर्यश्शत्रुतापन।
विदिशस्समदृश्यन्त शरैर्मुक्तैस्समन्ततः॥१६॥

शक्तीनां विमलाग्राणां तोमराणां तथाऽस्यताम्।
निस्त्रिंशानां च क्षिप्तानां नीलोत्पलनिभाः प्रभाः॥१७॥

कवचानां विचित्राणां भूषणानां तथा प्रभाः।
स्वं दिशः प्रदिशश्चैव छादयामासुरोजसा॥१८॥

असिभिश्च141 नरेन्द्राणां चन्द्रसूर्यसमप्रभैः।
विरराज तथा राजंस् तत्र तत्ररणाङ्गणम्॥१९॥

रथसिंहा रथव्याघ्रास् समवेताश्च संयुगे।
विरेजुस्समरे337 राजन् ग्रहा इव नभस्स्थले॥२०॥

भीष्मस्तु रथिनां श्रेष्ठो भीमसेनं महाबलम्।
अवारयत सङ्क्रुद्धस् सर्वसैन्यस्य पश्यतः॥२१॥

ततो भीष्मविनिर्मुक्तारुक्मपुङ्स्राश्शिलाशिताः।
अभ्यघ्नन् समरे भीमं तैलधौतास्सुतेजसः॥२२॥

तस्य शक्तिं महावेगां भीमसेनो महाबलः।
क्रुद्धाशीविषसङ्काशां प्रेषयामास भारत॥२३॥

तामापतन्तीं सहसा रुक्मपुङ्खां सुदारुणाम्।
चिच्छेद समरे भीष्मश् शरैस्सन्नतपर्वभिः॥२४॥

ततोऽपरेण भल्लेन पीतेन निशितेन च।
कार्मुकं भीमसेनस्य द्विधा चिच्छेद भारत॥२५॥

अपास्य तु धनुश्छिन्नं भीमसेनो महाबलः।
शरैर्बहुभिरानर्च्छद् भीष्मं शान्तनवं युधि॥२६॥

सात्यकिस्तु ततस्तूर्णं भीष्ममासाद्य संयुगे।
शरैर्बहुभिरानर्च्छत् पितरं ते नरेश्वर॥२७॥

ततस्संधाय वै तीक्ष्णं शरं परमदारुणम्।
वार्ष्णेयस्य ततो भीष्मः पातयामास सारथिम्॥२८॥

तस्याश्वाः प्रद्भुता राजन् निहते रथसारथौ।
तेन तेनैव धावन्ति मनोमारुतरंहसः॥२९॥

ततस्सर्वस्य सैन्यस्य निस्स्वनस्सुमहानभूत्।
हाहाकार सञ्जज्ञे पाण्डवानां महात्मनाम्॥३०॥

अभिद्रवत गृह्णीत हयान् यच्छत धावत।

इत्यासीत्338 तुमुलश्शब्दो युयुधानरथं प्रति॥३१॥

एतस्मिन्नेव काले तु भीष्मश्शान्तनवस्तदा।
न्यहनत् पाण्डवीं सेनाम् आसुरीमिव वृत्रहा॥३२॥

ते वध्यमाना भीष्मेण पाञ्चालास्सह सोमकैः।
क्रुद्धा युद्धे मतिं कृत्वा भीष्ममेवाभिदुद्रुवुः॥३३॥

धृष्टद्युम्नमुखाः पार्थाःभीष्मं शान्तनवं रणे।
अभ्यधावञ्जिघांसन्तः पुत्रस्य तव वाहिनीम्॥३४॥

तथैव तावका राजन् भीष्मद्रोणमुखाः परान्।
अभ्यधावञ्जिघांसन्तः पाण्डवानां महाचमूम्॥३५॥

तावकानां परेषां च ततो युद्धमवर्तत॥३६॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि सप्तषष्टितमोऽध्यायः॥६७॥
॥६४॥ भीष्मवधपर्वणि सप्तविंशोऽध्यायः॥२७॥
[ अस्मिन्नध्याये ३६॥ श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1706346283मम.png"/>

॥अष्टषष्टितमोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1706346403bbbb.png"/>

युद्धवर्णनम्॥

<MISSING_FIG href="../books_images/U-IMG-1706346283मम.png"/>

सञ्जयः—

विराटोऽथ त्रिभिर्बाणैर् भीष्ममार्च्छन्महारथम्।
विव्याध तुरगांश्चास्य त्रिभिर्बाणैर्महारथः॥

तं प्रत्यविध्यद्दशभिर् भीष्मश्शान्तनवश्शरैः।

रुक्मपुङ्खैर्महेष्वासः कृतहस्तो महाबलः॥२॥

द्रौणिर्गाण्डीवधन्वानं भीमधन्वा महारथः।
अविध्यदिषुभिष्षड्भिर् दृढहस्तस्स्तनान्तरे॥३॥

कार्मुकं तस्य चिच्छेद फल्गुनः परवीरहा।
अविध्यच्च पुनस्तीक्ष्णैः पत्रिभिश्शत्रुकर्शनः॥४॥

सोऽन्यत् कार्मुकमादाय वेगवान् क्रोधमूर्च्छितः।
अमृष्यमाणः पार्थेन कार्मुकच्छेदमाहवे॥५॥

अविध्यत् फल्गुनं राजन् नवत्या निशितैश्शरैः।
वासुदेवं च सप्तत्या विव्याध परमेषुभिः॥६॥

ततः क्रोधाभिताभ्राक्षस् सह कृष्णेन फल्गुनः।
दीर्घमुष्णं च निश्श्वस्य चिन्तयित्वा मुहुर्मुहुः॥७॥

धनुः प्रपीड्य वामेन करेणामित्रकर्शनः।
गाण्डीवधन्वा सङ्क्रुद्धश् शितान् सन्नतपर्वणः॥८॥

जीवितान्तकरान् घोरान् समधत्त शिलीमुखान्॥८॥

तैस्तूर्णं समरेऽविध्यद् द्रौणिं बलवतां वरः।
कवचं141 घातयामास पुनस्तीक्ष्णैश्शिलीमुखैः॥९॥

तस्य ते कवचं भित्त्वा पपुश्शोणितमाहवे।
न विव्यथे च निर्भिन्नो द्रौणिर्गाण्डीवधन्वना॥१०॥

तथैव च शरान्पार्थे प्रतिमुञ्चन्न विह्वलः।
तस्थौ च समरे राजंस् त्रातुमिच्छन् महाव्रतम्॥११॥

तस्य339 तत् सुमहत् कर्म शशंसुः कुरुसत्तमाः।
यत् कृष्णाभ्यां समेताभ्यां प्रयुध्यन्नात्रसद्युधि॥१२॥

स हि नित्यमनीकेषु युध्यतेऽभयमास्थितः॥१३॥

तथाऽर्जुनोऽपि246 संहृष्ट अश्वत्थामानमाहवे।
शशंस सर्वभूतानां शृण्वतामपि भारत॥१४॥

अस्त्रग्रामं ससंहारं द्रोणात् प्राप्य सुदुर्लभम्।
ममायमाचार्यसुतो द्रोणस्यापि प्रियस्सुतः॥१५॥

ब्राह्मणश्च विशेषेण माननीयो ममेति च॥१५॥

समास्थाय मतिं धीरो बीभत्सुश्शत्रुतापनः।
कृपां चक्रे रथश्रेष्ठ भारद्वाजसुतं प्रति॥१६॥

द्रौणिं त्यक्त्वा ततो युद्धे कौन्तेयश्शत्रुतापनः।
युयुधे तावकान् वीरान् स्मयमानः पराक्रमी॥१७॥

दुर्योधनस्तु दशभिर् गृध्रपत्रैश्शिलाशितैः।
भीमसेनं229 महेष्वासं रुक्मपुङ्खैस्समार्पयत्॥१८॥

भीमसेनस्तु सङ्क्रुद्धः परासुकरणं दृढम्।

चित्रं कार्मुकमादत्त शरान् सुनिशितान् बहून्॥१९॥

आकर्णप्रेषितैस्तैस्तु वेगितैस्तिग्मतेजनैः।
अविध्यत् तूर्णमव्यग्रःकुरुराजं महोरसि॥२०॥

तस्य काञ्चनसूत्रस्थश् शरैः परिवृतो मणिः।
रराजोरसि स्वे सूर्यो ग्रहैरिव समाधृतः॥२१॥

पुत्रस्तु तव तेजस्वी भीमसेनेन ताडितः।
नामृष्यत यथा नागस् तलशब्दं मदोत्कटः॥२२॥

ततश्शरैर्महाराज रुक्मपुङ्खैश्शिलाशितैः।
भीमं विव्याध सङ्क्रुद्धस् त्रासयानो वरूथिनीम्॥२३॥

तौ युध्यमानौ समरे भृशमन्योन्यविक्षतौ।
पुत्रौ ते देवसङ्काशौ व्यरोचेतां महाबलौ॥२४॥

चित्रसेनं नरव्याघ्रं सौभद्रः परवीरहा।
अविध्यद्दशभिर्बाणैः पुरुमित्रं च सप्तभिः॥२५॥

सत्यव्रतं च सप्तत्या विद्ध्वाशक्रसमो युधि।
नृत्यन्निव रणे वीरः परान् सन्तापयद्रणे॥२६॥

तं प्रत्यविध्यद्दशभिश् चित्रसेनश्शिलीमुखैः।
सत्यव्रतश्च नवभिः पुरुमित्रश्च सप्तभिः॥२७॥

स विद्धो विक्षरन् रक्तं देहात् सम्भिन्नकञ्चुकात्।

चिच्छेद चित्रसेनस्य चित्रंकार्मुकमार्जुनिः॥२८॥

भित्त्वा तस्य तनुत्राणं शरेणोरस्यताडयत्॥२९॥

ततस्तु तावका वीरा राजपुत्रा महारथाः।
समेत्य युधि संरब्धा विव्यधुर्निशितैश्शरैः॥३०॥

तांश्च सर्वाञ् शरैस्तीक्ष्णैर् जघान परमास्त्रवित्॥३०॥

तस्य दृष्ट्वा तु तत् कर्म परिवव्रुस्सुतास्तव।
दहन्तं समरे सैन्यं वने कक्षं यथोल्बणम्॥३१॥

अपेतशिशिरे काले समिद्ध इव पावकः।
अत्यरोचत सौभद्रस् तव सैन्यानि नाशयन्॥३२॥

तत् तस्य चरितं दृष्ट्वा पौत्रस्तव विशां पते।
लक्ष्मणोऽभ्यपतद्वाजन् सात्वतीपुत्रमाहवे॥३३॥

अभिमन्युस्तु सङ्क्रुद्धो लक्ष्मणं शुभलक्षणम्।
विव्याध विशिखैष्षड्भिस् सारथिं च त्रिभिश्शरैः॥३४॥

तथैव लक्ष्मणो राजन् सौभद्रं निशितैश्शरैः।
अविध्यत महाराज तदद्भुतमिवाभवत्॥३५॥

सौभद्रस्तु141 ततः क्रुद्धो लक्ष्मणं निजधान ह॥३६॥

तस्याश्वांश्चरो हत्वा सारथिं च महाबलः।

अभ्यद्रवत229 सौभद्रो लक्ष्मणं निशितैश्शरैः॥३७॥

हताश्वे तु रथे तिष्ठल्ँलक्ष्मणः परवीरहा।
शक्तिं340 चिक्षेप सङ्क्रुद्धस् सौभद्रस्य रथं प्रति॥३८॥

तामापतन्तीं सहसा घोररूपां दुरासदाम्।
अभिमन्युश्शरैस्तीक्ष्णैश् चिच्छेद भुजगोपमाम्॥३९॥

ततस्स्वरथमारोप्य लक्ष्मणं गौतमस्तदा।
अपोवाह रथेनाजौ सर्वसैन्यस्य पश्यतः॥४०॥

ततस्समाकुले युद्धे वर्तमाने भयावहे।
यो हयं गजो नागं वीरो वीरं विशां पते॥४१॥

अभ्यद्रवज्जिघांसन्तं सोऽहन्यत स चावधीत्॥४१॥

तावकाश्च महेष्वासाः पाण्डवाश्च महारथाः।
जुहन्तस्समरे प्राणान् आजघ्नुरितरेतरम्॥४२॥

मुक्तकेशा विकवचा विरथा भिन्नकार्मुकाः।
बाहुभिस्समयुध्यन्त सृञ्जयाः कुरुभिस्सह॥४३॥

ततो भीष्मो महाबाहुः पाण्डवानां महात्मनाम्।
सेनां जघान सङ्क्रुद्धोदिव्यैरस्त्रैर्महाबलः॥४४॥

हतेश्वरैर्गजैस्तत्रनरैरश्वेश्च पातितैः।
रथैर्भग्नपताकैश्च समास्तीर्यत मेदिनी॥४५॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि अष्टषष्टितमोऽध्यायः॥६८॥
॥६४॥भीष्मवधपर्वणि अष्टाविंशोऽध्यायः॥२८॥
[ अस्मिनध्याये ४५॥ श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1706340089मम.png"/>

॥एकोनसप्ततितमोऽध्यायः॥
<MISSING_FIG href="../books_images/U-IMG-1706340077नन.png"/>

भूरिश्रवसा सात्यकिपुत्रदशकवधः॥१॥सात्यकिभूरिश्रवसोर्युद्धम्॥२॥

<MISSING_FIG href="../books_images/U-IMG-1706340089मम.png"/>

सञ्जयः—

अथ राजन् महाबाहुस् सात्यकिर्युद्धदुर्मदः।
विकृष्य चापं समरे भारसाधनमुत्तमम्॥१॥

यत् तत् सख्युस्तु पूर्वेण अर्जुनादुपशिक्षितम्।
प्रगाढं लघु चित्रं च दर्शयन् हस्तलाघवम्॥२॥

प्रामुञ्चत्320 पुद्खसंयुक्ताञ् शरानाशीविषोपमान्॥२॥

तस्य विक्षिपतश्चापं शरानन्यांश्च मुञ्चतः।
आदानस्य भूयश्च सन्दधानस्य चापरान्॥३॥

क्षिपतश्चापरांस्तत्र रणे शत्रून् विनिघ्नतः।
ददृशे रूपमत्यर्थं मेघस्येव प्रवर्षतः॥४॥

तमुदीर्यन्तमालोक्य राजा दुर्योधनस्ततः।
रथानामयुतं तत्र प्रेषयामास भारत॥५॥

तांस्तु सर्वान् महेष्वासान् सात्यकित्सत्यविक्रमः।
जघान च महेष्वासो दिव्येनास्त्रेण संयुगे॥६॥

स कृत्वा दारुणं कर्म प्रगृहीतशरासनः।
आससाद ततो वीरो भूरिश्रवसमाहवे॥७॥

स दृष्ट्वा निहतां सेनां सात्यकेन निपातिताम्।
अभ्यधावदसम्भ्रान्तः कुरूणां कीर्तिवर्धनः॥८॥

इन्द्रायुधसवर्णाभं स विष्फार्य महाधनुः।
विसृजन् वज्रसङ्कल्पाञ् शरानाशीविषोपमान्॥९॥

सहस्रशो महाराज दर्शयन पाणिलाघवम्॥१०॥

शरांस्तान् मृत्युसंस्पर्शान् सात्यकेस्तु पदानुगाः।
विषेहिरे न ते राजन् दुद्रुवुश्च समन्ततः॥११॥

विहाय समरे शूरं सात्यकिं युद्धदुर्मदम्॥११॥

तं दृष्ट्वा युयुधानस्य सुता दश महाबलाः।
महारथास्समाख्याताश् चित्रवर्मायुधध्वजाः॥१२॥

तमासाद्य महेष्वासं भूरिश्रवसमाहवे।
क्रुद्धास्सर्वे सुसंरब्धा आहुरेवं महाहवे॥१३॥

युयुधानपुत्राः—

भो भो कौरवदायाद सहास्माभिर्महाबल।
आगच्छ युधि युध्यस्व समस्तैः पृथगेव वा॥१४॥

अद्य त्वस्मान् पराजित्य यशः प्राप्नुहि संयुगे।
वयं वा त्वां पराजित्य प्रीतिं दास्यामहे पितुः॥१५॥

सञ्जयः—

एवमुक्तस्तथा वीरैर् वीर्यश्लाघी महाबलः।
तानुवाच नरश्रेष्ठो दृष्ट्वा वै समुपस्थितान्॥१६॥

सात्यकिः—

साध्विदं कथ्यते वीरा यद्येवं मतिरद्य वः।
युध्यध्वं सहिता यत्ता निहनिष्यामि वो रणे॥१७॥

सञ्जयः—

एवमुक्ता महेष्वासास् तान् वीरान् क्षिप्रकारिणः।
महता शरवर्षेण अभ्यवर्षदरिन्दमः॥१८॥

सोऽपराह्णेमहाराज सङ्ग्रामस्तुमुलोऽभवत्।
एकस्य च बहूनां च समेतानां रणाजिरे॥१९॥

तमेकं रथिनां श्रेष्ठं शरैस्ते समवाकिरन्।
प्रावृषीव महामेरुं सिषिचुर्जलदा यथा॥२०॥

तैस्तु व्यक्ताञ् शरौघांस्तान् यमदण्डाशनिप्रभान्।
असम्प्राप्तानसम्प्राप्तांश चिच्छेदाशु महारथः॥२१॥

तत्राद्भुतमपश्याम सौमदत्तेः पराक्रमम्।
यदेको बहुभिर्युद्धे समासददभीतवत्॥२२॥

विसृज्य शरवृष्टिं तां दश राजन् महारथाः।
परिवार्य महाबाहुं निहन्तुमुपचक्रमुः॥२३॥

सौमदत्तिस्ततः क्रुद्धस् तेषां चापानि भारत।
चिच्छेद दशभिर्भल्लैर् निमेषेण महाबलः॥२४॥

अथैषां341 छिन्नधनुषां शरैस्सन्नतपर्वभिः।
चिच्छेद समरे राजन् शिरांसि भरतर्षभ॥२५॥

ते हता न्यपतन् भूमौ वज्रभग्ना इव द्रुमाः॥२६॥

तान् दृष्ट्वा निहतान् वीरान् रणे पुत्रान् महाबलान्।
वार्ष्णेयोऽभ्यपतद्राजन् भूरिश्रवसमाहवे॥२७॥

रथं रथस्य वेगेन पीडयन् सौमदत्तिनः॥२७॥

तावन्योन्यस्य समरे निहत्य रथवाजिनः।
विरथावभिवल्गन्तौ समेयातां महारथौ॥२८॥

प्रगृहीतमहाखङ्गौ तौ चर्मवरधारिणौ।
शुशुभाते नरव्याघ्रौ युद्धाय समुपस्थितौ॥२९॥

खड्गप्रहारैस्सुभृशं342 जघ्नतुश्च परस्परम्॥३०॥

पीडितौ खङ्गघाताभ्यां स्रवद्रक्तो क्षितौ भृशम्॥३१॥

शुशुभाते महावीर्यावुभौ समरदुर्जयो।
असृगुक्षितसर्वाङ्गो पुष्पिताविव किंशुकौ॥३१॥

असह्यमसियुद्धाय भूरिश्रवसमाहवे।
मत्वा343 वृकोदरस्तूर्णम् अभिष्लुत्य महारथः॥३२॥

ततस्तु सात्यकिं राजन् सनिस्त्रिंशिं महारथम्।
त्वरमाणो रणे भीमो रथमारोपयत् स्वकम्॥३३॥

तथैव तव पुत्रोऽपि भूरिश्रवसमाहवे।
आरोपयद्रथं तूर्णं स्वं रथं सर्वधन्विनाम्॥३४॥

पश्यतां236 युधि राजेन्द्र तदद्भुतमिवाभवत्॥३५॥

तस्मिंस्तथा वर्तमाने रणे भीष्मं महारथम्।
अयोधयन्त संरब्धाः पाण्डवा भरतर्षभ॥३६॥

लोहितायति चादित्ये त्वरमाणो धनञ्जयः।
पञ्चविंशतिसाहस्रान् निजघान महारथान्॥३५॥

ते हि दुर्योधनादिष्टास् तदा पार्थनिबर्हणे।
ते प्राप्यैव गता नाशं शलभा इव पावकम्॥३८॥

ततो मात्स्याः केकयाश्च धनुर्वेदविशारदाः।
परिवव्रूरणे पार्थं सहपुत्रं महारथम्॥३९॥

अस्तं गते तदाऽऽदित्ये तुमुले सङ्कुले भृशम्।
सर्वेषामेव सैन्यानां प्रमोहस्समजायत॥४०॥

अपहारं ततश्चक्रे पिता देवव्रतस्तव।
संध्याकाले महाराज सैन्यानां श्रान्तवाहनः॥४१॥

पाण्डवानां कुरूणां च परस्परसमागमे।
ते सेने भृशसंतप्ते ययतुस्स्वं निवेशनम्॥४२॥

ततस्ते शिबिरं गत्वा न्यविशंस्तत्र भारत।
पाण्डवास्सृञ्जयैस्सार्धं कुरवश्च यथाविधि॥४३॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि एकोनसप्ततितमोऽध्यायः॥६९॥
॥६४॥ भीष्मवधपर्वणि एकोनत्रिंशोऽध्यायः॥२९॥
[ अस्मिन्नध्याये ४३॥ श्लोकाः]
[ पञ्चमापहारस्समाप्तः ]
<MISSING_FIG href="../books_images/U-IMG-1706338673मम.png"/>

॥सप्ततितमोऽध्यायः॥
<MISSING_FIG href="../books_images/U-IMG-1706338687bbbb.png"/>

कुरुपाण्डवयोः क्रौञ्चमकरव्यूहरचनापूर्वकमायोधनम्॥

<MISSING_FIG href="../books_images/U-IMG-1706338673मम.png"/>

सञ्जयः—

विहृत्य तु ततो राजन् सहिताः कुरुपाण्डवाः।
ततो रात्र्यां व्यतीतायां पुनर्युद्धाय निर्ययुः॥१॥

ततश्शब्दो महानासीत् तव तेषां च भारत।

गच्छतां344 पाण्डवानां च सन्नद्धानां दृढात्मनाम्॥२॥

युज्यतां345 रथमुख्यानां कलप्यतां चैव दन्तिनाम्।
सनह्यतां पदातीनां हयानां चैव भारत॥३॥

सन्नह्यतां141 रणे योद्धुं दृढकञ्चुकधारिणाम्।
शङ्खदुन्दुभिनादश्चतुमुलस्सर्वतोऽभवत्॥४॥

ततो युधिष्ठिरो राजा धृष्टद्युम्नमभाषत॥४॥

युधिष्ठिरः—

व्यूहं व्यूहस्व पाञ्चाल मकरं शत्रुनाशनम्॥५॥

सञ्जयः—

एवमुक्तस्तु पार्थेन धृष्टद्युम्नो महारथः।
मकरं346 व्यूहमकरोत् पुरा भीष्मेण कारितम्॥६॥

मकरेण तु संव्यूह्य बलं व्यूहविदां वरः।
व्यादिदेश यथान्यायं रथिनो रथिनां वरः॥७॥

शिरोऽभूद्द्रुपदश्चास्य पाण्डवश्च धनञ्जयः।
चक्षुषी347 सहदेवश्च नकुलश्च महारथः॥८॥

तुण्डमासीन्महाराज भीमसेनो महाबलः॥८॥

सौभद्रो द्रौपदेयाश्च राक्षसश्च घटोत्कचः।
सात्यकिर्धर्मराजश्च व्यूहग्रीवां समाश्रिताः॥९॥

पृष्ठमासीन्महाराज विराटो वाहिनीपतिः।
धृष्टद्युम्नेन सहितो महत्या सेनया घृतः॥१०॥

केकया भ्रातरः पञ्च वामपार्श्वमुपाश्रिताः॥११॥

धृष्टकेतुर्नरव्याघ्रः कनकर्षश्च वीर्यवान्।
दक्षिणं पक्षमाश्रित्य स्थितौ व्यूहस्य रक्षणे॥१२॥

कुन्तिभोजश्शतानीको महत्या सेनया घृतः।
शिखण्डी च महेष्वासस् सोमकैस्संवृतो बली॥१३॥

इरावांश्च नृपः पुच्छे मकरस्य व्यवस्थितौ॥१३॥

एवमेतं महाव्यूहं व्यूह्य भारत पाण्डवाः।
सूर्योदये महाराज पुनर्युद्धाय दंशिताः॥१४॥

कौरवानभ्ययुस्तूर्णं हस्त्यश्वरथपत्तिभिः॥१५॥

समुच्छ्रितेध्वेजैश्छत्रैश् शस्त्रैश्च विमलेश्शितैः।
व्यूहितं दृश्य तत् सैन्यं पिता देवव्रतस्तव॥१६॥

क्रौञ्जेन महता राजन् प्रत्यव्यूहत वाहिनीम्॥१६॥

तस्य तुण्डे महेष्वासो भारद्वाजो व्यरोचत।

अश्वत्थामा कृपश्चैव चक्षुरास्तां जनेश्वर॥१८॥

कृतवर्मा तु सहितः काम्भोजैरथ वाह्लिकैः।
शिरस्यासीन्नरश्रेष्ठश् श्रेष्ठस्सर्वधनुष्मताम्॥१९॥

ग्रीवायां शूरसेनश्च तव पुत्रश्च भारत।
दुर्योधनो महाराज राजभिर्बहुभिर्वृतः॥२०॥

भगदत्तो महावीरो मद्रसौवीरकेकयैः।
उरस्यभून्नरश्रेष्ठ महत्या सेनया घृतः॥२१॥

पृष्ठे चास्तां महेष्वासावावन्त्यौ सपदानुगौ॥

स्वसेनया तु सहितस् सुशर्मा प्रस्थलाधिपः।
वामं पक्षं समाश्रित्य दंशितस्समवस्थितः॥२२॥

तुषारा यवनाश्चैव शकाश्च सह चूचुपैः।
दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य भारत॥२३॥

श्रुतायुश्च शतायुश्च सौमदत्तिश्च मारिष।
ब्यूहस्य जघने तस्थू रक्षमाणाः परस्परम्॥२४॥

ततो युद्धाय संसक्ताः कौरवाः348 पाण्डवैस्सह।
सूर्योदये महाराज प्रावर्तत जनक्षयः॥२५॥

जग्मुश्च रथिनो नागान्नागाश्च रथिनो ययुः।
हयारोहा गजारोहान् रथिनश्चापि सादिनः॥२६॥

सादिनो रथिनो राजन् कुञ्जराश्च विशां पते।
हस्त्यारोहान् हयारोहान् रथिनश्चापि सादिनः॥२७॥

सादिनः पत्तिभिस्सार्धं सादिभिश्चापि पत्तयः।
अन्योन्यं समरे राजन् प्रत्यधावन्नमर्षिताः॥२८॥

भीमसेनार्जुनयमैर् गुप्ता चान्यैर्महारथैः।
शुशुभे पाण्डवी सेना नक्षत्रैरिव शर्वरी॥२९॥

तथा भीष्मकृपद्रोणशल्यदुर्योधनादिभिः।
तवापि च बभौ सेना ग्रहैर्द्यौरिव संघृता॥३०॥

भीमसेनस्तु कौन्तेयो द्रोणं दृष्ट्वा पराक्रमी।
अभ्ययाज्जवनैरश्वैर् भारद्वाजस्य वाहिनीम्॥३१॥

द्रोणस्तु समरे क्रुद्धो भीमं नवभिरायसैः।
विव्याध त्वरितो राजन् मर्माण्युद्दिश्य भारत॥३२॥

दृढाहतस्तदा भीमो भारद्वाजस्य संयुगे।
सारथिं प्रेषयामास यमस्य सदनं प्रति॥३३॥

स सङ्गृह्य स्वयं वाहान् भारद्वाजः प्रतापवान्।
व्यधमत् पाण्डवीं सेनां तूलराशिमिवानलः॥३४॥

ते वध्यमाना भीष्मेण द्रोणेन च महात्मना।
सृञ्जयाः केकयैस्सार्धं पलायनपरा भवन्॥३५॥

तथैव266 तावकी सेना भीमसेनपरिक्षता।
मुह्यते तत्र तत्रैव समदेव वराङ्गना॥३६॥

अभिद्येतां महाव्यूहौ तस्मिन् वीरवरक्षये।
आसीव्द्यतिकरो घोरस् तव तेषां च भारत॥३७॥

तदद्भुतमपश्याम तावकानां परस्सह।
एकायनगतास्सर्वे यदयुध्यन्त संयुगे॥३८॥

प्रतिसंवार्य चास्त्राणि तेऽन्योन्यस्य विशां पते।
युयुधुः पाण्डवाश्चैव कुरवश्च समाहिताः॥३९॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि सप्ततितमोऽध्यायः॥७०॥
॥६४॥भीष्मवधपर्वणि त्रिंशोऽध्यायः॥३०॥
[ अस्मिन्नध्याये ३९॥ श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1706337493मम.png"/>

॥एकसप्ततितमोऽध्यायः॥
<MISSING_FIG href="../books_images/U-IMG-1706337508नन.png"/>

धृतराष्ट्रेण स्वसेनाक्षयश्रवणेन शोचनम्॥

<MISSING_FIG href="../books_images/U-IMG-1706337493मम.png"/>

धृतराष्ट्रः—

एवं बहुगुणं सैन्यम् एवं बहुविधं परम्।
व्यूढमेवं229 यथान्यायम् अमोघं चैव सञ्जय॥

जुष्टमस्माभिरत्यन्तम् अभिरामं च नस्सदा।

प्रहृष्टं व्यसनापेतं पुरस्ताद्दृष्टविक्रमम्॥

नातिवृद्धमबालं च न कृशं न च पीवरम्।
लघुवृत्तायतप्रायं सागराकारमव्ययम्॥

आत्तसन्नाहशस्त्रंच बहुशस्त्रपरिग्रहम्।
असियुद्धे नियुद्धे च गदायुद्धे च सञ्जय॥

प्रासर्ष्टितोमरेष्वाजौ परिघेष्वायतेषु च।
भिण्डिपालेषु शूलेषु मुसलेषु च सर्वशः॥

कर्षणेषु च चापेषु करणेषु च सर्वशः।
क्षेपणीषु विचित्रासु मुष्टियुद्धेषु कोविदम्॥

अपरोक्षं च विद्यासु व्यायामेषु कृतश्रमम्।
अस्त्रग्रहणविद्यासु सर्वासु परिनिष्ठितम्॥

आरोहे254 पर्यवस्कन्दे सरणे सोत्तरप्लुते।
सम्यक्प्रहरणे याने व्यपयाने च कोविदम्॥

नागाश्वरथयानेषु बहुशः परिनिष्ठितम्।
परीक्ष्य च यथान्यायं वेतनेनोपपादितम्॥

न गोष्ठ्या नोपकारेण न च बन्धुनिमित्ततः।
न सौहृदबलात्कारैर् न कुलैर्न परिग्रहैः॥

कुलीनमाढ्यं229 वीरं च तुष्टं सत्कृतबान्धवम्।

कृतोपकारभूयिष्ठं यशस्वि च मनस्वि च॥११॥

अजेयैश्च जनैर्मुख्यैर् बहुशो मुख्यकर्मभिः।
लोकपालोपमैस्तत्र पालितं लोकविश्रुतैः॥१२॥

बहुभिः क्षत्रियैर्गुप्तं पृथिव्यां शूरसत्तमैः।
अस्मानभिगतं कामात् सबलं सपदानुगम्॥१३॥

महोदधिमिवापूर्णम् आपगाभिस्समन्ततः।
सपक्षगिरिसङ्काशै रथैर्नागैश्च संवृतम्॥१४॥

नानायोधबलैर्भीमं वाहनोर्मितरङ्गिणम्।
क्षेपणासिगदाशक्तिशरप्राससमाकुलम्॥१५॥

ध्वजभूषणसम्बाधं रत्नकुट्टिमभूषितम्।
वाहनैः परिधावद्भिर् वायुवेगसमैर्जवे॥१६॥

परिकल्पितभूयिष्ठं141 ग्राहैरिव जलाशयैः।
अपारमिव गर्जन्तं सागरप्रतिमं महत्॥१७॥

द्रोणभीष्मादिभिर्गुप्तं गुप्तं च कृतवर्मणा।
कृपदुश्शासनाभ्यां च जयद्रथमुखैस्तथा॥१८॥

भगदत्तविकर्णाभ्यां द्रौणिसौबलबाह्लिकैः।
गुप्तं प्रवीरैर्लोकस्य सारवद्भिर्महारथैः॥१९॥

यदहन्यत सैन्यं मे दिष्टमत्र परायणम्॥१९॥

नैतादृशं समुद्योगं दृष्टवन्तोऽथ मानुषाः।
ऋषयो वा महाभागाः पुराणा भुवि सञ्जय॥२०॥

ईदृशो हि बलौघस्तु युक्तश्शस्त्रास्त्रसम्पदा।
वध्यते यत्र सङ्ग्रामे किमन्यद्भागधेयतः॥२१॥

विपरीतमिदं सर्वं प्रतिभाति स्म सञ्जय।
यत्रेदृशं बलं घोरं नावधद्युधि पाण्डवान॥२२॥

अथवा पाण्डवार्थाय देवास्तत्रसमागताः।
युध्येयुर्मामकं सैन्यं यथाऽहन्यत संयुगे॥२३॥

उक्तोऽपि विदुरेणेह हितं युक्तं च नित्यशः।
न शृणोत्यपि तन्मन्दः पुत्रो दुर्योधनो मम॥२४॥

तथ्यां349 मन्ये मतिं तस्य सर्वज्ञस्य महात्मनः।
आसीद्यथागतं तात येन दृष्टमिदं पुरा॥२५॥

अथवा भाव्यमेवं हि सञ्जयैतेन सर्वथा।
पुरा धात्रा यथा दिष्टं तत् तथा न तद्न्यथा॥२६॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि एकसप्ततितमोऽध्यायः॥७१॥
॥६४॥ भीष्मवधपर्वणि एकत्रिंशोऽध्यायः॥३१॥
[ अस्मिन्नध्याये २६॥ श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1706336804मम.png"/>

॥द्विसप्ततितमोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1706336303नन.png"/>

भीमद्रोणपराक्रमवर्णनम्॥

<MISSING_FIG href="../books_images/U-IMG-1706336316मम.png"/>

सञ्जयः—

आत्मदोषात् त्वया राजन् प्राप्तंव्यसनमीदृशम्।
न हि दुर्योधनस्तात पश्यते भरतर्षभ॥१॥

यदिदं पश्यसे राजन धर्मसङ्करकारणात्।
तव दोषात् पुरा वृत्तं द्यूतमेतद्विशां पते॥२॥

तव दोषेण युद्धं हि प्रवृत्तं पाण्डवैस्सह।
त्वमेवाद्य फलं भुङ्क्ष्व कृत्वा किल्बिषमात्मना॥३॥

आत्मना हि कृतं कर्म आत्मनैवोपभुज्यते।
इह वा प्रेत्य वा राजन् तत् त्वां प्राप्तं यथातथम्॥४॥

तस्माद्राजन् स्थिरो भूत्वा प्राप्येदं व्यसनं महत्।
शृणु युद्धं यथावृत्तं शंसतो मम भारत॥५॥

भीमसेनस्तु निशितैर् बाणैर्भित्त्वा महाचमूम्।
आससाद ततो वीरस् सर्वान् दुर्योधनानुगान्॥६॥

दुश्शासनं दुर्विषहं दुष्षहं दुर्जयं जयम्।
जयत्सेनं विकर्णं च चित्रसेनं सुदर्शनम्॥७॥

चारुचित्रं सुवर्माणं दुष्कर्णं कर्णमेव च।

एतांश्चान्यांश्च सुबहून् समीपस्थान् महाबलान्॥८॥

धार्तराष्ट्रान् सुसङ्क्रुद्धान् दृष्ट्वा भीमो महाबलः।
भीष्मेण समरे गुप्तां प्रविवेश महाचमूम्॥९॥

समाह्वयंस्तथाऽन्योन्यम् अयं प्राप्तो वृकोदरः।
जीवग्राहं निगृह्णीमो वयमेनं नराधिपाः॥१०॥

इत्येवं141 वादिनस्सर्वे परिवव्रुर्वृकोदरम्॥१०॥

स तैः परिवृतः पार्थो भ्रातृभिः कृतनिश्चयैः।
प्रजासंहरणे सूर्यः क्रूरैरिव महाग्रहैः॥११॥

सम्प्राप्य मध्यं व्यूहस्य350 भित्त्वाऽरीन् सोऽहनत् तदा।
यथा देवासुरे युद्धे महेन्द्रः प्राप्य दानवान्॥१२॥

ततश्शतसहस्राणि रथिनां च महात्मनाम्।
छादयानाश्शरैर्घोरैस् तमेकं परिवव्रिरे॥१३॥

स तेषां प्रवरान् योधान् हस्त्यश्वरथसादिनः।
जघान समरे शूरो धार्तराष्ट्रानचिन्तयन्॥१४॥

तेषां व्यवसितं ज्ञात्वा भीमसेनो जिघांसताम्।
समस्तानां वधे राजन् मतिं चक्रे महामनाः॥१५॥

ततो रथं समुत्सृज्य गदामादाय पाण्डवः।

उवाच सारथिं भीमस् स्थीयतामिति भारत॥१६॥

यावदेतान् हनिष्यामि धार्तराष्ट्रान् सहानुगान्॥१७॥

इत्युक्त्वा भीमसेनस्तु प्रविश्य महतीं चमूम्।
जघान धार्तराष्ट्राणां तद्बलौघमहार्णवम्॥१८॥

गदया भीमसेनेन ताडिता वारणोत्तमाः।
भिन्नकुम्भा महाकाया भिन्नपृष्ठास्तथैवच॥१९॥

भिन्नगात्रास्सहारोहाश् शेरते पर्वता इव।
रथाश्च भग्नास्तिलशस् सयोधाश्शतशो रणे॥२०॥

अश्वाश्च सादिनश्चैव पदातैस्सह भारत॥२०॥

तत्राद्भुतमपश्याम भीमसेनस्य विक्रमम्।
यदेकस्समरे राजन् बहुभिस्समयोधयत्॥२१॥

अन्तकाले प्रजास्सर्वा दण्डपाणिरिवान्तकः॥२२॥

भीमसेने प्रविष्टे तु धृष्टद्युम्नोऽपि पार्षतः।
द्रोणमुत्सृज्य समरे ययौ येन वृकोदरः॥२३॥

विदार्य सेनां महतीं तावकानां नरर्षभः।
आससाद रथं शून्यं भीमसेनस्य संयुगे॥२४॥

दृष्ट्वा विशोकं समरे भीमसेनस्य सारथिम्।
धृष्टद्युम्नो महाराज दुर्मना गतचेतनः॥२५॥

अपृच्छद्वाष्पसंरुद्धो गद्गदांवाचमीरयन्।

मम प्राणैःप्रियतमः क्व भीम इति दुःखितः॥२६॥

विशोकस्तमुवाचेदं धृष्टद्युम्नं कृताञ्जलिः॥२६॥

विशोकः—

संस्थाप्य मामिह बली भीमसेनो महाबलः।
प्रविष्टो धार्तराष्ट्राणाम् एतद्बलमहार्णवम्॥२७॥

मामुक्त्वा पुरुषव्याघ्रः प्रीतियुक्तमिदं वचः।
प्रतिपालय मां सूत नियम्याश्वान् मुहूर्तकम्॥२८॥

यावदेतान्निहन्म्याशु य इमे मद्वधोद्यताः।
अभ्यधावद्गदापाणिस् तद्बलं स महाबलः॥२९॥

ततो दृष्ट्वा सखायं ते प्रधावन्तं महाबलम्।
सर्वेषामेव सैन्यानां सङ्घर्षस्समजायत॥३०॥

तस्मिंस्तु तुमुले युद्धे वर्तमाने भयानके।
भित्त्वा राजन् महाव्यूहं प्रविवेश सखा तव॥३१॥

सञ्जयः—

विशोकस्य वचश्श्रुत्वा धृष्टद्युम्नोऽपि पार्षतः।
प्रत्युवाच ततस्सूतंरणमध्ये महाबलः॥३२॥

धृष्टद्युम्नः—

न हि मे जीविते किञ्चिद् विद्यतेऽत्रप्रयोजनम्।
भीमसेनं रणे हित्वा स्नेहमुत्सृज्य पाण्डवैः॥३३॥

यदि यामि विना भीमं किं मां क्षत्रं वदिष्यति।
एकायनगते भीमे मयि चावस्थिते युधि॥३४॥

परत्र तस्य कुर्वन्ति देवा इन्द्रपुरोगमाः॥३५॥

यस्सहायं परित्यज्य स्वस्तिमानाब्रजेद्गृहान्।
रौरवे नरके मज्जेद्अप्लवे दुस्तरे नृभिः॥३६॥

मम भीमस्सखा चैव सम्बन्धी च महाबलः।
भक्तोऽस्मान् भक्तिमांश्चाहं तमप्यरिनिषूदनम्॥३७॥

सोऽहं तत्र गमिष्यामि यत्र यातो वृकोदरः।
निघ्नन्तं मामरीन् पश्य दानवानिव वासवम्॥३८॥

सञ्जयः—

एवमुक्त्वा ततो राजन् ययौ मध्येन वाहिनीम्।
भीमसेनस्य मार्गेषुगदाविमथितैर्गजैः॥३९॥

351 ददर्श ततो भीमं दहन्तं रिपुवाहिनीम्।
वातं वृक्षानिव बलात् प्रभञ्जन्तं रणे नृपान्॥४०॥

ते हन्यमानास्समरे रथिनस्सादिनस्तथा।
पदाता दन्तिनश्चैव चक्रुरार्तस्वरं पृथक्॥४१॥

हाहाकारश्च सञ्जज्ञे तव सैन्यस्य मारिष।
क्रोधितो भीमसेनेन क्रोधिना चित्रघातिना॥४२॥

ततः कृतास्त्रास्ते सर्वे परिवार्य वृकोदरम्।
अभीतास्समवर्षन्त शस्त्रवृष्ट्या समन्ततः॥४३॥

अभिद्रुतं शस्त्रभृतां वरिष्ठं
समन्ततः पाण्डवं लोकवीरैः।
सैन्येन घोरेण सुसंवृतेन
सुसंवृतं पार्षतो भीमसेनम्॥४४॥

अथोपगच्छच्छरविक्षताङ्गं
पदातिनं घोरविषक्तरूपम्।
आश्वासयन् पार्षतो भीमसेनं
गदाहस्तं कालमिवान्तकाले॥४५॥

निश्शल्यमेनं च चकार तूर्णम्
आरोपयश्चात्मरथं महात्मा।
भृशं परिष्वज्य च भीमसेनम्
आश्वासयामास च शत्रुमध्ये॥४६॥

तथा तस्मिन् वर्तमानेऽतिवेलं
भ्रातृृनथोपेत्य तवापि पुत्रः।
तस्मिन् विमर्दे सहसा प्रवृत्ते
दृष्ट्वा रणे वाक्यमिदं बभाषे॥४७॥

दुर्योधनः—

अयं दुरात्मा द्रुपदस्य पुत्रस्
समागतो भीमसेनेन सार्धम्।
तं यात सर्वे सहसा निहन्तुं
मा वो रिपुः प्रार्थयतामनीके॥४८॥

सञ्जयः—

श्रुत्वा च वाक्यं तममृष्यमाणा
ज्येष्ठाज्ञया चोदिता धार्तराष्ट्राः।
वधाय निष्पेतुरुदायुधास्ते
युगक्षये केतवो यद्वदुग्राः॥४९॥

प्रगृह्य चित्राणि धनूंषि वीरा
ज्यानेमिधाषैः परिकम्पयन्तः।
शरैर्ववर्षुर्द्रुपदस्य पुत्रं
यथाम्बुदा भूधरमम्बुजालैः॥५०॥

352 घातितश्चापि शरैस्सुतीक्ष्णैर्
न विव्यथे समरे चित्रोयोधी॥५०॥

समभ्युदीर्णाश्च तवात्मजांस्तदा
निशाम्य वीरानभितस्स्थितान् रणे।

जिघांसुरुग्रो द्रुपदात्मजो रणे
प्रमोहनास्त्रं युयुजे महारथः॥५१॥

पुत्रेषु ते क्रोधवशेषु राजन्
दैत्येषु यद्वत् समरे महेन्द्रः॥५२॥

स वै ततोऽस्त्रं सुमहाप्रभावं
प्रमोहनं द्रोणदत्तं महात्मना।
प्रयोजयामास उदारकर्मा
तस्मिन् रणे तव सैन्यस्य राजन्॥५३॥

तदा व्यमुह्यन्त रणे नृवीराः
प्रमोहनास्त्रहतबुद्धिसत्त्वाः।
प्रदुद्रुवुः कुरवश्चैव सर्वे
सवाजिनागास्सरथास्समन्तात्॥५४॥

परीतकाला इव नष्टसंज्ञा
मोहाश्रया नावगच्छन्ति किञ्चित्॥५४॥

एतस्मिन्नेव काले तु भीमः प्रहरतां वरः।
विश्रम्य च तदा राजन् पीत्वाऽमृतरसं जलम्॥५५॥

पुनस्सन्नह्य सहसा योधयामास संयुगे।
धृष्टद्युम्नेन सहितः कालयामास भारत॥५६॥

एतस्मिन्नन्तरे राजन् द्रोणश्शस्त्रभृतां वरः।
द्रुपदं त्रिभिरासाद्य शरैर्विव्याध दारुणैः॥५७॥

सोऽतिविद्धस्ततो राजन् रणे द्रोणेन पार्थिव।
अपायाद्द्रुपदो राजन् पूर्ववैरमनुस्मरन्॥५८॥

जित्वा तु द्रुपदं द्रोणः प्रदध्मौ शङ्खमाहवे।
तस्य शङ्खस्वनं श्रुत्वा वित्रेसुस्सर्वसोमकाः॥५९॥

अथ शुश्राव तेजस्वी द्रोणश्शस्त्रभृतां वरः।
प्रमोहनास्त्रेण रणे मोहितानात्मजांस्तव॥६०॥

ततो द्रोणो राजगृध्नुस् त्वरितोऽभिययौ रणम्॥६१॥

तत्रापश्यन्महेष्वासो भारद्वाजः प्रतापवान्।
धृष्टद्युम्नं च भीमं च विचरन्तौ महारणे॥६२॥

मोहाविष्टांश्च ते पुत्रान् अपश्यत् स महारथः।
ततः प्रज्ञास्त्रमादाय मोहनास्त्रं व्यनाशयन्॥६३॥

ततः प्रत्यागतप्राणास् तव पुत्रामहारथाः।
पुनर्युद्धाय समरे प्रत्युद्याता जिगीषवः॥६४॥

ततो युधिष्ठिरः प्राह समाहूय स्वसैनिकान्॥६४॥

युधिष्ठिरः—

गच्छन्तु पदवीं शक्त्या भीमपार्षतयोर्युधि।
सौभद्रप्रमुखा वीरा रथा द्वादश दंशिताः॥६५॥

प्रवृत्तिमभिगच्छन्तु न हि शुद्ध्यति मे मनः॥६६॥

प्रवृत्तिं भीमसेनस्य पार्षतस्य च संयुगे।
विज्ञाय समरे शीघ्रं प्रविशध्वंरणार्णवम्॥६७॥

गच्छन्तु परया शक्त्या भवन्त इति मे मनः॥६७॥

सञ्जयः—

बाढमित्येवमुक्त्वा तु सर्वे पुरुषमानिनः।
मध्यंदिनगते सूर्ये प्रययुस्ते महारथाः॥६८॥

केकया द्रौपदेयाश्च धृष्टकेतुश्च वीर्यवान्।
अभिमन्युं पुरस्कृत्य महत्या सेनया वृताः॥६९॥

ते कृत्वा समरे व्यूहं सूचीमुखमरिन्दमाः।
बिभिदुर्धार्तराष्ट्राणां तद्रथानीकमाहवे॥७०॥

तान् प्रयातान् महेष्वासान् अभिमन्युपुरोगमान्।
भीमसेनभयाविष्टा धृष्टद्युम्नेन मोहिता॥७१॥

मोहिता353 मदमूर्च्छाभिर् नारीव विवशा तथा।
न च सन्धारयितुं सेहे तवसेना नराधिप॥७२॥

ततो गत्वा महेष्वासास् सुवर्णविकृतध्वजाः।
परीप्सन्तोऽभ्यधावन्त धृष्टद्युम्नवृकोदरौ॥७३॥

तौ च दृष्ट्वा महेष्वासावभिमन्युपुरोगमान।
वभूवतुर्मुदा युक्तौ निघ्नन्तौ तव वाहिनीम्॥७४॥

द्रोणमिष्वस्त्रकुशलं सर्वविद्यासु पारगम्।
दृष्ट्वा तु सहसाऽऽयान्तं पाञ्चाल्यो गुरुमात्मनः॥७५॥

नाशंसत वधं वीरः पुत्राणां तव पार्षतः॥७६॥

ततो रथं समारोष्यकैकेयस्य वृकोदरम्।
अभ्यधावत् सुसङ्क्रुद्धोद्रोणमिष्वस्त्रपारगम्॥७७॥

तस्याभिपततस्तूर्णं भारद्वाजः प्रतापवान्।
क्रुद्धश्चिच्छेद समरे तद्धनुश्शत्रुसूदनः॥७८॥

अन्यांश्च307 शतशो वाणान् प्रेषयामास पार्षते।
दुर्योधनहितार्थाय भर्तृपीडामनुस्मरन्॥७९॥

अथान्यद्धनुरादाय पार्षतः क्रोधमूर्च्छितः।
द्रोणं विव्याध सप्तत्या रुक्मपुङ्खैश्शिलाशितैः॥८०॥

तस्य द्रोणःपुनश्चापं चिच्छेदामित्रकर्शनः॥८०॥

हयांश्च चतुरस्तूर्णं चतुर्भिस्सायकोत्तमैः।
वैवस्वतक्षयं घोरं प्रेषयामास भारत॥८१॥

सारथिं चास्य भल्लेन प्रेषयामास मृत्यवे॥८२॥

हताश्वात् स रथात् तूर्णम् अवप्लुत्य महारथः।

आरुरोह महाबाहुर् अभिमन्योर्महारथम्॥८३॥

ततस्सरथनागाश्वा समकम्पत वाहिनी।
पश्यतो भीमसेनस्य पार्षतस्य च पश्यतः॥८४॥

तत् प्रभग्नं बलं दृष्ट्वा द्रोणेनामित्रकर्शिना।
नाशक्नुवन् धारयितुं समस्तास्ते महारथाः॥८५॥

वध्यमानं तु समरे द्रोणेन निशितैश्शरैः।
व्यभ्रमत्तत्र तत्रैव क्षोभ्यमाण इवार्णवः॥८६॥

तथा तु दृष्ट्वा तत् सैन्यं जहृषे तावकं बलम्॥८६॥

दृष्ट्वाऽऽचार्यं च सङ्क्रुद्धं तपन्तं रिपुवाहिनीम्।
तुष्टुवुस्सर्वतो योधास् साधु साध्विति भारत॥८७॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि द्विसप्ततितमोऽध्यायः॥७२॥
॥६४॥ भीष्मवधपर्वणि द्वात्रिंशोऽध्यायः॥३२॥
[ अस्मिन्नध्याये ८७॥ श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1706333742मम.png"/>

॥त्रिसप्ततितमोऽध्यायः॥
<MISSING_FIG href="../books_images/U-IMG-1706333767नन.png"/>

सङ्कुलयुद्धवर्णनम्॥

<MISSING_FIG href="../books_images/U-IMG-1706333742मम.png"/>

सञ्जयः—

ततो दुर्योधनो राजा मोहात् प्रत्यागतस्तदा।
शरवर्षेःपुनर्भीमं पर्यवारयदच्युतम्॥१॥

एकीभूताः पुनश्चैव तव पुत्रामहारथाः।
समेत्य समरे वीरं योधयामासुरुद्यताः॥२॥

भीमसेनोऽपि सङ्ग्रामे प्राप्य वै स्वरथं पुनः।
समारुह्य महाबाहुर् ययौ तेन तवात्मजान्॥३॥

प्रगृह्य च महावेगं परासुकरणं दृढम्।
चित्रं शरासनं सङ्ख्ये शरैर्विव्याध ते सुतान्॥४॥

ततो दुर्योधनो राजा भीमसेनं महाबलम्।
नाराचेन सुतीक्ष्णेन भृशं मर्मण्यताडयत्॥५॥

सोऽतिविद्धो महेष्वासस् तव पुत्रेण धन्विना।
क्रोधसंरक्तनयनो वेगेनोत्क्षिप्य कार्मुकम्॥६॥

दुर्योधनं त्रिभिर्बाणैर् बाह्वोरुरसि चार्पयत्॥६॥

स तदाऽभिहतो राजा नाचलद्गिरिराडिव॥७॥

तौ दृष्ट्वा समरे क्रुद्धौ विनिघ्नन्तौ परस्परम्।
दुर्योधनानुजास्सर्वे शूरास्संत्यक्तजीविताः॥८॥

सस्मरुर्मन्त्रितं पूर्वं निग्रहे भीमकर्मणः॥८॥

निश्चयं मनसा कृत्वा निग्रहे समुपाक्रमन्॥९॥

तानापतत एवाजौ भीमसेनो महाबलः।
प्रत्युद्ययौ महाराज गजः प्रतिगजानिव॥१०॥

भृशं क्रुद्धस्स तेजस्वी नाराचेन समर्पयत्।
चित्रसेनं महाराज तव पुत्रं महायशाः॥११॥

तथेतरांस्तव सुतांस् ताडयामास भारत।
शरैर्बहुविधैस्सङ्ख्ये रुक्मपुङ्खैस्सुतेजनैः॥१२॥

ततस्सम्प्रेक्ष्य पुत्रैस्ते भीमसेनं समावृतम्।
अभिमन्युप्रभृतयस् ते द्वादश महारथाः॥१३॥

प्रेषिता धर्मपुत्रेण भीमसेनपदानुगाः।
प्रतिजग्मुर्महाराज तव पुत्रान् महाबलान्॥१४॥

दृष्ट्वा प्राप्तान् रथस्थांस्तान् सूर्याग्निसमतेजसः।
सर्वानेव महेष्वासान् भ्राजमानाञ् श्रिया वृतान्॥१५॥

महाहवे दीप्यमानान् सुवर्णकटकोज्ज्वलान्।
तत्यजुस्समरे354 भीमं तव पुत्रा महाबलाः॥१६॥

तान् नामृष्यत कौन्तेयो जीवमाना गता इति।
अन्वीय च पुनस्सर्वांस् तव पुत्रानपीडयत्॥१७॥

तथाऽभिमन्युस्समरे भीमसेनेन सङ्गतः।
पार्षतेन च ते सर्वे कैकया द्रौपदीसुताः॥१८॥

समेत्य141 सङ्घशस्सर्वे संस्थितास्स्युः परस्परम्॥१८॥

तान् दृष्ट्वा समरे क्रुद्धांस् तव सैन्ये महारथाः।
दुर्योधनप्रभृतयः प्रगृहीतशरासनाः॥१९॥

भृशमश्वैः355 प्रजवितैः प्रययुर्यत्र ते रथाः॥२०॥

अपराह्णेमहाराज प्रावर्तत जनक्षयः।
तावकानां च समरे परेषां चैव भारत॥२१॥

अभिमन्युर्विकर्णस्य हयान् हत्वा महामृधे।
अथैनं पञ्चविंशत्या क्षुद्रकाणां समर्पयत्॥२२॥

हताश्वं रथमुत्सृज्य विकर्णस्तु महारथः।
आरुरोह रथं भ्रातुश् चित्रसेनस्य भास्वरम्॥२३॥

योधयामास समरे तदद्भुतमिवाभवत्॥२३॥

स्थितावेकरथे178 तौ तु भ्रातरौ कुरुवर्धनौ।
आर्जुनिं शरजालेन च्छादयामासतू रणे॥२४॥

दुर्जयोऽथ विकर्णश्च कार्ष्णिंपञ्चभिरायसैः।
विद्ध्वानाकम्पयत् राजन् मैनाकमिव पर्वतम्॥२५॥

दुश्शासनस्तु समरे केकयान् पञ्च मारिष।
योधयामास समरे तदद्भुतमिवाभवत्॥२६॥

द्रौपदेया रणे क्रुद्धा दुर्योधनमुपाद्रवन्।
शरैराशीविषाकारैः पुत्रं तव विशां पते॥२७॥

पुत्रोऽपि तव दुर्धर्षो द्रौपद्यास्तनयान् रणे।
एकैकं त्रिभिरानच्छेच् छरैरग्निशिखोपमैः॥२८॥

तैश्चापि विद्धश्शुशुभे रुधिरेणावसेचितः।
गिरिः प्रस्रवणो यद्वद् गिरिधातुविचित्रितः॥२९॥

भीष्मोऽपि समरे राजन् पाण्डवानामनीकिनीम्।
कालयामास बलवान् पालः पशुगणानिव॥३०॥

ततो गाण्डीवनिर्घोषः प्रादुरासीद्विशां पते।
दक्षिणेन वरूथिन्याः कुरून् राजन् विनिघ्नतः॥३१॥

उत्तस्थुस्समरे तत्र कबन्धानि सहस्रशः।
कुरूणां चैव सैन्येषु पाण्डवानां च भारत॥३२॥

शोणितोदं356 रथावर्तं गजद्वीपं हयोर्मिणम्।
रथनौभिर्नरव्याघ्राः प्रतेरुस्सैन्यसागरम्॥३३॥

भिन्न242हस्ता विकवचा विदेहाश्च नरोत्तमाः।
अदृश्यन्त रणे तत्र पतिताश्च सहस्रशः॥३४॥

निहतैर्मत्तमातङ्गैश् शोणितौघपरिप्लुतैः।

भूर्भाति भरतश्रेष्ठ पर्वतैराचिता यथा॥३५॥

तवाद्भुतमपश्याम तव तेषां च भारत।

229 तत्रासीत् पुमान् कश्चिद् यो युद्धं नाभिकाङ्क्षति॥३६॥

कश्चिद्योद्धा246 रणे तत्र योद्धुमिच्छन् स्वशत्रुणा।
अन्येन युद्धं कुर्वाणं पुमांसं नाभिकाङ्क्षते॥३७॥

एवं युयुधिरे वीराः प्रार्थयाना महद्यशः।
तावकाःपाण्डवैस्सार्धं काङ्क्षमाणा रणे जयम्॥३८॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि त्रिसप्ततितमोऽध्यायः॥७३॥
॥६४॥ भीष्मवधपर्वणि त्रयस्त्रिंशोऽध्यायः॥३३॥
[ अस्मिन्नध्याये ३८॥ श्लोकाः ]

॥चतुस्सप्ततितमोऽध्यायः॥
<MISSING_FIG href="../books_images/U-IMG-1706331613bbbb.png"/>

सङ्कुलयुद्धवर्णनम्॥

<MISSING_FIG href="../books_images/U-IMG-1706331601मम.png"/>

सञ्जयः—

ततो दुर्योधनो राजा लोहितायति भास्करे।
सङ्ग्रामे सहसा भीमं हन्तुकामोऽभ्यधावत॥१॥

तमायान्तमभिप्रेक्ष्य नृवीरं दृढवैरिणम्।
भीमसेनस्सुसङ्क्रुद्ध इदं वचनमब्रवीत्॥२॥

भीमः—

अयं स कालस्सम्प्राप्तो वर्षपूगाभिकाङ्क्षितः।
अद्य त्वां निहनिष्यामि यदि नोत्सृजसे रणम्॥३॥

अहं कुन्त्याः परिक्लेशं वनवासं च कृत्स्नशः।
द्रौपद्याश्च परिक्लेशं प्रणेष्यामि हते त्वयि॥४॥

यत् त्वं पुरा कृतं स्मृत्वा पाण्डवानवमन्यत।
तस्य पापस्य गान्धारे पश्य व्यसनमागतम्॥५॥

कर्णस्य मतमास्थाय सौबलस्य च यत् पुरा।
अचिन्त्य पाण्डवान् कामाद् यथेष्टं कृतवानसि॥६॥

याचमानं च यन्मोहाद् दाशर्हमवमन्यसे।
तस्य317 पापस्य गान्धारे पश्य व्यसनमागतम्॥७॥

उलूकस्य च संदेशं यद्ददासि च हृष्टवत्॥७॥

त्वां निहत्याद्य समरे सानुबन्धं सबान्धवम्।
समीकरिष्ये तत् पापं यत् पुरा कृतवानसि॥८॥

सञ्जयः—

एवमुक्त्वा धनुर्घोरं विकृष्यानम्य चासकृत्।
समाधत्त शरान् घोरान् महाशनिसमप्रभान॥९॥

षड्विंशत्तरसा क्रुद्धो मुमोचाशु सुयोधने।
ज्वलिताग्निशिखाकारान् वज्रकल्पानजिह्मगान्॥१०॥

ततोऽस्य कार्मुकं द्वाभ्यां सूतं द्वाभ्यामथावधीत्।
चतुर्भिरश्वांश्च तथा ह्यनयद्यमसादनम्॥११॥

द्वाभ्यां चाशु विकृष्टाभ्यां शराभ्यामरिमर्दनः।
चिच्छेद समरे छत्रंराज्ञस्तस्य रथोत्तमात्॥१२॥

त्रिभिश्च229 तस्य चिच्छेद चलद्ध्वजमनुत्तमम्॥

छित्त्वाऽथ च ननादोच्चैस् तव पुत्रस्य पश्यतः॥१३॥

रथाच्च स ध्वजश्श्रीमान् नानारत्नविभूषितः।
पपात सहसा राजन् विद्युजज्लधरादिव॥१४॥

ज्वलन्तं सूर्यासङ्काशं नागं मणिमयं शुभम्।
ध्वजं कुरुपतेश्छिन्नं दहशुस्सर्वपार्थिवाः॥१५॥

अथैनं दशभिर्बाणैस् तोत्रैरिव महाद्विपम्।
आजघान रणे भीमस् स्मयन्निव महारथः॥१६॥

स गाढविद्धो व्यथितो भीमसेनेन संयुगे।
निषसाद रथोपस्थे मूर्च्छाभिहतचेतनः॥१७॥

ततस्तु राजा सिन्धूनां रथिश्रेष्ठो महाबलः।
दुर्योधनस्य जग्राह पाणि स्वपुरुषैस्सह॥१८॥

कृपश्च रथिनां श्रेष्ठस् तव पुत्रमचेतनम्।
आरोपयद्रथं राजन् दुर्योधनमथ स्वकम्॥१९॥

परिवार्य ततो भीमं हन्तुकामो जयद्रथः।
रथैरनेकसाहस्रैर् भीमस्यावारयद्दिशः॥२०॥

धृष्टकेतुस्ततो राजन्नभिमन्युश्च वीर्यवान्।
केकया द्रौपदेयाश्च तव पुत्रानयोधयन्॥२१॥

चित्रसेनस्सुमित्रश्च चित्राङ्गश्चित्रदर्शनः।
चारुचित्रस्सुबाहुश्च तथा नन्दोपनन्दकौ॥२२॥

अष्टावेते महेष्वासास्तक्षमाणाश्शिलाशतैः।
अभिमन्युरथं राजन् समन्तात् पर्यवारयन्॥२३॥

आजघान ततस्तूर्णम् अभिमन्युर्महारथान्।
एकैकं पञ्चभिर्बाणैश् शितैस्सन्नतपर्वभिः॥२४॥

वज्रमृत्युप्रतीकाशैर् विचित्रायुधनिस्स्वनैः।
अमृष्यमाणास्ते सर्वे सौभद्रं रथिसत्तमम॥२५॥

ववृषुर्मार्गणैस्तीक्ष्णैर् गिरिं मेरुमिवाम्बुदाः॥२६॥

स पीड्यमानस्समरे कृतास्त्रो युद्धदुर्मदः।
अभिमन्युर्महाराज तावकान् समकम्पयत्॥२७॥

पुरा देवासुरे युद्धे वज्रपाणिरिवासुरान्॥२७॥

विकर्णाय ततो भल्लान् प्रेषयामास भारत \।
चतुर्दश रथश्रेष्ठश् शरानाशीविषोपमान्॥२८॥

पुनश्चतुर्दश357 शरान् शितानाशीविषोपमान्।
प्रेषयामास सङ्क्रुद्धो विकर्णस्य रथं प्रति॥२९॥

तैश्शरैर्निशिताग्रैश्च युद्धमार्गविशारदः।
ध्वजं सूतं हयांश्चापि छित्त्वा नृत्यन्निवाहवे॥३०॥

पुनश्चान्याञ्शरान् स्फीतान् अकुण्ठाग्राञ्शिलाशितान्।
प्रेषयामास सौभद्रो विकर्णाय महाबलः॥३१॥

ते विकर्णं समासाद्य कङ्कबर्हिणवाससः।
भित्वा देहं गता भूमिं ज्वलन्त इव पन्नगाः॥३२॥

ते शरा हेमपुङ्खाग्राः प्रत्यदृश्यन्त भूतले।

विकर्णरुधिरक्लिन्ना वमन्त इव शोणितम्॥३३॥

विकर्ण358ं प्रेक्ष्य निर्भिन्नं तव सैन्ये सहोदराः।
अभ्यद्रवन्त सङ्क्रुद्धाः किरन्तश्शतशश्शरान्॥३४॥

तानर्जुनश्शरैस्तूर्णं निहत्य भरतर्षभ।
व्यरोचत यथा वह्निर् दावं दग्ध्वा हिमात्यये॥३५॥

तयोस्सेनामतिक्रम्य कृच्छ्रान्निघ्नन धनञ्जयः।
विबभौ जलदान् भित्त्वा दिवाकर इवोदितः॥३६॥

तं दृष्ट्वा कुरवस्सर्वे प्रहृष्टाश्चाभवन् पुनः।
अभ्यद्रवन्त समरे सौभद्रप्रमुखान् रथान्॥३७॥

प्रत्युद्ययुस्तेऽपि रथांस् तथा तान् सूर्यवर्चसः।
अविध्यन् समरेऽन्योन्यं संरब्धा युद्धदुर्मदाः॥३८॥

दुर्मुखश्श्रुतवर्माणं विद्ध्वासप्तभिराशुगैः।
ध्वजमेकेन चिच्छेद सारथिं चास्य सप्तभिः॥३९॥

अश्वाञ्जाम्बूनदैर्बाणैस् सञ्छन्नान् वातरंहसः।
जघान229 षड्भिरासाद्य सारथिं च न्यबर्हयत्॥४०॥

स हताश्वे रथे तिष्ठञ् श्रुतवर्मा महाबलः।
शक्तिं चिक्षेप समरे महोल्कां ज्वलितामिव॥४१॥

सा दुर्मुखस्य विपुलं वर्म भित्त्वामहात्मनः।
विदार्य प्राविशद्भूमिं दीप्यमाना स्वतेजसा॥४२॥

दुर्मुखो विह्वलस्तत्र निषसाद रथे विभो।
विसंज्ञं359 प्रेक्ष्य ते सर्वे भ्रातरः पर्यवारयन्॥४३॥

तं दृष्ट्वाविरथं तत्र श्रुतवर्माणमाहवे360
तत्रागत्य तथा चाशु सुतसोमो महाबलः॥४४॥

पश्यतां सर्वसैन्यानां रथमारोपयन् स्वकम्॥४५॥

श्रुतकीर्तिस्ततो वीरो जयत्सेनं सुतं तव।
अभ्ययात् समरे राजन् हन्तुकामो यशस्विनम्॥४६॥

तस्य विक्षिपश्चापं श्रुतकीर्तेर्महात्मनः।
चिच्छेद समरे चापं जयत्सेनस्सुतस्तव॥४७॥

क्षुरप्रेण सुतीक्ष्णेन प्रहसन्निव भारत॥४७॥

तं361 दृष्ट्वा भीमधन्वानं शतानीकस्सहोदरम्।
अभ्यपद्यत तेजस्वी सिंहवन्निनदन् रणे॥४८॥

शतानीकस्तु समरे दृढं विष्कार्य कार्मुकम्।
विव्याध दशभिस्तूर्णं जयत्सेनं शिलीमुखैः॥४९॥

ननाद च महानादं प्रावृषीव वलाहकः॥५०॥

अथान्येन सुतीक्ष्णेन सर्वावरणभेदिना।
शतानीको जयत्सेनं विव्याध हृदये भृशम्॥५१॥

तथा तस्मिन् विनिर्भिन्ने दुष्कर्णो भ्रातुरन्तिके।
मुमोचास्मै शितान् बाणांस् तीक्ष्णानाशीविषोपमान्॥५२॥

चिच्छेद स तदा चापं नाकुलेः क्रोधमूर्च्छितः॥५२॥

अथान्यद्धनुरादाय भारसाधनमुत्तमम्।
समधन्त शितान् बाणान् शतानीको महाबलः॥५३॥

तिष्ठ तिष्ठेति चामन्त्र्य दुष्कर्णं भ्रातुरग्रतः।
मुमोचस शितान् बाणाञ् ज्वलितानिव पावकान्॥५४॥

ततोऽस्य धनुरेकेन द्वाभ्यां सूतं च मारिष।
चिच्छेद समरे राजंस् तं च विव्याध सप्तभिः॥५५॥

अश्वान् मनोजवांश्चास्य कल्माषान् वीतकल्मषः।
जघान निशितैस्तूर्णं सर्वान् द्वादशभिश्शितैः॥५६॥

अथापरेण बाणेन सुमुक्तेनाशुपातिना।
दुष्कर्णं नाकुलिः क्रुद्धो विव्याध समरे भृशम्॥५७॥

स विह्वलो रथोपस्थे निषसाद सुतस्तव॥५८॥

दुष्कर्णं मोहितं दृष्ट्वा राजन् पञ्च महारथाः।
जिघांसन्तश्शतानीकं सर्वतः पर्यवारयन्॥५९॥

छाद्यमानं शतानीकं शरव्रातैर्यशस्विनम्॥

अभ्यपद्यन्त सङ्क्रुद्धाः केकयाः पञ्च सोदराः॥६०॥

तानभ्यापततः प्रेक्ष्य तव पुत्रामहारथाः।
प्रत्युद्ययुर्महाराज गजा इव महागजान्॥६१॥

दुर्मुखो दुष्षहश्चैव तथा दुर्मर्षणो युवा।
शत्रुञ्जयश्शत्रुसहस् सर्वे क्रुद्धा यशस्विनः॥६२॥

प्रत्युद्ययुर्महाराज केकयान् भ्रातृभिस्सह।
रथैर्नगरसङ्काशेर् हययुक्तैर्महारथाः॥६३॥

नानावर्णविचित्राभिः पताकाभिरलङ्कृतैः।
शरचापधरा वीरा विचित्रकवचध्वजाः॥६४॥

विविशुस्ते परं सैन्यं सिंहा इव वनाद्वनम्॥६४॥

तेषां सुतुमुलं युद्धं व्यतिषक्तरथद्विपम्।
अवर्तत महारौद्रं निघ्नतामितरेतरम्॥६५॥

अन्योन्यागस्कृतानां तु यमराष्ट्रविवर्धनम्।
मुहूर्तास्तमिते सूर्ये चक्रुर्युद्धं सुदारुणम्॥६६॥

रथिनस्सादिनश्चैव व्यवकीर्यन्त सर्वशः॥६७॥

ततश्शान्तनवः क्रुद्धश् शरैस्सन्नतपर्वभिः।
नाशयामास तां सेनां पाण्डवानां महात्मनाम्॥६८॥

पञ्चालानां च सैन्यानि शरैर्निन्ये यमक्षयम्॥६८॥

एवं हत्वा महेष्वासः पाण्डवानामनीकिनीम्।
कृत्वाऽपहारं सैन्यानां ययौ स्वशिबिराय वै॥६९॥

नाशयामासतुर्वीरो धृष्टद्युम्नवृकोदरौ।
कौरवाणामनीकानि शरैस्सन्नतपर्वभिः॥७०॥

धर्मराजोऽपि सम्प्रेक्ष्य धृष्टद्युम्नवृकोदरौ।
मूर्ध्नि चैवमुपाघ्राय नृपस्स्वशिबिरं ययौ॥७१॥

अर्जुनो वासुदेवश्च कौरवाणामनीकिनीम्।
हत्वा विद्राव्य च शरैश् शिबिरायैव जग्मतुः॥७२॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि चतुस्सप्ततितमोऽध्यायः॥७४॥
॥६४॥भीष्मवधपर्वणि चतुस्त्रिंशोऽध्यायः॥३४॥
[ अस्मिन्नध्याये ७२॥श्लोकाः ]
[ षष्ठापहारः समाप्तः ]
<MISSING_FIG href="../books_images/U-IMG-1706328962मम.png"/>

॥पञ्चसप्ततितमोऽध्यायः॥
<MISSING_FIG href="../books_images/U-IMG-1706328952नन.png"/>

भीष्मदुर्योधनसंवादः॥

<MISSING_FIG href="../books_images/U-IMG-1706328929मम.png"/>

सञ्जयः—

क्षत्रियास्ते महाराज परस्परकृतागसः।
जग्मुस्स्वशिबिराण्येव रुधिरेण समुक्षिताः॥१॥

विश्रम्य242 च यथान्यायं पूजयित्वा परस्परम्।
सन्नद्धास्समदृश्यन्त भूयो युद्धचिकीर्षवः॥२॥

ततस्तव सुतो राजंश् चिन्तयाभिपरिप्लुतः।
प्रस्रवद्रुधिरेणाक्तः पप्रच्छेदं पितामहम्॥३॥

दुर्योधनः—

सैन्यानि रौद्राणि भयावहानि
व्यूढानि सम्यग्बहुलध्वजानि।
विदार्य हत्वा च निपीड्य शूरांस्
ते पाण्डवा लब्धजयाःप्रहृष्टाः॥४॥

सम्मोह्य सर्वान् युधि कीर्तिमन्तो
व्यूहं चैतं मकरं मृत्युकल्पम्।
प्रविश्य भीमेन निबर्हितोऽस्मि
घोरैश्शरैर्मृत्युदण्डप्रकाशैः॥५॥

क्रुद्धं तमुत्प्रेक्ष्य भयेन राजन्
सम्मूर्च्छितो न लभे शान्तिमद्य।
इच्छे प्रसादात् तव सत्यसन्ध
प्राप्तुं जयं पाण्डवांश्चैव हन्तुम्॥६॥

सञ्जयः—

तेनैवमुक्तः प्रहसन् महात्मा
दुर्योधनं जातमन्युं विदित्वा।
तं प्रत्युवाचाविमनास्तरस्वी
गङ्गासुतश्शस्त्रभृतां वरिष्ठः॥७॥

भीष्मः—

परेण यत्नेन विगाह्य सेनां
सर्वात्मनाऽहं तव राजपुत्र।
इच्छामि दातुं विजयं सुखं च
न चात्मानं गूहयेऽहं त्वदर्थे॥८॥

एते स्म रौद्रा बहवो महारथा
यशस्विनः क्रूरतमाः कृतास्त्राः।
ये पाण्डवानां समरे सहाया
जितक्लमाःक्रोधविषं वमन्ति॥९॥

केनेह शक्यास्समरे विजेतुं
वीर्योन्नताः कृतवैरास्त्वया च।
अहं ह्येतान् प्रतियोत्स्यामि राजन्
सर्वात्मना जीवितं त्यज्य वीर॥१०॥

तथा तवार्थाय महानुभाव
न जीवितं रक्षितव्यं ममाद्य।
सर्वास्तवार्थाय सदेवदैत्याँ-
ल्लोकान् दहेयं किमु शत्रुसङ्घान्॥११॥

सोऽहं पाण्डून् योधयिष्यामि राजन्
प्रियं च ते सर्वमहं करिष्ये॥११॥

सञ्जयः—

श्रुत्वा पितुस्ते वचनं प्रतीतो
दुर्योधनश्शान्तमना बभूव।
सर्वाणि सैन्यानि ततः प्रहृष्टो
निर्गच्छतेत्याह नृपांश्चसर्वान्॥१२॥

तदाज्ञया तानि विनिर्ययुद्रुतं
रथाश्वपादातगजायुतानि।
प्रहर्षयुक्तानि362 तु तानि राजन्
महान्ति नानाविधवीर्यवन्ति॥१३॥

स्थिराणि नागाश्वपदातिमन्ति
विरेजुराजौ तव राजन् बलानि॥१४॥

ते तत्र तत्रैव तु सम्प्रयुक्ताश्
चकाशिरे दन्तिगणास्समन्तात्।

शस्त्रास्त्रविद्भिर्नरवीरयोधैर्
अधिष्ठितास्सैन्यगणास्त्वदीयाः॥१५॥

रथाग्र्यपादातगजाश्वसङ्घैर्363
ययुस्तदाऽऽजौ विधिवत् प्रयुक्ताः॥१५॥

रथोत्थितं शामितदिक्प्रकाशं
रजो बभौ च्छादयत् सूर्यरश्मीन्।
रेजुः पताका रथदन्तिसंस्थाः
वातेरिता भ्राम्यमाणास्समन्तात्॥१६॥

ध्वजा विरेजू रथदन्तिसंस्थाः
मेघैर्युता विद्युतः स्वे यथैव॥१७॥

धनूंषि विष्फारयतां नृपाणां
बभूव शब्दस्तुमुलोऽतिघोरः।
विमथ्यतो देवमहासुरौधैर्
यथाऽर्णवस्यादियुगे तदानीम्॥१८॥

तदुग्रनादं बहुरूपवर्णं
तवात्मजानां समुदीर्णकोपम्।

बभूव सैन्यं रिपुसैन्यहन्तृ
युगान्तमेघौघनिभं तदानीम्॥१९॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि पञ्चसप्ततितमोऽध्यायः॥४५॥
॥६४॥ भीष्मवधपर्वणि पञ्चत्रिंशोऽध्यायः॥३५॥
[ अस्मिन्नध्याये १९॥ श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1706327906मम.png"/>

॥षट्रसप्ततितमोऽध्यायः॥
<MISSING_FIG href="../books_images/U-IMG-1706327921bbbb.png"/>

भीष्मेण दुर्योधनसंहर्षणम्॥१॥राज्ञां द्वन्द्वीभूय मेलनम्॥२॥अर्जुनपराक्रमवर्णनम्॥३॥

<MISSING_FIG href="../books_images/U-IMG-1706328010मम.png"/>

सञ्जयः—

गाङ्गेयस्तु सुतं तुभ्यं निश्वसन्तं यथोरगम्।
अब्रवीद्भरतश्रेष्ठस् सम्प्रहर्षकरं वचः॥१॥

भीष्मः—

अहं द्रोणश्च कर्णश्च कृतवर्मा च सात्वतः।
अश्वत्थामा विकर्णश्च सोमदत्तश्च सैन्धवः॥२॥

विन्दानुविन्दावावन्त्यौ बाह्लीकस्सह बाहिकैः।
त्रिगर्तराजा बलवान् मागधश्च सुदुर्धरः॥३॥

बृहद्बलश्च शल्यश्च चित्रसेनो विविंशतिः।
कृपश्च सह सोदर्यैस् तव राजन् पदानुगाः॥४॥

रथाश्वबहुसाहस्राश् शोभमाना महाध्वजाः।
देशजाश्च हया राजन् स्वारूढा हयसादिभिः॥५॥

गजेन्द्राश्च मदोद्रिक्ताः प्रभिन्नकरटामुखाः।
पादाताश्च दृढा राजन् नानाप्रहरणा युधि॥६॥

नानादेशसमुत्पन्नास् त्वदर्थं योद्धुमुद्यताः।
एते चान्ये च बहवस् त्वदर्थे त्यक्तजीविताः॥७॥

देवानपि रणे जेतुं समर्था इति मे मतिः॥७॥

अवश्यं तु महाराज तव वाच्यं हितं सदा॥८॥

364 शक्याः पाण्डवा जेतुं देवैरपि सवासवैः।
वासुदेवसहायाश्च महेन्द्रसमविक्रमाः॥९॥

सर्वथाऽहं तु राजेन्द्र करिष्ये वचनं तव।
पाण्डवान् वा रणे जेष्ये मां वा जेष्यन्ति पाण्डवाः॥१०॥

सञ्जयः—

एवमुक्त्वा ततस्तस्मै विशल्यकरणीं शुभाम्।
ओषधीं वीर्यसम्पन्नां राज्ञे शान्तनवो ददौ॥११॥

तदोषधिप्रभावेन365 विशल्योऽभूत् तदा नृपः॥११॥

ततः प्रभाते विमले स्वेन सैन्येन वीर्यवान्।
ययौ141 शान्तनवो धीमान् युद्धाय समुपस्थितः॥१२॥

अयोजयत् स्वयं व्यूहं भीष्मो व्यूहविशारदः।
मण्डलं मनुजश्रेष्ठ नानाशस्त्रसमाकुलम्॥१३॥

सम्पूर्णं योधमुख्यैश्च तथा दन्तिपदातिभिः।
रथैरनेकसाहस्रैस् समन्तात् परिवारितम्॥१४॥

रथिनो141 रथमुख्याश्च समन्तात् पर्यवारयन्॥१५॥

अश्वबृन्दैर्महद्भिश्च रथेभनिकरैस्तथा360
धनुर्धरैः पदातैश्च यष्टितोमरधारिभिः॥१६॥

नागे नागे रथास्सप्त सप्ताश्वाश्च रथे रथे।
अश्वेऽश्वे चर्मिणस्सप्त धानुष्कास्सप्तचर्मिणाम्॥१७॥

एवं366 व्यूहं महाराज तव सैन्यस्य दंशितम्।
स्थितं रणाय महते भीष्मेण परिपालितम्॥१८॥

दश चाश्वसहस्राणि द्विपानां हि तथैव च।
रथानामयुतं चैव तव पुत्राश्च दंशिताः॥१९॥

चित्रसेनादयश्शूरा अभ्यरक्षन् पितामहम्।
रक्ष्यमाणस्तु तैश्शूरैस् सन्नद्धोऽभूत्367 पितामहः॥२०॥

ते368 शूरा गोप्यमानाश्च तेन भीष्मेण धीमता।
सन्नद्धास्समदृश्यन्त राजानश्च महाबलाः॥२१॥

दुर्योधनस्स्वसोदर्यैर् दंशितो रथमास्थितः।
विरराज श्रिया युक्तो महेन्द्रस्त्रिदिवे यथा॥२२॥

ततश्शब्दो महानासीत् पुत्राणां तव भारत।
रथघोषश्च तुमुलो वादित्राणां च निस्स्वनः॥२३॥

भीष्मेण धार्तराष्ट्राणां सह प्रत्यङ्मुखे युधि।
मण्डलस्स महाव्यूहस् सुदुर्गोऽमित्रघातनः॥२४॥

सर्वतश्शुशुभे राजन् रणेऽरीणां दुरासदः॥२४॥

मण्डलं तु समालोक्य व्यूहं भीष्मेण कल्पितम्।
स्वयं युधिष्ठिरो राजा व्यूहं वज्रमकल्पयत्॥२५॥

तथा व्यूढेष्वनीकेषु योद्धुकामा महारथाः।
रथिनस्सादिनश्चैव सिंहनादमथानदन्॥२६॥

बिभित्सवस्ततो व्यूहान् निर्ययुस्तावका नृपाः।
रथस्था युद्धसन्नद्धाः पाण्डवैर्युद्धकाङ्क्षिणः॥२७॥

भारद्वाजो ययौ मात्स्यं द्रौणिश्चापि शिखण्डिनम्।

स्वयं दुर्योधनो राजा पार्षतं समुपाद्रवत्॥२८॥

नकुलस्सहदेवश्च राजन् मद्रेशमीयतुः।
विन्दानुविन्दावावन्त्यौ युधामन्युमभिद्रुतौ॥२९॥

सर्वे नृपास्तु समरे धनञ्जयमयोधयन्।
भीमसेनं रणे यत्तो हार्दिक्यस्समवारयत्॥३०॥

चित्रसेनं विकर्णं च तथा दुश्शासनं विभुः।
आर्जुनिस्समरे राजंस् तव पुत्रानयोधयत्॥३१॥

प्राग्ज्योतिषं महेष्वासं हैडिम्बो राक्षसोत्तमः।
अभिदुद्राव वेगेन मत्तो मत्तमिव द्विपम्॥३२॥

अलम्बुसस्तदा राजन् सात्यकिं युद्धदुर्मदम्।
ससैन्यं समरे क्रुद्धो राक्षसस्समुपाद्रवत्॥३३॥

भूरिश्रवा रणे यत्तो धृष्टकेतुमयोधयत्॥३४॥

श्रुतायुषं तु राजानं धर्मपुत्रो युधिष्ठिरः।
चेकितानस्तु समरे कृपमेवान्वयोधयत्॥३५॥

ये चान्येऽपि नृपा यत्ता भीष्ममेव महारथम।
प्रययुर्युद्धसम्मत्ता141 युधि तं वै जिगीषवः॥३६॥

ततो राजसहस्राणि परिवव्रुर्धनञ्जयम्।
शक्तितोमरनाराचगदापरिघपाणयः॥३७॥

अर्जुनोऽथ भृशं क्रुद्धो वार्ष्णेयमिदमब्रवीत्॥३७॥

अर्जुनः—

पश्य माधव सैन्यानि धार्तराष्ट्रस्य संयुगे।
ब्यूढानि व्यूहविदुषा गाङ्गेयेन महात्मना॥३८॥

युद्धाभिकामाञ्शूरांश्च पश्य माधव दंशितान्।
त्रिगर्तराजं सहितं भ्रातृभिः पश्य माधव॥३९॥

अद्यैतान्नाशयिष्यामि पश्यतस्ते जनार्दन।
य इमे मां यदुश्रेष्ठ योद्धुकामा रणाजिरे॥४०॥

सञ्जयः—

एतावदुक्त्वा कौन्तेयो धनुर्ज्यामवमृज्य च।
ववर्ष शरवर्षाणि नराधिपगणान् प्रति॥४१॥

तेऽपि तं परमेष्वासं शस्त्रवर्षैरवारयन्।
तटाकमिव धाराभिर् यथा प्रावृषि तोयदाः॥४२॥

हाहाकारो महानासीत् तव सैन्ये विशां पते॥४३॥

छाद्यमानौ रणे कृष्णौ शरैर्दृष्ट्वा महारथैः।
देवा देवर्षयश्चैव गन्धर्वाश्च महोरगाः॥४४॥

विस्मयं परमं जग्मुर् दृष्ट्वा कृष्णौ तथाऽऽगतौ॥४४॥

ततः क्रुद्धो रणे पार्थो ह्यैन्द्रमस्त्रमवासृजत्॥४५॥

तत्राद्भुतमपश्याम विजयस्य पराक्रमम्।

शरघृष्टिं परैरस्तां शरौघैः पर्यवारयत्॥४६॥

न च तत्राप्यनिर्भिन्नः कश्चिदासीद्विशां पते॥४६॥

तेषां राजसहस्राणां हयानां दन्तिनां तथा।
द्वाभ्यां त्रिभिश्शरैश्चान्यान पार्थो विव्याध मारिष॥४७॥

ते हन्यमानाः पार्थेन भीष्मं शान्तनवं ययुः।
अगाधे मज्जतां तेषां भष्मिस्त्राता तदाऽभवत्॥४८॥

आपतद्भिस्तु तैस्तत्रप्रभग्नं तावकं बलम्।
सञ्चुक्षुभे महाराज वातेनेवमहार्णवः॥४९॥

इति श्रीमहाभारते शतसहस्रिकायांसंहितायां वैयसिक्यां
॥भीष्मपर्वणि षट्सप्ततितमोऽध्यायः॥१६॥
॥६४॥भीष्मवधपर्वणि षट्त्रिंशोऽध्यायः॥३६॥
[ अस्मिन्नध्याये ४९॥श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1706192953मम.png"/>

॥सप्तसप्ततितमोऽध्यायः॥
<MISSING_FIG href="../books_images/U-IMG-1706192966bbbb.png"/>

द्रोणेन विराटसूनोः शङ्खस्य वधः॥१॥द्वन्द्वयुद्धम्॥२॥

<MISSING_FIG href="../books_images/U-IMG-1706192983मम.png"/>

सञ्जयः—

प्रवृत्तमात्रे सङ्ग्रामे निवृत्ते च सुशर्मणि।

प्रभग्नेषु च वीरेषु पाण्डवेन महात्मना॥१॥

क्षोभ्यमाणे बले तूर्णं सागरप्रतिमे तव।

प्रत्युद्याते च गाङ्गेये त्वरितं विजयं प्रति॥२॥

दृष्ट्वा दुर्योधनो राजा रणे पार्थस्य विक्रमम्।
त्वरमाणस्समभ्येत्य सर्वांस्तानब्रवीन्नृपान्॥३॥

तेषां च प्रमुख वीरं सुशर्माणं महाबलम्।
मध्ये सर्वस्य सैन्यस्य भृशं संहर्षयन् वचः॥४॥

दुर्योधनः—

एष शान्तनवो भीष्मो योद्धुकामो धनञ्जयम्।
सर्वात्मना कुरुश्रेष्ठस् त्यक्त्वा जीवितमात्मनः॥५॥

तं प्रयान्तं पुरो वीरास् सर्वसैन्येन भारतम्।
संयुक्तास्समरे सर्वे पालयध्वं पितामहम्॥६॥

सञ्जयः–

बाढमित्येवमुक्त्वा तु तान्यनीकानि सर्वशः।
नरेन्द्राणां महाराज जग्मुस्सर्वे पितामहम्॥७॥

ततः प्रयातस्सहसा भीष्मश्शान्तनवोऽर्जुनम्।
रणे भारतमायान्तम् आससाद महाबलम्॥८॥

ततश्श्वेतपताकेन श्वेतवर्महयेन च।
महता मेघनादेन रथेन सुविराजता॥९॥

पश्यतां सर्वसैन्यानाम् उपायातो धनञ्जयः॥९॥

अभवत् तुमुलो नादो हयान् दृष्ट्वा किरीटिनः॥१०॥

अभीशुहस्तं कृष्णं च दृष्ट्वाऽऽदित्यमिवापरम्।
मध्यंदिनगतं सङ्ख्ये न शेकुः प्रतिवीक्षितुम्॥११॥

ततश्शान्तनवं भीष्मं श्वेताश्वं श्वेतकार्मुकम्।
न शेकुः पाण्डवा द्रष्टुं श्वेतं ग्रहमिवापरम्॥१२॥

स सर्वतः परिवृतस् त्रिगर्तैस्तु महात्मभिः।
भ्रातृभिस्सह पुत्रैश्च तथाऽन्यैश्च महारथैः॥१३॥

पृष्ठतस्तु141 जुगोपात्र भीष्मं युधि सुयोधनः॥१३॥

भारद्वाजस्तु समरे मात्स्यं विव्याध पत्रिणा॥१४॥

ध्वजमेकेन वाणेन369 पातयामास भूतले।
धनुश्चिच्छेद141 राजेन्द्र शितेनैकेन पत्रिणा॥१५॥

तदपास्य धनुश्छिन्नं विराटो वाहिनीपतिः।
अन्यदादत्त वेगेन धनुर्भारसहं दृढम्॥१६॥

शरांश्चाशीविषाकाराञ्ज्वलितान् पन्नगानिव॥१६॥

द्रोणं त्रिभिः प्रविव्याध चतुर्भिश्चास्य वाजिनः।
ध्वजमेकेन विव्याध सारथिं चास्य पञ्चभिः॥१७॥

धनुश्चैकेषुणाऽविध्यत् ततोऽविध्यद्द्वि370जर्षभम्॥१८॥

ततः141 क्रुद्धो द्विजश्रेष्ठश् चापमुद्यम्य वै दृढम्।
तस्य द्रोणोऽवधीदश्वाञ्शरैस्सन्नतपर्वभिः॥१९॥

अच्छिनद्भरतश्रेष्ठ सूतमेकेन पत्रिणा॥१९॥

स हताश्वादवप्लुत्य स्यन्दनाद्धतसारथेः।
आरुरोह रथं तूर्णं पुत्रस्य रथिनां वरः॥२०॥

ततस्तौ तु पितापुत्रौ भारद्वाजं रथे स्थितौ।
महता शरवर्षेण वारयामासतुर्बलात्॥२१॥

भारद्वाजस्ततः क्रुद्धश् शरमाशीविषोपमम्।
चिक्षेप समरे राजन् शङ्खं प्रति जनेश्वरः॥२२॥

स तस्य कवचं भित्त्वा पीत्वा शोणितमाहवे।
जगाम धरणीं बाणो लोहितार्द्रवरच्छदः॥२३॥

स पपात रथात् तूर्णं भारद्वाजशराहतः।
धनुस्त्यक्त्वा शरांश्चैव पितुरेव समीपतः॥२४॥

हतं तमात्मजं दृष्ट्वा विराटःप्राद्रवद्भयात्।
उत्सृज्य समरे द्रोणं व्यात्ताननमिवान्तकम्॥२५॥

भारद्वाजस्ततस्तूर्णं पाण्डवानां महाचमूम्।
दारयामास समरे शतशोऽथ सहस्रशः॥२६॥

शिखण्ड्यपि समासाद्य द्रौणिमाहवशोभिनम्।

आजधान भ्रुवोर्मध्ये नाराचैस्त्रिभिराशुगैः॥२७॥

प्रबभौ नरशार्दूलो ललाटे संस्थतैस्त्रिभिः।
शिखरैः काञ्चनमयैर् मेरुस्त्रिभिरिवोच्छ्रितैः॥२८॥

अश्वत्थामा ततः क्रुद्धो निमेषार्धाच्छिखण्डिनः।
सूतं ध्वजमथो राजंस् तुरगानायुधानि च॥२९॥

शरैर्बहुभिराहत्य पातयामास संयुगे॥३०॥

स हताश्वादवप्लुत्य रथान्निहतसारथेः।
खड्गमादत्त वेगेन विपुलं चर्म चापरम्॥३१॥

श्येनवद्व्यचरत् क्रुद्धश् शिखण्डी शत्रुतापनः॥३२॥

सखड्गस्य महाराज चरतस्तस्य संयुगे।
नान्तरं ददृशे द्रौणिस् तदुद्भुतमिवाभवत्॥३३॥

ततश्शरसहस्राणि बहूनि भरतर्षभ।
प्रेषयामास समरे द्रौणिस्समरकोपनः॥३४॥

तामापतन्तीं सहसा शरवृष्टिं371 सुदारुणाम्।
असिना तीक्ष्णधारेण चिच्छेद बलिनां वरः॥३५॥

ततोऽस्य विपुलं द्रौणिश् शरच्चन्द्रामलप्रभम्।
चर्माच्छिनदसिं चापि लघुहस्तश्च संयुगे॥३५॥

शितैस्तं बहुशो राजन् तदा विव्याध मार्गणैः॥३६॥

शिखण्डी तु ततः खड्गं खण्डितं द्रौणिसायकैः।
आविध्यव्यसृजत् तूर्णं द्रोणपुत्राय वेगितः॥३७॥

तमापतन्तं सहसा कालानलसमप्रभम्।
शरैरचूर्णयद्द्रौणिर् दर्शयन् हस्तलाघवम्॥३८॥

शिखण्डिनं च विव्याध शरैर्बहुभिराशुगैः॥३८॥

शिखण्डिनंतु भृशं राजंस् ताड्यमानोऽनिशं शरैः।
आरुरोह रथं तूर्णं माधवस्य महात्मनः॥३९॥

सात्यकिस्त्वथ सङ्क्रुद्धोराक्षसं क्रूरमाहवे।
अलम्बुसं शरैर्घोरैर् विव्याध बलिनं बली॥४०॥

राक्षसेन्द्रस्ततस्तस्य धनुश्चिच्छेद मारिष।
अर्धचन्द्रेण समरे तं च विव्याध सायकैः॥४१॥

मायां च राक्षसीं कृत्वा शरवर्षैरवाकिरत्॥४२॥

तत्राद्भुतमपश्याम शैनेयस्य पराक्रमम्।
नासम्भ्रमत् स समरे वध्यमानश्शितैश्शरैः॥४३॥

ऐन्द्रमस्त्रं च वार्ष्णेयो योजयामास वीर्यवान्।
विजयाद्यदनुप्राप्तं माधवेन यशस्विना॥४४॥

तदस्त्रंभस्मसात्कृत्वा मायां तां राक्षसीं तदा।
अलम्बुसं रणे राजञ्शितैरस्त्रैरवाकिरत्॥४५॥

पर्वतं वारिधाराभिः प्रावृषीव बलाहकः॥४५॥

372 तु सम्पीडितस्तेन माधवेन यशस्विना।
प्रदुद्राव भयाद्रक्षो हित्वा सात्यकिमाहवे॥४६॥

तमजय्यं मघवता जित्वा भारत सात्यकिः।
शैनेयः प्रणदन्नादं योधानां तव पश्यताम्॥४७॥

न्यहनन् तावकांश्चापि सात्यकिस्सत्यविक्रमः।
निशितैर्बहुभिर्बाणैः प्राद्रवन्त भयार्दिताः॥४८॥

एतस्मिन्नेव काले तु द्रुपवस्यात्मजो बली।
धृष्टद्युम्नो महाराज तव पुत्रंजनेश्वरम्॥४९॥

छादयामास समरे शरैस्सन्नतपर्वभिः॥५०॥

छाद्यमानोऽपि विशिखैर् धृष्टद्युम्नेन भारत।
विव्यथे नैव राजेन्द्र पुत्रस्ते भरतर्षभ॥५१॥

धृष्टद्युम्नस्तु सङ्क्रुद्धो राजन् विव्याध373 पत्निभिः।
नवत्या त्ववनीपालस् तदद्भुतमिवाभवत्॥५२॥

तस्य सेनापतिः क्रुद्धो धनुश्चिच्छेद मारिष।
ह्ययांश्च चतुरश्शीघ्रं निजघान महारथः॥५३॥

शरैश्चैनं सुनिशितैश् शीघ्रं विव्याध सप्तभिः॥५३॥

स हताश्वान्महाबाहुर् अवप्लुत्यरथाद्वली।
पदातिरसिमुद्यम्य प्राद्रवत् पार्षतं प्रति॥५४॥

शकुनिस्तं समभ्येत्य राजगृध्नुर्महाबलः।
राजानं सर्वलोकस्य रथमारोपयत् स्वकम्॥५५॥

ततो नृपं पराजित्य पार्षतः परवीरहा।
न्यहनत् तावकं सैन्यं वज्रपाणिरिवासुरान्॥५६॥

कृतवर्मा रणे भीमं शरैरार्च्छन्महारथम्।
प्रच्छायामास च तं महामेघो रविं यथा॥५७॥

ततः प्रहस्य समरे भीमसेनः परंतपः।
प्रेषयामास सङ्क्रुद्धस् सायकान् कृतवर्मणि॥५८॥

तैरर्द्यमानोऽतिरथस् सात्वतश्शस्त्रकोविदः।
नाकम्पत महाराज भीमंचार्च्छच्छितैश्शरैः॥५९॥

तस्याश्वांश्चरुरोहत्वा भीमो भीमपराक्रमः।
सारथिं पातयामास ध्वजं च सुपरिष्कृतम्॥६०॥

शरैर्बहुविधैश्चैनम् आच्छिन्नः परवीरहा।
शकलीकृतसर्वाङ्गश् श्वाविद् तु शललैरिव॥६१॥

हताश्वात् तु रथात् तूर्णं सौबलस्य रथं ययौ।
स्यालस्य ते महाराज तव पुत्रस्य पश्यतः॥६२॥

भीमसेनोऽपि सङ्क्रुद्धोगजानीकमुपाद्रवत्।
निजघान गजांश्चैव दण्डपाणिरिवान्तकः॥६३॥

अन्तकाले374 महाराज प्रजा इव जनेश्वर॥६४॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि सप्तसप्ततितमोऽध्यायः॥७७॥
॥६४॥भीष्मवधपर्वणि सप्तत्रिंशोऽध्यायः॥३५॥
[ अस्मिन्नध्याये ६४ श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1705211155ववव.png"/>

॥अष्टसप्ततितमोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1705211172ललल.png"/>

द्वन्द्वयुद्धवर्णनम्॥

<MISSING_FIG href="../books_images/U-IMG-1705211235ववव.png"/>

धृतराष्ट्रः—

बहूनि सुविचित्राणि द्वैरथानि स्म सञ्जय।
पाण्डूनां मामकैस्सार्धम् अश्रौषं जल्पतस्तव॥

न चैव मामकं कश्चिद् धृष्टं शंससि संयुगे।
नित्यं पाण्डुसुतान् हृष्टान् अभग्नांश्चैव शंससि॥२॥

हीयमानान् विमनसो मामकान् विगतौजसः॥२॥

^(2–3)मानुषं375 न परं मन्ये दिष्टमत्र न संशयः॥३॥

सञ्जयः—

यथाशक्ति यथोत्साहं युद्धे चेष्टन्ति तावकाः।
दर्शयन्तः परं शतया पौरुषं पुरुषर्षभ॥

गङ्गायास्सुरनद्या वै स्वादुभूतं यथोदकम्।
महोदधिं376 समभ्येत्य लवणत्वं निगच्छति॥

तथा तत् पौरुषं राजंस् तावकानां महात्मनाम्।
प्राप्य पाण्डुसुतान् वीरान् व्यर्थं भवति संयुगे॥

यतमानान् यथाशक्ति कुर्वाणान् कर्म दुष्करम्।
न दोषेण कुरुश्रेष्ठ कौरवान् गन्तुमर्हसि॥

तवापराधात् सुमहान् सपुत्रस्य विशां पते।
पृथिव्याः प्रक्षयो घोरो यमराष्ट्रविवर्धनः॥

आत्मदोषात् समुत्पन्नं शोचितुं नार्हसे नृप॥

229 हि रक्षन्ति राजानस् सर्वार्थेनापि जीवितम्॥

युद्धेन स्वार्जिताँ लोकान् इच्छन्तो वसुधाधिपाः।
चमूं विगाह्य युद्ध्यन्ते नित्यं स्वर्गपरायणाः॥

पूर्वाह्न तु महाराज प्रावर्तत जनक्षयः।
तन्ममैकमना भूत्वा शृणु देवासुरोपमम्॥

आवन्त्यौ तु महात्मानौ महेष्वासौ महाबलौ।
युधामन्युमभिप्रेक्ष्य समीयतुररिन्दमौ॥१२॥

तेषां377 प्रववृते युद्धं सुमहद्रोमहर्पणम्॥१२॥

युधामन्युस्सुसङ्क्रुद्धोभ्रातरौ देवरूपिणौ।
विव्याध निशितैस्तूर्णं शरैस्सन्नतपर्वभिः॥१३॥

तावेनं प्रत्ययुध्येतां समरे चित्रयोधिनौ॥१४॥

युध्यतां हि यथा राजन् विशेषो न व्यदृश्यत।
यततां शत्रुनाशाय कृतप्रतिकृतैषिणाम्॥१५॥

युधामन्यू रणे राजन्ननुविन्दस्य सायकैः।
चतुर्भिश्चतुरो वाहान् अनयद्यमसादनम्॥१६॥

भल्लाभ्यां च सुतीक्ष्णाभ्यां धनुः केतुं च मारिष।
चिच्छेद समरे राजंस् तदद्भुतमिवाभवत्॥१७॥

त्यक्त्वाऽनुविन्दोऽथ रथं विन्दस्य रथमास्थितः।
धनुर्गृह्य तथा चित्रं भारसाधनमुत्तमम्॥१८॥

तावेकरथमारूढावावन्त्यो बलिनां वरौ।
शरान् मुमुचतुस्तूर्णं युधामन्यौ महात्मनि॥१९॥

ताभ्यां मुक्ता महावेगाश् शराः काञ्चनभूषणाः।
दिवाकरपथं प्राप्य च्छादयामासुरम्बरम्॥२०॥

युधामन्युरसम्भ्रान्तो भ्रातरौ तो महारथौ।
ववर्ष शरवर्षेण सारथिं च न्यपातयत्॥२१॥

तस्मिन् निपतिते भूमौ गतसत्त्वे तु सारथौ।
रथः प्रदुद्रावदिशस् तुरगैरनिवारितैः॥२२॥

तौ141 तु दृष्ट्वा महेष्वासौ पुत्रौ तु विमुखीकृतौ।
धृष्टद्युम्नो महाराज यज्ञसेनसुतः प्रभुः॥२३॥

पौरुषं ख्यापयंस्तूर्णं व्यधमत् तव वाहिनीम्॥२३॥

सा वध्यमाना समरे धार्तराष्ट्री महाचमूः।
वेदनां परमां प्राप्ता विषं पीत्वेव मानवः॥२४॥

हैडिम्बो राक्षसः क्रुद्धः प्राग्ज्योतिषमुपाद्रवत्।
रथेनादित्यवर्णेन स जगाम महाबलः॥२५॥

ततः प्राग्ज्योतिषो राजा नागराजं समास्थितः।
यथा वज्रधरः पूर्वं सङ्ग्रामे तारकामये॥२६॥

ऐरावतं141 समास्थाय ह्ययुध्यत महाबलः॥२७॥

तत्र231 देवास्सगन्धर्वा ऋषयश्च समागताः।
विशेषं तत्रन विदुर् हैडिम्बभगदत्तयोः॥२८॥

यथा सुरपतिश्शक्रस् त्रासयामास दानवान्।

तथा स समरे राज॑स् त्रासयामास पाण्डवान्॥२९॥

तेन विद्राव्यमाणास्ते पाण्डवास्सर्वतो दिशम्।
त्रातारं नाभ्यविन्दन्त स्वेध्वनीकेषु भारत॥३०॥

¹भैमसेनि377 रथस्थं तु तत्वापश्याम भारत।
शेषा विमनसो भूत्वा प्राद्रवन्त महारथाः॥३१॥

निवृत्तेषु तु पाण्डूनां पुनस्सैन्येषु भारत।
आसीन्निष्ठानको घोरस् तव सैन्यस्य संयुगे॥३२॥

घटोत्कचस्ततो राजन भगदत्तं महारणे।
शरैः प्रच्छादयामास मेरुं गिरिमिवाम्बुदः॥३३॥

निहत्य तानू शरान् राजन् राक्षसस्य धनुच्युतान्।
सैमसेनि रणे तूर्णं भृशं मर्मस्वताडयत्॥३४॥

स ताड्यमानो बहुभिश शरैस्सन्नतपर्वभिः।
न विव्यथे राक्षसेन्द्रो भिद्यमान इवाचलः॥३५॥

²भगदत्तं378 राक्षसेन्द्रो हैडिम्बोऽपि महाबलः।
निजधान शरैस्तीक्ष्णैर् हेमपुङ्खैस्सुदारुणैः॥३६॥

न विव्यथे भिद्यमानो भगदत्त इवाचलः॥३६॥

पुनः प्राग्ज्योतिषः क्रुद्धस् तोमरान् वै चतुर्दश।

प्रेषयामास समरे तांस्तु चिच्छेद राक्षसः॥३७॥

स तांश्छित्त्वा महाबाहुस् तोमरान् निशितैश्शरैः।
भगदत्तं तु विव्याध सप्तत्या कङ्कपत्रिभिः॥३८॥

तत्र देवास्सगन्धर्वा ऋषयश्च समागताः।
विशेषं तत्र न विदुर् हैडिम्बभगदत्तयोः॥३९॥

ततः प्राग्ज्योतिषो राजा प्रहसन्निव भारत।
तस्याश्वांश्चतुरोराजन् पातयामास सायकैः॥४०॥

हताश्वे तु रथे तिष्ठन् राक्षसेन्द्रः प्रतापवान्।
शक्तिं चिक्षेप वेगेन प्राग्ज्योतिषगजं प्रति॥४१॥

तामापतन्तीं सहसा हेमदण्डां सुवेगिताम्।
त्रिधा चिच्छेद नृपतिस् सा व्यकीर्यत मेदिनीम्॥४२॥

शक्तिं विनिहतां दृष्ट्वा हैडिम्बः प्राद्रवद्भयात्।
यथेन्द्रस्य भयात् पूर्वं नमुचिर्दैत्यसत्तमः॥४३॥

तं विजित्य रणे शत्रुं विख्यातः ख्यातपौरुषम्।
अजय्यं समरे राजन् यमेन वरुणेन च॥४४॥

पाण्डवीं समरे सेनां संममर्द स कुञ्जरः।
यथा वनगजो राजन् मृद्गंश्चरति पद्मिनीम्॥४५॥

मद्रेश्वरस्तु समरे यमाभ्यां सह सङ्गतः।
स्वस्त्रीयौ छादयाञ्चक्रेसायकैः पाण्डुनन्दनौ॥४६॥

सहदेवस्तु समरे मातुलं प्रेक्ष्य सङ्गतम्।
अवारयच्छरौघेण मेघो यद्वद्दिवाकरम्॥४७॥

सञ्छाद्यमानस्तु160 शरैर् हृष्टरूपधरोऽभवत्।
तयोश्चास्याभवत् प्रीतिर् अतुला मातृकारणात्॥४८॥

ततः प्रहस्य समरे नकुलस्य महारथः।
ध्वजं चिच्छेद बाणेन धनुश्चैकेन मारिप॥४९॥

अथैनं छिन्नधन्वानं छादयन्निव भारत।
निजघान रणे तं तु सूतं चास्य न्यपातयत्॥५०॥

अश्वांश्च379 चतुरो राजंश् चतुर्भिस्सायकोत्तमैः।
प्रेषयामास मद्रेशो यमस्य सदनं प्रति॥५१॥

हताश्वात् तु रथात् तूर्णम् अवप्लुत्य महारथः।
आरुरोह ततो यानं भ्रातुरेव नराधिपः॥५२॥

एकस्थौतु ततश्शूरौ दृढविक्षिप्तकार्मुकौ।
मद्रराजरथं तूर्णं छादयामासतू रुषा॥५३॥

सञ्छाद्यमानो बहुभिश् शरैस्सन्नतपर्वभिः।
स्वस्त्रीयाभ्यां नरव्याघ्रो नाकम्पत यथाऽचलः॥५४॥

पृषत्कानां सहस्राणि प्रहसन्निव तावपि।

सृजन् रुरोध समरे मेघो वृष्ट्या यथाऽचलम्॥५५॥

सहदेवस्ततः क्रुद्धस् शरमुत्क्षिप्य वीर्यवान्।
मद्रराजमभिप्रेक्ष्य प्रेषयामास संयुगे॥५६॥

स शरः प्रेषितस्तेन गरुडानिलवेगवान्।
मद्रराजं विनिर्भिद्य निपपात महीतले॥५७॥

स गाढवद्धो व्यथितो रथोपस्थे महारथः।
निषसाद महाराज कश्मलं च जगाम ह॥५८॥

तं विसंज्ञं निपतितं सूतस्सम्प्रेक्ष्य संयुगे।
अपोवाह रथेनाजौ यमाभ्यामतिपीडितम्॥५९॥

दृष्ट्वा मद्रेश्वररथं धार्तराष्ट्राः पराङ्मुखाः।
सर्वे विमनसो भूत्वा नेदमस्तीत्यचिन्तयन्॥६०॥

निर्जित्य मातुलं सङ्ख्ये माद्रीपुत्रौ महारथौ।
दध्मतुर्मुदितौ शङ्खौसिंहनादं च नेदतुः॥६१॥

हृष्टौ चाद्रवतां क्षिप्रं तव सैन्यं विशां पते।
यथा दैत्यचमूं राजन्निन्द्रोपेन्द्रावरिन्दमौ॥६२॥

इति श्रीमहाभारते शतसहस्रिकायांसंहितायां वैयासिक्यां
भीष्मपर्वणि अष्टसप्ततितमोऽध्यायः ॥ ७८॥
॥ ६४ ॥ भीष्मवधपर्वणि अष्टाविंशोऽध्यायः ॥ ३८ ॥
[ अस्मिन्नध्याये ६२॥ श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1705213163ववव.png"/>

॥ऊनाशीतितमोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1705213342ललल.png"/>

युधिष्ठिरादियुद्धवर्णनम्॥

<MISSING_FIG href="../books_images/U-IMG-1705213371ववव.png"/>

सञ्जयः—

ततो युधिष्ठिरो राजा मध्यं प्राप्ते दिवाकरे।
श्रुतायुषमभिप्रेक्ष्य चोदयामास वाजिनः॥१॥

ततस्तु380 त्वरितो राजा श्रुतायुषमरिन्दमम्।
निजघ्ने सायकैस्तीक्ष्णैर् नवभिर्नतपर्वभिः॥२॥

स संवार्य ततो राजन् प्रेषितान् धर्मसूनुना।
शरान् सप्त महेष्वासः कौन्तेयाय समर्पयत्॥३॥

ते तस्य कवचं भित्त्वा पपुश्शोणितमाहवे।
असूनिव विचिन्वन्तो देहे तस्य महात्मनः॥४॥

पाण्डवस्तु229 भृशं विद्धस् तेन राज्ञा महात्मना।
रणे वराहकर्णेन राजानं हृद्यविध्यत॥५॥

अथापरेण भल्लेन केतुं तस्य महात्मनः।
रथश्रेष्ठो रथात् तूर्णं भूमौ पार्थो न्यपातयत्॥६॥

धर्मराजः246 पुनः केतुं तस्य राज्ञश्श्रुतायुषः।

छित्त्वा स पातयामास योधानां पश्यतां भुवि॥७॥

केतुं निपतितं दृष्ट्वा श्रुतायुस्तं तु पार्थिवः।
पाण्डवं निशितैर्बाणै राजन् विव्याध सप्तभिः॥८॥

ततः क्रोधात् प्रजज्वाल धर्मराजो युधिष्ठिरः।
यथा युगान्ते भूतानि धक्ष्यन्निव हुताशनः॥९॥

क्रुद्धं तु पाण्डवं दृष्ट्वा देवगन्धर्वदानवाः।
प्रविव्यथुर्महाराज व्याकुलं चाप्यभूज्जगत्॥१०॥

सर्वेषां चापि भूतानाम् इदमासीन्मनोगतम्।
त्रींल्लोकानद्य सङ्क्रुद्धो नृपोऽयं धक्ष्यतीति वै॥११॥

महर्षयश्चैव देवाश्च चक्रुस्स्वस्त्ययनं महत्।
लोकानां नृप शान्त्यर्थं क्रोधिते पाण्डवे तथा॥१२॥

ततः क्रोधसमाविष्टस् सृक्विणी परिलेलिहन्।
दधारात्मवपुर्घोरं युगान्ताग्निसमप्रभम्॥१३॥

ततस्सैन्यानि सर्वाणि तावकानि विशां पते।
निराशान्यभवंस्तत्र जीवितं प्रति भारत॥१४॥

160 तु धैर्येण तं कोपं सन्निवार्य महायशाः।
श्रुतायुषः प्रचिच्छेद मुष्टिदेशे महद्धनुः॥१५॥

अथैनं छिन्नधन्वानं नाराचेन स्तनान्तरे।

निर्बिभेद तदा राजा सर्वसैन्यस्य पश्यतः॥१६॥

सत्वरं च रणे राजन् वाहांस्तस्य महात्मनः।
निजघान शरैः क्षिप्रं सूतं च स महाबलः॥१७॥

हताश्वं तु रथं त्यक्त्वा दृष्ट्वा राज्ञश्च विक्रमम्।
स प्रदुद्राव वेगेन श्रुतायुस्समरान् तदा॥१८॥

तस्मिञ्जिते महेष्वासे धर्मपुत्रेण संयुगे।
दुर्योधनबलं राजन् सर्वमासीत् पराङ्मुखम्॥१९॥

एवं जित्वा रणे राजन् धर्मपुत्रो युधिष्ठिरः।
व्यात्ताननो यथा व्याघ्रस् तव सैन्यं जघान तत्॥२०॥

चेकितानस्तु वार्ष्णेयो गौतमं रथिनां वरम्।
प्रेक्षतां सर्वसैन्यानां छादयामास सायकैः॥२१॥

सन्निवार्य शरांस्तांस्तु कृपश्शारद्वतो युधि।
चेकितानं रणे यत्तो राजन् विव्याध पत्रिभिः॥२२॥

अथापरेण भल्लेन धनुश्चिच्छेद मारिष।
सारथिं चास्य समरे क्षिप्रहस्तो न्यपातयत्॥२३॥

हयांश्चास्यावधीद्राजंस् तथोभौ पार्ष्णिसारथी।
सोऽवप्लुत्यरथात् तूर्णं गदां जग्राह सात्त्वतः॥२४॥

स तथा वीरघातिन्या गदया रथिनां वरः।
गौतमस्य हयान् हत्वा सारथिं स न्यपातयत्॥२५॥

भूमिष्ठो गौतमस्तस्य शरांश्चिक्षेप षोडश॥

ते शरास्सात्त्वतं भित्त्वा प्राविशंस्तरसा तलम्॥२६॥

चेकितानस्ततः क्रुद्धः पुनश्चिक्षेप तां गदाम्।
गौतमस्य वधाकाङ्क्षी वृत्रस्येव पुरन्दरः॥२७॥

तामापतन्तीं विमलाम् अश्मगर्भोपमां गदाम्।
शरैरनेकसाहस्रैर् वारयामास गौतमः॥२८॥

चेकितानस्ततः क्रुद्धो गदां दृष्ट्वा निपातिताम्।
स्वड्गमादाय वेगेन गौतमं समुपाद्रवत्॥२९॥

गौतमोऽपि धनुस्त्यक्त्वा प्रगृह्यासिं सुसंशितम्।
वेगेन महता राजंश चेकितानमुपाद्रवत्॥३०॥

तावुभौ रथिनां श्रेष्ठौ निस्त्रिंशवरधारिणौ।
निस्त्रिंशाभ्यां सुतीक्ष्णाभ्याम् अन्योन्यं सन्ततक्षतुः॥ ३१॥

निस्त्रिंशवेगाभिहतौ ततस्तौ पुरुषर्षभौ।
धरणीं समनुप्राप्तौ पश्यतां सर्वधन्विनाम्॥३२॥

मूर्च्छयाऽभिपरीताङ्गौ व्यायामेन च मोहितौ॥३२॥

ततोऽभ्यधावद्वेगेन करवर्षस्सुहृत्तया।
चेकितानं तथाभूतं दृष्ट्वा समरदुर्मदम्॥३३॥

रथमारोपयच्चैनं सर्वसैन्यस्य पश्यतः॥३४॥

तथैव शकुनिश्शूरस् स्यालस्तव विशां पते।

आरोपयद्रथं तूर्णं गौतमं रथिनां वरम्॥३५॥

सौमदत्तिं ततः क्रुद्धो धृष्टकेतुर्महाबलः।
नवत्या सायकैस्तीक्ष्णै राजन् विव्याध वक्षसि॥३६॥

सौमदत्तिरुरस्स्थैस्तैर्381 भृशं बाणैरशोभत।
मध्यंदिने महाराज रश्मिभिस्तपनो यथा॥३७॥

भूरिश्रवास्तु समरे धृष्टकेतुं महारथम्।
हतसूतहयं चक्रे विरथं सायकोत्तमैः॥३८॥

विरथं तु समालोक्य हताश्वं हतसारथिम्।
महता शरवर्षेण च्छादयामास संयुगे॥३९॥

स च तं रथमुत्सृज्य धृष्टकेतुर्महामनाः।
आरुरोह रथं तूर्णं शतानीकस्य भारत॥४०॥

चित्रसेनो विकर्णश्च राजन् दुर्मर्षणस्तथा।
रथिनो हेमसन्नाहास् सौभद्रमभिदुद्रुवुः॥४१॥

अभिमन्योस्ततस्तैस्तु घोरं युद्धमवर्तत।
शरीरस्य यथा राजन् वातपित्तकफैस्त्रिभिः॥४२॥

विरथांस्तव पुत्रांस्तु कृत्वा राजन् महाहवे।
निजघान नरव्याघ्रस् स्मृत्वा भीमवचस्तदा॥४३॥

ततो राज्ञां बहुशतैर् गजाश्वरथसादिभिः।
संवृतं समरे भीष्मं देवैरपि दुरासदम्॥४४॥

प्रयान्तं शीघ्रमुद्रीक्ष्य परित्रातुं सुतांस्तव।
अभिमन्युं समुद्रीक्ष्य बालमेनं महावलम्॥४५॥

वासुदेवमुवाचेदं कौन्तेयश्श्वेतवाहनः॥४५॥

अर्जुनः—

चोदयाश्वान् हृषीकेश यत्रैते बहुला ध्वजाः॥४६॥

एते हि बहवश्शूराः कृतास्त्रा युद्धदुर्मदाः।
यथा न हन्युर्नस्सैन्यं तथा माधव चोदय॥४७॥

सञ्जयः—

एवमुक्तस्तु वार्ष्णेयः कौन्तेयेन महात्मना।
रथं श्वेतहयैर्युक्तं प्रेषयामास संयुगे॥४८॥

निष्ठानको महानासीत् तव सैन्यस्य मारिष।
यदर्जुनो रणे क्रुद्धः प्रयातस्तावकान् प्रति॥४९॥

समासाद्य तु कौन्तेयो राज्ञस्तान् भीषयन् युधि।
अर्जुनस्तु सुशर्माणम् इदं वचनमब्रवीत्॥५०॥

अर्जुनः—

जानामि त्वां युधि श्रेष्ठम् अत्यन्तं पूर्ववैरिणम्।
पर्यायस्याद्य सम्पक्वं फलं पश्य सुदारुणम्॥५१॥

अद्य त्वां दर्शयिष्यामि पूर्वप्रेतान् पितामहान्॥५१॥

सञ्जयः—

एवं सञ्जल्पतस्तस्य बीभत्सोश्शत्रुतापनः।
श्रुत्वाऽपि परुषं वाक्यं सुशर्मा रथयूथपः॥५२॥

न चैनमब्रवीत् किञ्चिच् छुभं वा यदि वाऽशुभम्॥५३॥

अभि गत्वाऽर्जुनं वीरं राजभिर्बहुभिर्वृतः।
पुरस्तात् पृष्ठतश्चैव पार्श्वतश्चैव सर्वतः॥५४॥

परिवार्यार्जुनं सङ्ख्ये तव पुत्रैस्सहानघः।
शरैस्सञ्छादयामास मेघैरिव दिवाकरम्॥५५॥

ततः प्रववृते घोरस् सङ्ग्रामश्शोणितोदकः।
तावकानां परेषां च दारुणो रोमहर्षणः॥५६॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायांवैयासिक्यां
भीष्मपर्वणि एकोनाशीतितमोऽध्यायः॥ ७९॥
॥६४॥ भीष्मवधपर्वणि एकोनचत्वारिंशोऽध्यायः॥ ३९॥
[ अस्मिन्नध्याये ५६ श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1705214961ववव.png"/>

॥अशीतितमोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1705214985ललल.png"/>

सङ्कुलयुद्धवर्णनम्॥

सञ्जयः—

स तुद्यमानस्तु शरैर्धनञ्जयः
पदाहतो नाग इव श्वसन् बली।
बाणेन बाणांश्च महारथानां
चिच्छेद चापानि रणे प्रसह्य॥१॥

सञ्छिद्य चापानि च तानि राज्ञां
तेषां रणे वीर्यवतां क्षणेन।
विव्याध बाणैर्युगपन्महात्मा
विशेषतस्तेष्वथ मन्यमानः॥२॥

निपेतुराजौ रुधिरोक्षिताङ्गास्
ते ताडिताश्शक्रसुतेन राजन्।
विभिन्नगात्राः पतितोत्तमाङ्गा
गतासवश्छिन्नतनुत्रकायाः॥३॥

महीं गताः पार्थबलाभिभूता
विचित्ररूपा युगपन्महारथाः।
दृष्ट्वा हतांस्तान् युधि राजपुत्रांस्
त्रिगर्तराजः प्रययौ क्षणेन॥४॥

तेषां रथानामथ पृष्ठगोपा
द्वात्रिंशदन्येऽभ्यपतन्त पार्थम्॥४॥

तथैव ते तं परिवार्य पार्थ
विकृष्य चापानि महारवाणि।
सिषेचिरे बाणमहौघवृष्ट्या
यथा गिरिं तोयधरा जलौघैः॥५॥

सम्पीड्यमानस्तु शरौघवृष्ट्या
धनञ्जयस्तान् युधि जातरोषः।
षष्ट्या शरैस्संयति तैलधौतैर्
जघान तानप्यथ पृष्ठगोपान्॥६॥

षष्टिं रथांस्तानवजित्य सङ्ख्ये
धनञ्जयः प्रीतमना यशस्वी।
प्रतत्वरे भीष्मवधाय जिष्णुर्
बलानि राज्ञां समरे निपात्य॥७॥

त्रिगर्तराजो निहतान् समीक्ष्य
महात्मना तानथ बन्धुवर्गान्।
रणे पुरस्कृत्य नराधिपांस्तान्
जगाम पार्थ त्वरितो वधाय॥८॥

अभिद्रुतं चास्त्रभृतां वरिष्ठं
धनञ्जयं वीक्ष्य शिखण्डिमुख्याः।
अभिद्रुताश्शस्त्रशरौघवृष्ट्या
समन्ततः पार्थरथं ररक्षुः॥९॥

पार्थोऽपि तानापततस्समीक्ष्य
त्रिगर्तराज्ञा सहितान् नृवीरान्।

विध्वंसयित्वा स महाधनुष्मान्
गाण्डीवमुक्तैर्निशितैः पृषत्कैः॥१०॥

भीष्मं यियासुर्युधि सन्ददर्श
दुर्योधनं सैन्धवादींश्च राज्ञः।
आवारयिष्णूनथ सम्प्रवार्य
मुहूर्तमासाद्य बलेन वीरः॥११॥

उत्सृज्य राजानमनन्तवीर्यो
जयद्रथादींश्च नृपान महौजाः।
ततो ययौ भीमबलो यशस्वी
गाङ्गेयमाजौ शरचापपाणिः॥१२॥

भीष्मोऽपि382 दृष्ट्वा समरे कृतास्त्रान्
स पाण्डवानां रथिनोह्युदारान्।
विहाय सङ्ग्राममुखे धनञ्जयं
जवेन पार्थं पुनराजगाम॥१३॥

युधिष्ठिरश्चोग्रबलो महात्मा
समाययौ383 त्वरितो जातकोपः।

मद्राधिपं समभित्यज्य सङ्ख्ये
सहानुगं यान्तमनन्तकीर्तिः॥१४॥

सार्धं स माद्रीसुतभीमसेनैर्
भीष्मं384 ययौ शान्तनवं रणाय॥१५॥

तैस्सम्प्रयुक्तैस्स महारथाग्र्यैर्
गङ्गासुतस्समरे चित्रयोधी।
न विव्यथे शान्तनवो महात्मा
समागतैः पाण्डुसुतैस्समस्तैः॥१६॥

अथैत्य राजा युधि सत्यसन्धो
जयद्रथोऽत्युग्रबलो मनस्वी।
चिच्छेद चापानि महारथानां
प्रसह्य तेषां बलिनां महौजाः॥१७॥

युधिष्ठिरं भीमसेनं यमौ च
पार्थानथो युधि सञ्जातकोपः।
दुर्योधनः क्रोधविषो महात्मा
जघान बाणैरनलप्रकाशैः॥१८॥

कृपेण शल्येन शलेन चैव
तथा विभो चित्रसेनेन चाजौ।

विद्धाश्शरैस्तेविनिबद्धकोपैर्
देवा यथा दैत्यगणैस्समेतैः॥१९॥

छिन्नायुधश्शान्तनवेन राजा
शिखण्डिनं प्रेक्ष्य च जातकोपः।
अजातशत्रुस्समरे महात्मा
शिखण्डिनं क्रुद्ध उवाच वाक्यम्॥२०॥

युधिष्ठिरः—

उक्त्वा तथा त्वत्पितुरग्रतो माम्
अहं हनिष्यामि महाव्रतं तम्।
भीष्मं शरौघैर्विमलार्कवर्णैस्
सत्यं वदामीति कृता प्रतिज्ञा॥२१॥

त्वया च नैषा सफला कृता च
देवव्रतं यन्न निहंसि युद्धे।
मिथ्याप्रतिज्ञो भव मा नृवीर
रक्षस्व धर्मं स्वकुलं यशश्च॥२२॥

प्रेक्षस्व भीष्मं युधि भीमवेगं
सर्वांस्तपन्तं मम सैन्यसङ्घान्।
शरौघजालैरतितिग्मवेगैः
कालं यथा कालकृतं क्षणेन॥२३॥

निकृत्तचापस्समरानपेक्षः
पराजितश्शान्तनवेन राज्ञा।

विहाय बन्धूनथ सोदरांश्च
क्व यास्यसे नानुरूपं तवेदम्॥२४॥

दृष्ट्वा हि भीष्मं तमनन्तवीर्यं
भग्नं च सैन्यं द्रवमाणमेवम्।
भीतोऽसि नूनं द्रुपदस्य पुत्र
तथा हि ते मुखवर्णोऽप्रहृष्टः॥२५॥

अज्ञायमाने हि धनञ्जये तु
महाहवे संप्रसक्ते तु घोरे।
कथं हि भीष्मात् प्रथितः पृथिव्यां
भयं त्वमद्य प्रकरोषि वीर॥२६॥

सञ्जयः—

स धर्मराजस्य वचो निशम्य
रूक्षाक्षरं विप्रलापानुबन्धम्।
प्रत्यादेशं मन्यमानो महात्मा
प्रतत्वरे भीष्मवधाय राजन्॥२७॥

तमापतन्तं महता जवेन
शिखण्डिनं भीष्मरथं तदानीम्।
निवारयामास हि शल्य एनम्
अस्त्रेण घोरेण सुदुर्जयेन॥२८॥

स चापपृष्ठात् समुदीर्यमाणम्
अस्त्रंयुगान्ताग्निसमप्रकाशम्।
नाकम्पताथ द्रुपदस्य पुत्रो
वीरो महेन्द्रप्रतिमप्रकाशः॥२९॥

तस्थौ च तत्रैव महाधनुष्माञ्
शरैस्तदस्त्रं प्रतिबाधमानः।
अथाददे वारुणमन्यदस्त्रं
अग्र्यंशिखण्डी च वधाय तस्य॥३०॥

तदस्त्रमस्त्रेण विदार्यमाणं
शल्यं तदा ददृशुः पार्थिवाश्च।
स्व385स्थास्सुरौघाश्च386 तथैव यक्षा
गन्धर्वसिद्धा ऋषिभिस्समन्तात्॥३१॥

भीष्मस्तु राजन् समरे महात्मा
धनुस्सुचित्रं ध्वजमेव चापि।
छित्त्वाऽनदत् पाण्डुसुतस्य वीरो
युधिष्ठिरस्यातिरथस्य राज्ञः॥३२॥

ततस्समुत्सृज्य धनुस्सवाणं
वृकोदरः387 कोपपरीतचेताः।

युधिष्ठिरं वीक्ष्य भयाभिभूतं
तदन्तिके388 सिन्धुराजं ददर्श॥३३॥

गदां प्रगृह्याथ पपात सङ्ख्ये
जयद्रथं भीमसेनः पदातिः॥३३॥

तमापतन्तं महता जवेन
जयद्रथस्सगदं भीमसेनम्।
विव्याध घोरैर्यमदण्डकल्पैश्
शितैश्शरैः पञ्चशतैस्समन्तात्॥३४॥

अचिन्तयित्वा स शरांस्तरस्वी
वृकोदरः कोपपरीतचेताः।
जघान वाहान् समरे समस्तान्
सुसम्मतान् सिन्धुराजस्य सङ्ख्ये॥३५॥

ततोऽभिवीक्ष्याप्रतिमप्रभावस्
तवात्मजस्त्वरमाणो रथेन।
अभ्याययौ भीमसेनं निहन्तुं
समुद्यतास्त्रस्सुरराजकल्पम्॥३६॥

जयद्रथो भग्नवाहो रथं तं
त्यक्त्वा ययौ यत्र राजा कुरूणाम्।

ससौबलस्सानुगस्सानुजश्च389
दृष्ट्वा भीमं मूढचेता भयार्तः॥३७॥

भीमोऽप्यथैनं सहसा विनद्य
प्रत्युद्ययौ गदया हन्तुकामः।
ससौबलं390 तव पुत्रं निरीक्ष्य
दुर्योधनं सानुजं रोषयुक्तः॥३८॥

समुद्यतां तां यमदण्डकल्पां
दृष्ट्वा गदां ते कुरवस्समन्तात्।
विहाय391 सर्वे तव पुत्रमुग्रां
गतिं गदायाः परिहर्तुकामाः॥३९॥

अपकान्तास्तुमुले सम्प्रमर्दे
सुदारुणे391 भारत मोहनीये॥४०॥

अमूढचेतास्त्वथ चित्रसेनो
महागदामापतन्तीं निरीक्ष्य।

स्वयं368 स्थित्वा भीमसेनस्य चाग्रे
गतिं गदायाः परिहर्तुकामः॥४१॥

रथं समुत्सृज्य पदातिराजौ
प्रगृह्य खड्गंविपुलं च चर्म।
अवप्लुतस्सिंह इवाचलाग्राज्
जगाम चान्यं भूमिप भूमिदेशम्॥४२॥

गदाऽपि सा तस्य रथं सुचित्रं
साश्वंससूतं विनिहत्य सङ्ख्ये।
जगाम भूमिं ज्वलिता महोल्का
भ्रष्टाऽम्बराद्गामिव सम्पतन्ती॥४३॥

आश्चर्यभूतं सुमहत् त्वदीया
दृष्दैव तद्भारत सम्प्रहृष्टाः।
सर्वे विनेदुस्सहितास्समन्तात्
पुपूजिरे तव पुत्रस्य योधाः॥४४॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि अशीतितमोऽध्यायः॥ ८०॥
॥६४॥ भीष्मवधपर्वणि चत्वारिंशोऽध्यायः॥ ४०॥
[ अस्मिन्नध्याये ४४ श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1705217078ववव.png"/>

॥ एकाशीतितमोऽध्यायः ॥

<MISSING_FIG href="../books_images/U-IMG-1705467208mmm.png"/>

सङ्कुलयुद्धवर्णनम्॥

<MISSING_FIG href="../books_images/U-IMG-1705467189ववव.png"/>

सञ्जयः—

विरथं तं समासाद्य चित्रसेनं महारथम्।
रथमारोपयामास विकर्णस्तनयस्तव॥१॥

तस्मिंस्तथा वर्तमाने तुमुले सङ्कुले भृशम्।
भीष्मश्शान्तनवस्तूर्णं युधिष्ठिरमुपाद्रवत्॥२॥

ततस्सरथनागाश्वास्समकम्पन्त सृञ्जयाः।
मृत्योरास्यमनुप्राप्तं मेनिरे च युधिष्ठिरम्॥३॥

युधिष्ठिरोऽपि कौरव्य यमाभ्यां सहितः प्रभुः।
महेष्वासं नरव्याघ्रं भीष्मं शान्तनवं ययौ॥४॥

ततश्शरसहस्राणि392 प्रमुञ्चन् पाण्डवो युधि।

भीष्मं सच्छादयामास यथा मेघो दिवाकरम्॥५॥

तेन सम्यक् प्रणीतानि शरजालानि मारिष।
प्रतिजग्राह गाङ्गेयश् शतशोऽथ सहस्रशः॥६॥

तथैव शरजालानि भीष्मेणास्तानि भारत।

————————————————————————————————————

प्रतोदानामङ्कुशानां योक्त्राणां चैव भारत।
राशयस्तम्प्रदृश्यन्ते विकीर्णानां विशां पते॥
न तत्रासीत् पुमान् कश्चित् तव सैन्येषु भारत।
योऽर्जुनं समरे वीरं प्रत्युदीयाद्विशां पते॥
स स तैर्विशिखैस्तीक्ष्णैःपरलोकाय नीयते॥
ततो विभ्राम्यमाणेषु तव योधेषु सर्वतः।
अर्जुनो वासुदेवश्च शङ्खौ दध्मतुरुत्तमौ॥
तं प्रभग्नबलं दृष्ट्वा पिता देवव्रतस्तव।
अब्रवीत् समरे शूरो भारद्वाजं यशस्विनम्॥

भीष्मः—

एष पाण्डुसुतो वीरः कृष्णेन सहितो बली।
व्याकुलानि च सैन्यानि चकार स धनञ्जयः॥
न ह्येष समरे शक्यो जेतुमन्यैः कथञ्चन।
एतस्य दृश्यते रूपं क्रुद्धस्येव पिनाकिनः॥
न निवर्तयितुं चास्य शक्येयं भारती चमूः।
अन्योन्यप्रेषया चापि द्रवतीयं वरूथिनी॥
एष चास्तं गिरिश्रेष्ठं भानुमान् प्रत्यपद्यत।
श्रमं वै सर्वलोकस्य सहरन्निव भारत॥
तेनापहारं सम्प्राप्तं मन्येऽहं पुरुषर्षभ।
आयासजश्रमप्राप्ता न योत्स्यन्ति कथञ्चन।
तावकानां परेषां च योधा धर्मजलप्लुताः॥

सञ्जयः—

एवमुक्त्वा ततो भीष्मो द्रोणमाचार्यमुत्तमम्।
अपहारमथो चक्रे परेषां च महारथः॥

आकाशे समदृश्यन्त खगमानां व्रजा इव॥७॥

निमेषार्धाच्च कौन्तेयं भीष्मश्शान्तनवो युधि।
अदृश्यं समरे चक्रे शरजालेन भारत॥८॥

ततो युधिष्ठिरो राजा कौरवस्य महात्मनः।
नाराचान् प्रेषयामास क्रुद्धो ह्याशीविषोपमान्॥९॥

असम्प्राप्तांस्ततस्तांस्तु क्षुरप्रेण महायशाः।
चिच्छेद254 समरे भीष्मः पाण्डवस्य धनुश्च्युतान्॥१०॥

तांस्तु च्छित्वा रणे भीष्मो नाराचान् कालसम्मितान्।
निजघ्नेकौरवेन्द्रस्य हयान् काञ्चनभूषणान्॥११॥

हताश्वे तु रथे तिष्टञ् शक्तिं चिक्षेप धर्मराट्॥११॥

तामापतन्तीं सहसा कालपाशोपमां शिताम्।
चिच्छेद समरे भीष्मश् शरैस्सन्नतपर्वभिः॥१२॥

हताश्वं तु रथं त्यक्त्वा धर्मराजो युधिष्ठिरः।
आरुरोह रथं तूर्णं नकुलस्य महात्मनः॥१३॥

यमावपि हि सङ्क्रुद्धस् समासाद्य रणे तदा।
शरैस्सञ्छादयामास भीष्मः परपुरञ्जयः॥१४॥

तौ तु दृष्ट्वा महाराज भीष्मबाणप्रपीडितौ।
जगामाथ परां चिन्तां भीष्मं प्रति युधिष्ठिरः॥१५॥

ततो धर्मात्मजो वश्यांस्तान् राज्ञस्समचोदयत्।
भीष्मं शान्तनवं सङ्ख्ये निहतेति सुहृद्गणम्॥१६॥

ततस्ते पार्थिवास्सर्वे श्रुत्वा तस्य प्रभाषितम्।
महता रथवंशेन परिवव्रुः पितामहम्॥१७॥

स समन्तात् परिवृतः पिता देवव्रतस्तव।
चिक्रीड धनुषा राजन् पातयानो महारथान्॥१८॥

तं चरन्तं रणे पार्था ददृशुः कौरवं युधि।
मृगमध्यं प्रविश्येव यथा सिंहशिशुं वने॥१९॥

तर्जयानं रणे शूरांस् त्रासयानं च सायकैः।
दृष्ट्वा त्रेसुर्महाराज सिंहं मृगगणा यथा॥२०॥

तस्य भारत भीष्मस्य ददृशुः क्षत्रिया गतिम्।
अग्नेर्वायुसहायस्य यथा काष्ठं दिधक्षतः॥२१॥

शिरांसि रथिनां भीष्मः पातयामास संयुगे।
तालेभ्य इव पक्कानि फलानि कुशलो नरः॥२२॥

पतद्भिश्च ततो राजञ् शिरोभिर्धरणीतले।
बभूव तुमुलश्शब्दः पततामश्मनामिव॥२३॥

तस्मिंस्तु तुमुले युद्धे वर्तमाने भयावहे।
सर्वेषामेव सैन्यानाम् आसीव्द्यतिकरो महान्॥२४॥

भग्नेषु तेषु व्यूहेषु क्षत्रिया इतरेतरम्।

एकमेकं समाहूय युद्धायैवोपतस्थिरे॥२५॥

शिखण्डी तु समाहूय भारतानां पितामहम्।
अभिदुद्राव वेगेन तिष्ठ तिष्ठति चाब्रवीत्॥२६॥

अनादृत्य ततो भीष्मस् तं शिखण्डिनमाहवे।
प्रययौ सृञ्जयान् क्रुद्धस् स्त्रीत्वं चिन्त्य शिखण्डिनः॥ २७॥

सृञ्जयास्तु ततॊ दृष्ट्वा भीष्मं युद्धे महारथम्।
सिंहनादं बहुविधं चक्रुश्शङ्ख विमिश्रितम्॥२८॥

ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम्।
अपरां दिशमास्थाय स्थिते सवितरि प्रभो॥२९॥

धृष्टद्युम्नोऽथ पाञ्चालः सात्यकिञ्च महारथः।
पीडयन्तौ भृशं सैन्यं शक्तितोमरवृष्टिभिः॥३०॥

अस्त्रैश्च बहुलै राजन् जन्नतुस्तावकान् रणे॥३१॥

ते हन्यमानास्सङ्गामे तावका भरतर्षभ।
आर्या युद्धे मतिं कृत्वा न त्यजन्ति स्म संयुगम्॥३२॥

यथोत्साहं तु समरे जघ्नुर्लोकमहारथाः॥३२॥

अत्राक्रन्दो महानासीत् तावकानां महात्मनाम्।
वध्यतां समरे राजन् पार्षतेन महात्मनाम्॥३३॥

तं श्रुत्वा निनदं घोरं तावकानां विशां पते।
विन्दानुविन्दावावन्त्यौपार्षतं समुपस्थितौ॥३४॥

ततोऽस्य तुरगान् हत्वा त्वरमाणौ महारथौ।
छादयामासतुरुभौ शरवर्षेण पार्षतम्॥३५॥

अवप्लुत्य ततो यानाद्धताश्वाद्भरतर्षभ।
आरुरोह रथं तूर्णं सात्वतस्य महात्मनः॥३६॥

ततो युधिष्ठिरो राजा महत्या सेनया धृतः।
आवन्त्य समरे क्रुद्धौ समभ्यायात् तरस्विनौ॥३७॥

तथैव तव पुत्रोऽपि सर्वोद्योगेन भारत।
विन्दानुविन्दौ समरे परिवार्योपतस्थिवान्॥३८॥

अर्जुनश्चापि सङ्क्रुद्धः क्षत्रियान् क्षत्रियर्षभः।
अयोधयत सङ्ग्रामे वज्रपाणिरिवासुरान्॥३९॥

द्रोणस्तु समरे क्रुद्धः पुत्रस्य प्रियकृत् तव।
व्यधमत् सर्वपाञ्चालांस् तूलराशिमिवानलः॥४०॥

दुर्योधनपुरोगास्तु पुत्रास्तव विशां पते।
परिवार्य रणे भीष्मं युयुधुः पाण्डवैस्सह॥४१॥

ततो युधिष्ठिरो राजा लोहितायति भास्करे।
अब्रवीत्248 स्वान् नृपान् क्रुद्धो युध्यध्वमिति भारत॥ ४२॥

युध्यतां तु ततस्तेषां कुर्वतां कर्म दुष्करम्।
अस्तं गिरिमथारूढे न प्रकाशति भास्करे॥४३॥

ततः प्रावर्तत नदी शोणितौघतरङ्गिणी।
गोमायुगणसङ्कीर्णा क्षणेन रजनीमुखे॥४४॥

शिवाभिरशिवाभिश्च रुदन्तीभिस्समन्ततः।
घोरमायोधनं जज्ञे भूतसङ्घसमाकुलम्॥४५॥

राक्षसाश्च पिशाचाश्च तत्रान्ये पिशिताशनाः।
समन्ततो व्यदृश्यन्त शतशोऽथ सहस्रशः॥४६॥

अर्जुनोऽथ सुशर्मादीन राज्ञस्तान् सपदानुगान।
विजित्य वृतनामध्ये ययौ स्वशिबिरं प्रति॥४७॥

युधिष्ठिरोऽपि393 कौरव्य भ्रातृभ्यां सहितो वशी।
ययौ स्वशिबिरं रात्रौ निजया सेनया वृतः॥४८॥

भीमसेनो महाराज सिन्धुराजमुखान् रथान्।
पराजित्य ततस्संख्ये ययौ स्वशिबिरं प्रति॥४९॥

दुर्योधनोऽपि160 नृपतिः परिवार्य महारणे।
भीष्मं शान्तनवं तूर्णं प्रायात् स्वशिबिरं प्रति॥५०॥

द्रोणो द्रौणिः कृपश्शल्यः कृतवर्मा च सात्वतः।
परिवार्य चमूस्सर्वा प्रययुश्शिबिराणि वै॥५१॥

तथैव सात्यकी राजन् धृष्टद्युम्नश्च पार्षतः।
परिवार्य रणे योधाञ् जग्मतुशिबिरं प्रति॥५२॥

¹ततस्सरथनागाश्वजयं260 प्राप्य ससोमकाः।
पाञ्चालाःपाण्डवाश्चैव प्रणेदुश्च पुनः पुनः॥५३॥

प्रययुश्शिबिरायैव धनञ्जयपुरस्कृताः।
वादित्रघोषैरसंहृष्टाः प्रनृत्यन्तो महारथाः॥५४॥

एवमेते महाराज तावकाः पाण्डवैस्सह।
पर्यवर्तन्त सहिता निशाकाले परन्तप॥५५॥

यथास्वशिबिरं गत्वा पाण्डवाः कुरुभिस्सह।
न्यविशन्त महाराज पूजयन्तः परस्परम्॥५६॥

रक्षां कृत्वाऽऽत्मनश्शूरा न्यस्तगुल्मा यथाविधि।
अपनीय च शल्यानि स्नात्वा च विविधैर्जलैः॥५७॥

कृतस्वस्त्ययनास्सर्वे स्तूयमानाञ्च वन्दिभिः।
गतिवीदत्रशब्दैश्च क्रीडन्तो वै यशस्विनः॥५८॥

²शयानास्तेऽपि394 शय्यासु महार्हासु विशां पते।
निद्रां प्राप्य सुखाविष्टाःक्षणमात्रं विजह्रिरे॥५९॥

³मुहूर्तमिव395 तं सर्वे महत् स्वप्नं समाश्रिताः।
तस्मात् समुत्थाय नृपाः कथाश्चक्रुश्च सर्वशः॥ ६०॥

सङ्ग्रामसंश्रिताञ्चान्याः बह्वीर्विक्रमजाश्शुभाः॥६१॥

ते प्रसुप्तजने सेने परिश्रान्ते उभे निशि।
हस्त्यश्वबहुले घोरे प्रेक्षणीये बभूवतुः॥६२॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि एकाशीतितमोऽध्यायः॥ ८१॥
॥ ६४॥ भीष्मवधपर्वणि एकचत्वारिंशोऽध्यायः॥ ४१॥
[अस्मिन्नध्याये ६२ श्लोकाः]
[ सप्तमापहारस्समाप्तः ]
<MISSING_FIG href="../books_images/U-IMG-1705652509ववव.png"/>
॥द्व्यशीतितमोऽध्यायः॥
<MISSING_FIG href="../books_images/U-IMG-1705652530ननन.png"/>

उभयसेनयोर्व्यूहरचनापूर्वकं परस्पराभियानम्॥

<MISSING_FIG href="../books_images/U-IMG-1705652560ववव.png"/>

सञ्जयः—

परिणाम्य निशां तां तु सुखसुप्ता जनेश्वराः।
कुरवः पाण्डवाश्चैव पुनर्युद्धाय निर्ययुः॥१॥

ततश्शब्दो महानासीत् सेनयोरुभयोर्नृप।
निर्गच्छमानयोस्सङ्ख्ये यथा सागरयोरिव॥२॥

ततो दुर्योधनो राजा चित्रसेनो विविंशतिः।
भीष्मश्च रथिनां श्रेष्ठो भारद्वाजश्च वै द्विजः॥३॥

एकीभूतास्सुसंयत्ताः कौरवाणां महाचमूम्।
व्यूहाय विदधू राजन् पाण्डवान् प्रति दंशिताः॥४॥

ऊर्मिव्यूहं ततः कृत्वा पिता देवव्रतस्तव।
सागरप्रतिमं घोरं वाहनोर्मितरङ्गिणम्॥५॥

अग्रतस्सर्वसैन्यानां भीष्मश्शान्तनवो ययौ।
मालवैर्दाक्षिणात्यैश्च ह्यावन्त्यैश्च समावृतः॥६॥

तदनन्तरमेवासीद् भारद्वाजः प्रतापवान्।
पुलिन्दैर्दर्दरैश्चैव तथा क्षुद्रकमालवैः॥७॥

द्रोणादनन्तरं यत्तो भगदत्तः प्रतापवान्।
मागधैश्च कलिङ्गेश्च पिशाचैश्च विशां पते॥८॥

प्राग्ज्योतिषादनु नृपः कौसल्योऽथ बृहद्बलः।
मेखलैत्रिपुरैश्चैव बर्बरैश्च समन्ततः॥९॥

बृहद्बलादनु नृपस् त्रिगर्तः प्रस्थलाधिपः।
¹काम्भोजैर्बहुभिस्सार्धं229 यवनैश्च सहस्रशः॥१०॥

द्रौणिस्तु रभसश्शूरस् त्रिगर्तादनु भारत।
प्रययौ सिंहनादेन नादयानो नभस्स्थलम्॥११॥

तथा सर्वेण सैन्येन राजा दुर्योधनस्तदा।
द्रौणेरनन्तरं प्रायात् सोदरैः परिवारितः॥१२॥

दुर्योधनादनु ययौ कृपश्शारद्वतो युधि।
एवमेव महाव्यूहः प्रययौ सागरोपमः॥१३॥

रेजुस्तत्र पताकाश्च श्वेतच्छत्राणि भारत।
²चामराणि141 च शुभ्राणि व्यजनानि च सर्वशः॥१४॥

¹आयुधानि396 च दिव्यानि महार्हाणि धनूंषि च॥१४॥

तं तु दृष्ट्वा महाव्यूहं तावकानां महारथः।
युधिष्टिरोऽब्रवीत् तूर्णं पार्षतं पृतनापतिम्॥१५॥

²पश्य397 व्यूहं महेष्वास निर्मितं सागरोपमम्।
प्रतिव्यूहं रणे शूर कुरु क्षिप्रं महारथ॥१६॥

ततस्स पार्षतश्शूरो व्यू्हं चक्रे सुदारुणम्।
शृङ्गाटकं महाराज तव व्यूहविदारणम्॥१७॥

शृङ्गेऽभूीमसेनश्च सात्यकिश्च महारथः।
रथैरनेकसाहस्रैस् तथा हयपदातिभिः॥१८॥

नाभावभून्नरश्रेष्ठश् श्वेताश्वो वानरध्वजः।
मध्ये युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ॥१९॥

अभिमन्युस्ततः पश्चाद् विराटश्च महारथः।
द्रौपदेयाश्च संहृष्टा राक्षसश्च घटोत्कचः॥२०॥

अथेतरे महेष्वासास् सर्वसैन्यैर्नराधिपाः।
व्यूहं तं पूरयामासुर् व्यूहशास्त्रविशारदाः॥२१॥

एवमेतं महाव्यूहं व्यूह्य भारतपाण्डवाः।
अतिष्ठन् समरे शूरा योद्धुकामा जयैषिणः॥२२॥

भेरीशब्दाश्च तुमुला विमिश्राश्शङ्खनिस्स्वनैः।
क्ष्वेलितास्फोटितोद्धुष्टैस् तुमुलास्सर्वतो दिशः॥२३॥

ततश्शूरास्समासाद्य समरे ते परस्परम्।
नेत्रैरनिमिषै राजन् प्रेक्षाञ्चक्रुः परस्परम्॥२४॥

मनोभिस्ते मनुष्येन्द्र युद्धं योधाः प्रचक्रिरे।
पुनराहूय तेऽन्योन्यं शरैरपि च चक्रिरे॥२५॥

ततः प्रववृते युद्धं घोररूपं सुदारुणम्।
तावकानां परेषां च निघ्नतामितरेतरम्॥२६॥

नाराचा निशितास्सङ्ख्ये सम्पतन्ति स्म भारत।
व्यात्तानना भयकरा उरगा इव सङ्घशः॥२७॥

निष्पेतुर्विमलाश्शक्त्यस् तैलधौता महाप्रभाः।
अम्बुदेभ्यो यथा राजन् भ्राजमानाश्शतह्रदाः॥२८॥

गदाश्च विमलैः पट्टेःपिनद्धा रुक्मभूषिताः।
आपतन्त्यस्स्म दृश्यन्ते गिरिशृङ्गोमाश्शुभाः॥२९॥

निस्त्रिंशाश्च व्यराजन्त विमलाम्बरसन्निभाः।
आर्षभाणि च चर्माणि शतचन्द्राणि भारत॥३०॥

अशोभन्त रणे राजन् पतमानानि सर्वशः॥३१॥

तेऽन्योन्यं समरे सैन्ये युध्यनाने नराधिप।
अशोभेतां यथा सैने देवदैत्यसमुद्यते॥३२॥

अभ्यद्रवन्त समरे तेऽन्योन्यं वै समन्ततः॥३२॥

रथास्तु रथिभिस्तूर्णं प्रेषिताः परमाहवे।
युगैर्युगानि संश्लिष्य युयुधुः पार्थिवर्षभाः॥३३॥

दन्तिनां युध्यमानानां सङ्घर्षात् पावकोऽभवत्।
दन्तेभ्योऽपि नरश्रेष्ठ सधूमस्सर्वतो दिशम्॥३४॥

प्रासैरभिहताः केचित् ¹तत्र398 योधास्सहस्रशः।
पतमानास्स्म दृश्यन्ते गिरिशृङ्गान्नगा इव॥३५॥

पादातास्समदृश्यन्त विनिघ्नन्तः परस्परम्।
चित्ररूपधराश्शूराः परिघप्रासयोधिनः॥३६॥

अन्योन्यं ते समासाद्य कुरुपाण्डवसैनिकाः।
शस्त्रैर्नानाविधैर्घोरैरणे निन्युर्यमक्षयम्॥३७॥

ततश्शान्तनवो भीष्मो रथघोषेण नादयन्
अभ्यद्रवद्रणे पार्थान् धनुश्शब्देन मोहयन्॥३८॥

तं पाण्डवा महाराज नदन्तो भैरवं रवम्।
अभ्यद्रवन्त सङ्ग्रामे धृष्टद्युम्नपुरोगमाः॥३९॥

ततः प्रववृते युद्धं तव तेषां च भारत।
नराश्वरथमातङ्गप्रतियानं सुदर्शनम्॥४०॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि द्व्यशीतितमोऽध्यायः॥ ८२॥
॥ ६४॥ भीष्मवधपर्वणि द्विचत्वारिंशोऽध्यायः॥ ४२॥
[ अस्मिन्नध्याये ४०॥श्लोकाः]
<MISSING_FIG href="../books_images/U-IMG-1705653717ववव.png"/>

॥त्र्यशीतितमोऽध्यायः॥
<MISSING_FIG href="../books_images/U-IMG-1705657588mmm.png"/>

भीमेन सुनाभादिदुर्योधनानुजाष्टकहननम्॥

<MISSING_FIG href="../books_images/U-IMG-1705657614ववव.png"/>

सञ्जयः—

भीष्मं तु समरे क्रुद्धं प्रतपन्तं समन्ततः।
न शेकुः पाण्डवा द्रष्टुं तपन्तमिव भास्करम्॥१॥

ततस्सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात्।
अभ्यद्रवन्त गाङ्गेयम् अर्दयन्तश्शितैश्शरैः॥२॥

स तु भीष्मो रणश्लाघीसोमकान् सह सृञ्जयैः।
पाञ्चालांश्चमहेष्वासान् पातयामास सायकैः॥३॥

ते वध्यमाना भीष्मेण पाचालास्सह पाण्डवैः।
भीष्ममेवाययुस्तूर्णं त्यक्त्वा मृत्युकृतं भयम्॥४॥

स तेषां रथसिंहानां भीष्मश्शान्तनवो युधि।
चिच्छेद समरे राजन् बाहुन्यथ शिरांसि च॥५॥

विरथान् रथिनश्चक्रे पिता देवव्रतस्तव।
पतितान्युत्तमाङ्गानि हयेभ्यो हयसादिनाम्॥६॥

निर्मनुष्यांश्च मातङ्गान् शयानान् पर्वतोपमान्।
अपश्याम महाराज भीष्मास्त्रेण प्रमाथितान्॥७॥

न तत्रासीत् पुमान् कश्चित् पाण्डवानां विशां पते।
अन्यत्र रथिनां श्रेष्ठाद् भीमसेनान्महाबलात्॥८॥

स हि भीष्मं समासाद्य छादयामास सायकैः॥८॥

ततो निष्ठानको घोरे भीष्मभीमपराक्रमे।
बभूव सर्वसैन्यानां घोररूपो भयानकः॥९॥

तथैव पाण्डवा हृष्टास् सिंहनादमथानदन्॥१०॥

ततो दुर्योधनो राजा सोदरैःपरिवारितः।
भीष्मं जुगोप समरे वर्तमाने भयावहे॥११॥

भीमस्तु सारथिं हत्वा भीष्मस्य रथिनां वरः।
¹द्रवमाणेन399 महता रथेनादित्यवर्चसा॥१२॥

चचार युधि राजेन्द्र भीमो भीमपराक्रमः॥१२॥

सुनाभस्तव पुत्रो वै भीमसेनमुपाद्रवत्।
जघान निशितैर्बाणैर् भीमं विव्याध सप्तभिः॥१३॥

भीमसेनस्सुसङ्क्रुद्धश् शरेण नतपर्वणा।
²विप्रद्रुते229 रथे तस्य द्रवमाणे समन्ततः॥१४॥

सुनाभस्य नरश्रेष्ठ शिरश्चिच्छेद भारत।
क्षुरप्रेण सुतीक्ष्णेन स हतो न्यपतद्भुवि॥१५॥

हते तस्मिन् महाराज तव पुत्रेमहारथे।

नामृष्यन्त रणे शूराश् सोदरास्सप्त संयुगे॥१६॥

आदित्यकेतुर्बह्वाशी कुण्डधारो महोदरः।
अपराजितः पण्डितको विशालाक्षश्च दुर्जयः॥१७॥

पाण्डवं चित्रसन्नाहा विचित्रकवचध्वजाः।
अभ्यवर्तन्त सङ्ग्रामे योद्धुं युद्धाभिनन्दिनः॥१८॥

महोदरस्तु समरे भीमं विव्याध पत्रिभिः।
नवभिर्वज्रसङ्काशैर् नमुचिं वृत्रहा यथा॥१९॥

आदित्यकेतुस्सप्तत्या बह्वाशी पञ्चभिस्तथा।
नवत्या कुण्डधारस्तु विशालाक्षस्तु पञ्चभिः॥२०॥

अपराजितो महाराज पराजिष्णुर्महारथः।
शरैर्बहुभिरानर्च्छद् भीमसेनं महाबलम्॥२१॥

रणे पण्डितकश्चैनं त्रिभिर्बाणैस्समर्पयत्।
स तन्न ममृषे भीमश् शत्रोर्विजयलक्षणम्॥२२॥

धनुः प्रपीड्य वामेन करेणामित्रकर्शनः।
अपराजितस्य राजेन्द्र भीमसेनो महाबलः॥२३॥

शिरश्चिच्छेद समरे शरेणानतपर्वणा॥२४॥

तच्छिरस्तव पुत्रस्य ¹कृत्तं400 गामगमच्छिरः॥२४॥

अथापरेण भल्लेन कुण्डधारं महाबलम्।
प्राहिणोन्मृत्युलोकाय सर्वलोकस्य पश्यतः॥२५॥

ततः पुनरमेयात्मा प्रसन्धाय शिलीमुखम्।
प्रेषयामास समरे पण्डितस्य रथं प्रति॥२६॥

स शरः पण्डितं हत्वा विवेश धरणीतलम्।
यथा नरं निहत्याशु भुजगःकालचोदितः॥२७॥

विशालाक्षशिरश्छित्वा पातयामास भूतले।
शरैस्त्रिभिरमेयात्मा स्मरन् क्लेशान् पुरातनान्॥२८॥

महोदरं महेष्वासो नाराचेन स्तनान्तरे।
विव्याध समरे राजन् स हतो न्यपतद्भुवि॥२९॥

आदित्यकेतोः केतुं च च्छित्वा बाणेन संयुगे।
भल्लेन भृशतीक्ष्णेन शिरश्चिच्छेद भारत॥३०॥

बह्वाशिनं तथा वीरश् शरेणानतपर्वणा।
प्रेषयामास समरे यमस्य सदनं प्रति॥३१॥

¹वित्रेसुस्त401नयाश्चान्ये भयाद्भीमसमुद्भवात्।
मन्यमाना रणे भीमं कालान्तकमिति ब्रुवन्॥३२॥

एवमेते महेष्वासाः पुत्रास्तव विशां पते।

भ्रातृन् संदृश्य निहतान् प्रास्मरन्त हि तद्वचः॥३३॥

यदुक्तवान् महाप्राज्ञः क्षत्ता हितमनामयम्।
तदिदं समनुप्राप्तं वचनं दीर्घदर्शिनः॥३४॥

लोभमोहसमाविष्टः पुत्रप्रीत्या जनाधिप।
न बुध्यसे पुरा यत् तत् तथ्यमुक्तं हितं वचः॥३५॥

तथैव हि वधार्थाय पुत्राणां पाण्डवो बली।
नूनं जातो महावीर्यो यथा हन्ति स्म कौरवान्॥३६॥

ततो दुर्योधनो राजा भ्रातृव्यसनकर्शितः।
अब्रवीत् तावकान् योधान् ¹भीमोऽयं402 वध्यतामिति॥ ३७॥

ततो दुर्योधनो राजा भीष्ममासाद्य मारिष।
शोकेन महताऽऽविष्टो विललाप सुदुःखितः॥३८॥

दुर्योधनः—

निहता भ्रातरश्शूरा भीमसेनेन मे युधि।
यतमानास्तथाऽन्येऽपि हन्यन्ते मम सैनिकाः॥३९॥

भवांश्च मध्यस्थतया नित्यमस्मानुपेक्षते।
सोऽहं कापथमारूढः पश्य दैवमिदं मम॥४०॥

सञ्जयः—

एतच्छ्रुत्वा वचः क्रूरं पिता देवव्रतस्तव।

दुर्योधनमिदं वाक्यम् अश्रुपूर्णेक्षणोऽब्रवीत्॥४१॥

भीष्मः—

उक्तमेतन्मया पूर्वं द्रोणेन विदुरेण च।
गान्धार्या च यशस्विन्या तत् त्वं तात न बुद्धवान्॥ ४२॥

समयश्च मया पूर्वं कृतोऽयं शत्रुकर्शन।
नाहं युधि विमोक्तव्यो नह्याचार्यः कथञ्चन॥४३॥

यं यं हि धार्तराष्ट्राणां भीमो द्रक्ष्यति संयुगे।
हनिष्यति रणे तं तं सत्यमेतद्ब्रवीमि ते॥४४॥

स त्वं राजन् स्थिरो भूत्वा दृढां कृत्वा रणे मतिम्।
योधय त्वं रणे पार्थान् स्वर्गं कृत्वा परायणम्॥४५॥

न शक्याः पाण्डवा जेतुं देवैरपि सवासवैः।
तस्माद्युधि स्थिरां कृत्वा बुद्धिं युद्ध्यस्व भारत॥४६॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि त्र्यशीतितमोऽध्यायः॥ ८३॥
॥ ६४॥ भीष्मवधपर्वणि त्रिचत्वारिंशोऽध्यायः॥ ४३॥
[ अस्मिन्नध्याये ४६॥ श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1705722190मम.png"/>

॥चतुरशीतितमोऽध्यायः॥
<MISSING_FIG href="../books_images/U-IMG-1705722335NNNN.png"/>

धृतराष्ट्रेण पुत्रवधश्रवणात् शोचनम्॥

<MISSING_FIG href="../books_images/U-IMG-1705722349मम.png"/>

धृतराष्ट्रः—

दृष्ट्वा मम हतान् पुत्रान् बहूनेकेन सञ्जय।
भीष्मो द्रोणः कृपश्चैव किमकुर्वत संयुगे॥१॥

अहन्यहनि मे पुत्राःक्षयं गच्छन्ति सञ्जय।
मन्येऽहं सर्वथा पुत्रान् दैवेनोपहतान् भृशम्॥२॥

तत्र मे तनयास्सर्वे जीयन्ते न जयन्त्युत।
यत्र द्रोणस्य भीष्मस्य कृपस्य च महात्मनः॥३॥

सौमदत्तेश्च शूरस्य भगदत्तस्य चोभयोः।
अश्वत्थाम्नस्तथा तात शूराणामनिवर्तिनाम्॥४॥

तथा सर्वस्य सैन्यस्य मध्यस्थास्तनया मम।
यदहन्यन्त सङ्ग्रामे किमन्यद्भागधेयतः॥५॥

न हि दुर्योधनो मन्दः पुरा ह्येतदबुध्यत।
वार्यमाणो मया तात भीष्मेण विदुरेण च॥६॥

गान्धार्या चैव दुर्मेधास्सततं हितकाम्यया।
नावबुध्यत् पुरा मोहात् तस्य प्राप्तमिदं फलम्॥७॥

यद्भीमसेनस्समरे मम पुत्रान् विचेतसः।
अहन्यहनि सङ्क्रुद्धो नयते यमसादनम्॥८॥

इदं तत् समनुप्राप्तं क्षत्तुर्वचनमुत्तमम्।
न बुद्धवानस्मि विभो प्रोच्यमानमिदं तदा॥९॥

निवारय सुतान् द्यूतात् पाण्डवान् मा द्रुहेति च।
सुहृदां हितकामानां ब्रुवतां तत्तदेव च॥१०॥

न शृणोमि परं वाक्यं मर्तुकाम इवौषधम्॥१०॥

तदिदं समनुप्राप्तं वचनं साधु भाषितम्।
विदुरद्रोणभीष्माणां तथाऽन्येषां मनीषिणाम्॥११॥

अकृत्वा वचनं पथ्यं क्षयं गच्छन्ति कौरवाः।
तदेतत् समतिक्रान्तं पूर्वमेव हि सञ्जय॥१२॥

¹तस्मान्मे403 वद धर्मज्ञ यथा युद्धमवर्तत।
²के404 केऽयुध्यन्त समरे ब्रूहि त्वं मम सञ्जय॥१३॥

सञ्जयः—

मध्याह्ने तुमुलो घोरस् सङ्ग्रामस्समपद्यत।
जनक्षयकरो राजंस् तन्मे निगदतश्शृणु॥१४॥

ततस्सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात्।

अभ्यद्रवन्त सङ्ग्रामे भीष्ममेव जिघांसया॥१५॥

धृष्टद्युम्नश्शिखण्डी च सात्यकिश्च महारथः।
युक्तानीका महाराज भीष्ममेव समभ्ययुः॥१६॥

¹अर्जुनो11 द्रौपदेयाश्च चेकितानश्च संयुगे।
दुर्योधनसमादिष्टान् राज्ञस्सर्वान् समभ्ययुः॥१७॥

अभिमन्युस्तथा शूरो हैडिम्बश्च महारथः।
भीमसेनश्च सङ्क्रुद्धस् तेऽभ्यधावन्त कौरवान्॥१८॥

त्रिधाभूतैरवध्यन्त कौरवाः पाण्डवैर्युधि।
तथैव पाण्डवा राजन्नवध्यन्त परै रणे॥१९॥

द्रोणस्तु रथिनां श्रेष्ठस् सोमकान् सह सृञ्जयैः।
अभ्यद्रवत सङ्क्रुद्धः प्रेषयानो यमक्षयम्॥२०॥

तत्राक्रन्दो महानासीत् सृञ्जयानां महात्मनाम्।
वध्यतां समरे राजन् भारद्वाजेन धन्विना॥२१॥

²द्रोणेन124 निहतास्तत्र क्षत्रिया बहवो रणे।
विवेष्टन्तोऽभ्यदृश्यन्त व्याधिक्लिष्टा नरा इव॥२२॥

कूजतां क्रन्दतां चैव स्तनतां चैव संयुगे।
अनिशं श्रूयते शब्दः क्षुत्कृशानां नृणामिव॥२३॥

तथैव कौरवेयाणां भीमसेनो महाबलः।
चकार कदनं घोरं ऋद्धः काल इवापरः॥२४॥

वध्यतां तत्र सैन्यानाम् अन्योन्येन महारणे।
वर्धते प्रेतराजस्य विषयस्स विशां पते॥२५॥

स सङ्ग्रामो महाराज घोररूपोऽभवत् तदा।
कुरूणां पाण्डवानां च यमराष्ट्रविवर्धनः॥२६॥

ततो भीमो रणे क्रुद्धो गदां गृह्य शितां दृढाम्।
गजानीकं समासाद्य प्रेषयामास संयमीम्॥२७॥

तत्र भारत भीमेन ताडिताः पतिता गजाः।
¹विनेदुश्च124 भृशं घोरं भ्रमन्तो दिक्षु सर्वतः॥२८॥

भिन्नहस्ता महानागा भिन्नकुम्भाश्च मारिष।
क्रौञ्चवद्व्यनदन् भीताः पृथिवीमनुशिश्यिरे॥२९॥

नकुलस्सहदेवश्च हयानीकमभिद्रुतौ॥३०॥

ते हयाः काञ्चनापीडा रुक्मभाण्डपरिष्कृताः।
वध्यमानाः प्रदृश्यन्त शतशोऽथ सहस्रशः॥३१॥

पतद्भिश्च हयौघैश्च समास्तीर्यत मेदिनी॥३१॥

निर्जिह्वैश्चश्वसद्भिश्च कूजद्भिश्च गतासुभिः।
हयैर्बभौ महाराज नानारूपधरैर्धरा॥३२॥

अर्जुनेन हतैस्सङ्ख्ये तथा भारत वाजिभिः।
प्रबभौ वसुधा घोरा तत्र तत्रविशां पते॥३३॥

रथैर्भिन्नैर्ध्वजैश्छिन्नैश् छत्रैश्च सुमहाप्रभैः।
हारैर्निष्कैस्सकेयूरैश् शिरोभिश्च सकुण्डलैः॥३४॥

उष्णीषैरपविद्धैश्चपताकाभिश्च सर्वशः।
अनुकर्षैश्शुभै राजन् योश्चैव सरश्मिभिः॥३५॥

सञ्छन्ना वसुधा भाति वसन्ते कुसुमैरिव॥३६॥

एवमेष क्षयो वृत्तः पाण्डुनामपि भारत।
क्रुद्धे शान्तनवे भीष्मे द्रोणे च रथसत्तमे॥३७॥

अश्वत्थाम्निकृपे चैव तथैव कृतवर्मणि।
तथेतरेषु क्रुद्धेषु तावकानामपि क्षयः॥३८॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि चतुरशीतितमोऽध्यायः॥ ८४॥
॥ ६४॥ भीष्मवधपर्वणि चतुश्चत्वारिंशोऽध्यायः॥ ४४॥
[ अस्मिन्नध्याये ३८ श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1705723456मम.png"/>

॥पञ्चाशीतितमोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1705723766नन.png"/>

अर्जुनात्मजेन इरावता शकुनेरनुजानां वधः॥ १॥ आर्श्यशृङ्गिनाम्ना राक्षसेन इरावतो वधः॥ २॥

<MISSING_FIG href="../books_images/U-IMG-1705723778मम.png"/>

सञ्जयः—

वर्तमाने तथा रौद्रे राजन् वीरवरक्षये।
शकुनिस्सौबलश्श्रीमान् पाण्डवान् समुपाद्रवत्॥१॥

तथैव सात्वतो राजन् हार्दिक्यःपरवीरहा।
अभ्यद्रवत सङ्ग्रामे पाण्डवानां वरूथिनीम्॥२॥

ततः काम्भोजमुख्यानां नदीजानां च वाजिनाम्।
आरट्टानां महीजानां सिन्धुजानां च सर्वशः॥३॥

वनायुजानां शुभ्राणां तथा पर्वतवासिनाम्।
¹समूहैर्वाजिमुख्यानां141 मनोमारुतरंहसाम्॥४॥

ये चापरे तित्तिरिजा जवना हेममालिनः।
सुवर्णालङ्कृतैरेव वर्मभिश्च सुकल्पितैः॥५॥

हयैर्वातजवैर्युक्तः पाण्डवस्य सुतो बली।
अभ्यवर्तत तत् सैन्यं हृष्टरूपः परन्तपः॥६॥

अर्जुनस्य सुतश्श्रीमान् इरावान्नाम वीर्यवान्।

सुतायां नागराजस्य जातः पार्थेन धीमता॥७॥

ऐरावतेन सा दत्ता अनपत्या महात्मना।
पत्यौ हते सुपर्णेन कृपणा दीनचेतना॥८॥

कार्यार्थं तां च जग्राह पार्थःकामवशानुगाम्।
एवमेष समुत्पन्नः परक्षेत्रेऽर्जुनात्मजः॥९॥

स नागलोके संवृद्धो मात्रा च परिरक्षितः।
पितृव्येन परित्यक्तः पार्थद्वेषाद्दुरात्मना॥१०॥

¹इत्येष236 ब्रुवता राजन् मात्रास हि विसर्जितः॥ १०॥

खमुत्पत्य महाराज नागराट् सत्यविक्रमः।
इन्द्रलोकं जगामाशु मातुश्श्रुत्वाऽर्जुनं गतम्॥११॥

सोऽभिवाद्य महात्मानं पितरं सत्यविक्रमम्।
कृताञ्जलिरुवाचेदं विनयेनाभिगम्य च॥१२॥

इरावान्—

इरावानस्मि भद्रं ते पुत्रश्चास्मि तवास्मि भो॥१३॥

सञ्जयः—

मातुस्समागमो यच्चतत् सर्वं प्रत्यवेदयत्।
तच्च सर्वं यथावृत्तम् अनुसस्मार पाण्डवः॥१४॥

परिष्वज्य सुतं चापि स्वात्मनस्सदृशं गुणैः।
प्रीतिमाननयत् पार्थो देवराजनिवेशनम्॥१५॥

सोऽर्जुनेन समाज्ञप्तो देवलोके तदा नृप।

प्रीतिपूर्वं महाबाहुस् स्वकार्यं प्रति भारत॥१६॥

स चापि नरशार्दूलश् शार्दूलसमविक्रमः।
अब्रवीच्च तदा पार्थम् अयमस्मि तवाभि भो॥१७॥

स्थितः प्रेष्यश्च पुत्रश्च सर्वथा त्वं प्रशाधि माम्।
किं करोमि च ते कामं किं वा कामं त्वमिच्छसि॥१८॥

परिष्वज्य सुतं प्रेम्णा वासविःप्रत्युवाच तम्॥१८॥

प्रीतिपूर्वं त्वया कार्यं कार्या प्रीतिश्च मानद।
युद्धकाले तु साहाय्यं दातव्यं नो भवेदिति॥१९॥

बाढमित्येवमुक्त्वा तु ययौ सत्यपराक्रमः।
कृष्णवर्णैश्शुभैरश्वैस् सर्वतश्शुशुभे वृतः॥२०॥

ते हयाः काञ्चनापीडा नानावर्णा मनोजवाः।
उत्पेतुस्सहसा राजन् हंसा इव महोदधौ॥२१॥

ते त्वदीयान् समासाद्य हयसङ्घान् मनोजवान्।
क्रोडैःक्रोडानभिघ्नन्तो घोणाभिश्च परस्परम्॥२२॥

निपेतुस्सहसा राजन् हंसा इव नगोत्तमान्॥२३॥

निपतद्भिस्तदा तैश्च हयसङ्घैःपरस्परम्।
शुश्रुवे दारुणश्शब्दस् सुपर्णपतने यथा॥२४॥

तथैव च महाराज समेत्यान्योन्यमाहवे।

परस्परवधं घोरं चक्रुस्ते हयसादिनः॥२५॥

तस्मिंस्तथा वर्तमाने सङ्कुले तुमुले भृशम्।
उभयोस्सेनयोश्शान्ता हयैघाश्च समन्ततः॥२६॥

प्रक्षीणसायकाश्शूरा निहताश्वाश्श्रमातुराः।
विलयं समनुप्राप्तास् तक्षमाणाः परस्परम्॥२७॥

ततः क्षीणे हयानीके किञ्चिच्छिष्टे च संयुगे।
सौबलस्यात्मजाश्शूरा निर्गता रणमूर्धनि॥२८॥

¹वायुवेगसमस्पर्शाञ्229 जवे वायुसमांश्च ते।
आरुह्य शैलसङ्काशान् वयस्स्थांस्तुरगोत्तमान्॥२९॥

गजो गवाक्षो वृषकश् चर्मवानर्जवश्शुकः।
षडेते बलसम्पन्ना निर्ययुर्महतो बलात्॥३०॥

वार्यमाणाश्शकुनिना स्वैश्च योधैर्महाबलैः।
सन्नद्धा युद्धकुशला रौद्ररूपा महाबलाः॥३१॥

तदनीकं महाबाहो भित्त्वा परमदुर्धरम्।
बलेन महता युक्ता निर्ययुर्विजयैषिणः॥३२॥

विविशुस्ते तदा हृष्टा गान्धारा युद्धदुर्मदाः॥३२॥

तान् प्रविष्टांस्तदा दृष्ट्वा फाल्गुनिः परवीरहा।
अब्रवीत् समरे सैन्यान् स्वान् विचित्रहयस्थितान्॥ ३३॥

इरावान्—

यथैते धार्तराष्ट्रस्य योधारसानुगवाहनाः।
हन्यन्ते समरे सर्वे तथा नीतिर्विधीयताम्॥३४॥

सञ्जयः—

बाढमित्येवमुक्त्वा तु सर्वे योधा इरावतः।
जघ्नुस्तेषां हयानीकान् दुर्धर्षान् समरे परैः॥३५॥

तदनीकमनीकेन समरे वीक्ष्य पातितम्।
अमृष्यमाणास्ते सर्वे सुबलस्यात्मजा रणे॥३६॥

¹इरावन्तमभिद्रुत्य405 समन्तात् पर्यवारयन्॥३७॥

ताडयन्तश्शितैः प्रासैश् चोदयन्तश्चवाजिनः।
ते शूराः पर्यधावन्त कुर्वन्तो महदाकुलम्॥३८॥

इरावानपि निर्भिन्नः प्रासैस्तीक्ष्णैर्महारथः।
रौद्रेण रुधिरेणाक्तस् तोत्रैर्भिन्न इव द्विपः॥३९॥

उरस्यपि च बाह्वोश्च पार्श्वयोश्च भृशाहतः।
एको बहुभिरत्यर्थं धैर्याद्राजन्न विव्यथे॥४०॥

इरावानपि—

सङ्क्रुद्धस् सर्वांस्तान् निशितैश्शरैः।
मोहयामास समरे वीर्यात् परपुरञ्जयः॥४१॥

प्रासानुत्कृष्य तेषां तु हस्तेभ्यो ह्यरिमर्दनः।

तैरेव ताडयामास सुबलस्यात्मजान् रणे॥४२॥

विकृष्य च शितं खड्गंगृहीत्वा च शरासनम्।
पदातिर्द्रुतमागच्छत् ताडयन् सुबलात्मजान्॥४३॥

ततः प्रत्यागतप्राणास् सर्वे ते सुबलात्मजाः।
भूयः क्रोधसमाविष्टा इरावन्तमुपाद्रवन्॥४४॥

इरावानपि खड्गेन दर्शयन् हस्तलाघवम्।
अत्यवर्तत देवांश्च मानुषांश्चैव संयुगे॥४५॥

लाघवं दर्शयानस्य सर्वे ते सुबलात्मजाः।
अन्तरं नाधिगच्छन्ति हयानारुह्य शीघ्रगान्॥४६॥

¹न141 चापि शीघ्रहस्तस्य ह्यश्वारूढस्य योधिनः।
भूमिष्ठमथ तं सङ्ख्ये अन्तरिक्षादवप्लुतम्॥४७॥

सौबलाः परिवार्यैनं ग्रहीतुमुपचक्रमुः॥४७॥

अथाभ्याशगतानां स खड्गेनामित्रकर्शनः।
असिहस्तोऽस्त्रहस्तानां तेषां गात्राण्यकृन्तत॥४८॥

आयुधान्यपि सर्वेषां बाहूनपि च भूषितान्॥४९॥

नृत्यन्त इव कृत्ताङ्गा गता भूमिं गतासवः॥४९॥

वृषकस्तु महाराज बहुधा परिविक्षतः।

¹योधैस्स्वकीयैस्समरे141 परिवार्य व्यतिष्ठत॥५०॥

तेऽमुच्यन्त महारौद्रात् तस्माद्वीरविकर्तनात्॥५१॥

तान् सर्वान् पतितान् दृष्ट्वा भीतो दुर्योधनस्ततः।
अभ्यभाषत सङ्क्रुद्धो राक्षसं घोरदर्शनम्॥५२॥

आर्श्यशृङ्गिं महेष्वासं मायाविनमरिन्दमम्।
²वैरिणं229 भीमसेनस्य पूर्वं बकवधेन वै॥५३॥

दुर्योधनः—

पश्य वीर यथा ह्येष फल्गुनस्य सुतो बली।
मायावी विप्रियं घोरम् अकार्षीन्मे बलक्षयम्॥५४॥

त्वं च कामचरस्तात मायास्त्रे च विशारदः।
कृतवैरश्च पार्थेन तस्मादेनं रणे जहि॥५५॥

सञ्जयः—

बाढमित्येवमुक्त्वा तु राक्षसो रौद्रदर्शनः।
प्रययौ सिंहनादेन यत्रार्जुनसुतो बली॥५६॥

स्वयोधैर्युद्धकुशलैर् विमलप्रासयोधिभिः।
³धीरैः406 प्रहारिभिर्वीरैस् स्वैरनीकैस्समन्ततः॥५७॥

निहन्तुकामस्समरे इरावन्तं महाबलम्॥५७॥

इरावानपि सङ्क्रुद्धस् त्वरमाणः पराक्रमी।
हन्तुकामममित्रघ्नो राक्षसं प्रत्यवारयत्॥५८॥

तमापतन्तं सम्प्रेक्ष्य राक्षसस्सुमहाबलः।
त्वरमाणस्ततो मायां प्रयोक्तुमुपचक्रमे॥५९॥

¹तेन229 मायामयाः क्लृप्ता हयास्तावन्त एव हि।
स्वारूढा राक्षसैर्घोरैश् शूलपट्टसपाणिभिः॥६०॥

ते संरब्धास्समासाद्य द्विसाहस्राः प्रहारिणः।
²इरावतस्सैनिकास्ते246 समयुध्यन्त तैस्सह॥६१॥

युद्धं कृत्वा महद्घोरम् अन्योन्यजयकाङ्क्षिणः।
अचिराद्गमयामासुः प्रेतलोकं परम्परम्॥६२॥

तस्मिंस्तु निहते सैन्ये तावुभौ युद्धदुर्मदौ।
सङ्ग्रामे व्यवतिष्ठेतां यथा वै वृत्रवासवौ॥६३॥

आधावन्तमभिप्रेक्ष्य राक्षसं युद्धदुर्मदम्।
इरावान् क्रोधसम्मत्तः प्रत्यधावन्महाबलः॥६४॥

स त्वभ्याशगतस्याजौ तस्य खड्गेन दुर्मदः।
चिच्छेद कार्मुकं दीप्तं शरावापं च दीप्तिमत्॥६५॥

स निकृत्तं धनुर्दृष्ट्वा खं जवेन समाविशत्।
इरावन्तमभिक्रुद्धो मोहयन् मायया तदा॥६६॥

¹ततोऽन्तरिक्षमु247

त्प्लुत्यइरावानपि राक्षसम्।
विमोहयित्वा मायाभिस् तस्य गात्राणि सायकैः॥६७॥

चिच्छेद सर्वमर्मज्ञः कामरूपो दुरासदः॥६८॥

तथा हि राक्षसश्रेष्ठः कृत्तः कृत्तः पुनः पुनः।
²न264 बभूव विनष्टश्च समवाप च यौवनम्॥६९॥

मायया जायते तस्य वयो रूपं च कामजम्॥६९॥

एवं तद्राक्षसस्याङ्गं छिन्नं छिन्नं व्यरोचत॥७०॥

इरावानपि सङ्क्रुद्धो राक्षसं तं महाबलम्।
परश्वथेन दीप्तेन चिच्छेदैनं पुनः पुनः॥७१॥

स तेन बलिना वीरच् छिद्यमान इव द्रुमः।
राक्षसो व्यनदद्घोरं स शब्दस्तुमुलोऽभवत्॥७२॥

परश्वथक्षतं रक्षस् सुस्राव रुधिरं बहु।
ततश्चुक्रौध बलवांश् चक्रे वेगं च संयुगे॥७३॥

आर्श्यश्रृङ्गिस्ततो दृष्ट्वासमरे शत्रुमूर्जितम्।
कृत्वा घोरं महदूपं ³बलमास्थाय407 वीर्यवान्॥७४॥

इरावन्तं महावीर्यं गृहीतुमुपचक्रमे।

सङ्ग्रामशिरसो मध्ये सर्वेषां तत्रपश्यताम्॥७५॥

तां दृष्ट्वा तादृशीं मायां राक्षसस्य महाबलः।
इरावानपि सङ्क्रुद्धो मायां स्रष्टुं प्रचक्रमे॥७६॥

तस्य क्रोधाभिभूतस्य संयुगेष्वनिवर्तिनः।
¹नागव्यूह408ोमहांस्तस्य कायात् समुदतिष्ठत॥७७॥

सोऽन्वयो मातृकस्तस्य ²तदैनमुपतिष्ठति409॥७७॥

स नागैर्बहुभी राजन् सर्वतस्संवृतो रणे।
दधार सुमहद्रूपम् अनन्त इव भोगवान्॥७८॥

ततो बहुविधैर्नागैश् छादयामास राक्षसम्॥७९॥

छाद्यमानस्तु तैर्नागैर् ध्यात्वा राक्षसपुङ्गवः।
सौपर्णं रूपमास्थाय भक्षयामास पन्नगान्॥८०॥

मायया भक्षिते तस्य अन्वये मातृके तथा।
विमोहितमिरावन्तं सञ्जघान वरासिना॥८१॥

सकुण्डलं समकुटं पद्मेन्दुसदृशप्रभम्।
इरावतश्शिरो रक्षः पातयामास भूतले॥८२॥

तस्मिंस्तु निहते वीरे राक्षसेनार्जुनात्मजे।
विशोकास्समपद्यन्त धार्तराष्ट्रास्सराजकाः॥८३॥

तस्मिन् महति सङ्ग्रामे तादृशे भैरवे पुनः।

महान् व्यतिकरो घोरस् सेनयोस्समपद्यत॥८५॥

गजा हयाः पदाताश्च विमिश्रा दन्तिभिर्हताः।
रथाश्च दन्तिनश्चैव पादातैस्तत्र सूदिताः॥८६॥

तथा पत्तिरथौघाश्च हयाश्च बहवो रणे।
रथिभिर्निहता राजस् तव तेषां च सङ्कुले॥८७॥

अजानन्नर्जुनश्चापि निहतं पुत्रमौरसम्।
जघान समरे शूरान् राज्ञो वै भीष्मरक्षिणः॥८८॥

तथैव तावका राजन् सृञ्जयाश्च महारथाः।
जुह्वतस्समरे प्राणान् निजघ्नुरितरेतरम्॥८९॥

मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः।
बाहुभिस्समयुध्यन्त समवेताः परस्परम्॥९०॥

तथा मर्मातिगैर्भीष्मो निजघान महारथान्।
कम्पयन् समरे सेनां पाण्डवानां समन्ततः॥९१॥

तेन यौधिष्ठिरे सैन्ये बहवोऽथ तदा हताः।
दन्तिनस्सादिनश्चैव रथिनोऽथ हयास्तथा॥९२॥

तत्रभारत भीष्मस्य रणे दृष्ट्वा पराक्रमम्।
अत्यद्भुतमपश्याम शक्रस्येव पराक्रमम्॥९३॥

तथैव भीमसेनस्य पार्षतस्य च भारत।
रौद्रमासीत् तदा युद्धं शैनेयस्य च धन्विनः॥९४॥

दृष्ट्वा द्रोणस्य विक्रान्तं पाण्डवान् भयमाविशत्॥९४॥

पाण्डवाः—

एक एव रणे शक्तो हन्तुमस्मान् ससैनिकान्।
किं पुनः पृथिवीवीरैर् योधव्रातैस्समावृतः॥९५॥

सञ्जयः—

इत्यब्रुवन् महाराज रणे द्रोणेन पीडिताः॥९६॥

वर्तमाने तथा रौद्रे सङ्ग्रामे भरतर्षभ।
उभयोस्सेनयोश्शूरा नामृष्यन्त परस्परम्॥९७॥

आविष्टा इव युध्यन्ते रक्षाभूतैर्महाबलैः।
तावकाः पाण्डवेयाश्च संरब्धास्तात धन्विनः॥९८॥

¹न410 स्म पश्यामहे कश्चिद् यः प्राणान् परिरक्षति।
²देवासुराभे411 सङ्ग्रामे तस्मिन् योधा नराधिप॥९९॥

इति श्रीमहाभारते शतसहस्रिकायांसंहितायां वैयासिक्यं
भीष्मपर्वणि पञ्चाशीतितमोऽध्यायः॥ ८५॥
॥ ६४॥ भीष्मवधपर्वणि पञ्चचत्वारिंशोऽध्यायः॥ ४५॥
[ अस्मिनध्याये ९९ श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1705726859मम.png"/>

॥षडशीतितमोऽध्यायः॥
<MISSING_FIG href="../books_images/U-IMG-1705726933नन.png"/>

दुर्योधनघटोत्कचयोयुद्धम्॥

<MISSING_FIG href="../books_images/U-IMG-1705726957मम.png"/>

धृतराष्ट्रः—

¹इरावन्तं412 हतं दृष्ट्वा सर्वे पार्था महारथाः।
सङ्ग्रामे किमकुर्वन्त तन्ममाचक्ष्व सञ्जय॥१॥

सञ्जयः—

इरावन्तं तु सङ्ग्रामे निहतं वीक्ष्य राक्षसः।
व्यनदत् सुमहानादं भैमसेनिर्घटोत्कचः॥२॥

नदतस्तस्य शब्देन पृथिवी सागराम्बरा।
सपर्वतवना राजंश् चचाल सुभृशं तदा॥३॥

अन्तरिक्षं दिशश्चैव सर्वाश्च प्रदिशस्तथा।
चेलुश्च सहसा तत्र तेन नादेन नादिताः॥४॥

तं श्रुत्वा सुमहानादं तव सैन्यस्य भारत।
ऊरुस्तम्भस्समभवद् वेपथुस्स्वेद एव च॥५॥

सर्व एव तु राजेन्द्र तावका दीनचेतसः।
चर्मवत् समवेष्टन्त सिंहसीता गजा इव॥६॥

नदित्वा सुमहानादं निर्घातमिव राक्षसः।

ज्वलन्तं शूलमुद्यम्य रूपं कृत्वा विभीषणम्॥७॥

नानारूपप्रहरणैर् वृतो राक्षसपुङ्गवैः।
आजगाम सुसङ्क्रुद्धः कालान्तकयमोपमः॥८॥

तमापतन्तं सम्प्रेक्ष्य गजानीकैश्च संवृतम्।
स्वसैन्यं च भयात् तस्य प्रायशो विमुखीकृतम्॥९॥

दुर्योधनस्ततो राजन् घटोत्कचमुपाद्रवत्।
प्रगृह्य विपुलं चापं सिंहवद्विनदन् मुहुः॥१०॥

पृष्ठतोऽनुययौ चैनं स्रवद्भिः पर्वतोपमैः।
कुञ्जरैर्दशसाहस्रैर् वङ्गानामधिपस्स्वयम्॥११॥

तमापतन्तं सम्प्रेक्ष्य गजानीकेन संवृतम्।
पुत्रं तव महाराज चुकोप स निशाचरः॥१२॥

ततः प्रववृते युद्धं तुमुलं रोमहर्षणम्।
राक्षसानां च राजेन्द्र राज्ञो दुर्योधनस्य च॥१३॥

गजानीकं च सम्प्रेक्ष्य मेघबृन्दमिवोद्धतम्।
अभ्यधावन्त सङ्क्रुद्धा राक्षसाश्शूलपाणयः॥१४॥

नदन्तस्सुमहानादान् मेघा इव सविद्युतः।
शरशक्त्यृष्टिनाराचैर् निघ्नन्तो गजयोधिनः॥१५॥

भिण्डिपालैस्तथा शूलैर् मुसलैश्च परश्वथैः।

पर्वताग्रैश्च वृक्षैश्च निजघ्नुस्ते महागजान्॥१६॥

भिन्नकुम्भान् सरुधिरान् भिन्नगात्रांश्च वारणान्।
अपश्याम महाराज वध्यमानान् निशाचरैः॥१७॥

स तेषु क्षीयमाणेषु भन्नेषु गजयोधिषु।
दुर्योधनो महाराज राक्षसान् समुपाद्रवत्॥१८॥

अमर्षवशमापन्नस् त्यक्त्वा जीवितमात्मनः।
मुमोच निशितान् बाणान् राक्षसेषु परंतपः॥१९॥

जघान च महेष्वासान् प्रधानांस्तत्रराक्षसान्।
सङ्क्रुद्धो भरतश्रेष्ठ पुत्रोदुर्योधनस्तव॥२०॥

वेगवन्तं महारौद्रं विद्युज्जिह्वं प्रमाथिनम्।
शरैश्चतुर्भिश्चतुरो निजघान महारथान्॥२१॥

ततः पुनरमेयात्मा शरवर्षं दुरासदम्।
मुमोच भरतश्रेष्ठ निशाचररथं प्रति॥२२॥

तत् तु दृष्ट्वा महत् कर्म पुत्रस्य तव मारिष।
क्रोघेनाभिप्रजज्वाल मैमसेनिर्महाबलः॥२३॥

स विष्फार्य महच्चापम् इन्द्राशनिसमस्वनम्।
अभिदुद्राव वेगेन दुर्योधनमरिन्दमम्॥२४॥

तमापतन्तं सम्प्रेक्ष्य कालसृष्टमिवान्तकम्।

न विव्यथे महाराज पुत्रो दुर्योधनस्तव॥२५॥

अथैनमब्रवीत् क्रुद्धः क्रूरस्संरक्तलोचनः॥२५॥

घटोत्कचः—

क्रूर त्वया नृशंसेन दीर्घकालं प्रवासिताः।
यच्चैव द्रौपदी कृष्णा एकवखा रजस्वला॥२६॥

सभामानीय दुर्बुद्धे बहुधा क्लेशिता त्वया॥

अस्य पापस्य दुर्बुद्धे फलं प्राप्नुहि दुर्मते॥२७॥

सञ्जयः—

एवमुक्त्वा तु हैडिम्बो महद्विष्कार्य कार्मुकम्।
संदश्य दशनैरोष्ठं दन्तान् कटकटाप्य च॥२८॥

शरवर्षेण घोरेण दुर्योधनमवाकिरत्।
पर्वतं वारिधाराभिः प्रावृषीव बलाहकः॥२९॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि षडशीतितमोऽध्यायः॥८६॥
॥६४॥भीष्मवधपर्वणि षट्चत्वारिंशोऽध्यायः॥४६॥
[अस्मिन्नध्याये २९॥ श्लोकाः]
<MISSING_FIG href="../books_images/U-IMG-1705727681मम.png"/>

॥सप्ताशीतितमोऽध्यायः॥
<MISSING_FIG href="../books_images/U-IMG-1705727796bbbb.png"/>

घटोत्कचयुद्धवर्णनम्॥

<MISSING_FIG href="../books_images/U-IMG-1705727811मम.png"/>

सञ्जयः—

ततस्तद्बाणवर्षं तु दुर्धरं दानवैरपि।
दधार युधि राजेन्द्र यथा वर्षं महागजः॥१

ततः क्रोधसमाविष्टो निश्श्वसन्निव पन्नगः।
संशयं परमं प्राप्तः पुत्रस्ते भरतर्षभ॥२॥

मुमोच निशितान् बाणान् वेगितान् पञ्चविंशतिम्

तेऽपतन् सहसा राजंस् तस्मिन् राक्षसपुङ्गवे॥३॥

आशीविषा इव क्रुद्धाः पर्वते गन्धमादने॥३॥

स तैर्विद्धस्स्रवन्रक्तं प्रभिन्न इव कुञ्जरः।
दध्रेमतिंविनाशाय राज्ञस्स पिशिताशनः॥४॥

जग्राह च महाशक्तिं गिरीणामपि दारिणीम्।
सम्प्रदीप्तां महोल्काभाम् अशनि मघवानिव॥५॥

तमागच्छन्महाबाहुर् जिघांसुस्तनयं तव॥६॥

तामुद्यतां स सम्प्रेक्ष्य वङ्गानामधिपस्त्वरन्।
कुञ्जरं गिरिसङ्काशं राक्षसं प्रत्यचोदयत्॥७॥

स नागप्रवरेणाजौ बलिना शीघ्रगामिना।
यतो दुर्योधनरथस् तं मार्गं प्रत्यषेधयत्॥८॥

पन्थानं वारयामास कुञ्जरेण सुतस्य सुतस्य ते॥८॥

मार्गमावारितं दृष्ट्वा वङ्गराजेन धीमता।
घटोत्कचोमहाराज क्रोधसंरक्तलोचनः॥९॥

उद्यतां तां महाशक्तिं तस्मिंश्चिक्षेप वारणे॥१०॥

स तयाऽभिहतो राजंस् तस्य बाहुविमुक्तया।
सञ्जातरुधिरोत्पीडः पपात च ममार च॥११॥

पतत्यथ गजे चापि वङ्गानामीश्वरो बली।
जवेन समभिप्लुत्य जगाम धरणीतलम्॥१२॥

दुर्योधनोऽपि सम्प्रेक्ष्य पतितं वरवारणम्।
भग्नं च स्वबलं दृष्ट्वा जगाम परमां व्यथाम्॥१३॥

अशक्तः प्रतियोद्धुं वै दृष्ट्वा तस्य पराक्रमम्।
क्षत्रधर्मं पुरस्कृत्य ह्यात्मनश्चावमानिताम्॥१४॥

प्राप्तापक्रमणो राजा तस्थौ गिरिरिवाचलः॥१४॥

संधाय च शितं बाणं कालाग्निसमतेजसम्॥

मुमोच परमक्रुद्धस् तस्मिन् घोरे निशाचरे॥१५॥

तमापतन्तं सम्प्रेक्ष्य बाणमिन्द्राशनिप्रभम्।
लाघवान्मोचयामास महामायो घटोत्कचः॥१६॥

¹भूयश्च413 विननादोच्चैः क्रोधसंरक्तलोचनः।
त्रासयन् सर्वभूतानि युगान्ते ज्वलनो यथा॥१७॥

तं श्रुत्वा निनदं घोरं तस्य भीमस्य रक्षसः।
आचार्यमुपसङ्गम्य भीष्मश्शान्तनवोऽब्रवीत्॥१८॥

भीष्मः—

यथैव निनदो घोरश्श्रूयते राक्षसेरितः।
हैडिम्बो युध्यते नूनं राज्ञा दुर्योधनेन च॥१९॥

नैष शक्यो हि सङ्ग्रामे जेतुं भूतेन केन चित्।
तत्र गच्छत भद्रं वो राजानं परिरक्षितुम्॥२०॥

अभिद्रुत्य महाबाहुं राक्षसेन प्रपीडितम्॥२१॥

एतद्धि परमं कृत्यं सर्वेषां नः परन्तप॥२१॥

सञ्जयः—

पितामहवचश्श्रुत्वा त्वरमाणा महारथाः।
उत्तमं जवमास्थाय प्रययुर्यत्र कौरवः॥२२॥

द्रोणश्च सोमदत्तश्च बाह्लीकोऽथ जयद्रथः।

कृपो भूरिश्रवाश्शल्य आवन्त्यस्स बृहद्बलः॥२३॥

अश्वत्थामा विकर्णश्च चित्रसेनो विविंशतिः।
रथाश्चानेकसाहस्रा ह्येतेषामनुयायिनः॥२४॥

अभिद्रुतं परीप्सन्तः पुत्रंदुर्योधनं तव॥२५॥

तदनीकमनाधृष्यं पालितं वीरसत्तमैः।
आततायिनमायान्तं प्रेक्ष्य राक्षससत्तमः॥२६॥

नाकम्पत महाबाहुर् मैनाक इव पर्वतः॥२६॥

प्रगृह्य विपुलं चापं ज्ञातिभिः परिवारितः।
शूलमुद्गरहस्तैश्च नानाप्रहरणैरपि॥२७॥

ततस्समभवद्युद्धं तुमुलं रोमहर्षणम्।
राक्षसानां च मुख्यस्य दुर्योधनबलस्य च॥२८॥

धनुषां कूजतां शब्दस् सर्वतस्तुमुलो रणे।
अश्रूयत महाराज वेणूनामिव दह्यताम्॥२९॥

शस्त्राणां पात्यमानानां कवचेषु शरीरिणाम्।
शब्दस्समभवद्राजन् गिरीणामिव भिद्यताम्॥३०॥

वीरबाहुविसृष्टानां तोमराणां विशां पते।
रूपमासीद्वियत्स्थानां सर्पाणामिव सर्पताम्॥३१॥

ततः परमसङ्क्रुद्धो विष्फार्य सुमहद्धनुः।

राक्षसेन्द्रो महाबाहुर् विनदन् भैरवस्वनम्॥३२॥

आचार्यस्यार्धचन्द्रेण क्रुद्धश्चिच्छेद कार्मुकम्॥३३॥

सौमदत्तेश्च बाणेन ध्वजमुन्मथ्य नानदत्।
बाह्लीकं च त्रिभिर्बाणैः प्रत्यविध्यत् स्तनान्तरे॥३४॥

कृपमेकेन विव्याध चित्रसेनं त्रिभिश्शरैः॥३४॥

¹पूर्णायत179विसृष्टेन सम्यक्प्रणिहितेन च।
जत्रुदेशे समासाद्य विकर्णं समताडयत्॥३५॥

स न्यषीदद्रथोपस्थे शोणितेन परिप्लुतः॥३६॥

ततः पुनरमेयात्मा नाराचान् दश पञ्च च।
भूरिश्रवसि सङ्क्रुद्धः प्राहिणोद्भरतर्षभ॥३७॥

ते वर्म भित्त्वा सुभृशं प्राविशन् मेदिनीतलम्॥३७॥

विविंशतेश्च द्रौणेश्च यन्तारौ समताडयत्।
तौ पेततू रथोपस्थे रश्मीनुत्सृज्य वाजिनाम्॥३८॥

सैन्धवस्यार्धचन्द्रेण वाराहं स्वर्णभूषितम्।
उन्ममाथ ध्वजं राजन् द्वितीयेनाच्छिनद्धनुः॥३९॥

चतुर्भिरपि नाराचैर् आवन्त्यस्य महात्मनः।
जघान चतुरो वाहान् क्रोधसंरक्तलोचनः॥४०॥

पूर्णायतविसृष्टेन पीतेन निशितेन च।

निर्बिभेद महाराज राजपुत्रं बृहद्बलम्॥४१॥

स गाढविद्धो व्यथितो रथोपस्थ उपाविशत्॥४२॥

भृशं क्रोधेन चाविष्टो रथस्थो राक्षसाधिपः।
चिक्षेप निशितांस्तीक्ष्णाञ् छरानाशीविषोपमान्॥४३॥

बिभिदुस्ते महाराज शल्यं युद्धविशारदम्¹414॥४३॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि सप्ताशीतितमोऽध्यायः॥८७॥
॥६४॥भीष्मवधपर्वणि सप्तचत्वारिंशोऽध्यायः॥४७॥
[ अस्मिन्नध्याये ४३॥श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1705729112मम.png"/>

॥अष्टाशीतितमोऽध्यायः॥
<MISSING_FIG href="../books_images/U-IMG-1705729125bbbb.png"/>

सङ्कलयुद्धवर्णनम्॥

<MISSING_FIG href="../books_images/U-IMG-1705729136मम.png"/>

सञ्जयः—

विमुखीकृत्य तान् सर्वांस् तावकान, युधि राक्षसः।
जिघांसुर्भरतश्रेष्ठं दुर्योधनमुपाद्रवत्॥१॥

तमापतन्तं सम्प्रेक्ष्य ²राजानं415 प्रति वेगितम्।
अभ्यधावञ्चिघांसन्तस् तावका युद्धदुर्मदाः॥२॥

तालमात्राणि चापानि विकर्षन्तो महारथाः।

तमेकमभ्यधावन्त सिंहनादेन पार्थिवाः॥३॥

तथैनं शरवर्षेण समन्तात् पर्यवारयन्।
पर्वतं वारिधाराभिः प्रावृषीव वलाहकाः॥४॥

स गाढविद्धो व्यथितस् तोत्रार्दित इव द्विपः।
उत्पपात तदाऽऽकाशं सहसा वैनतेयवत्॥५॥

व्यनदच्चमहानादं जीमूत इव शारदः।
दिशः खं विदिशश्चैव नादयन् भैरवस्वनः॥६॥

राक्षसस्य तु तं शब्दं श्रुत्वा राजा युधिष्ठिरः।
उवाच भरतश्रेष्ठो भीमसेनं महाबलम्॥७॥

युधिष्ठिरः—

युध्यते राक्षसो नूनं धार्तराष्ट्रैर्महारथैः।
¹यथाऽस्य307 श्रूयते शब्दो नदतो भैरवं स्वनम्॥८॥

अतिभारं च पश्यामि तस्मिन् राक्षसपुङ्गवे॥८॥

पितामहश्च सङ्क्रुद्धः पाञ्चालान् हन्तुमुद्यतः॥९॥

तेषां च रक्षणार्थाय युध्यते फल्गुनः परैः।
²त्वरस्व416 यत्नः कर्तव्यो रक्षणार्थाय तस्य वै॥१०॥

एतज्ज्ञात्वा महाबाहो कार्यद्वयमुपस्थितम्।
गच्छ रक्ष च हैडिम्बं संशयं परमं गतम्॥११॥

सञ्जयः—

भ्रातुर्वचनमाज्ञाय त्वरमाणो वृकोदरः।
प्रययौ सिंहनादेन त्रासयन् सर्वपार्थिवान्॥१२॥

वेगेन महता राजन् पर्वकाले यथोदधिः॥१२॥

तमन्वयात् सत्यधृतिस् सौचित्तिर्युद्धदुर्मदः।
श्रेणिमान् वसुदानश्च पुत्रः काश्यस्य चाभिभूः॥१३॥

अभिमन्युमुखाश्चैव द्रौपदेया महारथाः।
क्षत्रदेवश्च विक्रान्तः क्षत्रधर्मा तथैव च॥१४॥

¹अनूपाधिपतिश्चैव229 नीलस्स्वबलमास्थितः।
महता रथवंशेन हैडिम्ब पर्यवारयन्॥१५॥

कुञ्जरैश्च सदा मत्तैष्षट्सहस्रैः प्रहारिभिः।
अभ्यरक्षन्त सहिता राक्षसेन्द्रं घटोत्कचम्॥१६॥

सिंहनादेन महता नेमिघोषेण चैव हि।
खुरशब्दनिनादैश्च कम्पयन्तो वसुंधराम्॥१७॥

तेषामापततां श्रुत्वा शब्दं तं तावकं बलम्।
भीमसेनभयोद्विग्नंविकीर्णमभवत् तदा॥१८॥

परिवृत्य महाराज परित्यज्य घटोत्कचम्॥१९॥

ततः प्रववृते युद्धं नृपाणां बलशालिनाम्।

तावकानां परेषां च सङ्ग्रामेष्वनिवर्तिनाम्॥२०॥

नानारूपाणि शस्त्राणि विसृजन्तो महारथाः।
अन्योन्यमभिधावन्तस् सम्प्रहारं प्रचक्रिरे॥२१॥

व्यतिषक्तं महारौद्रं वीरभीरुभयावहम्॥२१॥

हया हयैस्समाजग्मुः पादातैश्च पदातयः।
¹रथा417 रथैस्समागच्छन् नागा नागैश्च संयुगे॥२२॥

अन्योन्यं समरे राजन् प्रार्थयाना महद्यशः॥२३॥

समुत्पपात चाकाशं सन्निपाते महद्रजः।
रथाश्वगजपतीनां पादनेमिसमुत्थितम्॥२४॥

ताम्रारुणं रजस्तीव्रं रणभूमि समावृणोत्॥२४॥

नैव स्वे न परे राजन् प्राजानन्त परस्परम्।
पिता पुत्रं न जानीते पुत्रो वा पितरं रणे॥२५॥

निर्मर्यादे तथाभूते वैशसे रोमहर्षणे॥२६॥

²अस्त्राणां418 भरतश्रेष्ठ मनुष्याणां चगर्जताम्।
सुमहानभवच्छब्द अश्मनां पततामिव॥२७॥

गजवाजिमनुष्याणां शोणिताम्भस्तरङ्गिणी।
प्रावर्तत नदी तत्रकेशशैवलशाद्वला॥२८॥

शूराणां चैव कायेभ्यश् शिरसां पततां रणे।
शुश्रुवे सुमहाञ् छब्दः पततामश्मनामिव॥२९॥

विशिरस्कैर्मनुष्यैश्च छिन्नगात्रैश्च वारणैः।
अश्वैस्सम्भिन्नदेहैश्च सङ्कीर्णाऽभूद्वसुन्धरा॥३०॥

नानाविधानि शस्त्राणि विसृजन्तो महारथाः।
अन्योन्यमभिधावन्तस् सम्प्रहारं प्रचक्रिरे॥३१॥

हया हयान् समासाद्य प्रेषिता हयसादिभिः।
समाहत्य रणेऽन्योन्यं निपेतुर्गतजीविताः॥३२॥

नरा नरान् समासाद्य क्रोधरक्तेक्षणा भृशम्।
¹रथिनो419 रथिभिस्सार्थं समासाद्य निजघ्निरे॥३३॥

प्रेषिताश्च महामात्रैर् वारणाश्शत्रुवारणाः।
अभिजघ्नुर्विषाणाग्रैर्वारणानेव संयुगे॥३४॥

ते जातरुधिरोत्पीडाः पताकाभिरलङ्कृताः।
संसक्ताः प्रत्यदृश्यन्त मेघा इव सविद्युतः॥३५॥

केचिद्भिन्ना विषाणाग्रैर् भिन्नकुम्भाश्च तोमरैः।
विनदन्तोऽभ्यधावन्त गर्जन्तो जलदा यथा॥३६॥

केचिद्धस्तैर्द्विधा छिन्नैश् छिन्नगात्रास्तथाऽपरे।
निपेतुस्तुमुले तस्मिंश् छिन्नपक्षा इवाद्रयः॥३७॥

पार्श्वेषु दारिताश्चान्ये वारणा वरवारणैः।
मुमुचुश्शोणितं भूरि धातूनिव महीधराः॥३८॥

नाराचनिहताश्चान्ये तथा विद्धाश्च तोमरैः।
हतारोहा व्यदृश्यन्त विशृङ्गा इव पर्वताः॥३९॥

केचित् क्रोधसमाविष्टा मदान्धा निरवग्रहाः।
रथान् हयान् पदातांश्च ममृदुश्शतशो द्विपाः॥४०॥

तथा या हयारोहैस् ताडिताः प्रासतोमरैः।
तेन तेनाभ्यवर्तन्त कुर्वन्तो व्याकुला दिशः॥४१॥

रथिनो रथिभिस्सार्धं कुलपुत्रास्तनुत्यजः।
परां शक्तिं समास्थाय चक्रुः कर्माण्यभीतवत्॥४२॥

स्वयंवर इवामर्दे निजघ्नुरितरेतरम्।
प्रार्थयाना यशो राजन् स्वर्गं वा रुधिरोक्षिताः॥४३॥

तस्मिंस्तथा वर्तमाने सङ्ग्रामे रोमहर्षणे।
धार्तराष्ट्रं महत् सैन्यं प्रायशो विमुखीकृतम्॥४४॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि अष्टाशीतितमोऽध्यायः॥ ८८॥
॥६४॥ भीष्मवधपर्वणि अष्टाचत्वारिंशोऽध्यायः॥ ४८॥
[ अस्मिन्नध्याये ४४ श्लोकाः]
<MISSING_FIG href="../books_images/U-IMG-1705730320मम.png"/>

॥एकोननवतितमोऽध्यायः॥
<MISSING_FIG href="../books_images/U-IMG-1705730487bbbb.png"/>

घटोत्कचयुद्धम्॥

<MISSING_FIG href="../books_images/U-IMG-1705730505मम.png"/>

सञ्जयः—

स्वसैन्यं निहतं दृष्ट्वा राजा दुर्योधनस्स्वयम्।
अभ्यधावत् सुसङ्क्रुद्धो भीमसेनमरिन्दमम्॥१॥

प्रगृह्य सुमहच्चापम् इन्द्राशनिसमस्वनम्।
महता शरवर्षेण पाण्डवं समवारयत्॥२॥

अर्धचन्द्रं च सन्धाय सुतीक्ष्णं लोमवापिनम्।
भीमसेनस्य चिच्छेद चापं क्रोधसमन्वितः॥३॥

तदन्तरं च सम्प्रेक्ष्य त्वरमाणो महारथः।
सन्दधे निशितं बाणं गिरीणामपि दारणम्॥४॥

तेनोरसि महाबाहुर् भीमसेनमताडयत्॥४॥

स गाढविद्धो व्यथितस् सृक्विणी परिसल्ँलिहन्।
समाश्रयत तेजस्वी ध्वजं हेमपरिष्कृतम्॥५॥

तथा विमनसं दृष्ट्वा भीमसेनं घटोत्कचः।
क्रोधेनाभिप्रजज्वाल दिधक्षन्निव कौरवान्॥६॥

अभिमन्युमुखाश्चैव पाण्डवानां महारथाः।
तमभ्यधावन् क्रोशन्तो राजानं जातसम्भ्रमाः॥७॥

सम्प्रेक्ष्य तानापततस् सङ्क्रुद्धाञ्जातसम्भ्रमान्।
भारद्वाजोऽब्रवीद्राजन् तावकानां महारथान्॥८॥

द्रोणः—

क्षिप्रं गच्छत भद्रं वो राजानं परिरक्षत।
संशयं परमं प्राप्तं मज्जन्तमिव सागरे॥९॥

एते क्रुद्धा महेष्वासाः पाण्डवानां महारथाः।
भीमसेनं पुरस्कृत्य दुर्योधनमभिद्रुताः॥१०॥

नानाविधानि शस्त्राणि विसृजन्तो महारथाः।
नदन्तो भैरवान् नादांस् त्रासयन्तश्च भूमिपान्॥११॥

सञ्जयः—

तदाचार्यवचश्श्रुत्वा सोमदत्तपुरोगमाः।
तावकास्समवर्तन्त पाण्डवानामनीकिनीम्॥१२॥

कृपो भूरिश्रवाश्शल्यो द्रोणपुत्रो विविंशतिः।
चित्रसेनो विकर्णश्च सैन्धवोऽथ बृहद्बलः॥१३॥

आवन्त्यौ च महेष्वासौ कौरवं पर्यवारयन्॥१४॥

ते विंशतिपदं गत्वा सम्प्रहारं प्रचक्रिरे।
पाण्डवा धार्तराष्ट्राश्च परस्परजिघांसवः॥१५॥

¹ततो420 गत्वा महाबाहुर् महद्विष्फार्य कार्मुकम्।

भारद्वाजस्ततो भीमं षड्विंशत्या समर्पयत्॥१६॥

भूयश्चैनं महाबाहुश् शरैर्बहुभिरावृणोत्।
पर्वतं वारिधाराभिः प्रावृषीव वलाहकः॥१७॥

तं प्रत्यविध्यद्दशभिर् भीमसेनश्शिलीमुखैः।
त्वरमाणो महेष्वासो वामपार्श्वस्तनान्तरे॥१८॥

स गाढविद्धो व्यथितो वयोवृद्धश्च भारत।
स नष्टसंज्ञस्सहसा रथोपस्थ उपाविशत्॥१९॥

गुरुं प्रव्यथितं दृष्ट्वा राजा दुर्योधनस्स्वयम्।
द्रौणायनिश्च सङ्क्रुद्धो भीमसेनमभिद्रुतौ॥२०॥

तावापतन्तौ सम्प्रेक्ष्य कालान्तकयमोपमौ।
भीमसेनो महाबाहुर् गदामादाय सत्वरः॥२१॥

अवप्लुत्य रथात् तूर्णं तस्थौ गिरिरिवाचलः।
समुद्यम्य गदां गुर्वीं कालदण्डोपमां रणे॥२२॥

तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम्।
कौरवो द्रोणपुत्रश्च सहितावभ्यधावताम्॥२३॥

तावापतन्तौ सहसा त्वरितौ बलिनां वरौ।
अभ्यधावत वेगेन त्वरमाणो वृकोदरः॥२४॥

तमापतन्तं सम्प्रेक्ष्य सङ्क्रुद्धं भीमदर्शनम्।

तमभ्यधावंस्त्वरिताः कौरवाणां महारथाः॥२५॥

भारद्वाजिमुखाश्चैव भीमसेनजिघांसया।
नानाविधानि शस्त्राणि भीमस्योरस्यपातयन्॥२६॥

सहिताः पाण्डवं सर्वे समन्तात् समपीडयन्॥२६॥

तं दृष्ट्वा संशयं प्राप्तं पीड्यमानं महारथम्।
अभिमन्युप्रभृतयः पाण्डवानां महारथाः॥२७॥

अभ्यधावन् परीप्सन्तः प्राणांस्त्यक्त्वा सुदुस्त्यजान्॥२८॥

अनूपाधिपतिर्वीरो भीमस्य दयितस्सखा।
नीलो नीलाम्बुदप्रख्यस् सङ्क्रुद्धोद्रौणिमभ्यगात्॥२९॥

स्पर्धते च महेष्वासो नित्यं द्रोणसुतेन सः।
विव्याध सुमहच्चापं विष्फार्य द्रौणिमाहवे॥३०॥

यथा रुद्रो महाराज पुरा विव्याध दानवम्।
विप्रचित्तिं दुराधर्षं देवतानां भयङ्करम्॥३१॥

येन लोकास्त्रयः क्रोधात् त्रासितास्स्वेन तेजसा।
स रुद्रेण जितः पूर्वं निहतो मातरिश्वना॥३२॥

तदा नीलेन निर्भिन्नस् सुमुक्तेन सुपत्रिणा।
स जातरुधिरोत्पीडो द्रौणिः क्रोधसमन्वितः॥३३॥

स विष्फार्य धनुश्चित्रम् इन्द्राशनिसमस्वनम्।

दध्रेनीलविनाशाय मतिं मतिमतां वरः॥३४॥

ततस्सन्धाय विमलान् भल्लान् कर्मारमार्जितान्।
जघान चतुरो वाहान् पातयामास च ध्वजम्॥३५॥

सूतं चैकेन भल्लेन रथनीडादपाहरत्।
सप्तमेन च भल्लेन नीलं विव्याध वक्षसि॥३६॥

स गाढविद्धो व्यथितो रथोपस्थ उपाविशत्॥३६॥

मोहितं वीक्ष्य राजानं नीलमभ्रचयोपमम्।
घटोत्कचोऽपि सङ्क्रुद्धोज्ञातिभिः परिवारितः॥३७॥

अभिदुद्राव वेगेन द्रौणिमाहवशोभिनम्।
तथेतरे चाभ्यधावन् राक्षसा युद्धदुर्मदाः॥३८॥

भीमसेनोऽपि समरे नीलं नीलाञ्जनप्रभम्।
आरोप्यस्वरथं वीरो दुर्योधनमुपाद्रवत्॥३९॥

घटोत्कचं च सम्प्रेक्ष्य राक्षसं घोरदर्शनम्।
अभ्यधावत तेजस्वी भारद्वाजः प्रतापवान्॥४०॥

निजधान च सङ्क्रुद्धो ¹ज्ञातिभिः421 परवारितः
अभिदुद्राव वेगेन राक्षसान् भीमदर्शनान्॥४१॥

¹तेऽद्रवन्त422 ततः क्रुद्धा राक्षसस्य पुरस्सराः॥४२॥

विमुखांश्चैव तान् दृष्ट्वा द्रोणचापच्युतैश्शरैः।
अक्रुद्ध्यत महाबाहुः भैमसेनिर्घटोत्कचः॥४३॥

प्रादुश्चक्रे महामायां घोररूपां भयावहाम्।
मोहयन समरे द्रोणं मायावी राक्षसाधिपः॥४४॥

ततस्ते कौरवास्सर्वे मायया विमुखीकृताः।
अन्योन्यं समपश्यन्त निकृत्ता मेदिनीतले॥४५॥

विवेष्टमानान् कृपणान् शोणितेन परिप्लुतान्।
द्रोणं दुर्योधनं शल्यम् अश्वत्थामानमेव च॥४६॥

प्रायशश्च महेष्वासा ये प्रधानाश्च कौरवाः।
विध्वस्ता रथिनस्सर्वे गजाश्च विनिपातिताः॥४७॥

हयाश्चैव हयारोहास् सन्निकृत्तास्सहस्रशः।
²दुद्रुवुस्समरे423 राजन् समन्ताच्छिबिरं प्रति॥४८॥

दृष्ट्वैव तावकं सैन्यं विद्रुतं शिबिरं प्रति।
मम प्राक्रोशतो राजँस् तथा देवव्रतस्य च॥४९॥

युध्यध्वं मा पलायध्वं मायैषा राक्षसी रणे।
घटोत्कचप्रयुक्तेति नातिष्ठन्त विमोहिताः॥५०॥

न च ते श्रद्दधुर्भीता वदतोरावयोर्वचः॥५०॥

तांश्च प्रद्रवतो दृष्ट्वा जयं प्राप्य च पाण्डवाः।
घटोत्कचेन सहितास् सिंहनादं प्रचक्रिरे॥५१॥

शङ्खदुन्दुभिनिर्घोषास् समन्तात् सस्वनुर्भृशम्॥५२॥

एवं तव बलं सर्व हैडिम्बेन महात्मना।
सूर्यास्तमनवेलायां प्रभग्नं सर्वतो दिशम्॥५३॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
॥भीष्मपर्वणि एकोननवतितमोऽध्यायः॥८९॥
॥६४॥भीष्मवधपर्वणि एकोनपञ्चाशोऽध्यायः॥४९॥
[ अस्मिन्नध्याये ५३ श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1705733009मम.png"/>

॥नवतितमोऽध्यायः॥
<MISSING_FIG href="../books_images/U-IMG-1705732996नन.png"/>

भगदत्तादियुद्धम्॥

<MISSING_FIG href="../books_images/U-IMG-1705732977मम.png"/>

सञ्जयः—

तस्मिन् महति सङ्क्रन्दे राजा दुर्योधनस्तदा।
पराजयं राक्षसेन नामृष्यत परन्तपः॥१॥

गाङ्गेयमुपसङ्गम्य विनयेनाभिवाद्य च।
तस्य सर्वं यथावृत्तम् आख्यातुमुपचक्रमे॥२॥

घटोत्कचस्य विजयम् आत्मनश्च पराजयम्।
कथयामास दुर्धर्षो विनिश्श्वस्य पुनः पुनः॥३॥

अब्रवीच्च महाराज भीष्मं कुरुपितामहम्॥३॥

दुर्योधनः—

¹भवन्तं133 समुपाश्रित्य द्रोणं चैव पितामह।
पाण्डवैर्विग्रहो घोरस् समारब्धो मया प्रभो॥४॥

एकादश समाख्याता अक्षौहिण्यश्च या मम।
निदेशे तव तिष्ठन्ति मया सार्धं परन्तप॥५॥

सोऽहं भरतशार्दूल भीमसेनपुरोगमैः।
घटोत्कचं समाश्रित्य पाण्डवैर्युधि निर्जितः॥६॥

तन्मे दहति गात्राणि शुष्केन्धनमिवानलः।
तदिच्छामि महाभाग त्वत्प्रसादात् परन्तप॥७॥

राक्षसापशदं हन्तुं स्वयमेव पितामह।
त्वां समाश्रित्य दुर्धर्ष तन्मे कर्तुं त्वमर्हसि॥८॥

सञ्जयः—

²एतच्छ्रुत्वा406 तु वचनं राज्ञो भरतसत्तम।
दुर्योधनमिदं वाक्यं भीष्मश्शान्तनवोऽब्रवीत्॥९॥

भीष्मः—

शृणु राजन् मम वचो यत् त्वां वक्ष्यामि कौरव।
यथा त्वया महाराज वर्तितव्यं परन्तप॥१०॥

आत्मा रक्ष्यस्त्वया तात सर्वावस्थास्वरिन्दम॥११॥

धर्मराजेन सङ्ग्रामस्त्वया कार्यः परन्तप।
अर्जुनेन यमाभ्यां वा भीमसेनेन वा पुनः॥१२॥

अन्यैर्वा पृथिवीपालै राजा राजानमृच्छति।
न तु कार्यस्त्वया राजन् हैडिम्बेन दुरात्मना॥१३॥

अहं द्रोणः कृपो द्रौणिः कृतवर्मा च सात्वतः।
शल्यश्च वृषसेनश्च विकर्णश्च महारथः॥१४॥

शेषाश्च भ्रातरस्त्वन्ये दुश्शासनपुरोगमाः।
त्वदर्थं प्रतियोत्स्यामो राक्षसं तं परन्तप॥१५॥

रौद्रं हन्तुं राक्षसेन्द्रं यदि ते हृच्छयो महान्।
अयमागच्छतु रणं तस्य युद्धाय दुर्मतेः॥१६॥

भगदत्तो महीपालः पुरन्दरसमो युधि॥१६॥

सञ्जयः—

एतावदुक्त्वा वचनं भगदत्तमथाब्रवीत्।
समक्षं पार्थिवेन्द्रस्य वाक्यं वाक्यविशारदः॥१७॥

भीष्मः—

गच्छ शीघ्रं महाराज हैडिम्बं युद्धदुर्मदम्।
वारयस्व रणे यत्तो मिषतां सर्वधन्विनाम्॥१८॥

राक्षसं क्रूरकर्माणं यथेन्द्रस्तारकं पुरा॥१९॥

तव दिव्यानि शस्त्राणि विक्रमश्च परन्तप।

समागमश्चबहुभिःपुराऽभूद्दानवैस्सह॥२०॥

त्वमस्य राजशार्दूल प्रतिषेद्धा मतो मम।
स्वबलेनावृतो गच्छ जहि राक्षसपुङ्गवम्॥२१॥

सञ्जयः—

एतच्छ्रुत्वा तु वचनं भीष्मस्य पृतनापतेः।
प्रययौ सिंहनादेन परानभिमुखोद्यतः॥२२॥

तमापतन्तं सम्प्रेक्ष्य गर्जन्तमिव तोयदम्।
अभ्यवर्तन्त सङ्क्रुद्धाः पाण्डवानां महारथाः॥२३॥

भीमसेनोऽभिमन्युश्च राक्षसश्च घटोत्कचः।
द्रौपदेयास्सत्यधृतिः क्षत्रदेवश्च मारिष॥२४॥

चेदिपो वसुदानश्च दशार्णाधिपतिस्तथा।
सुप्रतीकेन तांश्चापि भगदत्तोऽभ्युपाद्रवत्॥२५॥

¹ततस्समभवद्युद्धं64 घोररूपं भयानकम्।
पाण्डूनां भगदत्तेन यमराष्ट्रविवर्धनम्॥२६॥

प्रयुक्ता रथिभिर्बाणा भीमवेगास्सुतेजसः।
विनिपेतुर्महाराज नागेषु च हयेषु च॥२७॥

प्रभिन्नाश्च महानागा विनीता हस्तिसादिभिः॥
परस्परं समासाद्य सन्निपेतुरभीतवत्॥२८॥

मदान्धा रोषसंरब्धा विषाणाग्रैर्महाहवे।
विनेदुर्दन्तमुसलैस् समासाद्य परस्परम्॥२९॥

हयाश्च चामरापीडाःप्रासपाणिभिरास्थिताः।
चोदितास्सादिभिः क्षिप्रं निजघ्नुरितरतरम्॥३०॥

पदातयः पदात्योघैस् ताडिताश्शक्तितोमरैः।
न्यपतन्त तदा भूमौ शतशोऽथ सहस्रशः॥३१॥

रथिनश्च रथस्थांश्च कर्णिनालीकतोमरैः।
निहत्य समरे राजन् सिंहनादं विनेदिरे॥३२॥

तस्मिंस्तदा वर्तमाने सङ्ग्रामे रोमहर्षणे।
भगदतो महेष्वासो भीमसेनमुपाद्रवत्॥३३॥

कुञ्जरेण प्रभिन्नेन सप्तधा स्रवता मदम्।
पर्वतेन यथा तोयं क्षरता वै समन्ततः॥३४॥

किरञ् छरसहस्राणि सुप्रतीकशिरोगतः।
ऐरावतस्थो मघवान् वारिधारा इवानघ॥३५॥

स भीमं शरजालेन ताडयामास भारत।
पर्वतं वारिधाराभिस् तपान्ते जलदो यथा॥३६॥

भीमसेनस्तु सङ्क्रुद्धः पादरक्षान् परश्शतान्।
निजघान महेष्वासस् सङ्क्रुद्धश्शरवृष्टिभिः॥३७॥

तान् दृष्ट्वा निहतान् क्रुद्धो भगदत्तः प्रतापवान्।
चोदयामास नागेन्द्र भीमसेनरथं प्रति॥३८॥

स नागः प्रेषितस्तेन बाणो ज्याचोदितो यथा।
अभ्यधावत वेगेन भीमसेनपुरोगमान्॥३९॥

¹तमापतन्तं179 सम्प्रेक्ष्य ²गर्जन्तमिव424 तोयदम्।
³अभ्यवर्तन्त425 सङ्क्रुद्धाः पाण्डवानां महारथाः॥४०॥

⁴दृष्ट्वा426 वेगेन सहिता भीमसेनपुरोगमाः।
केकया द्रौपदेयाश्च अभिमन्युश्च सर्वशः॥४१॥

दशार्णाधिपतिश्चैव क्षत्रदेवश्च मारिष।
चेदिपो धृष्टकेतुश्च सङ्क्रुद्धास्सर्व एव हि॥४२॥

उत्तमास्त्राणि दिव्यानि दर्शयन्तो महाबलाः।
तमेकं कुञ्जरं क्रुद्धास्समन्तात् पर्यवारयन्॥४३॥

स विद्धो बहुभिर्बाणैर् व्यरोचत महाद्विपः।
सञ्जातरुधिरोत्पीडो धातुचित्रइवाद्रिराट्॥४४॥

दशार्णाधिपतिश्चैव स्वनागं भूधरोपमम्।
समास्थितोऽभिदुद्राव भगदत्तस्य वारणम्॥४५॥

तमापतन्तं समरे राजन् गजपतिस्स च।
सुप्रतीको रुरोधाग्रे वेलेव मकरालयम्॥४६॥

वारितं प्रेक्ष्य नागेन्द्रं दशार्णस्य महात्मनः।
साधु साध्विति सैन्यानि त्वदीयान्यभ्यपूजयन्॥४७॥

ततः प्राग्ज्योतिषः क्रुद्धस्तोमरांश्च चतुर्दश।
प्राहिणोत् तस्य नागस्य प्रमुखे नृपसत्तमः॥४८॥

¹रुरोध141 तं सुप्रतीको वेलेव मकरालयम्॥४८॥

तस्य वर्म मुखत्राणं शातकुम्भपरिष्कृतम्।
²छित्त्वा141 बाणैर्मुखं तस्य पुनरन्यैर्जघान च॥४९॥

³ते427 मुखं प्राविशन् भित्त्वा वल्मीकमिवपन्नगाः॥५०॥

स गाढविद्धो व्यथितो नागो भरतसत्तम।
उपावृत्य ततः क्षिप्रं स न्यवर्तत युद्धतः॥५१॥

अभिदुद्राव वेगेन विनदन् भैरवस्वनम्।
स मर्दमानस्स्वबलं वायुर्घृक्षानिवौजसा॥५२॥

तस्मिन् पराजिते नागे पाण्डवानां महारथाः।
सिंहनादंविनद्योच्चैर् युद्धायैवावस्थिरे॥५३॥

ततो भीमं पुरस्कृत्य भगदत्तमुपाद्रवन्।

किरन्तो विविधान् बाणाञ् शस्त्राणि विविधानि च॥५४॥

तेषामापततां राजन् संरब्धानां मनीषिणाम्।
श्रुत्वा स निनदं घोरम् अमर्षागतसाध्वसः॥५५॥

भगदत्तो महेष्वासस् स्वनागं समचोदयत्॥५५॥

अङ्कुशाङ्गुष्ठमृदितस् स नागप्रवरो युधि।
तस्मिन् क्षणे समभवत् संवर्तक इवानलः॥५६॥

रथसङ्घांस्तथा नागान् हयांश्च हयसादिनः।
पादातांश्च सुसङ्क्रुद्धश् शतशोऽथ सहस्रशः॥५७॥

प्रामृद्गात् समरे राजन् सम्प्रधावंस्ततस्ततः।
तेन सल्ँलोड्यमानं च पाण्डूनां सुमहद्बलम्॥५८॥

सञ्चुकोचमहाराज चर्मेवाग्नौसमाहितम्॥५९॥

भग्नंतु स्वबलं दृष्ट्वा भगदत्तेन धीमता।
घटोत्कचस्सुसङ्क्रुद्धो भगदत्तमुपाद्रवत्॥६०॥

विकटः परुषो राजन् दीप्तास्यो दीप्तलोचनः।
रूपं विभीषणं कृत्वा क्रोधेन प्रज्वलन्निव॥६१॥

जग्राह विपुलं शूलं गिरीणामपि दारणम्।
नागंजिघांसुरसहसा चिक्षेप स महाबलः॥६२॥

स विष्फुलिङ्गज्वालाभिस् समन्तात् परिवेष्टितम्।

तमापतन्तं सहसा दृष्ट्वा ज्वालासमाकुलम्॥६३॥

सन्दधे निशितं चोग्रम् अर्धचन्द्रं स पार्थिवः॥६३॥

चिक्षेप च महच्छूलं तेन बाणेन वेगवान्।
तत् पपात द्विधा च्छिनं शूलं हेमपरिष्कृतम्॥६४॥

महाशनिर्यथा भ्रष्टा नभसश्च गता भुवि॥६५॥

शूलं निपतितं दृष्ट्वा द्विधा कृत्तं स पार्थिवः।
रुक्मदण्डां महाशक्तिं जग्राहाग्निशिखोपमाम्॥६६॥

चिक्षेप तां राक्षसस्य तिष्ठ तिष्ठेति चाब्रवीत्॥६६॥

तामापतन्तीं सम्प्रेक्ष्य वियत्स्थामशनीमिव।
उत्पत्य राक्षसस्तूर्णं जग्राह च ननाद च॥६७॥

¹पुनर्बाणान्428 स चिक्षेप भगदत्ताय वैरिणे॥६८॥

भगदत्तोऽपि सङ्क्रुद्धो घटोत्कचमथाच्छिनत्।
आकर्णपूरितैर्बाणैश् शितैस्सन्नतपर्वभिः॥६९॥

घटोत्कचोऽपि तान् बाणान् द्विधा च्छित्वा व्यपातयत्॥ ६९॥

तान् बाणांश्छेदितान् दृष्ट्वा भगदत्तोऽपि रक्षसा।
क्रोधेन महताऽऽविष्टस् सृक्वणी परिसल्ँलिहन्॥७०॥

रुक्मदण्डां महाशक्तिं जग्राहाग्निशिखोपमाम्।
घटोत्कचाय चिक्षेप तिष्ठ तिष्ठति चाब्रवीत्॥७१॥

तामापतन्तीं सम्प्रेक्ष्य जग्राह स घटोत्कचः।
बभञ्ज चैनां त्वरितो जानुमारोप्य भारत॥७२॥

पश्यतः पार्थिवेन्द्रस्य तदद्भुतमिवाभवत्॥७३॥

तदवेक्ष्य कृतं कर्म ¹राक्षसस्य429 बलीयसः।
²घटोत्कचस्य141 तद्युद्धं तथा कृतवतोऽद्भुतम्॥७४॥

दिवि देवास्सगन्धर्वा मुनयश्चापि विस्मिताः॥७४॥

पाण्डवाश्च महेष्वासा भीमसेनपुरोगमाः।
साधु साध्विति नादेन पृथिवीमन्वनादयन्॥७५॥

तं श्रुत्वा सुमहानादं प्रहृष्टानां महात्मनाम्।
नामृष्यत महेष्वासो भगदत्तः प्रतापवान्॥७६॥

विष्फार्य सुमहच्चापम् इन्द्राशनिसमस्वनम्।
अभिदुद्राव वेगेन पाण्डवानां महारथान्॥७७॥

विसृजन् विमलांस्तीक्ष्णान् नाराचाञ्ज्वलनप्रभान्।
भीममेकेन विव्याध राक्षसं नवभिश्शरैः॥७८॥

अभिमन्युं त्रिभिश्चैव केकयान् पञ्च पञ्चभिः॥७९॥

पूर्णायतविसृष्टेन स्वर्णपुङ्खेन पत्रिणा।
बिभेद दक्षिणं बाहुं क्षत्रदेवस्य चाहवे॥८०॥

पपात सहसा तस्य सशरं धनुरुत्तमम्॥८०॥

द्रौपदेयास्ततः पञ्च पञ्चभिस्समताडयत्।
भीमसेनस्य सङ्क्रुद्धोनिजघान तुरङ्गमान्॥८१॥

ध्वजं केसरिणं चास्य विच्छेद विशिखैस्त्रिभिः।
निर्बिभेद त्रिभिश्चान्यैश् सारथिं चास्य पत्रिभिः॥८२॥

स गाढविद्धो व्यथितो रथोपस्थ उपाविशत्।
¹विसंज्ञो430 भरतश्रेष्ठ भगदत्तेन संयुगे॥८३॥

²पुनस्संज्ञां141 ततः प्राप क्षणेन भरतर्षभ॥८४॥

ततो भीमो महाराज विरथो रथिनां वरः।
गदां जग्राह वेगेन प्रचस्कन्द रथादपि॥८५॥

तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम्।
तावकानां भयं घोरं समजायत भारत॥८६॥

एतस्मिन्नेव काले तु पाण्डवः कृष्णसारथिः।
आजगाम महाबाहुर् निघ्नञ् शत्रून् सहस्रशः॥८७॥

यत्रतौ पुरुषव्याघ्रौ पितापुत्रौ परन्तपौ।
प्राग्ज्योतिषेण संसक्तौभीमसेनघटोत्कचौ॥८८॥

दृष्ट्वा च पाण्डवो भ्रातॄन् युध्यमानान् महारथान्।
त्वरितो भरतश्रेष्ठस् तत्रायाद्विकिरञ्छरान्॥८९॥

ततो दुर्योधनो राजा त्वरमाणो महारथः।
सेनामचूचुदत् क्षिप्रं रथनागाश्वसङ्कुलाम्॥९०॥

तामापतन्तीं सहसा कौरवाणां महाचमूम्।
अभिदुद्राव वेगेन पाण्डवः कृष्णसारथिः॥९१॥

भगदत्तोऽपि समरे तेन नागेन भारत।
विमृद्नन्पाण्डवबलं युधिष्ठिरमुपाद्रवत्॥९२॥

आसीत् तत्र महद्युद्धं भगदत्तस्य भारत।
पाश्चालैस्सृञ्जयैश्चैव केकयैश्चोद्यतायुधैः॥९३॥

भीमसेनोऽपि समरे तावुभौ केशवार्जुनौ।
अश्रावयद्यथावृत्तम् इरावद्वधमुत्तमम्॥९४॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि नवतितमोऽध्यायः॥ १०॥
॥६४॥ भीष्मवधपर्वणि पञ्चाशोऽध्यायः॥ ५०॥
[ अस्मिन्नध्याये ९४ श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1705915893ववव.png"/>

॥एकनवतितमोऽध्यायः॥
<MISSING_FIG href="../books_images/U-IMG-1705915880ललल.png"/>

भीमेन दुर्योधनानुजानां कतिपयानां हननम्॥

<MISSING_FIG href="../books_images/U-IMG-1705915868ववव.png"/>

सञ्जयः—

पुत्रं निपतितं श्रुत्वा कौन्तेयश्श्वेतवाहनः।
दुःखेन महताऽऽविष्टो निश्श्वसन्नुरगो यथा॥१॥

अब्रवीत् समरे राजन् वासुदेवमिदं वचः॥१॥

अर्जुनः—

इदं नूनं महाप्राज्ञो विदुरो दृष्टवान् पुरा।
कुरूणां पाण्डवेयानां क्षयं घोरं महामतिः॥२॥

ततो वारितवान् नित्यं धृतराष्ट्रं जनेश्वरम्॥३॥

अवध्या बहवो वीरास् सङ्ग्रामे मधुसूदन।
निहताः कौरवैस्सङ्ख्ये तथाऽस्माभिश्च ते हताः॥४॥

अर्थहेतोर्नरश्रेष्ठ क्रियते कर्म कुत्सितम्।
धिगर्थं यत्कृते ह्येवं क्रियते ज्ञातिसङ्क्षयः॥५॥

अधनस्य मृतिश्श्रेयोन च ज्ञातिवधाद्धनम्।
धनेन तेन किं कुर्मो हत्वा ज्ञातीन् समागतान्॥६॥

दुर्योधनापराधेन शकुनेस्सौबलस्य च।
क्षत्रिया निधनं यान्ति कर्णदुर्मन्त्रितेन च॥७॥

इदानीं तद्विजानामि सुकृतं मधुसूदन।
कृतं राज्ञा महाबाहो याचता हि सुयोधनम्॥८॥

राज्यार्धं पञ्च वा ग्रामान् नाकार्षीत् स च दुर्मतिः॥८॥

दृष्ट्वाऽहं क्षत्रियाञ् शूराञ् शयानान् धरणीतले।
निन्दामि भृशमात्मानं धिगस्तु क्षत्रजीविकाम्॥९॥

अशक्त इति चात्मानं ज्ञास्यन्ते क्षत्रिया भुवि।

एतदर्थं मया युद्धं रोचितं मधुसूदन॥१०॥

त्वं चोदय हयान् क्षिप्रं धार्तराष्ट्रचमूं प्रति।
प्रतरिष्ये महापारं भुजाभ्यां समरोदधिम्॥११॥

नायं क्लीबायितुं कालो विद्यते माधव क्वचित्॥१२॥

सञ्जयः—

एवमुक्तस्तु पार्थेन केशवः परवीरहा।
चोदयामास तानश्वान् पाण्डवान् वातरंहसः॥१३॥

अथ शब्दो महानासीत् तव सैन्यस्य भारत।
¹मारुतोद्धूतवेगस्य229 सागरस्येव पर्वणि॥१४॥

अपराह्णेमहाराज सङ्ग्रामस्समपद्यत।
पर्जन्यसमनिर्घोषो भीष्मस्य सह पाण्डवैः॥१५॥

अभिमन्युस्तु राजानम् अम्बष्ठं समरेऽद्रवत्॥१५॥

भीमसेनस्तु सम्प्रेक्ष्य पुत्रांस्तव विशां पते।
प्रजज्वाल रणे क्रोधाद्धविषा हव्यवाडिव॥१६॥

ततो राजंस्तव सुता भीमसेनमुपाद्रवन्।
²परिवार्य431 रणे द्रोणं वसवो वासवं यथा॥१७॥

ततश्शान्तनवो भीष्मः कृपश्च रथिनां वरः।
भगदत्तस्सुशर्मा च धनञ्जयमुपाद्रवन्॥१८॥

हार्दिक्यो बाह्लिकश्चैव सात्यकिं समभिद्रुतौ।
शेषास्त्वन्ये महाराज शेषानेव महारथान्॥१९॥

ततः प्रववृते युद्धं घोररूपं भयावहम्॥२०॥

पुत्रास्तु भीमसेनं ते छादयाञ्चक्रिरे भृशम्।
प्रावृषीव महाराज जलदा इव पर्वतम्॥२१॥

सञ्छाद्यमानो बहुधा पुत्रैस्तव विशां पते।
सृक्विणी संलिहन् वीरश्शार्दूल इव दर्पितः॥२२॥

व्यूढोरस्कस्ततो भीमः पोथयामास पार्थिवम्।
क्षुरप्रेण सुतीक्ष्णेन सुपुङ्खेन महारणे॥२३॥

ताडयामास सङ्क्रुद्धस् सोऽभवद्व्यथितेन्द्रियः॥२३॥

अपरेण तु भल्लेन पीतेन निशितेन च।
अपातयत् भीमसेनस् सिंहः क्षुद्रमृगं यथा॥२४॥

¹लब्धसंज्ञस्तदोत्थाय432 भीमसेनं शिलीमुखान्।
सुबहून् प्रेषयामास कोपयानो महाबलम्॥२५॥

समधत्त शरान् भीमस् ततो हन्तुं सुतांस्तव॥२६॥

प्रेषिता भीमसेनेन शरास्ते दृढधन्विना।

पुत्रांस्ते पातयामासुः रथेभ्यस्सुमहारथान्॥२७॥

अनाधृष्टिं कुण्डभेदिं विराजं दीप्तलोचनम्।
दीर्घबाहुं सुबाहुं च तथैव मकरध्वजम्॥२८॥

प्रतपन्तस्स्म ते वीरा विरेजुर्भरतर्षभ।
¹शोणिताक्षा433 वसन्तेऽपि पुष्पिता इव किंशुकाः॥२९॥

ततः प्रदुद्रुवुश्शेषास् तव पुत्रामहाहवे।
तं कालं मन्यमानास्ते भीमसेनं महाबलम्॥३०॥

द्रोणस्तु समरे भीमं निर्दहन्तं सुतांस्तव।
यथाऽद्रिं वारिधाराभिस् समन्ताद्व्यकिरच्छरैः॥३१॥

तत्राद्भुतमपश्याम भीमसेनस्य पौरुषम्।
यद्वार्यमाणो द्रोणेन निहन्त्येव सुतांस्तव॥३२॥

यथा वृषो हि राजेन्द्र वर्षधारास्सुशीघ्रगाः।
निमील्य नेत्रे गृह्णीयात् तथा जग्राह पाण्डवः॥३३॥

²द्रोणचापसमुद्भूतं179 शरवर्षं सुदारुणम्।
अद्भुतं कर्म राजेन्द्र तत्र चक्रे स्म पाण्डवः॥३४॥

यत् पुत्रांस्तेऽवधीद्भीमो द्रोणं चैव व्यपोथयत्॥३४॥

पुत्रेषु तव वीरेषु चिक्रीडार्जुनपूर्वजः।

मृगेष्विव महाराज चरन् व्याघ्रो महाबलः॥३५॥

यथा वा पशुमध्यस्थो द्रावयेत पशून् वृकः।
वृकोदरस्तव सुतांस् तथा व्यद्रावयद्रणे॥३६॥

गाङ्गेयो भगदत्तश्च गौतमश्च महारथः।
पाण्डवं रभसं युद्धे वारयामासुरर्जुनम्॥३७॥

अस्त्रैरस्त्राणि संवार्य तेषां सोऽतिरथो रणे।
प्रवीरांस्तव सैन्येषु प्रेषयामास मृत्यवे॥३८॥

अभिमन्युश्च राजानम् अम्बष्ठं लोकविश्रुतम्।
विरथं रथिनां श्रेष्ठं कारयामास सायकैः॥३९॥

विरथो वध्यमानस्स सौभद्रेण यशस्विना।
अवप्लुत्य रथात् क्षिप्रं स वीरो मनुजाधिप॥४०॥

असिं चिक्षेप समरे सौभद्रस्य महात्मनः।
आरुरोह रथं चैव हार्दिक्यस्य महात्मनः॥४१॥

तमापतन्तं निश्त्रिंशंयुद्धमार्गविशारदः।
लाघवाद्भ्रंशयामास सौभद्रः परवीरहा॥४२॥

ध्वंसितं वीक्ष्य निश्त्रिंशंसौभद्रेण तदा रणे।
साधु साध्विति सैन्यानां प्रणादोऽभूद्विशां पते॥४३॥

धृष्टद्युम्नमुखाश्चैव तव सैन्यमयोधयन्।
तथैव तावकास्सर्वे पाण्डुसैन्यमयोधयन्॥४४॥

तत्राक्रन्दो महानासीत् तव तेषां च भारत।
¹पाण्डवानां236 च राजेन्द्र सैनिकानां सुदारुणः॥४५॥

निघ्नतां भृशमन्योन्यं कुर्वतां कर्म दुष्करम्।
अन्योन्यं हि रणे वीराः केशेष्वाक्षिप्य भारत॥४६॥

नखैर्दन्तैरयुध्यन्त मुष्टिभिर्जानुभिस्तथा।
बाहुभिश्च तलैश्चैव निस्त्रिंशैश्च सुसंशितैः॥४७॥

विवरं प्राप्य चान्योन्यं प्रेषयन्ति यमक्षयम्॥४८॥

न्यहनद्वै पिता पुत्रं पुत्रश्च पितरं तथा।
²जामाता434 मातुलमपि भ्राता भ्रातरमेव च॥४९॥

इत्येवं बान्धवास्सर्वे बन्धुभिः कृतमत्सराः।
व्याकुलीकृतसङ्कल्पा युयुधुस्तत्र मानवाः॥५०॥

रणे चारूणि चापानि हेमपृष्ठानि भारत।
³हतानामपविद्धानि238 कलापाश्च महाधनाः॥५१॥

जातरूपमयैः पुङ्खैःराजतैश्च विराजिताः।
⁴रणे435 निपतिता बाणाश् शोणितेन परिप्लुताः॥५२॥

तैलधौता व्यराजन्त निर्मुक्तभुजगा इव।
खड्गाश्च दान्तत्सरवो जातरूपपरिष्कृताः॥५३॥

चर्माणि चापविद्धानि रुक्मगर्भाणि भारत।
सुवर्णविकृताः प्रासाः पट्टसा हेमभूषिताः॥५४॥

जातरूपमया यष्ट्यश् शक्त्यश्च कनकोज्ज्वलाः।
अवस्कन्दाश्च पतिता मुसलानि गुरूणि च॥५५॥

परिघाः पट्टसाश्चैव भिण्डिपालाश्च मारिष।
पतितास्तोमराः पाशाश् चित्रहेमविभूषिताः॥५६॥

कुथाश्च बहुधाकाराश् चामरव्यजनानि च।
नानाविधानि शस्त्राणि प्रगृह्य पतिता नराः॥५७॥

जीवन्त इव दृश्यन्ते गतसत्त्वा महाबलाः॥५७॥

गदाविमथितैर्गात्रैर् मुसलैर्भिन्नमस्तकाः।
गजवाजिरथक्षुण्णाः निस्सृतान्त्रा नराः क्षितौ॥५८॥

तथैवाश्वनृनागानां शरीरैरावृता बभौ।
सन्छन्ना वसुधा राजन् पर्वतैरिव शातितैः॥५९॥

समरे पतितैश्चैव शक्त्यष्टिप्रासतोमरैः।
निश्त्रिंशैःपट्टसैः प्रासैर् अवस्कन्दैः परश्वथैः॥६०॥

परिघैर्भिण्डिपालैश्च शतनीभिश्च मारिष।
शरीरैश्शस्त्रभिन्नैश्च समास्तीर्यत मेदिनी॥६१॥

¹हस्तिहस्तोपमै246श्छिन्नैरूरुभिश्च तरस्विनाम्।

सञ्छिन्नैर्भिन्नवक्त्रैश्च ह्यपविद्धैरलङ्कृतैः॥६२॥

निश्शब्दैरल्पशब्देश्च शोणितोघपरिप्लुतैः।
गतासुभिरमित्रघ्नैर्विबभौ संवृता मही॥६३॥

सतलत्रैस्सकेयूरैर् ¹बाहुभिश्चन्दनोक्षितैः436
²सुदृढैर्दीर्घवृत्तैश्च437 संघृता तत्र मेदिनी॥६४॥

बद्धचूडामणिधरैश् शिरोभिश्च सकुण्डलैः।
³पतितैर्वृषभाक्षाणां438 बभौ भारत मेदिनी॥६५॥

कवचैश्शोणितादिग्धैर् विप्रकीर्णैश्च काञ्चनैः।
रराज सुभृशं भूमिश् शान्तार्चिर्भिरिवानलैः॥६६॥

विप्रविद्धैः कलापैश्च पतितैश्च शरासनैः।
⁴विप्रकीर्णैश्शरैश्चैव229 रुक्मपुङ्खैस्समन्ततः॥६७॥

रथैश्च बहुभिर्भग्नैःकिङ्किणीजालमालिभिः।
वाजिभिश्व हतैः कीर्णैस् स्रस्तजिह्वैस्सशोणितैः॥६८॥

⁵अनुकर्षैः439 पताकाभिर् उपासङ्गैर्ध्वजैरपि।
प्रवीराणां महाशङ्खैर् विप्रकीर्णैश्च पाण्डरैः॥६९॥

स्त्रस्तहस्तैश्च मातङ्गैश् शयानैश्शोणितोक्षितैः।
शुशुभे धरणी राजन् प्रदीप्तैरिव पर्वतैः॥७०॥

स्रस्तैराभरणैश्चैव विबभौ तु तदा मही।
नानारूपैरलङ्कारैः प्रमदेवाभ्यलङ्कृता॥७१॥

दन्तिभिश्चापरैस्तत्रसप्राणैर्गाढवेदनैः।
¹करैश्शब्दं229 विमुञ्चद्भिश् शीकरैश्च मुहुर्मुहुः॥७२॥

विबभौ तद्रणस्थानं मध्यमानैरिवाचलैः।
नानारागैः कम्बलैश्च परिस्तोमैश्च दन्तिनाम्॥७३॥

²पातिताभिः440 कुथाभिश्च विचित्राभिस्समन्ततः।
वैडूर्यमणिदण्डैश्च पतितैरङ्कुशैश्शुभैः॥७४॥

घण्टाभिश्च गजेन्द्राणां पतिताभिस्समन्ततः।
³ग्रैवेयैश्चित्ररूपैश्च441 रुक्मरज्जुभिरेव च॥७५॥

छत्रैश्च बहुभिश्छिन्नैस् तोमरैश्चापि काञ्चनैः।
रराज सुभृशं भूमिस् तत्र तत्र विशां पते॥७६॥

अश्वानां रेणुकपिलैरुक्मच्छन्नैरुरश्छदैः।
सादिनां सुभुजैश्छिन्नैः पतितैस्साङ्गदैस्तथा॥७७॥

¹प्रासैश्च307 विमलैस्तीक्ष्णैर् विमलाभिस्तथर्ष्टिभिः।
उष्णीषैश्च तथा चित्रैर् विप्रविद्धैस्ततस्ततः॥७८॥

शिरस्त्राणैर्विचित्रैश्च जातरूपपरिष्कृतैः।
अश्वास्तरपरिस्तोमैः कम्बलैमृदितैस्तथा॥७९॥

²विचित्रैर्नृपतिच्छत्रैर्442 जातरूपपरिष्कृतैः।
नरेन्द्रचूडामणिभिर् विचित्रैश्च महाधनैः॥८०॥

छत्रैस्तथाऽपविद्धैश्च चामरैर्व्यजनैस्तथा।
पद्मेन्दुद्युतिभिश्चैव वदनैश्चारुकुण्डलैः॥८१॥

क्लृप्तश्मश्रुभिरत्यर्थं वीराणां समलङ्कृतैः।
अपविद्धैर्महाराज सुवर्णोज्वलकुण्डलैः॥८२॥

ग्रहनक्षत्रशबला द्यौरिवासीद्वसुन्धरा॥८३॥

एवमेते महासेने मृदिते तत्रभारत।
परस्परं समासाद्य तव तेषां च संयुगे॥८४॥

³एतद्बभौ443महाघोरम् अपश्याम रणाजिरम्।
⁴रात्रिस्समभवद्घोरा229 नापश्याम ततो रणम्॥८५॥

ततोऽपहारं सैन्यानां प्रचक्रुः कुरुपाण्डवाः।
तस्मिन् निशामुखे रौद्रे वर्तमानेऽतिदारुणे॥८६॥

अपहारं ततः कृत्वा सहिताः कुरुपाण्डवाः।
न्यविशन्ति निशाकाले गत्वा स्वशिबिरं तदा॥८७॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि एकनवतितमोऽध्यायः॥९१॥
॥६४॥ भीष्मवधपर्वणि एकपञ्चाशोऽध्यायः॥५१॥
[ अस्मिन्नध्याये ८७ श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1705922808ववव.png"/>

॥द्विनवतितमोऽध्यायः॥
<MISSING_FIG href="../books_images/U-IMG-1705922793mmm.png"/>

भीष्मो न्यस्तशस्त्रश्चेदहंपाण्डवान् जेष्यामीति कर्णबोधितेन दुर्योधनेन रात्रौ भीष्ममेत्य कर्णस्य युद्धानुज्ञाप्रार्थना॥

<MISSING_FIG href="../books_images/U-IMG-1705922772ववव.png"/>

सञ्जयः—

ततो दुर्योधनो राजा शकुनिश्चापि सौबलः।
दुश्शासनश्च कितवस् सूतपुत्रश्च वीर्यवान्॥१॥

समागम्य महाराज मन्त्रयाञ्चक्रिरे मिथः।
¹कथं266 पाण्डुसुता युद्धे जेतव्यास्सगणा इति॥२॥

ततो दुर्योधनो राजा सर्वांस्तानाह मन्त्रिणः।

सूतपुत्रं समाभाष्य सौबलं च महामतिम्॥३॥

दुर्योधनः—

द्रोणो भीष्मः कृपश्शल्यस् सौमदत्तिश्च संयुगे।
न पार्थान् प्रतिबाधन्ते न जाने किं नु कारणम्॥४॥

अवध्यमानास्ते चापि क्षपयन्ति बलं मम।
सोऽस्मि क्षीणबलः कर्ण क्षीणशस्त्रश्च संयुगे॥५॥

¹त्वय्युद्धविमुखे444 चापि जितश्चास्मि हि पाण्डवैः॥५॥

द्रोणस्य प्रमुखे वीरा हतास्ते भ्रातरो मम।
भीमसेनेन राधेय मम चैवानुपश्यतः॥६॥

निकृतः पाण्डवैश्शूरैर् अवध्यदैवतैरपि।
सोऽहं संशयमापन्नः प्रकरिष्ये कथं रणम्॥७॥

सञ्जयः—

²एवमुक्तस्तु445 राधेयो दुर्योधनमरिन्दमम्।
ततोऽब्रवीन्महाराज सूतपुत्रो नराधिपम्॥८॥

कर्णः—

मा शुचो भरतश्रेष्ठ प्रकरिष्ये प्रियं तव।
भीष्मश्शान्तनवस्तूर्णम् अपयातु महारणात्॥९॥

निवृत्ते युधि गाङ्गेये न्यस्तशस्त्रे च भारत।

अहं पार्थान् हनिष्यामि सहितान् सर्वसोमकैः॥१०॥

पश्यतो युधि भीष्मस्य शपे सत्येन ते नृप॥११॥

पाण्डवेषु दयां नित्यं राजन् भीष्मः करोति वै।
अशक्तश्च रणे भीष्मो ¹जेतुमेतान्446 महारथान्॥१२॥

अतिमानी रणे भीष्मो नित्यं चापि रणप्रियः।
स कथं पाण्डवान् युद्धे जेष्यते तात सङ्गतान्॥१३॥

स त्वं शीघ्रमितो गत्वा भीष्मस्य शिबिरं प्रति।
अनुमान्य गुरुं भीष्मं शस्त्रं त्याजय भारत॥१४॥

न्यस्तशस्त्रे ततो भीष्मे निहतान् पश्य पाण्डवान्।
मयैकेन रणे राजन् ससुहृद्गणबान्धवान्॥१५॥

सञ्जयः—

एवमुक्तस्तु कर्णेन पुत्रो दुर्योधनस्तव।
अब्रवीद्धातरं तत्र दुशासनमिदं वचः॥१६॥

दुर्योधनः—

अनुयानं यथा सर्वं सज्जं भवति सर्वतः।
²दुश्शासन447 तथा क्षिप्रं सर्वमेवोपपादय॥१७॥

सञ्जयः—

एवमुक्त्वा ततो राजन् कर्णमाह जनेश्वरः॥१७॥

दुर्योधनः—

अनुमान्य रणे भीष्मम् एषोऽहं द्विपदां वरम्।
आगमिष्ये पुनः क्षिप्रं त्वत्समीपमरिन्दम॥१८॥

ततस्त्वं पुरुषव्याघ्र प्रकरिष्यसि संयुगम्॥१९॥

सञ्जयः—

¹एवमुक्त्वा317 ततो राजन् सुतो दुर्योधनस्तव।
निष्पपात ततस्तूर्णं सानुगस्ससुहृज्जनः॥२०॥

सहितो भ्रातृभिस्सार्थं देवैरिव शतक्रतुः॥२०॥

ततस्तं नृपशार्दूलश् शार्दूलसमविक्रमम्।
आरोपयद्धयं तूर्णं भ्राता दुश्शासनस्तदा॥२१॥

अङ्गदी बद्धमुकुटो हस्ताभरणवान् नृपः।
धार्तराष्ट्रोमहाराज विबभौ स पथि व्रजन्॥२२॥

तदा पुष्पनिकाशेन तपनीयनिभेन च।
अनुलिप्तः परार्द्ध्येन चन्दनेन सुगन्धिना॥२३॥

विरजोम्बरसंवीतस् सिंहखेलगतिर्नृपः।
शुशुभे विमलार्चिष्मान् नभसीव दिवाकरः॥२४॥

तं प्रयान्तं नरव्याघ्रं भीष्मस्य शिबिरं प्रति।
अनुजग्मुर्महेष्वासास् सर्वलोकेषु मानिनम्॥२५॥

भ्रातरश्च नरव्याघ्रास्त्रिदशा इव वासवम्॥२६॥

हयानन्ये समारुह्य गजानन्ये च भारत।
स्थानन्ये नरश्रेष्ठाः परिवव्रुस्सुतास्तव॥२७॥

पदातयश्च त्वरिता नखरप्रासयोधिनः।
परिवव्रुर्महेष्वासं धार्तराष्ट्रं महारथम्॥२८॥

आत्तशस्त्राश्च सुहृदो रक्षणार्थं महीपतेः।
प्रादुर्बभूवुः पुत्राश्च शक्रस्येव तदाऽमराः॥२९॥

सम्पूज्यमानः कुरुभिः कौरवाणां महारथः।
प्रययौ सदनं राजन् गाङ्गेयस्य यशस्विनः॥३०॥

तमन्वयुर्महाराज सोदरास्सर्वतो रथैः।
पृष्ठे पुरस्तात् प्रययुर् वामदक्षिणपार्श्वयोः॥३१॥

¹परिवार्य141 महाराज समन्तात् पृथिवीपतिम्॥३१॥

हस्तिहस्तोपमं सौम्यं सर्वशत्रुनिबर्हणम्।
दक्षिणं दक्षिणः काले उद्यम्यालङ्कृतं भुजम्॥३२॥

स्वीकुर्वन्नञ्जलीनृणाम् उद्यतास्सर्वतो दिशम्॥३३॥

शृण्वन् वै मधुरा वाचो नानादेशनिवासिनाम्।
संस्तूयमानस्सूतैश्च मागधैश्च महायशाः॥३४॥

पूजयानश्च तान् सर्वान् जनान् दृष्ट्याऽवलोकयन्।

¹एवं235 स प्रययौ राजा सर्वसैन्यसमावृतः॥३५॥

प्रदीपैःकाञ्चनैस्तत्र गन्धतैलोक्षितैर्जनाः।
परिव्रुर्महात्मानं प्रज्वलद्भिस्समन्ततः॥३६॥

स तैः परिवृतो राजा प्रदीपैः काञ्चनैश्शुभैः।
शुशुभे चन्द्रमा युक्तो दीप्तैरिव महाग्रहैः॥३७॥

कञ्चुकोष्णीषिणस्तत्रवेत्रझर्झरपाणयः।
प्रोत्सारयन्तश्शनकैस् तं जनं सर्वतो दिशम्॥३८॥

सम्प्राप्य च ततो राजा भीष्मस्य सदनं शुभम्।
अवतीर्य हयाच्चापि भीष्मं प्राप्य जनेश्वरः॥३९॥

अभिवाद्य ततो भीष्मं निषण्णः परमासने।
काञ्चने सर्वतोभद्रे मृद्वास्तरणसंवृते॥४०॥

उवाच प्राञ्जलिर्भीष्मं बाष्पकण्ठोऽश्रुलोचनः॥४०॥

दुर्योधनः—

त्वामहं समुपाश्रित्य संयुगे शत्रुसूदन।
उत्सहेयमहं जेतुं सेन्द्रानपि सुरासुरान्॥४१॥

किमु पाण्डुसुतान् वीरान् ससुहृद्गणबान्धवान्॥४२॥

²परिपालय448 गाङ्गेय रणान्मां ससुहृद्गणम्।
कृतां प्रतिज्ञां सत्यां वै कर्तुमर्हसि मानद॥४३॥

¹तस्मादर्हसि229 गाङ्गेय कृपां कर्तुं मयि प्रभो।
जहि पाण्डुसुतान् वीरान् महेन्द्र इव दानवान्॥४४॥

पूर्वमुक्तं महाबाहो निहनिष्यामि सोमकान्।
पाञ्चालान् पाण्डवैस्सार्धं करूशांश्चैव सर्वशः॥४५॥

तद्वचस्सत्यमेवास्तु जहि पार्थान् समागतान्।
सोमकांश्च महेष्वासान् सत्यवागू भव पार्थिव॥४६॥

अथवा दययाऽतीव द्वेषाद्वाऽपि मयि प्रभो।
मन्दभाग्यतया वाऽपि मम रक्षसि पाण्डवान्॥४७॥

अनुजानीहि कर्णं त्वं योद्धुमाहवशोभिनम्।
स जेष्यति रणे पार्थान् ससुहृद्गणबान्धवान्॥४८॥

सञ्जयः—

एतावदुक्त्वा नृपतिः पुत्रो दुर्योधनस्तव।
नोवाच वचनं किञ्चिद् भीष्मं भीमपराक्रमम्॥४९॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि द्विनवतितमोऽध्यायः॥ १२॥
॥६४॥ भीष्मवधपर्वणि द्विपञ्चाशोऽध्यायः॥ ५२॥
[ अस्मिन्नध्याये ४९ श्लोकाः]
<MISSING_FIG href="../books_images/U-IMG-1705930367मम.png"/>

॥त्रिनवतितमोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1705935003नन.png"/>

भीष्मेण दुर्योधनं प्रति अर्जुनपराक्रमप्रशंसनपूर्वकं पाण्डवानामजय्यत्वमभिधाय शिखण्डिवर्जं पाञ्चालादिवधप्रतिज्ञा॥

<MISSING_FIG href="../books_images/U-IMG-1705935014मम.png"/>

सञ्जयः—

वाक्शल्यैस्तव पुत्रेण सोऽतिविद्धः पितामहः।
नोवाच दुःखोपहतो ह्यप्रियं प्रियमण्वपि॥१॥

ध्यात्वा स सुचिरं कालं दुःखरोषसमन्वितः।
श्वसन्निव महानागो वितुन्नो वाक्शलाकया॥२॥

उद्वृत्य चक्षुषी रोषान्निर्दहन्निव भारत।
सदेवासुरगन्धर्वाल्ँलोकान् काल इवापरः॥३॥

अब्रवीत् तव पुत्रं तु सान्त्वपूर्वमिदं वचः॥३॥

भीष्मः—

किं नु दुर्योधनैवं मां वाक्शल्यैरभिविध्यसि।
यतमानं यथाशक्ति कुर्वाणं च तव प्रियम्॥४॥

जुह्वन्तं समरे प्राणांस् तव वै हितकाम्यया॥५॥

यदा तु पाण्डवश्शूरः खाण्डवेऽग्निमतर्पयत्।
पराजित्य रणे शक्रं पर्याप्तं तन्निदर्शनम्॥६॥

यदा च त्वां महाबाहो गन्धर्वैर्हृतमोजसा।

अमोचयत् पाण्डुसुतः पर्याप्तं तन्निदर्शनम्॥७॥

द्रवमाणेषु शूरेषु सोदरेषु तवाभिभो।
सूतपुत्रे च राधेये गन्धर्वाञ्जयतेऽर्जुनः॥८॥

^(1–2)य449

च्चनस्सङ्गतान् सर्वान् विराटनगरे तदा।
एक एवाजयत् पार्थः पर्याप्तं तन्निदर्शनम्॥९॥

द्रोणं च युधि सङ्क्रुद्धो मां च निर्जित्य संयुगे।
कर्णं च त्वां च द्रौणिं च कृपं च सुमहारथम्॥१०॥

वासांसि नस्समादत्त पर्याप्तं तन्निदर्शनम्॥१०॥

निवातकवचान् युद्धे वासवेनापि दुर्जयान्।
जितवान् समरे पार्थः पर्याप्तं तन्निदर्शनम्॥११॥

को हि शक्तो रणे जेतुं पाण्डवं रभसं रणे॥१२॥

यस्य गोप्ता जगद्गोप्ता शङ्खचक्रगदाधरः।
वासुदेवो जगत्सृष्टिस्थितिसंहारकारकः॥१३॥

सर्वेषां नो वासुदेवः परमात्मा सनातनः।
उक्तोऽसि बहुशो राजन् नारदाद्यैर्महर्षिभिः॥१४॥

त्वं तु मोहान्न जानीषे वाच्यावाच्यं सुयोधन॥१४॥

मुमूर्षुर्हि नरस्सर्वान् वृक्षान् पश्यति काञ्चनान्।
तथा त्वमपि गान्धारे विपरीतानि पश्यसि॥१५॥

स्वयं वैरं महत् कृत्वा पाण्डवैस्सह सृञ्जयैः।

युद्ध्यस्व तानद्य रणे पश्यामः पुरुषो भव।१६॥

अशक्याः पाण्डवा जेतुं देवैरपि सवासवैः॥१७॥

अहं तु सोमकान् सर्वान् पाञ्चालांश्च समागतान्।
निहनिष्ये नरव्याघ्र वर्जयिष्ये शिखण्डिनम्॥१८॥

तैर्वाऽहं निहतस्सङ्ख्ये गमिष्ये यमसादनम्।
तान् वा निहत्य सङ्ग्रामे प्रीतिं दास्यामि वै तव॥१९॥

पूर्वं हि स्त्री समुत्पन्ना शिखण्डी राजवेश्मनि।
वरदानात् पुमाञ्जातस् सैषा वै स्त्री शिखण्डिनी॥२०॥

तामहं न हनिष्यामि प्राणत्यागेऽपि भारत।
याऽसौ प्रानिर्मिता धात्रा सैषा वै स्त्री शिखण्डिनी॥२१॥

सुसुखं स्वप गान्धारे श्वोऽस्मि कर्ता महारणम्।
यज्जनाः कथयिष्यन्ति यावत् स्थास्यति मेदिनी॥२२॥

सञ्जयः—

एवमुक्तस्तव सुतो निर्जगाम जनेश्वरः।
अभिवाद्य गुरुं मूर्ध्ना प्रययौ स्वं निवेशनम्॥२३॥

आगम्य तु ततो राजा विसृज्य स महाजनम्।

प्रविवेश ततस्तूर्णं क्षयं शत्रुक्षयङ्करः॥२४॥

प्रहृष्टस्सन्निशां तां च गमयामास पार्थिवः॥२४॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि त्रिनवतितमोऽध्यायः॥१३॥
॥६४॥भीष्मवधपर्वणि त्रिपञ्चाशोऽध्यायः॥५३॥
[अस्मिन्नध्याये २४॥ श्लोकाः]
<MISSING_FIG href="../books_images/U-IMG-1705936064मम.png"/>

॥चतुर्नवतितमोऽध्यायः॥
<MISSING_FIG href="../books_images/U-IMG-1705936053NNNN.png"/>

भीष्मरक्षणे दुर्योधनोद्यमः॥

सञ्जयः—

प्रभातायां तु शर्वर्यांं प्रातरुत्थाय वै नृपः।
राज्ञश्चाज्ञापयामास यान् प्रधानान् महारथान्॥१॥

¹सेनायां141 राजशार्दूला युध्यध्वमिति पाण्डवैः।
अद्य भीष्मो रणे क्रुद्धो निहनिष्यति सोमकान्॥२॥

दुर्योधनस्य तच्छ्रुत्वा रात्रौ विलपितं बहु।
मन्यमानस्स तद्राजन् प्रत्यादेशमिवात्मनः॥३॥

निर्वेदं परमं गत्वा विनिन्द्य परवाच्यताम्।
दीर्घं दध्यौशान्तनवो योद्धुकामोऽर्जुनं रणे॥४॥

इङ्गितेन तु तज्ज्ञात्वा गाङ्गेयेन विचिन्तितम्।
दुर्योधनो महाराज दुश्शासनमचोदयत्॥५॥

दुर्योधनः—

दुश्शासन रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः।
द्वाविंशतिसहस्राणि सर्वाण्येवाभिचोदय॥६॥

अयं हि समनुप्राप्तो वर्षपूगाभिचिन्तितः।
पाण्डवानां ससैन्यानां वधो राज्यस्य चागमः॥७॥

¹तत्र229कार्यमहं मन्ये भीष्मस्यैवाभिरक्षणम्।
स नो गुप्तस्सहायस्स्याद्धन्यात् पार्थाश्च संयुगे॥८॥

अब्रवीच्च विशुद्धात्मा नाहं हन्यां शिखण्डिनम्।
स्त्रीपूर्वको ह्यसौ जातस् तस्माद्वर्ज्योमया रणे॥९॥

लोकस्तद्वेद यदहं पितुः प्रियचिकीर्षया।
राज्यं चेदं महाबाहो स्त्रियश्च त्यक्तवान् पुरा॥१०॥

न चैवाहं स्त्रियं जातु स्त्रीपूर्वं वा कदाचन।
हन्यां युद्धे नरश्रेष्ठ सत्यमेतद्ब्रवीमि ते॥११॥

अयं स्त्रीपूर्वको राजञ्छिखण्डी यदि ते श्रुतः
उद्योगे कथितं गुह्यं यथा जाता शिखण्डिनी॥१२॥

कन्या भूत्वा पुमाञ्जातस् स च योत्स्यति भारत।
तस्याहं प्रमुखे बाणान् न मुञ्चेयंकथश्चन॥१३॥

युद्धे तु क्षत्रियांस्तात पाण्डवानां जयैषिणः।
सर्वानन्यान् हनिष्यामि सम्प्राप्तान बाणगोचरान्॥ १४॥

एवं मां भरतश्रेष्ठो गाङ्गेयः प्राह शास्त्रवित्।
तत्र सर्वात्मना कार्य गाङ्गेयस्यानुपालनम्॥१५॥

रक्ष्यमाणस्तु काकोऽपि हन्यात् सिंहं महावने।
मा सिंहमिव काकेन हतंभीष्मं शिखण्डिना॥१६॥

पश्येम पुरुषव्याघ्र सर्वा गुप्तिर्विधीयताम्॥१६॥

मातुलश्शकुनिश्शल्यः कृपो द्रोणो विविंशतिः।
यत्ता रक्षन्तु गाङ्गेयं तस्मिन् गुप्ते जयो ध्रुवः॥१७॥

सञ्जयः—

एतच्छ्रुत्वा तु राजानो दुर्योधनवचश्शुभम्।
सर्वतो रथवंशेन गाङ्गेयं पर्यवारयत्॥१८॥

पुत्राश्च तव गाङ्गेयं परिवार्य ययुर्मुदा।
कम्पयन्तोऽथ मात्स्यांश्च क्षोभयन्तश्च पाण्डवान्॥१९॥

ते रथैश्च सुसंयत्तैर् दन्तिभिश्च मदोत्कटैः।
परिवार्य हयैर्भीष्मं दंशितास्समरे स्थिताः॥२०॥

यथा देवासुरे युद्धे त्रिदशा वज्रधारिणम्।
सर्वे ते स्म व्यतिष्ठन्त रक्षन्नस्तं महारथम्॥२१॥

ततो दुर्योधनो राजा पुनर्भ्रातरमब्रवीत्॥२२॥

दुर्योधनः—

सव्यं चक्रं युधामन्युर् उत्तमौजाश्च दक्षिणम्।

गोप्तारावर्जुनस्योभावर्जुनोऽपि शिखण्डिनः॥२३॥

रक्ष्यमाणस्स पार्थेन सहास्माभिर्विवर्जितः।
यथा भीष्मं न नो हन्याद् दुश्शासन तथा कुरु॥२४॥

सञ्जयः—

भ्रातुस्तद्वचनं श्रुत्वा पुत्रो दुश्शासनस्तव।
भीष्मं प्रमुखतः कृत्वा प्रययौ सेनया सह॥२५॥

भीष्मं तु रथवंशेनं दृष्ट्वा समभिसंवृतम्।
अर्जुनो रथिनां श्रेष्ठो धृष्टद्युम्नमुवाच ह॥२६॥

शिखण्डिनं नरव्याघ्र भीष्मस्य प्रमुखेऽनघ।
स्थापयस्वाद्य राजेन्द्र तस्य गोप्ताऽहमच्युत॥२७॥

इति श्रीमहाभारते शतसहस्रिकायांसंहितायां वैयासिक्यां
भीष्मपर्वणि चतुर्नवतितमोऽध्यायः॥ १४॥
॥६४॥ भीष्मवधपर्वणि चतुःपञ्चाशोऽध्यायः॥ ५४॥
[अस्मिन्नध्याये २७ श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1705936833मम.png"/>

॥पञ्चनवतितमोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1705936822नन.png"/>

कुरुपाण्डवसेनयोर्व्यूहरचनापूर्वकं परस्पराभिगमनम्॥

<MISSING_FIG href="../books_images/U-IMG-1705936850मम.png"/>

सञ्जयः—

ततश्शान्तनवो भीष्मो निर्ययौ सेनया सह।
अव्यूहत महाव्यूहं सर्वतोभद्रमाहवे॥१॥

कृपश्च कृतवर्मा च शैब्यश्चैव महारथः।
शकुनिस्सैन्धवश्चैव काम्भोजश्च सुदक्षिणः॥१॥

भीष्मेण सहितास्सर्वे पुत्रश्च तव भारत।
अग्रतस्सर्वसैन्यानां व्यूहस्य प्रमुख स्थिताः॥२॥

द्रोणो भूरिश्रवाश्शल्यो भगदत्तश्च मारिष।
दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य दंशिताः॥३॥

अश्वत्थामा सोमदत्तस् तथाऽऽवन्त्यौ महारथौ।
महत्या सेनया गुप्ता वामपार्श्वमपालयन्॥४॥

दुर्योधनो महाराज त्रिगर्तेस्सर्वतो वृतः।
व्यूहमध्ये स्थितो राजा पाण्डवान् प्रति भारत॥५॥

अलम्बुसो रथश्रेष्ठश् श्रुतायुश्च महारथः।
पृष्ठतस्सर्वसैन्यानां स्थितौ व्यूहस्य दंशितौ॥६॥

एवमेतं महाव्यूहं कृत्वा भारत तावकाः।
सन्नद्धास्समपद्यन्त प्रतपन्त इवाग्नयः॥७॥

तथा युधिष्ठिरो राजा भीमसेनश्च पाण्डवः।
नकुलस्सहदेवश्च द्रौपदेयाश्च सर्वशः॥८॥

अग्रतस्सर्वसैन्यानां स्थिता व्यूहस्य दंशिताः॥९॥

धृष्टद्युम्नो विराटश्च सात्यकिश्च महारथः।
स्थितास्सैन्येन महता परानीकविनाशनाः॥१०॥

शिखण्डी विजयश्चैव राक्षसश्च घटोत्कचः।
चेकितानो महाबाहुः कुन्तिभोजश्च वीर्यवान्॥११॥

स्थिता रणाय महते महत्या सेनया वृताः॥१२॥

अभिमन्युर्महेष्वासो द्रुपदश्च महारथः।
केकया भ्रातरः पञ्च स्थिता युद्धाय दंशिताः॥१३॥

एवं तेऽपि महाव्यूहं प्रतिव्यूह्य सुदुर्जयाः।
पाण्डवास्समरे शूरास् स्थिता युद्धाय मारिष॥१४॥

तावकारस्तु रणे यत्तास् सहसैन्या नराधिपाः।
अभ्युद्ययू रणे पार्थान् भीष्मं कृत्वाऽग्रतो नृप॥१५॥

तथैव पाण्डवा राजन् भीमसेनपुरोगमाः।
भीष्मं योद्धुमभिययुस् सङ्ग्रामे विजिगीषवः॥१६॥

क्ष्वेलान् किलकिलाशब्दान् कृकरान् गोविषाणकान्।
भेरीमृदङ्गपटहान् नादयन्तश्चवारिजान्॥१७॥

पाण्डवा अभ्यधावन्त नदन्तो भैरवान् रवान्॥१७॥

भेरीमृदङ्गशङ्खानां दुन्दुभीनां च निस्स्वनैः।
उत्कृष्टसिंहनादैश्च वल्गितैतैश्च पृथग्विधैः॥१८॥

¹अस्माकं450 प्रतिशब्दैश्च तदासीत् तुमुलं महत्॥१९॥

सहसा ह्यभिसङ्क्रुद्धा नदन्तो भैरवस्वनान्।
ततोऽन्योन्यं प्रधावन्तस् सम्प्रहारं प्रचक्रिरे॥२०॥

ततश्शब्देन महता प्रचकम्पे वसुन्धरा।
पक्षिणश्च महाघोरं व्याहरन्तो विबभ्रमुः॥२१॥

सप्रभश्चोदितस्सूर्यो निष्प्रभस्समपद्यत।
ववुश्च तुमुला वाताश् शंसन्तस्सुमहद्भयम्॥२२॥

घोराश्च घोरनिर्ह्रादाश् शिवास्तत्र ववाशिरे।
वेदयन्त्यो महाराज महद्वैशसमागतम्॥२३॥

दिशः प्रज्वलिता राजन पांसुवर्ष पपातं च।
रुधिरेण समुन्मिश्रम् अस्थिवर्षं तथैव च॥२४॥

रुदतां वाहनानां च नेत्रेभ्यः प्रापतज्जलम्।
प्रसुस्रुवुश्शकृन्मूत्रंप्रध्यायन्तो विशां पते॥२५॥

अन्तर्हिता महानादाश् श्रूयन्ते भरतर्षभ।
रक्षसां पुरुषादानां नदतां भैरवान् रवान्॥२६॥

सम्पतन्तस्स्म दृश्यन्ते गोमायुबलवायसाः।
श्वानश्च विविधैर्नादैर् भषन्तस्तत्र भारत॥२७॥

ज्वलिताश्च महोल्का वै समाहत्य दिवाकरम्।
निपेतुस्सहसा भूमौ वेदयाना महद्भयम्॥२८॥

महान्त्यनीकानि महासमुच्छ्रये
समागमे पाण्डवधार्तराष्ट्र्योः ।
चकम्पिरे शङ्खमृदङ्गनिस्स्वनैः
प्रकम्पितानीव वनानि वायुना॥२९॥

नरेन्द्रनागाश्वसमाकुलानां
समाकुलानामशिवे मुहूर्ते ।
बभूव घोषस्तुमुलञ्चमूनां
वातोद्धतानामिव सागराणाम्॥३०॥

इति श्रीमहाभारते शतसहस्रिकायांसंहितायां वैयासिक्यां
भीष्मपर्वणि पञ्चनवतितमोऽध्यायः॥१५॥
॥६४॥भीष्मवधपर्वणि पञ्चपञ्चाशोऽध्यायः॥५५॥
[ अस्मिन्नध्याये ३० श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1705937783मम.png"/>

॥षण्णवतितमोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1705937795bbbb.png"/>

अलम्बुसस्य द्रौपदेयैः सह युद्धमभिमन्युना समागमश्च॥

<MISSING_FIG href="../books_images/U-IMG-1705937806मम.png"/>

सञ्जयः—

अभिमन्युर्महाराज पिशङ्गैस्तुरगोत्तमैः।
अभिदुद्राव वेगेन दुर्योधनबलं महत्॥१॥

विकिरञ्शरवर्षाणि वारिधारा इवाम्बुदः ।
न शेकुस्समरे क्रुद्धं सौभद्रमपराजितम्॥२॥

¹क्रोडरूपं451 हरिमिव प्रविशन्तं महार्णवम्।
सेनासागरमक्षोभ्यं प्रविशन्तं तथाऽऽर्जुनिम्॥३॥

न निवारयितुं शक्तास् त्वदीयाः कुरुपुङ्गव॥३॥

तेन मुक्ता रणे राजञ् शराश्शत्रुनिबर्हणाः।
नयन्ति क्षत्रियाञ् शूरान् प्रेतराजनिवेशनम्॥४॥

यमदण्डोपमान् घोराञ् ज्वलिताशीविषोपमान्।
सौभद्रस्समरे क्रुद्धः प्रेषयामास सायकान्॥५॥

रथिनं स रथात् तूर्णं हयपृष्ठाच्च सादिनम्।
गजारोहं च सगजं पातयामास फाल्गुनिः॥६॥

तस्य तत् कुर्वतः कर्म महत् सङ्ख्येऽद्भुतं नृपाः।
पूजयाञ्चक्रिरे हृष्टाः प्रशशंसुश्च फाल्गुनिम्॥७॥

तान्यनीकानि सौभद्रो द्रावयन् बहुशोभत।
तूलराशिमिवाधूय मारुतस्सर्वतो दिशम्॥८॥

तेन विद्राव्यमाणानि तव सैन्यानि भारत।
त्रातारं नाध्यगच्छन्त पङ्कमग्नाइव द्विपाः॥९॥

विद्राव्य सर्वसैन्यानि तावकानि नरोत्तम।
अभिमन्युस्थितो राजन् विधूमोऽग्निरिव ज्वलन्॥१०॥

न चैनं तावकः कश्चित् सहते रिपुघातिनम्।
प्रदीप्तं ज्वलनं यद्वत् पतङ्गः कालचोदितः॥११॥

प्रहरन् सर्वशत्रुभ्यः पाण्डवानां महारथः।
अदृश्यत महेष्वासस् सवज्र इव वासवः॥१२॥

हेमपृष्ठं धनुश्रास्य ददृशे चरतो दिशः।
तोयदेषु महाराज यथा शक्रधनुर्महत्॥१३॥

शराश्च निशिताः पीता निश्चरन्ति स्म संयुगे।
वनात् फुल्लद्रुमाद्राजन् भ्रमराणामिव व्रजाः॥१४॥

तथैव चरतस्तस्य मण्डलानि महात्मनः।
रथेन काञ्चनाङ्गेन ददृशुर्नान्तरं जनाः॥१५॥

मोहयित्वा कृपं द्रोणं द्रौणि च सबृहद्बलम्।
सैन्धवं च महेष्वासम् ¹अन्यांश्चैव360 महीपतीन्॥१६॥

विकिरन् निशितैर्बाणैर् व्यचरल्लघु सुष्ठु च॥१७॥

मण्डलीकृतमेवास्य धनुः पश्याम भारत।
सूर्यमण्डलसङ्काशं प्रतपत् तव वाहिनीम्॥१८॥

तं दृष्ट्वा क्षत्रियाश्शूराः प्रतपन्तं शरार्चिषा।
द्विफल्गुनमिमं लोकं मेनिरे तस्य कर्मभिः॥१९॥

तेनार्दिता महाराज भारती सा महाचमूः।

बभ्राम तत्र तत्रैव योषिन्मदवशादिव॥२०॥

द्रावयित्वा ततस्सैन्यं कम्पयित्वा महारथान्।
नन्दयानस्स सुहृदो बलं जित्वेव वासवः॥२१॥

तेन विद्राव्यमाणानि तव सैन्यानि संयुगे।
चक्रुरार्तस्वरं घोरं पर्जन्यनिनदोपमम्॥२२॥

तं श्रुत्वा निनदं घोरं तस्य सैन्यस्य भारत।
मारुतोद्भूतवेगस्य समुद्रस्येव पर्वणि॥२३॥

दुर्योधनस्तदा राजन् आर्श्यशृङ्गिमभाषत॥२३॥

दुर्योधनः—

एष कार्ष्णिर्महाबाहो द्वितीय इव फल्गुनः।
चमूं द्रावयते क्रोधाद् वृत्रोदेवचमूमिव॥२४॥

तस्य नान्यं प्रपश्यामि संयुगे भेषजं महत्।
ॠते त्वां राक्षसश्रेष्ठ सर्वविद्यासु पारगम्॥२५॥

त्वं गत्वा त्वरितं वीरं जहि सौभद्रमाहवे।
वयं पार्थान् हनिष्यामो भीष्मद्रोणपुरस्सराः॥२६॥

सञ्जयः—

एवमुक्तस्स बलवान् राक्षसेन्द्रः प्रतापवान्।
प्रययौ समरे तूर्णं तव पुत्रस्य शासनात्॥२७॥

नर्दमानो महानादं प्रावृषीव बलाहकः॥२८॥

तस्य शब्देन महता पाण्डवानां महद्बलम्।
प्राचलत् सर्वतो राजन् पूर्यमाण इवार्णवः॥२९॥

बहवश्च महाराज तस्य नादेन भीषिताः।
प्रियान् प्राणान् परित्यज्य निपेतुर्धरणीतले॥३०॥

कार्ष्णिश्चापि समायुक्तः प्रगृहीतशरासनः।
नृत्यन्निव रथोपस्थे तद्रक्षस्समुपाद्रवत्॥३१॥

ततस्स राक्षसः क्रुद्धस् सम्प्राप्यैवार्जुनिंरणे।
नातिदूरे स्थिते तस्मिन् द्रावयामास वै चमूम्॥३२॥

¹सा393 वध्यमाना समरे पाण्डवानां महाचमूः।
प्रत्युद्ययौ रणे रक्षो देवसेना यथा बलिम्॥३३॥

विमर्दस्सुमहानासीत् तस्य सैन्यस्य मारिष।
रक्षसा घोररूपेण वध्यमानस्य संयुगे॥३४॥

ततश्शरसहस्रैस्तां पाण्डवानां महाचमूम्।
व्यद्रावयद्रणे रक्षो दर्शयन् वै पराक्रमम्॥३५॥

सा वध्यमाना समरे पाण्डवानां महाचमूः।
रक्षसा घोररूपेण प्रदुद्राव रणे भयात्॥३६॥

तां प्रमृद्य ततस्सेनां पद्मिनीं वारणो यथा।
ततोऽभिदुद्राव रणे द्रौपदेयान् कुमारकान्॥३७॥

ते तु क्रुद्धा महेष्वासा द्रौपदेयाः प्रहारिणः।
राक्षसं दुद्रुवुस्सङ्ख्येग्रहाः पञ्च यथा रविम्॥३८॥

वीर्यवद्भिस्ततस्तैस्तु पीडितो राक्षसोत्तमः।
यथा युगक्षये घोरैश् चन्द्रमाः पञ्चभिर्ग्रहैः॥३९॥

प्रतिविन्ध्यस्ततो रक्षो बिभेद दशभिश्शरैः।
सर्वपारशवैस्तूर्णम् अकुण्ठाग्रैर्महाबलः॥४०॥

स तैर्भिन्नतनुत्राणश् शुशुभे राक्षसाधिपः।
¹मरीचिभिरिवार्कस्य452 संस्यूतो जलदो महान्॥४१॥

विषक्तैस्सशरैचापि तपनीयपरिच्छदैः।
आर्श्यशृङ्गिर्बभौ राजन् दीप्तशृङ्ग इवाचलः॥४२॥

ततस्ते भ्रातरः पञ्च राक्षसेन्द्रं महाहवे।
विव्यधुर्निशितैर्बाणैस् तपनीयविभूषितैः॥४३॥

स निर्भिन्नश्शरैर्घोरैर् भुजगैः कोपितैरिव।
अलम्बुसो भृशं राजन् नागेन्द्र इव चुक्रुधे॥४४॥

निर्भिन्नस्तु शरैघरैर् दीप्यमानस्समन्ततः।
अलम्बुसो भृशं भाति उल्काभिरिव कुञ्जरः॥४५॥

सोऽतिविद्धो महाराज मुहूर्तमथ मारिष।
प्रविवेश तमो दीर्घं पीडितस्तैर्महारथैः॥४६॥

प्रतिलभ्य ततस्संज्ञां क्रोधेन द्विगुणीकृतः।
चिच्छेद सायकैस्तेषां ध्वजांश्चैव धनूंषि च॥४७॥

एकैकं च त्रिभिर्बाणैर् आजघान स्मयन्निव।
अलम्बुसो रथोपस्थे नृत्यन्निव महारथः॥४८॥

त्वरमाणो भृशं क्रुद्धो हयांस्तेषां महात्मनाम्।
जघान राक्षसः क्रुद्धस् सारथिंश्च महाबलः॥४९॥

बिभेद च सुसङ्क्रुद्धः पुनश्चैतान् सुसंशितैः।
शरैर्बहुविधाकारैश् शतशोऽथ सहस्रशः॥५०॥

विरथांश्च महेष्वासान् कृत्वा तत्र स राक्षसः।
अभिदुद्राव वेगेन हन्तुकामो निशाचरः॥५१॥

तानर्दितान् रणे तेन राक्षसेन दुरात्मना।
दृष्ट्वाऽऽर्जुनिस्ततस्सङ्ख्ये राक्षसं समुपाद्रवत्॥५२॥

तयोस्समभवद्युद्धं वृत्रवासवयोरिव।
ददृशुः पाण्डवास्सर्वे पार्थिवाश्च महारथाः॥५३॥

तौ समेतौ महायुद्धे क्रोधदीप्तौ परस्परम्।
उदृत्य चक्षुषी राजन् क्रोधात् प्रस्फुरिताधरौ॥५४॥

महाबलौ महावीर्यौ क्रोधसंरक्तलोचनौ।
परस्परमवेक्षेतां कालानलसमौ युधि॥५५॥

आशीविषाविव क्रुद्धौ नेत्राभ्यामितरेतरम्।

तयोस्समागमो घोरो बभूवात्यन्तदारुणः॥५६॥

यथा देवासुरे युद्धे शक्रशम्बरयोः पुरा॥५६॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मवधपर्वणि षण्णवतितमोऽध्यायः॥ ९६॥
॥६४॥ भीष्मवधपर्वणि षट्पञ्चाशोऽध्यायः॥ ५६॥
[अस्मिन्नध्याये ५६॥ श्लोकाः]
<MISSING_FIG href="../books_images/U-IMG-1705940801मम.png"/>

॥सप्तनवतितमोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1705940792नन.png"/>

अभिमन्युनाऽलम्बुसस्य पराजयः॥

<MISSING_FIG href="../books_images/U-IMG-1705940782मम.png"/>

धृतराष्ट्रः—

आर्जुनिं समरे क्रुद्धं विनिघ्नन्तं महारथान्।
अलम्बुसः कथं युद्धे प्रत्ययुध्यत सञ्जय॥१॥

आर्श्यशृङ्गिंकथं चैव सौभद्रः परवीरहा॥१॥

तन्ममाचक्ष्व तत्त्वेन यथावृत्तं हि संयुगे॥२॥

धनञ्जयश्च किं चक्रे मम सैन्येषु सञ्जय।
भीमो वा बलिनां श्रेष्ठो राक्षसो वा घटोत्कचः॥३॥

नकुलस्सहदेवो वा सात्यकिर्वा महारथः॥३॥

एतदाचक्ष्व मे सर्वं कुशलो ह्यसि सञ्जय॥४॥

सञ्जयः—

हन्त ते सम्प्रवक्ष्यामि सङ्ग्रामं रोमहर्षणम्।
यथाऽभूद्राक्षसेन्द्रस्य सौभद्रस्य च भारत॥५॥

अर्जुनश्च यथा सङ्ख्ये भीमसेनश्च पाण्डवः।
नकुलस्सहदेवश्च रणे चक्रुः पराक्रमम्॥६॥

तथैव तावकास्सर्वे भीष्मद्रोणपुरोगमाः।
अद्भुतानि विचित्राणि चक्रुः कर्माण्यभीतवत्॥७॥

अलम्बुसस्तु समरे अभिमन्युं महारथम्।
विनद्य सुमहानादं तर्जयित्वा मुहुर्मुहुः॥८॥

अभिदुद्राव वेगेन तिष्ठ तिष्ठेति चाब्रवीत्॥८॥

सौभद्रोऽपि रणे राजन् सिंहवद्विनदन् मुहुः।
अलम्बुसं महेष्वासं पितुरत्यन्तवैरिणम्॥९॥

ततस्समीयतुस्सङ्ख्ये त्वरितौ नरराक्षसौ।
रथाभ्यां रथिनां श्रेष्ठौ यथा वै देवदानवौ॥१०॥

मायावी राक्षसश्रेष्ठो दिव्यास्त्रश्चापि फाल्गुनिः॥११॥

ततः कार्ष्णिर्महाराज निशितैस्सायकैस्त्रिभिः।
आर्श्यशृङ्गिंरणे विद्ध्वापुनर्विव्याघ पञ्चभिः॥१२॥

अलम्बुसोऽपि समरे कार्ष्णिंनवभिराशुगैः।
हृदि विव्याध वेगेन तोत्रैरिव महाद्विपम्॥१३॥

ततश्शरसहस्रेण क्षिप्रकारी निशाचरः।

अर्जुनस्य सुतं सङ्ख्ये पीडयामास भारत॥१४॥

अभिमन्युस्ततः क्रुद्धो नवभिर्नतपर्वभिः।
विव्याध निशितैर्बाणै राक्षसस्य महोरसि॥१५॥

ते तस्य विविशुः क्षिप्रं कायं निर्भिद्य मर्मणि॥१५॥

स तैर्विभिन्नसर्वाङ्गश् शुशुभे राक्षसोत्तमः।
पुष्पितैः किंशुकै राजन् सङ्कीर्ण इव पर्वतः॥१६॥

स सन्दधानश्च शरान् हेमपुङ्खान् महाबलः।
विबभौ राक्षसश्रेष्ठस् सज्वाल इव पर्वतः॥१७॥

ततः क्रुद्धो महाराज आर्श्यशृङ्गिरमर्षणः।
महेन्द्रप्रतिमं कार्ष्णिंछादयामास पत्रिभिः॥१८॥

तेन ते निशिता मुक्ता यमदण्डोपमाश्शराः।
अभिमन्युं विनिर्भिद्य प्राविशन्त महीतलम्॥१९॥

तथैवार्जुनिना मुक्ताश् शराः काञ्चनभूषणाः।
अलम्बुसं विनिर्भिद्यप्राविशन्नवनीतलम्॥२०॥

¹सौभद्रस्तु453 रणे रक्षश् शरैस्सन्नतपर्वभिः।

चक्रे विमुखमासाद्य बलं शक्र इवाहवे॥२१॥

विमुखं च ततो रक्षो वध्यमानं रणेऽरिणा।
प्रादुश्चक्रे महामायां तामसीमरिघातिनीम् ॥२२॥

ततस्तु तमसा पूर्वं वृतमासीन्महीपते।
नाभिमन्युं प्रपश्यामस् तमसा संवृतं तदा॥२३॥

अभिमन्युश्च तद्दृष्ट्वा घोररूपं महत्तमः।
प्रादुश्चक्रेऽस्त्रमत्युग्रं भास्करं कुरुनन्दनः॥२४॥

ततः प्रकाशमभवज् जगत् सर्वं महीपते।
तां चाभिजग्निवान् मायां राक्षसस्य दुरात्मनः ॥२५॥

सङ्क्रुद्धश्चमहावीर्यो राक्षसेन्द्रं नरोत्तमः।
छादयामास समरे शरैस्सन्नतपर्वभिः॥२६॥

ततो बहुविधा मायाः प्रयुक्तास्तेन रक्षसा।
सर्वास्त्रविदमेयात्मा वारयामास फाल्गुनिः॥२७॥

¹हतमायं406 ततो रक्षो वध्यमानं च सायकैः।
रथं तत्रैव सन्त्यज्य प्राद्रवन्महतो भयात्॥२८\।\।

तस्मिन् विनिर्जिते तूर्णं कूटयोधिनि राक्षसे।
आर्जुनिस्समरे सैन्यं तावकं संममर्द ह॥२९॥

मदान्धो वन्यनागेन्द्रस् सपद्मां पद्मिनीमिव॥३०॥

ततश्शान्तनवो भीष्मो दृष्ट्वा सैन्यमभिद्रुतम्।
महता रथवंशेन सौभद्रं पर्यवारयत्॥३१॥

कोष्ठीकृत्य महावीरं धार्तराष्ट्रा महाबलाः।
एकं तु बहवो युद्धे तनक्षुस्सायकैर्भृशम्॥३२॥

स तेषां रथिनां वीरः पितृतुल्यपराक्रमः।
सदृशो वासुदेवस्य विक्रमेण बलेन च॥३३॥

उभयोस्सदृशं कर्म मातुलस्य पितुस्तथा।
रणे बहुविधं चक्रे सर्वशस्त्रभृतां वरः॥३४॥

ततो धनञ्जयो राजन् विनिघ्नंस्तव सैनिकान्।
आससाद रणे भीष्मं पुत्रप्रेप्सुरमर्षणः॥३५॥

तथैव समरे राजन् पिता देवव्रतस्तव।
आससाद रणे पार्थं स्वर्भानुरिव भास्करम्॥३६॥

ततस्सरथनागाश्वाः पुत्रास्तव विशां पते।
परिवव्रूरणे भीष्मं जुगुपुश्च समन्ततः॥३७॥

तथैव पाण्डवा राजन् परिवार्य धनञ्जयम्।
रणाय महते युक्ता दंशिता भरतर्षभ॥३८॥

शारद्वतस्ततो राजन् भीष्मस्य प्रमुखे स्थितम्।
अर्जुनं पञ्चविंशत्या सायकानां समाचिनोत्॥३९॥

प्रत्युद्गम्याथ विव्याध सात्यकिश्च शरैः कृपम्।

¹पाण्डवप्रियकामार्थ229ंशार्दूल इव कुञ्जरम्॥४०॥

गौतमोऽपि त्वरायुक्तो माधवं निशितैश्शरैः।
हृदि विव्याध सङ्क्रुद्धः कङ्कपत्रपरिच्छदैः॥४१॥

शैनेयोऽपि ततः क्रुद्धो भृशं विद्धो महारथः।
गौतमान्तकरं तूर्ण समाधत्त शिलीमुखम्॥४२॥

तमापतन्तं वेगेन शक्राशनिसमद्युतिम्।
द्विधा चिच्छेद सङ्क्रुद्धो द्रौणिः परमकोपनः॥४३॥

समुत्सृज्य तु शैनेयो गौतमं रथिनां वरम्।
अभ्यद्रवद्रणे द्रौणिं राहुः खे शशिनं यथा॥४४॥

तस्य द्रोणसुतश्चापं द्विधा चिच्छेद भारत।
अथैनं छिन्नधन्वानं ताडयामास सायकैः॥४५॥

सोऽन्यत् कार्मुकमादाय शत्रुघ्नं भारसाधनम्।
द्रौणिं षष्ट्या महाराज बाह्वोरुरसि चार्पयत्॥४६॥

स विद्धो व्यथितश्चैव मुहूर्त्तंकश्मलायुतः।
निषसाद रथोपस्थे ध्वजयष्टिं समाश्रितः॥४७॥

प्रतिलभ्य ततस्संज्ञां द्रोणपुत्रःप्रतापवान्।
वार्ष्णेयं समभिक्रुद्धो नाराचेन समर्पयत्॥४८॥

शैनेयं स तु निर्भिद्य प्राविशद्धरणीतलम्।

वसन्तकाले द्युतिमान् बिलं सर्पशिशुर्यथा॥४९॥

ततोऽपरेण भल्लेन माधवस्य ध्वजोत्तमम्।
चिच्छेद समरे द्रौणिस् सिंहनादं ननाद च॥५०॥

पुनश्चैनं शरैर्घोरैश्¹छादयामास454 भारत।
²निदाघान्ते264 महाराज यथा मेघो दिवाकरम्॥५१॥

सात्यकोऽपि महाराज शरजालं निहत्य तत्।
द्रौणिमभ्यपतत् तूर्णं शरजालैरनेकधा॥५२॥

तापयामास च द्रौणि सिंहनादं ननाद च॥५२॥

³पुनश्चैव455 शरैर्घोरैश् शैनेयः परवीरहा।
⁴छादयामास456 वै द्रौणिं महामेघ इवाचलम्॥५३॥

द्रौणिस्तद्बाणजालं तु छित्त्वा कोपसमन्वितः।
⁵विमुक्तश्शरजालेन457 मेघमुक्तो यथा शशी॥५४॥

स शराणां सहस्रेण पुनरेनं समुद्यतम्।
सात्यकिश्छादयामास ननाद च महाबलः॥५५॥

दृष्ट्वा पुत्रंतदा ग्रस्तं राहुणेव निशाकरम्।

अभ्यद्रवत शैनेयं भारद्वाजः प्रतापवान्॥५६॥

विव्याध च सुतीक्ष्णेन पृषत्केन महामृधे।
परीप्सन् स्वसुतं राजन् वार्ष्णेयेनाभिपीडितम्॥५७॥

सात्यकिस्तु रणे हित्वा द्रोणपुत्रंमहारथम्।
द्रोणं विव्याध सप्तत्या सर्वपारशवैश्शरैः॥५८॥

तदन्तरममेयात्मा कौन्तेयश्श्वेतवाहनः।
अभ्यद्रवद्रणे क्रुद्धो द्रोणं प्रति महारथः॥५९॥

ततो द्रोणश्च पार्थश्च समेयातां महामृधे।
यथा बुधश्च शुक्रश्च महाराज नभस्स्थले॥६०॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि सप्तनवतितमोऽध्यायः॥१७॥
॥६४॥भीष्मवधपर्वणि सप्तपञ्चाशोऽध्यायः॥५७५६॥
[अस्मिन्नध्याये ६०॥श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1705981110ववव.png"/>

॥अष्टनवतितमोऽध्यायः॥
<MISSING_FIG href="../books_images/U-IMG-1705981098mmm.png"/>

द्रोणार्जुनयुद्धं भीमसेनपराक्रमश्च॥

<MISSING_FIG href="../books_images/U-IMG-1705981080ववव.png"/>

धृतराष्ट्रः—

कथं द्रोणो महेष्वासः पाण्डवश्च धनञ्जयः।
समेयातां रणे वीरौ तन्ममाचक्ष्व सञ्जय॥१॥

¹प्रियो307 हि पाण्डवो नित्यं भारद्वाजस्य धीमतः।
आचार्यश्च रणे नित्यं प्रियः पार्थस्य सञ्जय॥२॥

तावुभौ रथिनौ सङ्ख्ये दृप्तौ सिंहाविवोत्कटौ।
कथं समीयतुर्युद्धे भारद्वाजधनञ्जयौ॥३॥

सञ्जयः—

²तं458 द्रोणस्समरे पार्थं जानीते प्रियमात्मनः।
क्षत्रधर्मं पुरस्कृत्य ³द्रोणोऽयुध्यत459 पाण्डवम्॥४॥

⁴तथैव246 पाण्डवो द्रोणं वेत्येव प्रियमात्मनः।
क्षत्रधर्मरतो नित्यं क्षत्रधर्मेण युध्यत॥५॥

न क्षत्रिया रणे राजन् वर्जयन्ति परस्परम्।
निर्मर्यादं हि युध्यन्ते पितृभिर्भ्रातृभिस्सह॥६॥

रणे भारत पार्थेन द्रोणो विद्धश्शितैश्शरैः।
नाचिन्तयच्च तान् बाणान् पार्थबाणासनच्युतान्॥७॥

⁵शरवृष्ट्या460 पुनः पार्थं छादयामास संयुगे।

स वै जज्वाल रोषेण गगनेऽग्निरिवोत्थितः॥८॥

ततोऽर्जुनो रणे द्रोणं शरैस्सन्नतपर्वभिः।
वारयामास राजेन्द्र नचिरादेव भारत॥९॥

ततो दुर्योधनो राजा सुशर्माणमचोदयत्।
द्रोणस्य समरे राजन् पार्ष्णिग्राहककारणात्॥१०॥

त्रिगर्तराजस्सङ्क्रुद्धोभृशमायम्य कार्मुकम्।
छादयामास समरे पार्थं बाणैरयोमुखैः॥११॥

ताभ्यां मुक्ताश्शरा राजन्नन्तरिक्षे विरेजिरे।
हंसा इव महाराज ¹शरत्काले461 नभस्स्थले॥१२॥

ते शराः प्राप्य कौन्तेयं समन्ताद्विविशुः प्रभो।
फलभारानतं यद्वत् स्वादुवृक्षं विहङ्गमाः॥१३॥

अर्जुनस्तु रणे राजन् विनद्य रथिनां वरः।
त्रिगर्तराजं समरे सपुत्रंविव्यधे शरैः॥१४॥

ते वध्यमानाः पार्थेन कालेनेव युगक्षये।
पार्थमेवाभ्यवर्तन्त मरणे कृतनिश्चयाः॥१५॥

मुमुचुश्शरवृष्टिं च पाण्डवस्य रथं प्रति॥१५॥

शरवृष्टिं तवस्तां तु शरवर्षेण पाण्डवः।
प्रतिजग्राह राजेन्द्र तोयवृष्टिमिवाचलः॥१६॥

तत्राद्भुतमपश्याम बीभत्सोर्हस्तलाघवम्॥१७॥

विमुक्तां बहुभिश्शूरैश् शरवृष्टिं दुरासदाम्।
यदेको वारयामास मारुतोऽभ्रगणानिव॥१८॥

कर्मणा तेन पार्थस्य तुतुषुर्देवदानवाः॥१८॥

अथ क्रुद्धो रणे पार्थस् त्रिगर्तान् प्रति भारत।
मुमोचास्त्रं महाराज वायव्यं पृतनामुखे॥१९॥

प्रादुरासीत् ततो वायुः क्षोभयाणो नभस्स्थलम्।
पातयन् वै तरुगणान् विनिघ्नंश्चैव सैनिकान्॥२०॥

ततो द्रोणोऽभिवीक्ष्यैव वायव्यास्त्रं सुदारुणम्।
शैलमन्यं महाराज घोरमस्त्रं मुमोच ह॥२१॥

द्रोणेन युधि निर्मुक्ते तस्मिन्नस्त्रे महामृधे।
प्रशशाम ततो वायुः प्रसन्नाश्च दिशोऽभवन्॥२२॥

ततः पाण्डुसुतो वीरस् त्रिगर्तस्य रथव्रजान्।
निरुत्साहान् रणे चक्रे विमुखान् निष्पराक्रमान्॥२३॥

ततो दुर्योधनो राजा कृपश्च रथिनां वरः।
अश्वत्थामा तथा शल्यः काम्भोजश्च सुदक्षिणः॥२४॥

विन्दानुविन्दावावन्त्यौ बाह्लिकस्सह बाह्लिकैः।
महता रथवंशेन पार्थस्यावारयन् दिशः॥२५॥

तथैव भगदत्तश्च श्रुतायुश्च महाबलः।

गजानीकेन भीमस्य ताववारयतां दिशः॥२६॥

भूरिश्रवाश्शलश्चैव कौसलश्चविशां पते।
शरौघैर्विविधैस्तूर्णं माद्रीपुत्राववारयन्॥२७॥

भीष्मस्तु सहितस्सर्वैर् धार्तराष्ट्रस्य सैनिकैः।
युधिष्ठिरं समासाद्य सर्वतः पर्यवारयत्॥२८॥

आपतन्तं गजानीकं दृष्ट्वा पार्थो वृकोदरः।
लेलिहन् सृक्विणी वीरो मृगराडिव कानने॥२९॥

ततस्तु बलिनां श्रेष्ठो गदां गृह्य महाहवे।
अवप्लुत्य रथात् तूर्णं गिर्यग्रादिव केसरी॥३०॥

स तस्थौ सगदो भीमस् सशृङ्ग इव पर्वतः।
सिंहो दृष्ट्वा मृगं यद्वत् तव सैन्यं विभीषयन्॥३१॥

तमुद्वीक्ष्य गदाहस्तं ततस्ते गजयोधिनः।
परिवव्रूरणे भीमं यत्नादेव समन्ततः॥३२॥

गजमध्यमनुप्राप्तः पाण्डवस्स व्यराजत।
मेघजालस्य महतो यथा मध्यगतो रविः॥३३॥

व्यधमत् स गजानीकं गदया पाण्डवर्षभः।
महाभ्रजालमतुलं मातरिश्वेव सन्ततम्॥३४॥

ते वध्यमाना बलिना भीमसेनेन दन्तिनः।
आर्तनादान् रणे चक्रुर् गर्जन्तो जलदा इव॥३५॥

बहुधा दारितश्चैव विषाणैस्तत्र दन्तिभिः।
फुल्लाशोकनिभः पार्थश् शुशुभे रणमूर्धनि॥३६॥

सादिनां शत्रवृष्टिं च व्यधमद्गदया ततः।
वायुवेगसमायुक्तो व्यचरत् पाण्डवो युधि॥३७॥

विषाणोल्लिखितैर्गात्रैर् विषाणाभिहतो भृशम्।
विषाणे दन्तिनं गृह्य निर्विषाणमथाकरोत्॥३८॥

विषाणेन च तेनैव दन्तेष्वाहत्य दन्तिनः।
पातयामास समरे दण्डपाणिरिवान्तकः॥३९॥

शोणिताक्तां गदां बिभ्रन्मेदोमज्जाकृतच्छविः।
सिक्ताङ्गश्शोणितेनैव रुद्रवत् प्रत्यदृश्यत॥४०॥

एवं ते वध्यमानास्तु हतशेषा महागजाः।
प्राद्रवन्त दिशो राजन् विमृद्वन्तस्स्वकं बलम्॥४१॥

द्रवद्भिस्तैर्महानागैस् समन्ताद्भरतर्षभ।
दुर्योधनबलं सर्वं पुनरासीत् पराङ्मुखम्॥४२॥

इति श्रीमहाभारते शतसहस्रिकायांसंहितायां वैयासिक्यां
भीष्मपर्वणि अष्टनवतितमोऽध्यायः॥ ९८॥
॥६४॥ भीष्मवधपर्वणि अष्टपञ्चाशोऽध्यायः॥ ५८॥
[ अस्मिन्नध्याये ४२॥ श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1705998688ववव.png"/>

॥एकोनशततमोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1705998744mmm.png"/>

सङ्कुलयुद्धवर्णनम्॥

<MISSING_FIG href="../books_images/U-IMG-1705998761ववव.png"/>

सञ्जयः—

मध्याह्ने तु महाराज सङ्ग्रामस्समपद्यत।
लोकक्षयकरो रौद्रो भीष्मस्य सह सोमकैः॥१॥

गाङ्गेयो रथिनां श्रेष्ठः पाण्डवानामनीकिनीम्।
व्यधमन्निशितैर्बाणैश् शतशोऽथ सहस्रशः॥२॥

सम्ममर्द च तत् सैन्यं पिता देवव्रतस्तव।
मर्दयेच्च यथा राजन् सिंहः प्राप्य मृगव्रजान्॥३॥

धृष्टद्युम्नश्शिखण्डी च विराटो द्रुपदस्तथा।
भीष्ममासाद्य समरे शरैर्जघ्नुर्महारथाः॥४॥

धृष्टद्युम्नं ततोऽविध्यद् ¹भीष्मश्शरशतैश्शितैः462
धृष्टकेतुं च दशभिर् विराटं च त्रिभिश्शरैः॥५॥

द्रुपदाय च नाराचान् प्रेषयामास वै दश॥५॥

ततो विद्धा महेष्वासा भीष्मेणामित्रकर्शिना।
चुक्रुधुस्समरे राजन् पदस्पृष्टा इवोरगाः॥६॥

²कोपेन141 प्राग्वलन् वीरा हव्यसिक्ता इवाग्नयः॥७॥

शिखण्डिनं न विव्याध भारतानां पितामहः।
स्त्रियं च समनुध्यात्वानास्मै प्राहरदच्युतः॥८॥

धृष्टद्युम्नस्तु समरे क्रोधादग्निरिव ज्वलन्।
पितामहं त्रिभिर्बाणैर् बाह्वोरुरसि चार्पयत्॥९॥

द्रुपदः पञ्चविंशत्या विराटो दशमिश्शरैः।
शिखण्डी चापि विंशत्या भीष्मं विव्याध सायकैः॥१०॥

सोऽतिविद्धो महाराज भीष्मस्संख्ये महात्मभिः।
वसन्ते पुष्पशबलो रक्ताशोक इवाबभौ॥११॥

तान् प्रत्यविध्यद्गाङ्गेयस् त्रिभिस्त्रिभिरजिह्मगैः।
द्रुपदस्य च भल्लेन धनुश्चिच्छेद भारत॥१२॥

सोऽन्यत् कार्मुकमादाय भीष्मं विव्याध पञ्चभिः।
सारथिं च त्रिभिर्बाणैर् निशितै रणमूर्धनि॥१३॥

ततो भीमो महाराज द्रौपद्याः पञ्च चात्मजाः।
केकया भ्रातरः पञ्च सात्यकिश्चैव माधवः॥१४॥

अभ्यद्रवन्त गाङ्गेयं युधिष्ठिरसमाज्ञया।
प्रतिरक्षणकार्यार्थं धृष्टद्युम्नमुखान् रणे॥१५॥

तथैव तावकास्सर्वे भीष्मरक्षार्थमुद्यताः।
प्रत्युद्ययुः पाण्डुसेनां सहसेना नराधिपाः॥१६॥

तत्रासीत् सुमहद्युद्धं तव तेषां च सङ्कुलम्।

नराश्वरथनागानां यमराष्ट्रविवर्धनम्॥१७॥

रथी रथिनमासाद्य प्राहिणोद्यमसादनम्॥१७॥

¹हयो463 हयं समासाद्य गजो नागं तथैव च।
योधो योधं समासाद्य प्रत्ययुध्यत भारत॥१८॥

तेऽन्योन्यं समरे जघ्नुश् शरैस्सन्नतपर्वभिः।
प्रेषयन् परलोकाय परस्परजिगीषया॥१९॥

अस्त्रैश्च विविधैस्तत्र योधा जघ्नुस्तथा रथान्॥२०॥

रथाश्च रथिभिर्हीना हतसारथयस्तथा।
प्रविद्रुताश्वास्समरे दिशो जग्मुस्समन्ततः॥२१॥

मर्दमाना नरान् राजन् हयांश्च सुबहून् रणे॥२१॥

वातायमाना दृश्यन्ते गन्धर्वनगरोपमाः।
रथिनश्च रथैर्हीना वर्मिणस्तेजसा युताः॥२२॥

कुण्डलोष्णीषिणस्सर्वे निष्काङ्गदविभूषणाः।
देवपुत्रसमा रूपे शौर्ये शक्रसमा युधि॥२३॥

ऋद्ध्या वैश्रवणेनैव विनयेन बृहस्पतेः।
सर्वलोकेश्वराश्शूरास् तत्र तत्र विशां पते॥२४॥

विप्रद्रुता व्यदृश्यन्त प्राकृता इव मानवाः॥२५॥

दन्तिनश्च नरश्रेष्ठ विहीना वरसादिभिः।
मृद्गन्तस्स्वान्यनीकानि निपेतुस्सर्वशब्दगाः॥२६॥

वर्मभिश्चामरैश्छत्रैः पताकाभिश्च भारत।
कक्ष्याभिरथ तोत्रैश्च घण्टाभिस्तोमरैस्तथा॥२७॥

विशीर्णैर्विप्रधावन्तो दृश्यन्ते स्म दिशो दश॥२७॥

नगमेघप्रतीकाशैर् जलदोपमनिस्स्वनैः।
तथैव दन्तिभिर्हीनान् गजारोहान् महारणे॥२८॥

धावमानानपश्याम तव तेषां च सङ्कुले॥२९॥

नानादेशसमुत्थांश्च तुरगान् हेमवर्मितान्।
वातायमानानद्राक्षं शतशोऽथ सहस्रशः॥३०॥

अश्वारोहान् रथैरश्वैर् गृहीतान् हि समन्ततः।
द्रवमाणानपश्याम द्राव्यमाणांश्च संयुगे॥३१॥

गजो गजं समासाद्य द्रवमाणो महारणे।
ययौ विमृद्गंस्तरसा पदातीन् वाजिनस्तथा॥३२॥

¹तथैव406 च रथान् राजन् प्रममर्द रणे गजः॥३२॥

रथाश्चैव समासाद्य पदातींस्तुरगांस्तथा।
व्यमृद्नन्समरे राजंस् तुरगांश्च नरान् रणे॥३३॥

एवं ते बहुधा राजन् प्रत्यमृद्गन् परस्परम्।
दृश्यन्ते स्म महाबाहो तत्रतत्रमहाबलाः॥३४॥

¹तस्मिन्464 रौद्रे महायुद्धे वर्तमाने भयावहे।
प्रावर्तत नदी घोरा शोणितौघतरङ्गिणी॥३५॥

अस्थिसवयसङ्घाटा केशशैवलशाद्वला।
रथहदा शरावर्ता हयमीना दुरासदा॥३६॥

शीर्षोपलशताकीर्णा हस्तिग्राहसमाकुला।
कवचोष्णीषफेनौघा धनुर्मीनासिपन्नगा॥३७॥

²शङ्खनक्रौघसम्पूर्णा465 छत्रकूर्मरथोडुपा।
पताकाध्वजवृक्षाढ्या मर्त्यकूलापहारिणी॥३८॥

ऋव्यादहंससङ्कीर्णा यमराष्ट्रविवर्धनी॥३९॥

तां नदीं क्षत्रियाश्शूरा हयनागरथप्लवैः।
प्रतेरुर्बहवो राजन् भयं त्यक्त्वा महाहवे॥४०॥

अपोवाह रणे भीरून् कश्मलेनाभिसंवृतान्।
यथा वैतरणी प्रेतान् प्रेतराजपुरं प्रति॥४१॥

प्राक्रोशन् क्षत्रियास्तत्र दृष्ट्वा तद्वैशसं महत्।

क्षत्रियाः—

दुर्योधनापराधेन क्षयं गच्छन्ति पार्थिवाः॥४२॥

गुणवत्सु कथं द्वेषं धृतराष्ट्रो जनेश्वरः।
कृतवान् पाण्डुपुत्रेषु पापात्मा लोभमोहितः॥४३॥

सञ्जयः—

एवं बहुविधा वाचश् श्रूयन्तेऽस्मासु भारत।
पाण्डवस्तव संयुक्ताः पुत्राणां ते सुदारुणाः॥४४॥

ता निशम्य ततो वाचस् सर्वयोधैरुदाहृताः।
आगस्कृत् सर्वलोकस्य पुत्रो दुर्योधनस्तव॥४५॥

भीष्मं द्रोणं कृपं चैव शल्यं चोवाच भारत।४५॥

दुर्योधनः—

युध्यध्वमनहङ्काराः जयार्थं मे जनेश्वराः॥४६॥

सञ्जयः—

इति दुर्योधनोत्सृष्टास् सर्वे युयुधिरे नृपाः।
ततः प्रववृते युद्धं कुरूणां पाण्डवैस्सह॥४६॥

अक्षद्यूतकृतं राजन् सुघोरं वैशसं तदा॥४७॥

¹यत्361 पुरा त्वं न गृह्णीषे वार्यमाणो महात्मभिः।
वैचित्रवीर्य पश्येदं फलं तस्य यथातथम्॥४८॥

न हि पाण्डुसुता राजन् ससैन्यास्सपदानुगाः।
रक्षन्ति समरे प्राणान् कौरवाणां विशां पते॥४९॥

एतस्मात् कारणद्घोरो वर्तते स्म जनक्षयः।
दैवाद्वा पुरुषव्याघ्र तव पापतया नृप॥५०॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि एकोनशततमोऽध्यायः॥९९॥
॥६४॥भीष्मवधपर्वणि एकोनषष्टितमोऽध्यायः॥५९॥
[अस्मिन्नध्याये ५०॥श्लोकाः]
<MISSING_FIG href="../books_images/U-IMG-1706000436ववव.png"/>

॥शततमोऽध्यायः॥
<MISSING_FIG href="../books_images/U-IMG-1706000446mmm.png"/>

सङ्कुलयुद्धवर्णनम्॥

<MISSING_FIG href="../books_images/U-IMG-1706000456ववव.png"/>

सञ्जयः—

एकीभूतास्ततस्सर्वे कुरवः पाण्डवैस्सह।
अयुध्यन्त महारङ्गे मध्यं प्राप्ते दिवाकरे॥१॥

सात्यकिः कृतवर्माणंविद्ध्वापञ्चभिराशुगैः।
नाकम्पयत शैनेयः किरन् बाणान् सहस्रशः॥२॥

तथैव द्रुपदो राजा द्रोणं विद्धा शरैस्त्रिभिः।
पुनर्विव्याध सप्तत्या सारथिं च त्रिभिश्शरैः॥३॥

भीमसेनस्तु राजानं बाह्लीकं प्रपितामहम्।
विद्ध्वाऽनदन्महाराज गवां मध्ये यथा वृषः॥४॥

आर्जुनिश्चित्रसेनेन विद्धो बहुभिराशुगैः।
चित्रसेनं त्रिभिर्बाणैर् विव्याध हृदये भृशम्॥५॥

तौ वै समागतौ युद्धे पितापुत्रौ विरेजतुः।
यथा समागतौ राजन् काले बुधनिशाकरौ॥६॥

तस्याश्वांश्चतुरो हत्वा सूतं च नवभिश्शरैः।
ननाद बलवान् नादं सौभद्रः परवीरहा॥७॥

हताश्वात् तु रथात् तूर्णम् अवप्लुत्य महारथः।
आरुरोह रथं तूर्णं दुर्मुखस्य विशां पते॥८॥

द्रोणश्च द्रुपदं विद्ध्वाशरैस्सन्नतपर्वभिः।
सारथिं चास्य विव्याध त्वरमाणः पराक्रमी॥९॥

पीड्यमानस्ततो राजा द्रुपदो वाहिनीमुखे।
अपायाज्जवनैरश्वैः पूर्ववैरमनुस्मरन्॥१०॥

¹भीमसेनस्तु466 राजानं मुहूर्तादिव बाह्लिकम्।
व्यश्वसूतरथं चक्रे सर्वलोकस्य पश्यतः॥११॥

ससम्भ्रमो महाराज संशयं परमं गतः।
अवप्लुत्य ततो यानाद् बाह्लीकः पुरुषर्षभः॥१२॥

आरुरोह रथं तूर्णं लक्ष्मणस्य महात्मनः॥१२॥

अर्जुनश्च नरव्याघ्रस् सुशर्मप्रमुखान् रथान्।
²अजयद्रथिनां467 श्रेष्ठस् सर्वानप्रतिभान् रणे॥१३॥

सुशर्माऽपि ततो बाणैः पार्थं विव्याध वै तदा।
वासुदेवं च सप्तत्या पार्थं च नवभिश्शरैः॥१४॥

तान् निवार्य शरौघेण शक्रसूनुर्महारथः।
सुशर्मणो रणे योधान् प्राहिणोद्यमसादनम्॥१५॥

ते हन्यमानाः पार्थेन कालेनेव युगक्षये।
व्यद्रवन्त रणें राजन् भये जाते महामृधे॥१६॥

उत्सृज्य तुरगान् केचिद् रथान् केचिञ्च भारत।
गजानन्ये समुत्सृज्य प्राद्रवन्त दिशो दश॥१७॥

अपरे तुद्यमानास्तु वाजिनागरथा नराः \।
त्वरया परया युक्ताः प्राद्रवन्त विशां पते॥१८॥

कशाभिस्ताडयामासुः पार्ष्णिभिश्च मुहुर्मुहुः।
हयारोहा द्रवन्त्यैव चोदयन्तो हयोत्तमान्॥१९॥

तथा तोत्रनिपातैश्च अङ्कुशानां च विभ्रमैः।
गजारोहा गजांस्तूर्णं त्वरयन्तः प्रदुद्रुवुः॥२०॥

रथिनश्च प्रतोदैश्च वाग्भिश्चैव पुनः पुनः।
भर्त्सयन्तो हयान् राजन् प्राद्रवन्त दिशो दश॥२१॥

पादाताश्चैव शस्त्राणि समुत्सृज्य महाहवे।
निरपेक्षाभ्यधावन्त तेन तेन स्म भारत॥२२॥

वार्यमाणास्सुबहुशस् त्रैगर्तेन सुशर्मणा।

तथाऽन्यैः पार्थिवश्रेष्ठैर् नावतिष्ठन्त संयुगे॥२३॥

पुत्रांश्च पतितान् भूमौ मातुलांश्च पितॄंस्तथा।
सोदरांश्चावमृद्गन्तो दुद्रुवुस्ते समन्ततः॥२४॥

तद्बलं प्रद्रुतं दृष्ट्वा पुत्रस्तष विशां पते।
पुरस्कृत्य रणे भीष्मं सर्वसैन्यपुरस्कृतम्॥२५॥

सर्वोद्योगेन महता धनञ्जयमुपाद्रवत्।
त्रिगर्ताधिपतेरर्थे जीवितस्य विशां पते॥२६॥

स एकस्समरे तस्थौ किरन् बहुविधाञ् शरान्।
भ्रातृभिस्सहितस्सर्वेश शेषा हि प्रद्रुता नराः॥२७॥

तथैव पाण्डवा राजन् सर्वोद्योगेन दंशिताः।
प्रययुः फल्गुनार्थाय यत्र भीष्मो व्यवस्थितः॥२८॥

जानन्तोऽपि रणे शौर्यं घोरं गाण्डीवधन्वनः।
हाहाकारकृतोत्साहाद्भीष्मं जग्मुस्समन्ततः॥२९॥

ततस्तालध्वजश्शूरः पाण्डवानामनीकिनीम्।
छादयामास समरे शरैस्सन्नतपर्वभिः॥३०॥

¹सात्यकिः468 कृतवर्माणं वारयित्वा महारथम्।
शरैर्बहुविधै राजन्नाससाद पितामहम्॥३१॥

स विद्ध्वाभारतं षष्ट्या निशितैर्लोमवापिभिः।
नृत्यन्निव रथोपस्थे विधुन्वानो महद्धनुः॥३२॥

तस्यायसीं महाशक्तिं चिक्षेपाथ पितामहः।
हेमचित्रां महावेगां नागकन्योपमां शुभाम्॥३३॥

तामापतन्तीं सहसा मृत्युकालोपमां शुभाम्।
पीडयामास वार्ष्णेयो लाघवेन महायशाः॥३४॥

अनासाद्य तु वार्ष्णेयं शक्तिः परमदारुणा।
न्यपतद्धरणीपृष्ठे महोल्केव हतप्रभा॥३५॥

वार्ष्णेयस्तु ततो राजन् स्वां शक्तिं घोरदर्शनाम्।
वेगवद्गृह्य चिक्षेप पितामहरथं प्रति॥३६॥

वार्ष्णेयभुजवेगेन प्रयुक्ता सा महारवा।
अभिदुद्राव वेगेन कालरात्रिर्यथा नरम्॥३७॥

तामापतन्तीं सहसा द्विधा चिच्छेद भारतः।
क्षुरप्राभ्यां सुतीक्ष्णाभ्यां सा व्यशीर्यत मेदिनीम्॥ ३८॥

छित्त्वा स शक्तिं गाङ्गेयस् सात्यकिं नवभिश्शरैः।
आजघानोरसि क्रुद्धः प्रहसञ् छत्रुकर्शनः॥३९॥

ततस्सरथनागावा पाण्डवाः पाण्डुपूर्वज।
परिवव्रुरणे भीष्मं माधवत्राणकारणात्॥४०॥

ततः प्रववृते युद्धं तुमुलं रोमहर्षणम्।
पाण्डवानां कुरूणां च समरे विजयैषिणाम्॥४१॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायांवैयासिक्यं
भीष्मपर्वणि शततमोऽध्यायः॥१००॥
॥६४॥भीष्मवधपर्वणि षष्टितमोऽध्यायः॥६०॥
[ अस्मिन्नध्याये ४१॥श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1706002207ववव.png"/>

॥एकशततमोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1706002196mmm.png"/>

युधिष्ठिरादियुद्धवर्णनम्॥

<MISSING_FIG href="../books_images/U-IMG-1706002224ववव.png"/>

सञ्जयः—

दृष्ट्वा भीष्मं रणे क्रुद्धं पाण्डवैरभिसंवृतम्।
यथा मेघैर्महाराज तपान्ते दिवि भास्करम्॥१॥

दुर्योधनो महाराज दुश्शासनमभाषत॥१॥

दुर्योधनः—

एष भीष्मो महेष्वासश् शूरश्शत्रुनिषूदनः।
छादितः पाण्डवैश्शूरैस् समन्ताद्भरतर्षभः॥२॥

तस्य कार्यं त्वया वीर रक्षणं सुमहात्मनः॥३॥

रक्ष्यमाणो हि समरे भीष्मोऽस्माकं पितामहः।
¹निहन्यात्469 समरे यत्तान पाञ्चालान् पाण्डवैसह॥४॥

तच्च कार्यमहं मन्ये भीष्मस्यैवाभिरक्षणम्।
गोप्ता ह्येष महेष्वासो भीष्मोऽस्माकं विशेषतः॥५॥

स भवान् सर्वसैन्येन परिवार्य पितामहम्।
समरे दुष्करं कर्म कुर्वाणं परिपालय॥६॥

सञ्जयः—

एवमुक्तस्तु समरे पुत्रो दुश्शासनस्तव।
परिवार्य स्थितो भीष्मं सैन्येन महता वृतः॥७॥

¹पालयामास164 महता यत्नेन च सुसंयतः॥७॥

ततश्शतसहस्रेण हयानां सुबलात्मजः।
विमलप्रासहस्तानां यष्टितोमरधारिणाम्॥८॥

दर्पितानां सुवेगानां बलस्थानां पताकिनाम्।
शिक्षितैर्युद्धकुशलैर् उपेतानां नरोत्तमैः॥९॥

²एवं470 बहुसहस्रैश्च योधानां युद्धशालिनाम्।
³संवृतश्शकुनिस्तस्थौ471 युद्धायैव सुदंशितः॥१०॥

नकुलस्सहदेवश्च धर्मपुत्रश्च पाण्डवम्।
न्यवारयन् नरश्रेष्ठान् परिवार्य समन्ततः॥११॥

ततो दुर्योधनो राजा शूराणां हयसादिनाम्।

अयुतं प्रेषयामास शकुनेः प्रियकाम्यया॥१२॥

तैः प्रविष्टैर्महावेगैर् गरुत्मद्भिरिवाहवे।
¹शुशुभे472 स महातेजाश् शकुनिस्सुबलात्मजः॥१३॥

तैरश्वैस्सुमहावेगैर् मरुद्भिरिव वासवः॥१४॥

खुराहता धरा राजंश् चकम्पे च ननाद च॥१४॥

खुरशब्दश्च सुमहान् वाजिनां शुश्रुवे तदा।
महावंशवनस्येव दह्यमानस्य पर्वते॥१५॥

उत्पतद्भिश्च तैस्तत्र समुद्भूतं महद्रजः।
दिवाकररथं प्राप्य छादयामास भास्करम्॥१६॥

वेगवद्भिर्हयैस्तैस्तु क्षोभितं पाण्डवं बलम्।
निपतद्भिर्महावेगैर् हंसैरिव महत् सरः॥१७॥

²तुरगैर्वायुवेगैश्च141 तत् सैन्यं व्याकुलीकृतम्।
हेषतां चैव शब्देन न प्राज्ञायत किञ्चन॥१८॥

³अतस्तदा473 महान् घोषस् तुरगाणामभूच्छ्रुतः॥१९॥

ततो युधिष्ठिरो राजा माद्रीपुत्रौच पाण्डवौ।
प्रत्यघ्नंस्तरसा वेगं समरे हयसादिनाम्॥२०॥

उद्धूतस्य महाराज प्रावृषीव महोदधेः।
पौर्णमास्यामम्बुवेगं यथा वेला दधार ह॥२१॥

ततस्ते रथिनो राजञ् शरैरसन्नतपर्वभिः।
¹न्यकृन्तनुत्तमाङ्गानि160 कायेभ्यो यसादिनाम्॥२२॥

विनिपेतुर्महाराज निहता दृढधन्विनः।
नागैरिव महाहप्तैर् यथा स्युर्गिरिगह्वरे॥२३॥

तेऽपि प्रासैस्सुनिशितैश् शरैस्सन्नतपर्वभिः।
न्यकृन्तन्नुत्तमाङ्गानि विचरन्तो दिशो दश॥२४॥

अभ्याहता हयारोहा शक्तिभिर्भरतर्षभ।
²न्यपतन्त474 महाराज वातरुग्णा इव द्रुमाः॥२५॥

कायेभ्यो न्यपतन् भूमावुत्तमाङ्गानि सादिनाम्।
फलानि कालपक्वानि द्रुमेभ्यः पतितान्यधः॥२६॥

³ससादिनो475 हया राजंस् तत्र तत्र निषूदिताः।
पतिताः पात्यमानाश्च प्रत्यदृश्यन्त सङ्घशः॥२७॥

वध्यमाना हयास्ते तु प्राद्रवन्त भयार्दिताः।
यथा सिंह समासाद्य मृगाः प्राणपरायणाः॥२८॥

पाण्डवाश्च महाराज जित्वा शत्रून् महामृधे।

दमुश्शङ्खांश्च भेरीश्च ताडयामासुराहवे॥२९॥

ततो दुर्योधनो दीनं दृष्ट्वा सैन्यमवस्थितम्।
अब्रवीद्भरतश्रेष्ठ मद्रराजमिदं वचः॥३०॥

दुर्योधनः—

एष पाण्डुसुतो ज्येष्ठो जित्वा मातुल मे बलम्।
पश्यतां नो महाबाहो सेनां द्रावयते बली॥३१॥

तं वारय महाबाहो वेलेव मकरालयम्।
त्वं हि संश्रूयसेऽत्यन्तम् असह्यबलविक्रमः॥३२॥

पुत्रस्य तव तद्वाक्यं श्रुत्वा शल्यः प्रतापवान्।
प्रययौ रथवंशेन यत्रराजा युधिष्ठिरः॥३३॥

तदापतद्वै सहसा शल्यस्य सुमहद्बलम्।
मेघौघमिव शैलेन्द्रो वारयामास पाण्डवः॥३४॥

मद्रराजं तु समरे धर्मराजो युधिष्ठिरः।
दशभिस्सायकैस्तूर्णम् आजघान स्तनान्तरे॥३५॥

नकुलस्सहदेवश्च त्रिभिस्त्रिभिरजिह्मगैः॥३५॥

मद्रराजोऽपि तान् सर्वान् आजघान त्रिभिस्त्रिभिः।
युधिष्ठिरं पुनष्षष्ट्या विव्याध निशितैश्शरैः॥३६॥

माद्रीपुत्रौ च संरब्धौ द्वाभ्यां द्वाभ्यामताडयत्।

¹पुनस्स141 बहुभिर्बाणैर् आजघान युधिष्ठिरम्॥३७॥

ततो भीमो महाबाहुर् दृष्ट्वा राजानमाहवे।
मद्रराजवशं प्राप्तं मृत्योरास्यगतं यथा॥३८॥

अभ्यद्रवत सङ्ग्रामे मद्रराजममित्रहा॥३९॥

आपतन्नेव भीमस्तु मद्रराजमताडयत्।
सर्वपारशवैस्तीक्ष्णैर् नाराचैर्मर्मभेदिभिः॥४०॥

ततो भीष्मश्च द्रोणश्च सैन्येन महता वृतौ।
राजानमभ्यपद्येताम् अञ्जसा शरवर्षिणौ॥४१॥

ततो युद्धं महाघोरं प्रावर्तत सुदारुणम्॥४१॥

अपरां दिशमास्थाय द्योतमाने दिवाकरे।
क्षीणप्रभे महाराज गन्तुमस्ताद्रिमिच्छति॥४२॥

इति श्रीमहाभारते शतसहस्रिकायांसंहितायां वैयासिक्यां
भीष्मपर्वणि एकशततमोऽध्यायः॥१०१॥
॥६४॥भीष्मवधपर्वणि एकषष्टितमोऽध्यायः॥६१॥
[अस्मिन्नध्याये ४२॥श्लोकाः]
<MISSING_FIG href="../books_images/U-IMG-1706016455मम.png"/>

॥द्वयुत्तरशततमोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1706016893नन.png"/>

भीष्मपराक्रमममृष्यता कृष्णेन रथादवरुह्य तद्वधायाभियानम्॥ १॥

अर्जुनेन पश्चादनुधाव्य निवर्तितस्य कृष्णस्य तेन सह पुना रथारोहणम्॥

<MISSING_FIG href="../books_images/U-IMG-1706016881मम.png"/>

सञ्जयः—

ततः पितामहः क्रुद्धो निशितैस्सायकोत्तमैः।
आजघान रणे पार्थान् सहसैन्यान् परन्तपः॥१॥

भीमं द्वादशभिर्विद्ध्वासात्यकिं नवभिश्शरैः।
नकुलं च त्रिभिर्बाणैस् सहदेवं च पञ्चभिः॥२॥

युधिष्ठिरं च नवभिर् बाह्वोरुरसि चार्पयत्।
¹सर्वपारशवैस्तीक्ष्णैर्248 नाराचैर्मर्मभेदिभिः॥३॥

धृष्टद्युम्नं विभिर्विद्ध्वाविननाद महाबलः॥३॥

नकुलः पञ्चविंशत्या माधवश्च त्रिभिश्शरैः।
^(2–3)धृष्टद्युम्नश्च476 सप्तत्या भीमसेनश्च पञ्चभिः॥४॥

युधिष्ठिरो द्वादशभिः प्रत्यविध्यत् पितामहम्॥५॥

द्रोणस्तु सात्यकिं विद्ध्वाभीमसेनमुखानपि।
एकैकं पञ्चभिर्बाणैर् यमदणरिवाहनत्॥६॥

ते च तं प्रत्यविध्यन्त त्रिभिस्त्रिभिरजिह्मगैः।
तोत्रैरिव महानागं द्रोणं ब्राह्मणपुङ्गवम्॥७॥

सौवीराःकितवाः प्राच्याः प्रतीच्योदीच्यमालवाः।
अभीषहाश्शूरसेनाश् शिबयोऽथ वसातयः॥८॥

सङ्ग्रामे न जहुर्भीष्मं बाध्यमानाश्शितैश्शरैः॥८॥

तथैवान्ये महीपाला पाण्डवेयैर्महात्मभिः।
पाण्डवानभ्यवर्तन्त विविधायुधपाणयः॥९॥

तथैव पाण्डवा राजन् परिवव्रुः पितामहम्॥१०॥

स समन्तात् परिवृतो रथौघैरपराजितः।
गहनेऽग्निरिवोत्सृष्टः प्रजज्वाल दहन् परान्॥११॥

रथाश्वाङ्गारचापार्चिर् असिशक्तिगदेन्धनः।
शरस्फुलिङ्गो भीष्माभिर् ददाह क्षत्रियर्षभान्॥१२॥

यथा हि सुमहानग्निःकक्षे चरति सानिलः।
तथा भीष्मो महाराज दिव्यमस्त्रमुदीरयन्॥१३॥

सुवर्णपुङ्खैरिषुभिर् गृध्रपक्षैस्सुतेजनैः।
कर्णिनालीकनाराचैश् छादयामास तद्बलम्॥१४॥

अपातयजांश्चैव रथिनश्च शितैश्शरैः।
मुण्डतालवनानीव चकार स रथव्रजान्॥१५॥

निर्मनुष्यान् रथान् राजन् गजानश्वांश्च संयुगे।

अकरोत् स महाबाहुस् सर्वशस्त्रभृतां वरः॥१६॥

तस्य ज्यातलनिर्घोषं विष्फूर्जितमिवाशनेः।
निशम्य सर्वभूतानि समकम्पन्त भारत॥१७॥

अमोघाश्चापतन् बाणास् संयुगे भरतर्षभ।
नासज्जन्त तनुत्रेषु भीष्मचापच्युताश्शराः॥१८॥

हीनवीरान् रथान राजन् संयुक्ताञ्जवनैर्हयैः।
अपश्याम महाराज ह्रियमाणान् रणाजिरे॥१९॥

चेदिकाशिकरूशानां सहस्राणि चतुर्दश।
महारथास्समाख्याताः कुलपुत्रास्तनुत्यजः॥२०॥

अपरावर्तिनस्सर्वे सुवर्णविकृतध्वजाः।
सङ्ग्रामे भीष्ममासाद्य व्यादितास्यमिवान्तकम्॥२१॥

निमग्नाःपरलोकाय सवाजिरथकुञ्जराः॥२१॥

भग्नाक्षोपस्करान् कांश्चिद् भग्नचक्रांश्च मारिष।
अपश्याम रथान् राजन् शतशोऽथ सहस्रशः॥२२॥

सवरूथै रथयुगैरथिभिश्च निपातितैः।
अश्वैश्चकवचैश्छत्रैः पट्टसैश्च विशां पते॥२३॥

गदाभिर्मुसलैश्चैव निस्त्रिंशैश्च शिलीमुखैः।
अनुकर्षैरुपासङ्गैश चक्रैर्भग्नैश्च भारत॥२४॥

बाहुभिःकार्मुकैः खड्गैश् शिरोभिश्च सकुण्डलैः।

तलत्रैरङ्गुलित्रैश्च ध्वजैश्च विनिपातितैः॥२५॥

चापैश्च बहुधा च्छिन्नैस् समास्तीर्यत मेदिनी॥२६॥

गजारोहा गजान् राजन् हयांश्च हयसादिनः।
अभिपेतुर्द्रुतं तत्रशतशोऽथ सहस्रशः॥२७॥

पतमाना हि ते वीरा द्रवमाणा महारथाः।
नाशक्नुवन् धारयितुं भीष्मबाणप्रपीडिताः॥२८॥

¹महेन्द्रसमवीर्येण477 वध्यमाना महाचमूः।
अभज्यत महाराज न च द्वौ सम्प्रधावताम्॥२९॥

आविद्धरथनागाश्वं पदातिध्वजकुञ्जरम्।
अनीकं पाण्डुपुत्राणां हाहाकारमचेतनम्॥३०॥

जघान च पिता पुत्रं पुत्रस्तु पितरं तथा।
प्रियं सखायं चाक्रन्दत् सखा दैवबलात्कृतः॥३१॥

विमुच्य कवचानन्ये पाण्डुपुत्रस्य सैनिकाः।
प्रकीर्य केशान् धावन्तस् समदृश्यन्त भारत॥३२॥

तद्गोकुलमिवोद्भ्रान्तम् उद्भ्रान्तरथकुञ्जरम्।
ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा॥३३॥

प्रमृद्यमानं तत् सैन्यं दृष्ट्वा यादवनन्दनः।
उवाच पार्थं बीभत्सुं निगृह्य रथमुत्तमम्॥३४॥

श्रीभगवान्—

अयं स कालस्सम्प्राप्तः पार्थ यः काङ्क्षितस्त्वया।
प्रहरास्मैनरव्याघ्र भीष्मायाहवशोभिने॥३५॥

यत् पुरा कथितं वीर त्वया राज्ञां समागमे।
विराटनगरे पार्थ सञ्जयस्य समीपतः॥३६॥

भीष्मद्रोणमुखान् सर्वान् धार्तराष्ट्रस्य सैनिकान्।
सानुबन्धान् हनिष्यामि ये मां योत्स्यन्ति संयुगे॥३७॥

इति तत् कुरु कौन्तेय सत्यं वाक्यमरिन्दम।
¹क्षत्रधर्ममनुस्मृत्य232 युध्यस्व पुरुषर्षभ॥३८॥

सञ्जयः—

इत्युक्तो वासुदेवेन तिर्यग्दृष्टिरधोमुखः।
अकाम इव बीभत्सुर् इदं वचनमब्रवीत्॥३९॥

अर्जुनः—

बन्धूनां च वधं कृत्वा राज्यं च नरकोत्तरम्।
दुःखानि वनवासे वा किं नु मे सुकृतं भवेत्॥४०॥

चोदयाश्वान् यतो भीष्मः करिष्ये वचनं तव।

पातयिष्यामि दुर्धर्षं वृद्धं कुरुपितामहम्॥४१॥

सञ्जयः—

ततोऽश्वान् रजतप्रख्यांश् चोदयामास माधवः।
यतो भीष्मस्ततो राजन् दुष्प्रेक्ष्यो रश्मिमानिव॥४२॥

ततस्तत् पुनरावृत्तं युधिष्ठिरबलं महत्।
दृष्ट्वा पार्थं महाबाहुंभीष्मायोद्यन्तमाहवे॥४३॥

ततो भीष्मः कुरुश्रेष्ठश् सिंहवद्विनदन् मुहुः।
धनञ्जयरथं शीघ्रं पूरयामास पत्रिभिः॥४४॥

क्षणेन सहयस्तस्य सरथस्सहसारथिः।
शरवर्षेण महता न प्राज्ञायत किश्चन॥४५॥

वासुदेवस्त्वसम्भ्रान्तो धैर्यमास्थाय वीर्यवान्।
चोदयामास तानश्वान् वितुन्नान् भीष्मसायकैः॥४६॥

ततः पार्थो धनुर्गृह्य दिव्यं जलदनिस्वनम्।
¹पातयामास478 भीष्मस्य धनुश्छित्वा शितैश्शरैः॥४७॥

स छिन्नधन्वा कौरव्यः पुनरन्यन्महद्धनुः ।
निमेषान्तरमात्रेण सज्यं चक्रे पिता तव॥४८॥

चकर्ष विततो दोर्भ्यां धनुर्जलदनिस्स्वनम्।
अथास्य तदपि क्रुद्धश् चिच्छेद धनुरर्जुनः॥४९॥

तस्य तत् पूजयामास लाघवं शन्तनोस्सुतः।
साधु पार्थ महाबाहो साधु कुन्तीसुतेति च॥५०॥

स सम्भाष्यैनमपरं प्रगृह्य रुचिरं धनुः।
मुमोच समरे भीष्मश् शरान् पार्थरथं प्रति॥५१॥

¹अचोदयद्वासुदेवो479 हयान् पार्थस्य संयुगे।
²अगोचरान्141 भीष्ममार्गे कृत्वाऽन्यत्र च संस्थितान्॥५२॥

मोघान् कुर्वन् शरांस्तस्य मण्डलानि प्रदर्शयन्।
³सारथ्यं480 निपुणं कुर्वन् प्रत्यदृश्यत संयुगे॥५३॥

भीष्मस्तावत् सुसङ्क्रुद्धः पुनर्बाणान् मुमोच ह।
पार्थाय युधि राजेन्द्र तदद्भुतमिवाभवत्॥५४॥

अर्जुनस्तु सुसङ्क्रुद्धः पितामहमरिन्दमः।
अवर्षद्बाणवर्षेण योद्धुं ह्यभिमुखे स्थितम्॥५५॥

तावुभौ युधि दुर्धर्षौयुयुधाते प्ररस्परम्।
⁴गोवृषाविव481 संरब्धौ विषाणोल्लेखनाङ्कितौ॥५६॥

शुशुभाते नरव्याघ्रौ तावुभौ शरविक्षतौ॥५६॥

¹भीष्मोऽतीव233 सुसङ्क्रुद्धः पृषत्कैरर्जुनं बलात्।
जघान समरे मूर्ध्नि सिंहवद्विनदन् मुहुः॥५७॥

वासुदेवस्तु सम्प्रेक्ष्य पार्थस्य मृदुयुद्धताम्।
भीष्मं च शरवर्षाणि सृजन्तमनिशं युधि॥५८॥

प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोः।
परान् परान् विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान्॥५९॥

युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बले।
नामृष्यत महाबाहुर माधवः परवीरहा॥६०॥

वासुदेवस्सुसंक्रुद्धो रोषाज्जज्वाल संयुगे॥६१॥

उत्सृज्य रजतप्रख्यान् हयान् पार्थस्य मारिष।
क्रुद्धो नाम महायोगी प्रचस्कन्द रथोत्तमात्॥६२॥

²अभिदुद्राव482 भीष्मं स भुजप्रहरणो बली।
प्रतोद पाणिस्तेजस्वी सिंहबद्विनदन् मुहुः॥६३॥

दारयन्निव पद्भ्यां तु जगतीं जगदीश्वरः।
क्रोधताम्रेक्षणः कृष्णो जिघांसुरमितद्युतिः॥६४॥

ग्रसन्निव व तेजांसि तावकानां महाहवे॥६४॥

दृष्ट्वा च देवकीपुत्रं भीष्मायोद्यन्तमाहवे।

हतो भीष्मो हतो भीष्म इति तत्रस्म सैनिकाः॥६५॥

क्रोशन्तः प्राद्रवन् सर्वे वासुदेवभयान्नराः॥६६॥

पीतकौशेयसंवीतो मणिश्यामो जनार्दनः।
शुशुभे प्रद्रवन् भीष्मं विद्युन्माली यथाऽम्बुदः॥६७॥

स सिंह इव मातङ्गं यूथर्षभ इवर्षभम्।
अभिदुद्राव तेजस्वी विनदन् यादवर्षभः॥६८॥

तमायान्तं तु सम्प्रेक्ष्य पुण्डरीकाक्षमाहवे।
असम्भ्रमेण भीष्मोऽपि विचकर्ष महद्धनुः॥६९॥

उवाच चैनं गोविन्दम् असम्भ्रान्तेन चेतसा॥६९॥

भीष्मः—

एह्येहि पुण्डरीकाक्ष बासुदेव नमोऽस्तु ते।
मामद्य सात्वतश्रेष्ठ पातयस्व महाहवे॥७०॥

त्वया हि देव सङ्ग्रामे हतस्यापि ममानघ।
श्रेय एव परं कृष्ण लोकेऽमुष्मिन्निहैव च॥७१॥

संभावितोऽस्मि गोविन्द त्रैलोक्येनाद्य संयुगे॥७२॥

सञ्जयः—

अन्वगेव ततः पार्थस् तमनुद्रुत्य केशवम्।
निजग्राह महाबाहुर् बाहुभ्यां परिगृह्य वै॥७३॥

निगृह्यमाणः पार्थेन कृष्णो राजीवलोचनः।

जगाम चैनमादाय वेगेन पुरुषोत्तमः॥७४॥

पार्थस्तु विष्टभ्य बलाच् चरणौ परवीरहा।
¹स248 जग्राह हृषीकेशं कथञ्चिद्दशमे पदे॥७५॥

ततश्चैनमुवाचेदं क्रोधपर्याकुलेक्षणम्।
निश्श्वसन्तं यथा नागम् अर्जुनः प्रणयात् सखा॥७६॥

अर्जुनः—

निवर्तस्व महाबाहो नानृतं कर्तुमर्हसि।
यत् त्वया कथितं पूर्वं न योत्स्यामीति केशव॥७७॥

मिथ्यावादीति लोके त्वां कथयिष्यन्ति माधव।
²ममैष483 भारस्सर्वो हि हनिष्यामि यतव्रतम्॥७८॥

शपे माधव सख्येन सत्येन सुकृतेन च।
³अन्तमद्य484 करिष्यामि शत्रूणां शत्रुकर्शन॥७९॥

⁴अद्यैव485 पश्य दुर्धर्षं पात्यमानं महाव्रतम्।
तारापतिमिवापूर्णम् अन्तकाले यदृच्छया॥८०॥

सञ्जयः—

माधवस्तद्वचश्श्रुत्वा फल्गुनस्य महात्मनः।

अभवत् परमप्रीतो ज्ञात्वा पार्थस्य विक्रमम्॥८१॥

न किश्चिदुक्त्वा सक्रोध आरुरोह रथं पुनः॥८१॥

तौरथस्थौ नरव्याघ्रौ भीष्मश्शान्तनवः पुनः।
ववर्ष शरवर्षाणि मेघो वृष्ट्या यथाऽचलौ॥८२॥

प्राणानादत्त योधानां पिता देवव्रतस्तव।
गभस्तिभिरिवादित्यः पयांसि शिशिरात्यये॥८३॥

यथा कुरूणां सैन्यानि बभञ्ज युधि पाण्डवः।
तथा पाण्डवसैन्यानि बभञ्ज युधि ते पिता॥८४॥

हतविद्रुतसैन्यास्तु निरुत्साहा हतौजसः।
निरीक्षितुं न शेकुस्तं भीष्ममप्रतिमं रणे॥८५॥

मध्यं गतमिवादित्यं प्रतपन्तं स्वतेजसा।
ते वध्यमाना भीष्मेण कालेनेव युगक्षये॥८६॥

वीक्षाञ्चकुर्महाराज पाण्डवा भयपीडिताः।
¹वध्यमाना141 रणे चापि भीष्मेणामित्रकर्शिना॥८७॥

त्रातारं नाधिगच्छन्ति गजाः पङ्कगता इव॥८८॥

पिपीलिका यथा पद्भ्यां मथ्यन्ते बलवत्तरैः।
तथैव योधा राजेन्द्र भीष्मेणामित्रघातिना॥८९॥

समरे मृदितास्सर्वे पाण्डवास्सह सृञ्जयैः॥८९॥

महारथं भारत दुष्प्रधर्षणं
शरौघिणं प्रतपन्तं नरेन्द्राः।
भीष्मं न शेकुः प्रतिवीक्षितुं ते
शरार्चिषं सूर्यमिवातपन्तम्॥९०॥

विमृद्गतस्तस्य हि पाण्डुसेनाम्
अस्तं जगामाथ सहस्ररश्मिः।
ततोऽपि भीष्मस्सबलस्ससैन्यान्
न्यवारयत् पाण्डुसुताञ् शरौघैः॥९१॥

जघान चैतान् सुभृशं महाबलो
महाव्रतः पाण्डुसुतान् महास्त्रैः।
रणे करूशाधिपचेदिपैर्बलैर्
वृतान् सदा चक्रधरस्य पश्यतः॥९२॥

ततो बलानां श्रमकर्शितानां
¹मेदोवसासृकुस्रुतिसम्भ्रमे486 सति।
भीष्मं यथा चान्तककल्पमेवम्
आयोधने चान्तकमेव मेनिरे॥९३॥

एवं प्रववृते युद्धं भीष्मपाण्डवयोस्तदा।
युध्यतां च परेषां च तावकानां च भारत॥९४॥

सुचिरं बहुधा राजन् भास्करोऽस्तमुपागमत्॥९५॥

सञ्जयः—

¹युध्यतामेव229 तेषां तु भास्करेऽस्तमुपागते।
सन्ध्या समभवद्घोरा नापश्याम ततो रणम्॥९६॥

ततो युधिष्ठिरो राजा सन्ध्यां सन्दृश्य भारत।
बध्यमानं बलं चापि भीष्मेणामित्रघातिना॥९७॥

²निरुत्साहं236 बलं दृष्ट्वा पीडितं शरविक्षतम्।
मुक्तशस्त्रं परावृत्तं पलायनपरायणम्॥९८॥

भीष्मं च युधि संरब्धम् अनुयान्तं महारथम्।
सोमकांश्च जितान् दृष्ट्वा निरुत्साहान् महारथान्॥९९॥

निशामुखं च सम्प्रेक्ष्य घोररूपं भयानकम्।
³चिन्तयित्वा487 महाराजस् ततः परमचिन्तयत्॥१००॥

⁴कथं448 जयेम भीष्मं वै महाबलपराक्रमम्।
बुद्धिं स्वशिबिरं गन्तुं चक्रे राजा युधिष्ठिरः॥१०१॥

⁵ततोऽपहारं488 सैन्यानां चक्रे राजा युधिष्ठिरः।

तथैव तव सैन्यानाम् अपहारो ह्यभूत् तदा॥१०२॥

तथाऽपहारं सैन्यानां कृत्वा तत्रमहारथाः।
न्यविशन्त कुरुश्रेष्ठ सङ्ग्रामे शरविक्षताः॥१०३॥

भीष्मस्य समरे कर्म चिन्तयानास्तु पाण्डवाः।
नालभन्त तदा शान्तिं भृशं भीष्मेण ताडिताः॥१०४॥

भीष्मोऽपि समरे जित्वा पाण्डवान् सृञ्जयैस्सह।
पूज्यमानस्तव सुतैर् वन्द्यमानश्च भारत॥१०५॥

न्यविशत् कुरुशार्दूलैर् हृष्टरूपैस्समन्ततः॥१०५॥

ततो रात्रिस्समभवत् सर्वभूतप्रमोहिनी॥१०६॥

तस्मिन् रात्रिमुखे घोरे पाण्डवा वृष्णिभिस्सह।
सृञ्जयाश्च दुराधर्षा मन्त्राय समुपाविशन्॥१०७॥

आत्मनश्श्रेयसे मन्त्रं प्राप्तकालं महाबलाः।
मन्त्रयामासुरव्यग्रामन्त्रनिश्चयकोविदाः॥१०८॥

¹हनिष्याम141 यथा भीष्मं जयेम पृथिवीमिमाम्॥१०८॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि द्व्युत्तरशततमोऽध्यायः॥ १०२॥
॥६४॥ भीष्मवधपर्वणि द्विषष्टितमोऽध्यायः॥ ६२॥
[अस्मिन्नध्याये १०८॥ श्लोकाः]
[ नवमापहारस्समाप्तः ]
<MISSING_FIG href="../books_images/U-IMG-1706020631मम.png"/>

॥व्यधिकशततमोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1706021085bbbb.png"/>

सञ्जयः—

ततो युधिष्ठिरो राजा चिन्तयित्वा चिरं नृप।
वासुदेवं समुद्वीक्ष्य वाक्यमेतदुवाच ह॥१॥

युधिष्ठिरः—

पश्य कृष्ण महात्मानं भीष्मं भीमपराक्रमम्।
गजं नलवनानीव विमृद्गन्तं बलं मम॥२॥

न चैवैनं महात्मानम् उत्सहामो निरीक्षितुम्।
¹मम342 माधव सैन्येषु वध्यमानेषु तेन वै॥३॥

²कथं489 योत्स्याम दुर्धर्षं श्रेयो मेऽत्र विधीयताम्।
त्वमेव गतिरस्माकं नान्यां गतिमुपास्महे॥४॥

न युद्धं रोचते मह्यं भीष्मेण सह माधव।
हन्ति भीष्मो महावीरो मम सैन्यं च संयुगे॥५॥

यथा घोरो महानागस् तक्षको वै विषोल्बणः।
तथा भीष्मो रणे कृष्ण तीक्ष्णशस्त्र प्रतापनः॥६॥

गृहीतचापस्समरे प्रविमुञ्चञ् शिताञ् छरान्।
शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश्च देवराट्॥७॥

वरुणः पाशभृच्चापि सगदो वा धनेश्वरः।
न तु भीष्मस्सुसङ्क्रुद्धश् शक्यो जेतुं महामृधे॥८॥

¹एवं141 भीष्मं न शक्तास्स्म वयं जेतुं महाहवे॥८॥

सोऽहमेवं गते कृष्ण निमग्नश्शोकसागरे।
आत्मनो बुद्धिदौर्बल्याद् भीष्ममासाद्य संयुगे॥९॥

वनं यास्यामि दुर्धर्ष श्रेयो वै तत्रमे गतिः।
न युद्धं रोचते कृष्ण हन्ति भीष्मो हि नस्सदा॥१०॥

यथा प्रज्वलितं वह्निं पतङ्गस्समभिद्रवन्।
एकतो मृत्युमभ्येति तथाऽहं भीष्ममेयिवान्॥११॥

क्षयं नीतोऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी।
भ्रातरश्चैव मे शूरास् सायकैर्भृशपीडिताः॥१२॥

मत्कृते भ्रातृसौहार्दाद्राज्यभ्रष्टा वनं गताः।
परिक्लिष्टा तथा कृष्णा मत्कृते मधुसूदन॥१३॥

जीवितं बहु मन्येऽहं जीवितं ह्यद्य दुर्लभम्।
जीवितस्यावशेषेण चरिष्ये धर्ममुत्तमम्॥१४॥

यदि तेऽहमनुग्राह्यो भ्रातृभिस्सह केशव।
²स्वधर्मस्याविरोधेन229 तदुदाहर केशव॥१५॥

सञ्जयः—

एतच्छ्रुत्वा वचस्तस्य कारुण्याद्वहुविस्तरम्।
प्रत्युवाच ततः कृष्णस् सान्त्वयानो युधिष्ठिरम्॥ १६॥

श्रीभगवान्—

धर्मपुत्र विषादं त्वं मा कृथास्सत्यसङ्गर।
यस्य ते भ्रातरश्शूरा दुर्जयाश्शत्रुसूदनाः॥१७॥

अर्जुनो भीमसेनश्च वाय्वग्निसमतेजसौ।
माद्रीपुत्रौ च विक्रान्तौ त्रिदशानामिवाश्विनौ॥१८॥

मां वा नियुङ्क्ष्व सौहार्दाद् योत्स्ये भीष्मेण पाण्डव।
त्वत्प्रयुक्तो ह्यहं राजन् किं न कुर्यां महाहवे॥१९॥

¹हनिष्यामि343 रणे भीष्मम् आहूय पुरुषर्षभ।
पश्यतां धार्तराष्ट्राणां यदि नेच्छति फल्गुनः॥२०॥

यदि भीष्मे हते वीरे जयं पश्यसि पाण्डव।
हन्तास्म्येकरथेनाद्य कुरुवृद्धं पितामहम्॥२१॥

पश्य मे विक्रमं राजन् महेन्द्रस्येव संयुगे।
विमुञ्चन्तं महास्त्राणि पातयिष्यामि तं रथात्॥२२॥

यश्शत्रुः पाण्डुपुत्राणां मच्छत्रुस्स न संशयः।
मदर्था भवदर्थास्ते ये मदीयास्तवैव ते॥२३॥

¹तव179 भ्राता मम सखा सम्बन्धी शिष्य एव च।
मांसान्युत्कृत्य दास्येऽहम् अर्जुनार्थे महीपते॥२४॥

एष चापि नरव्याघ्रो मत्कृते जीवितं त्यजेत्।
एष नस्समयस्तात रमयेम परस्परम्॥२५॥

स मां नियुङ्क्ष्व राजेन्द्र यावत् सज्जो भवाम्यहम्॥२६॥

प्रतिज्ञातमुपप्लाव्ये यत् तत् पार्थेन धीमता।
पातयिष्यामि गाङ्गेयम् इत्युलूकस्य सन्निधौ॥२७॥

परिरक्ष्यं मम कृतं वचः पार्थस्य धीमतः।
अनुज्ञाते तु पार्थेन मया कार्यं न संशयः॥२८॥

अथवा फल्गुनस्यैष भारः परिमितो रणे॥२८॥

निहनिष्यति सङ्ग्रामे भीष्मं परपुरञ्जयम्।
अशक्यमपि कुर्याद्धि रणे पार्थस्समुद्यतः॥२९॥

त्रिदशान् वा समुद्युक्तान् सहितान् दैत्यदानवैः।
निहन्यादर्जुनस्सङ्ख्येये किमु भीष्मं नराधिप॥३०॥

विपरीतो महावीर्यो गतसत्त्वोऽल्पचेतनः।
भीष्मश्शान्तनवो नूनं कर्तव्यं नावबुध्यते॥३१॥

युधिष्ठिरः—

एवमेतन्महाबाहो यथा वदसि माधव।

सर्वे ह्येते न पर्याप्तास् तव वेगनिवारणे॥३२॥

नियतं समवाप्स्यामि सर्वमेव यथेप्सितम्।
यस्य मे पुरुषव्याघ्र भवान् नाथो महाबलः॥३३॥

सेन्द्रानपि रणे देवाञ्जयेयं जयतां वर।
त्वया नाथेन गोविन्द किमु भीष्मं महाहवे॥३४॥

न तु त्वामनृतं कर्तुम् उत्सहे स्वार्थगौरवात्।
अयुध्यमानस्साहाय्यं यथोक्तं कुरु माधव॥३५॥

समयस्तु कृतः कश्चिन्मम भीष्मेण माधव।
मन्त्रयिष्ये तवार्थाय न तु योत्स्ये कदाचन॥३६॥

दुर्योधनार्थे योत्स्यामि सत्यमेतदिति प्रभो।
स हि राज्यस्य मे दाता मन्त्रस्यैव च माधव॥३७॥

तस्माद्देवव्रतं भूयो वधोपायार्थमात्मनः।
भवता सहितास्सर्वे पृच्छामो मधुसूदन॥३८॥

तद्वयं सहिता गत्वा भीष्ममाशु नरोत्तमम्।
रुचिते तव पृच्छामि मन्त्रं वार्ष्णेय मा चिरम्॥३९॥

स वक्ष्यति हितं वाक्यं तथ्यमस्माञ्जनार्दन।
¹यथा490 च वक्ष्यते कृष्ण तथा कर्तास्मि संयुगे॥४०॥

स मे जयस्य दाता च मन्त्रस्य च यतव्रतः॥४१॥

बालाःपित्रा विहीनाश्च तेन संवर्धिता वयम्।
तं चेत् पितामहं वृद्धं हन्तुमिच्छामि माधव॥४२॥

पितुः पितरमिष्टं वै घिगस्तु क्षत्रजीवितम्॥४२॥

सञ्जयः—

ततोऽब्रवीन्महाराज वार्ष्णेयः कुरुनन्दनम्॥४३॥

श्रीभगवान्—

रोचते मे महाबाहो सततं तव भाषितम्।
देवव्रतः कृती भीष्मः प्रेक्षितेनापि निर्दहेत्॥४४॥

गम्यतां स्ववधोपायं प्रष्टुं सागरगासुतम्।
वक्तुमर्हति सत्यं स त्वया पृष्टो विशेषतः॥४५॥

ते वयं तत्र गच्छामः प्रष्टुं कुरुपितामहम्॥४५॥

प्रणम्य शिरसा चैनं मन्त्रं पृच्छाम भारत।
स नो दास्यति सन्मन्त्रं तेन योत्स्यामहे परान्॥४६॥

सञ्जयः—

एवं सम्मन्त्र्य ते वीराः पाण्डवाः पाण्डुपूर्वज।
जग्मुस्ते सहितास्सर्वे वासुदेवश्च वीर्यवान्॥४७॥

विमुक्तकवचास्सर्वे भीष्मस्य सदनं प्रति॥४८॥

प्रविश्य च ततो भीष्मं शिरोभिः प्रणिपेदिरे।
पूजयन्तो महाराज पाण्डवा भरतर्षभम्॥४९॥

प्रणम्य शिरसा चैनं भीष्मं शरणमन्वयुः।
तानुवाच महाबाहुर् भीष्मः कुरुपितामहः॥५०॥

भीष्मः—

स्वागतं तव वार्ष्णेय स्वागतं ते धनञ्जय।
स्वागतं धर्मपुत्राय भीमाय यमयोस्तथा॥५१॥

किं वः कार्य करोम्यद्य युष्मत्प्रीतिविवर्धनम्॥५१॥

¹युद्धादन्यत्र491 हे वत्साः ब्रियन्तां मा विशङ्कथ।
सर्वात्मनाऽपि कर्तास्मि यद्यपि स्यात् सुदुष्करम्॥५२॥

सञ्जयः—

तथा ब्रुवाणं गाङ्गेयं प्रीतियुक्तं पुनः पुनः।
उवाच वाक्यं दीनात्मा धर्मपुत्रो युधिष्ठिरः॥५३॥

युधिष्ठिरः—

कथं जयेम धर्मज्ञ कथं राज्यं लभेमहि।
प्रजानां च क्षयो न स्यात् कथं तन्मे वद प्रभो॥५४॥

भवान् हि नो वधोपायं ब्रवीतु स्वयमात्मनः॥५५॥

भवन्तं समरे तात विषहेम कथं वयम्।
न हि ते सूक्ष्ममप्यस्ति रन्ध्रं कुरुपितामह॥५६॥

मण्डलेनैव धनुषा दृश्यसे संयुगे सदा॥५६॥

आददानं सन्दधानं विकर्षन्तं धनुर्न च।
पश्यामस्त्वां महाबाहो रथे सूर्यमिव स्थितम्॥५७॥

रथाश्वनरनागानां हन्तारं परवीरहन्।
कथमुत्सहते हन्तुं त्वां पुमान् भरतर्षभ॥५८॥

वर्षता शरवर्षाणि महान्ति पुरुषर्षभ।
क्षयं नीता हि पृतना भवता महती मम॥५९॥

यथा युधि जयेयं त्वां यथा राज्यं भवेन्मम।
भवेत् सैन्यस्य नो हानिस् तन्मे ब्रूहि पितामह॥६०॥

सञ्जयः—

ततोऽब्रवीच्छान्तनवः पाण्डवान् पाण्डुपूर्वज॥६१॥

भीष्मः—

न कथञ्चन कौन्तेय मयि जीवति संयुगे।
युष्मासु दृश्यते वृद्धिस् सत्यमेतद्ब्रवीमि ते॥६२॥

निर्जिते मयि युद्धे तु ध्रुवं जेष्यसि कौरवान्।
क्षिप्रं मयि प्रहरत यदीच्छथ रणे जयम्॥६३॥

अनुजानामि वः पार्थाःप्रहरध्वं यथासुखम्।
एवं हि सुकृतं मन्ये भवतां विदितोऽस्म्यहम्॥६४॥

हते मयि हतं सर्व तस्मादेवं विधीयताम्॥६४॥

युधिष्ठिरः—

ब्रूहि तत् त्वमुपायं नो यथा युद्धे जयेमहि।
¹भवन्तं492 समरे क्रुद्धं दण्डपाणिमिवान्तकम्॥६५॥

शक्यो वज्रधरो जेतुं वरुणोऽथ यमस्तथा।
न भवान् समरे शक्यस् सेन्द्रैरपि सुरासुरैः॥६६॥

भीष्मः—

²सत्यमेतन्महाबाहो359 यथा वदसि पाण्डव।
नाहं शक्यो रणे जेतुं सेन्द्रैरपि सुरासुरैः॥६७॥

³आत्तशस्त्रो229 रणे यत्तो गृहीतवरकार्मुकः॥६८॥

न्यस्तशस्त्रंहि मां राजन् हन्युर्युधि महारथाः॥६८॥

निक्षिप्तशस्त्रेपतिते विमुक्तकवचध्वजे।
द्रवमाणे च भीते च तवास्मीति च वादिनि॥६९॥

⁴स्त्रियां493 स्त्रीनामधेये च विकले चैकपुत्रके।
अप्रसूते च षण्डे च न युद्धं रोचते मम॥७०॥

इमं च शृणु मे पार्थ सङ्कल्पं पूर्वचिन्तितम्।
असङ्कल्पध्वजं दृष्ट्वा न युध्येयं कथञ्चन॥७१॥

य एष द्रौपदो राजंस् तव सैन्ये महारथः।
शिखण्डी समरामर्षी शूरश्च समितिञ्जयः॥७२॥

यथाऽभवच्च स्त्री पूर्वं पश्चात् पुंस्त्वमुपागतः।
जानन्ति च भवन्तोऽपि सर्वमेतद्यथातथम्॥७३॥

अर्जुनस्समरे शूरः पुरस्कृत्य शिखिण्डिनम्।
मामेव विशिखैस्तूर्णम् अभिद्रवतु दंशितः॥७४॥

¹असङ्कल्पध्वजे160 तस्मिन् स्त्रीपूर्वे च विशेषतः।
न प्रहर्तुमभीप्सामि गृहीतेषुः कथञ्चन॥७५॥

तदन्तरं समासाद्य पाण्डवो मां धनञ्जयः।
शरैर्घातयतु क्षिप्रं समन्ताद्भरतर्षभ॥७६॥

न तं पश्यामि लोकेषु यो मां हन्यात् समुद्यतम्।
ऋते कृष्णान्महाभागात् पाण्डवाद्वा धनञ्जयात्॥७७॥

पार्षतं तु पुरोधाय क्लीबमद्य ममाग्रतः।
मां पातयतु बीभत्सुर् एवं ते विजयो भवेत्॥७८॥

एतत् कुरुष्व कौन्तेय यथोक्तं वचनं मम।
ततो जेष्यसि सङ्ग्रामे धार्तराष्ट्रान् समागतान॥७९॥

सञ्जयः—

तेऽनुज्ञातास्ततः पार्था जग्मुस्वशिबिरं प्रति।

अभिवाद्य महात्मानं भीष्मं कुरुपितामहम्॥८०॥

तथोक्तवति गाङ्गेये परलोकाय दीक्षिते।
अर्जुनो दुःखसन्तप्तस् सव्रीलमिदमब्रवीत्॥८१॥

अर्जुनः—

गुरुणा कुलवृद्धेन कृतप्रज्ञेन धीमता।
पितामहेन सङ्ग्रामे कथं योत्स्यामिमाधव॥८२॥

क्रीडता हि मया बाल्ये वासुदेव महाद्युतिः।
पांसुरूषितगात्रेण महात्मा परुषीकृतः॥८३॥

तस्याहमधिरुह्याङ्कं बालः किल गदाग्रज।
तातेत्यवोचं पितरं पितुः पाण्डोर्महात्मनः॥८४॥

नाहं तातस्तव पितुस् तातोऽस्मि तव भारत।
इति मामब्रवीद् बाल्ये यस्स वध्यः कथं मया॥८५॥

सैन्यं मे हन्यतां कामं नाहं योत्स्ये महात्मना।
जयोऽस्तु वा वधो वा मे कथं वा कृष्ण मन्यसे॥ ८६॥

कथमस्मद्विधः कृष्ण जानन् धर्म सनातनम्।
न्यस्तशस्त्रे च वृद्धे च प्रहरेद्धि पितामहे॥८७॥

श्रीभगवान्—

प्रतिज्ञाय वधं जिष्णो पुरा भीष्मस्य संयुगे।
क्षत्रधर्मे स्थितः पार्थ कथं नैनं हनिष्यसि॥८८॥

पातयैनं रथात् पार्थ वज्रपाणिरिवाचलम्।
नाहत्वा युधि गाङ्गेयं विजयस्ते भविष्यति॥८९॥

दृष्टमेतत् पुरा देवैर् भविष्यत्यवशस्य ते।
हन्ता भीष्मस्य पार्थोऽपि इति यन्न तदन्यथा॥९०॥

¹न494 हि भीष्मं दुराधर्षं व्यात्ताननमिवान्तकम्।
त्वदन्यश्शक्नुयाद्धन्तुम् अपि वज्रधरस्स्वयम्॥९१॥

²जहि495 भीष्मं स्थिरो भूत्वा शृणु चेदं वचो मम।
यथोवाच पुरा शक्रं महाबुद्धिबृहस्पतिः॥९२॥

ज्यायांसमपि चेद्वृद्धं गुणैरपि समन्वितम्।
आततायिनमायान्तं हन्याद्धातकमागतम्॥९३॥

शाश्वतोऽयं स्थितो धर्मः क्षत्रियाणां धनञ्जय।
योद्धव्यं रक्षितव्यं च यष्टव्यं चानसूयुभिः॥९४॥

अर्जुनः—

शिखण्डी निधनं कृष्ण भीष्मस्य भविता ध्रुवम्।
दृष्ट्वैव हि सदा भीष्मः पाञ्चाल्यं विनिवर्तते॥९५॥

ते वयं प्रमुखे तस्य स्थापयित्वा शिखण्डिनम्।
गाङ्गेयं पातयिष्याम उपायेनेति मे मतिः॥९६॥

अहमन्यान् महेष्वासान् वारयिष्यामि सायकैः।
शिखण्ड्यपि युधां श्रेष्ठो भीष्ममेवाभियास्यति॥९७॥

श्रुतं हि कुरुमुख्यस्य नाहं हन्यां शिखण्डिनम्।
कन्या ह्येषा पुरा जाता पुरुषस्समपद्यत॥९८॥

सञ्जयः—

अर्जुनस्य वचश्श्रुत्वा भीष्मस्य वधसंयुतम्।
जहृषुर्हृष्टरोमाणस् सकृष्णाः पाण्डवास्तदा॥९९॥

इत्येवं निश्चयं कृत्वा पाण्डवास्महमाधवाः।
अनुमान्य महात्मानं प्रययुर्हृष्टमानसाः॥१००॥

शयनानि यथाऽर्हाणि भेजिरे पुरुषर्षभाः॥१०१॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायांवैयासिक्यां
भीष्मपर्वणि त्र्यधिकशततमोऽध्यायः॥ १०३॥ *496
॥ ६४॥ भीष्मवधपर्वणि त्रिषष्टितमोऽध्यायः॥ ६३॥
[ अस्मिन्नध्याये १०१ लोकाः]
<MISSING_FIG href="../books_images/U-IMG-1706027097मम.png"/>

॥चतुरधिकशततमोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1706027391नन.png"/>

भीष्मयुद्धम्॥ १॥ शिखण्डिनो भीष्मेण सह संवादो युद्धसन्नाहश्च॥

<MISSING_FIG href="../books_images/U-IMG-1706027369मम.png"/>

धृतराष्ट्रः—

कथं शिखण्डी गाङ्गेयम् अभ्यवर्तत संयुगे।
पाण्डवाश्च यथा भीष्मं तन्ममाचक्ष्व सञ्जय॥१॥

सञ्जयः—

ततः प्रभाते विमले सूर्यस्योदयनं प्रति।
वाद्यमानासु भेरीषु मृदङ्गेष्वाहतेषु च॥२॥

ध्मायमानेषु शङ्खेषु पाण्डरेषु समन्ततः।
शिखण्डिनं पुरस्कृत्य निर्ययुः पाण्डवा युधि॥३॥

राजन् कृत्वा महाव्यूहं सर्वशत्रुनिबर्हणम्।
शिखण्डी सर्वसैन्यानाम् अग्र आसीद्विशां पते॥४॥

चक्ररक्षौ ततस्तस्य भीमसेनधनञ्जयौ।
पृष्ठतो द्रौपद्रेयाश्च सौभद्रश्चैव वीर्यवान्॥५॥

सात्यकिश्चेकितानश्च तेषां गोप्ता महारथः।
धृष्टद्युम्नस्ततः पश्चात् पाञ्चालैरभिरक्षितः॥६॥

ततो युधिष्ठिरो राजा यमाभ्यां सहितः प्रभो।
प्रययौ सिंहनादेन नादयन् भरतर्षभ॥७॥

विराटस्तु ततः पश्चात् स्वेन सैन्येन संवृतः।
द्रुपदश्च महाराज ततः पश्चादुपाद्रवत्॥८॥

केकया भ्रातरः पञ्च धृष्टकेतुश्च वीर्यवान्।
जघनं पालयामासुः पाण्डवेयश्च राक्षसः॥९॥

एवं व्यूह्य महत् सैन्यं पाण्डवास्तव वाहिनीम्।
अभ्यद्रवन्त सङ्ग्रामे त्यक्त्वा जीवितमात्मनः॥१०॥

तथैव कुरवो राजन् भीष्मं कृत्वा महाबलम्।
¹अग्रतस्सर्वसैन्यानां497 प्रययुः पाण्डवान् प्रति॥११॥

पुत्रैस्तव दुराधर्षे रक्षितस्सुमहाबलः।
²प्रययौ416 पाण्डवानीकं भीष्मश्शन्तनुनन्दनः॥१२॥

ततो द्रोणो महेष्वासः पुत्रश्चास्य महाबलः।
भगदत्तस्ततः पश्चाद् गजानीकेन संवृतः॥१३॥

कृपश्च कृतवर्मा च भगदत्तमनुव्रतौ॥१३॥

काम्भोजराजो बलवांस् ततः पश्चात् सुदक्षिणः।
मागधश्चजयत्सेनस् सौबलश्च बृहद्बलः॥१४॥

तथेतरे महेष्वासास्सुशर्मप्रमुखा नृपाः।
जघनं पालयामासुस् तव सैन्यस्य भारत॥१५॥

दिवसे दशमे प्राप्ते भीष्मश्शान्तनवो युधि।

¹आसुरानकरोद्व्यूहान498 पैशाचानथराक्षसान्॥१६॥

ततः प्रववृते युद्धं तव तेषां च भारत।
अन्योन्यं निघ्नतां राजन् यमराष्ट्रविवर्धनम्॥१७॥

अर्जुनप्रमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम्।
भीष्मं युद्धेऽभ्यवर्तन्त किरन्तो विविधाञ्शरान्॥१८॥

तत्र भारत भीमेन ताडितास्तावकाश्शरैः॥
रुधिरौघपरिक्लिन्नाः परलोकं ययुस्तदा॥१९॥

नकुलस्सहदेवश्च सात्यकिश्च महारथः।
²तव499 सैन्यं समासाद्य पीडयामासुरोजसा॥२०॥

ते वध्यमानास्समरे तावका भरतर्षभ।
नाशक्नुवन् धारयितुं पाण्डवानां महद्बलम्॥२१॥

ततस्तु तावकं सैन्यं हन्यमानं समन्ततः।
सम्प्राद्रवद्दिशो राजन् काल्यमानं महारथैः॥२२॥

त्रातारं नाध्यगच्छन्त तावकास्तु विशां पते।
वध्यमानाश्शितैर्बाणैः पाण्डवैस्सहसृञ्जयैः॥२३॥

धृतराष्ट्रः—

पीड्यमानं बलं पार्थैर् दृष्ट्वा भीष्मः पराक्रमी।

यदकार्षीद्रणे क्रुद्धस् तन्ममाचक्ष्व सञ्जय॥२४॥

तं कथं पाण्डवा युद्धे प्रत्युद्याताः परन्तपाः।
निघ्नन्तो मामकान् वीरांस्तन्ममाचक्ष्व सञ्जय॥ २५॥

सञ्जयः—

आचक्षे ते महाराज यदकार्षीत् पिता तव।
पीडिते तव पुत्रस्य सैन्ये पाण्डवसृञ्जयैः॥२६॥

प्रहृष्टमनसश्शूराः पाण्डवाः पाण्डुपूर्वज।
अभ्यवर्तन्त युध्यन्तस् तव पुत्रस्य वाहिनीम्॥२७॥

तं विनाशं मनुष्येन्द्र नरवारणवाजिनाम्।
नामृष्यत तदा भीष्मस् सैन्यघातं तदा परैः॥२८॥

स पाण्डवान् महेष्वासः पञ्चालान् सहसृञ्जयान्।
अभ्यद्रवद्दुराधर्षस् त्यक्त्वा जीवितमात्मनः॥२९॥

स पाण्डवानां प्रवरान् पञ्चराजन् महारथान्।
आत्तशस्त्रान् रणे यत्तान् वारयामास सायकैः॥३०॥

नाराचैर्वत्सदन्तैश्च शितैरञ्जलिकैस्तथा।
निजघ्ने समरे क्रुद्धो हस्त्यश्वममितं बहु॥३१॥

रथिनः पातयन् राजन् रथेभ्यः पुरुषर्षभ।
सादिनश्चाश्वपृष्ठेभ्यः पादातांश्च धरातलात्॥३२॥

गजारोहान् गजेभ्यश्च परेषां विदधद्भयम्॥३३॥

तमेकं समरे भीष्मं चरमाणं महारथम्।
पाण्डवास्समवर्तन्त वज्रहस्तमिवासुराः॥३४॥

शक्राशनिसमस्पर्शान् विमुञ्चन् निशिताञ् छरान्।
दिक्ष्वदृश्यत सर्वासु घोरं सन्धारयन् वपुः॥३५॥

मण्डलीकृतमेवास्य नित्यं धनुरदृश्यत।
सङ्ग्रामे युध्यमानस्य शक्रचापोपमं महत्॥३६॥

दृष्ट्वा तत् समरे कर्म पुत्रास्तव विशां पते।
विस्मयं परमं प्राप्ताः पितामहमपूजयन्॥३७॥

पार्था विमनसो भूत्वा प्रैक्षन्त पितरं तव।
युध्यमानं रणे शूरं विप्रचित्तिमिवामराः॥३८॥

न चैनं वारयामासुर् व्यात्ताननमिवान्तकम्॥३८॥

दशमेऽहनि निष्पन्नं स्थानीकं शिखण्डिनः।
अदहन्निशितैर्बाणैः कृष्णवर्त्मेव काननम्॥३९॥

¹तं500 शिखण्डी त्रिभिर्बाणैः प्रत्यविध्यत् स्तनान्तरे।
आशीविषमिव क्रुद्धं कालसृष्टमिवान्तकम् ॥४०॥

स तेनातिभृशं विद्धः प्रेक्ष्य भीष्मशिशखण्डिनम्।
पुनर्नालोकयत् क्रुद्धः प्रहसन्निदमब्रवीत् ॥४१॥

भीष्मः—

कामं प्रहर वा मा वा न त्वां योत्स्ये कथञ्चन।
यैव त्वं विहिता धात्रासैव त्वं हि शिखण्डिनी॥ ४२॥

सञ्जयः—

तस्य तद्वचनं श्रुत्वा शिखण्डी क्रोधमूर्च्छितः।
उवाच भीष्मं समरे सृक्विणी परिसंलिहन्॥४३॥

शिखण्डी—

जानामि त्वां महाबाहो क्षत्रियाणां भयङ्करम्।
मया श्रुतं च ते युद्धं जामदग्न्येन वै सह॥४४॥

दिव्यश्च ते प्रभावोऽयं स मया बहुशश्श्रुतः।
जानन्नपि प्रभावं ते त्वया योत्स्याम्यहं सह॥४५॥

पाण्डवानां प्रियं कुर्वन्नात्मनश्च महाप्रियम्।
अद्य त्वां योधयिष्यामि रणे भारतसत्तम॥४६॥

कृपां त्यक्त्वा हनिष्यामि शपे सत्येन तेऽग्रतः।
एतज्ज्ञात्वा वचो मह्यं यत् क्षमं तत् समाचर॥४७॥

कामं युध्यस्व वा मा वा न मे जीवन् विमोक्ष्यसे।
सुदृष्टः क्रियतामद्य लोकोऽयं कुरुनन्दन॥४८॥

सञ्जयः—

एवमुक्त्वा ततो भीष्मं पञ्चभिर्नतपर्वभिः।
अविध्यत रणे राजन् प्रतुदन् वाक्छरैर्भृशम्॥४९॥

तस्य तद्वचनं श्रुत्वा सव्यसाची धनञ्जयः।
कालोऽयमिति निश्चित्य शिखण्डिनमचोदयत्॥५०॥

अर्जुनः—

अहं त्वामनुयास्यामि परान् वित्रासयन् रणे।
अभिद्रव सुसंरब्धो भीष्मं भीमपराक्रमम्॥५१॥

न हि ते संयुगे पीडां कर्तुं शक्तो महाबलः।
तस्मादद्य महाबाहो वीरं भीष्ममभिद्रव॥५२॥

अहत्वा समरे भीष्मं यदि यास्यसि भारतम्।
अपहास्योऽस्य लोकस्य भविष्यसि मया सह ॥५३॥

नापहास्या यथा वीर भवेम परमाहवे।
तथा कुरु रणे यत्नं सादयस्व पितामहम्॥५४॥

कुरूंश्चसर्वान् सहितान् यतमानान् महाबलान्।
अहमावारयिष्यामि सादयस्व पितामहम्॥५५॥

अहं ते रक्षणं युद्धे करिष्यामि परन्तप।
वारयन् रथिनस्सर्वान् सादयं त्वं पितामहम्॥५६॥

द्रोणं च द्रोणपुत्रं च कृपं च ससुयोधनम्।
चित्रसेनं विकर्णं च सैन्धवं च जयद्रथम्॥५७॥

विन्दानुविन्दावावन्त्यौकाम्भोजं च सुदक्षिणम्।
भगदत्तं महाशूरं मागधं च बृहद्बलम्॥५८॥

सौमदत्तिं रणे शूरम् आर्यशृङ्गिंच राक्षसम्।
त्रिगर्तराजं च रणे सह सर्वैर्महारथैः॥५९॥

अहमावारयिष्यामि सादयस्व पितामहम्॥६०॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि चतुरधिकशततमोऽध्यायः॥१०४॥
॥६४॥भीष्मवधपर्वणि चतुष्षष्टितमोऽध्यायः॥६४॥
[ अस्मिन्नभ्याये ६० श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1706022916मम.png"/>
॥पञ्चाधिकशततमोऽध्यायः॥
<MISSING_FIG href="../books_images/U-IMG-1706022962bbbb.png"/>

भीष्मदुर्योधनसंवादः॥१॥भीष्मपराक्रमवर्णनम्॥२॥

<MISSING_FIG href="../books_images/U-IMG-1706022975मम.png"/>

धृतराष्ट्रः—

कथं शिखण्डी गाङ्गेयम् अभ्यधावत् पितामहम्।
पाञ्चाल्यस्समरे क्रुद्धो धर्मात्मानं यतव्रतम्॥१॥

केऽरक्षन् पाण्डवा युद्धे शिखण्डिनमुदायुधम्।
त्वरमाणास्त्वराकाले जिगीषन्तो महारथाः॥२॥

कथं शान्तनवो भीष्मस् स तस्मिन् दशमेऽहनि।
अयुध्यत महावीर्यैः पाण्डवैस्सह सृञ्जयैः॥३॥

न मृष्यामि रणे भीष्मं प्रत्युद्यातं शिखण्डिना।
कच्चिन्न रथभङ्गोऽस्य धनुर्वाऽस्य व्यशीर्यत॥४॥

सञ्जयः—

नाशीर्यतधनुस्तस्य रथभङ्गो न चाप्यभूत्।
युध्यमानस्य सङ्ग्रामे भीष्मस्य भरतर्षभ॥

निघ्नतस्समरे शत्रूञ् शरैस्सन्नतपर्वभिः।
अनेकशतसाहस्रास् तावकानां महारथाः॥

तथा दन्तिगणा राजन् हयानामयुतानि च।
अभ्यवर्तन्त युद्धाय पुरस्कृत्य पितामहम्॥

यथाप्रतिज्ञं कौरव्यस् स चापि समितिञ्जयः।
पार्थानामकरोद्भीष्मस् सततं समिति क्षयम्॥

युभ्यमानं महेष्वासं विनिघ्नन्तं पराञ् शरैः।
पाञ्चालाः पाण्डवैस्सार्धं सर्वतस्समवारयन्॥

दशमेऽहनि सम्प्राप्ते ¹भीष्मः501 कालाग्निसन्निभः।
²ददाह141 समरे वीरान् पाञ्चालान् पाण्डुसैनिकान्॥

कीर्यमाणं शितैर्बाणैश् शतशोऽथ सहस्रशः।
न हि भीष्मं महेष्वासं पाण्डवाः पाण्डुपूर्वज॥११॥

अशक्नुवन् रणे जेतुं पाशहस्तमिवान्तकम्॥११॥

अथोपायान्महाराज सव्यसाची धनञ्जयः।

त्रासयन् रथिनस्सर्वान् बीभत्सुरपराजितः॥१२॥

सिंहवद्विनदन्नुच्चैर् धनुर्ज्यां विक्षिपन् मुहुः।
शरौघान् विसृजन् पार्थो व्यचरत् कालवद्रणे॥१३॥

तस्य शब्देन वित्रस्तास्तावका भरतर्षभ।
सिंहस्येव मृगा राजन् व्यद्रवन्त रणाजिरात्॥१४॥

जयन्तं पाण्डवं दृष्ट्वा त्वत्सैन्यं चापि पीडितम्।
दुर्योधनस्ततो भीष्मम् अब्रवीद्भृशदुःखितः॥१५॥

दुर्योधनः—

एष पाण्डुसुतस्तात श्वेताश्वः कृष्णसारथिः।
दहते मामकं सैन्यं कृष्णवर्त्मेव काननम्॥१६॥

पश्य सैन्यानि गाङ्गेय द्रवमाणानि सर्वशः।
पाण्डवेन युधि श्रेष्ठ काल्यमानानि संयुगे॥१७॥

यथा पशुगणान् पालस् सङ्कालयति कानने।
तथेदं मामकं सैन्यं कालयत्येष फल्गुनः॥१८॥

धनञ्जयशरैर्भग्नंद्रवमाणमितस्ततः।
भीमो ह्येष दुराधर्षो विद्रावयति मे बलम्॥१९॥

सात्यकिश्चेकितानश्च माद्रीपुत्रौ च पाण्डवौ।
¹अभिमन्युश्च124 विक्रान्तो वाहिनीं दहते मम॥२०॥

धृष्टद्युम्नस्तथा शूरो राक्षसश्च घटोत्कचः।
विद्रावयेते सहसा सैन्यं मम महारणे॥२१॥

वध्यमानस्य सैन्यस्य सर्वैरेतैर्महाबलैः।
अन्यां गतिं न पश्यामि स्थिते युद्धे च भारत॥२२॥

त्वामृते पुरुषव्याघ्र देवतुल्यपराक्रमम्॥२३॥

पर्याप्तस्तु भवान् क्षिप्रं पीडितानां गतिर्भव॥२३॥

सञ्जयः—

एवमुक्तोमहाराज पिता देवव्रतस्तव \।
चिन्तयित्वा मुहूर्तं तु कृत्वा निश्चयमात्मनः॥२४॥

पुत्रमाश्वासयत् तुभ्यं ¹नृपते502 शन्तनोस्सुतः॥२५॥

भीष्मः—

दुर्योधन विजानीहि स्थिरो भव विशां पते।
पातयिष्ये रिपूनन्यान् पाण्डवान् प्रतिपालयन्॥२६॥

प्रतिज्ञातो जयो ह्यद्य पाण्डवानां महात्मनाम्॥२६॥

पूर्वकालं तव मया प्रतिज्ञातं महाबल।
हत्वा दशसहस्राणि क्षत्रियाणां महात्मनाम्॥२७॥

सङ्ग्रामादपयास्यामि ह्येतत् कर्म समाहितम्।
इति तत् कृतवांचा यथोक्तं भरतर्षभ॥२८॥

अद्य चापि महत् कर्म प्रकरिष्ये यथाबलम्।
अहं वा निहत¹स्स्वप्स्ये503 न हनिष्यामि पाण्डवान्॥२९॥

अशक्याःपाण्डवा जेतुं देवैरपि सवासवैः।
किं पुनर्मर्त्यधर्मेण क्षत्रियेण महाबलाः॥३०॥

अद्य ते पुरुषव्याघ्र प्रतिमोक्ष्ये ऋणं महत्।
भर्तृपिण्डकृतं राजन् निहतः पृतनामुखे॥३१॥

सञ्जयः—

इत्युक्त्वा भरतश्रेष्ठः क्षत्रियान् प्रहरञ्छरैः।
आससाद दुराधर्षः पाण्डवानामनीकिनीम् ॥३२॥

²अकम्पयद्दुराधर्षश141्शरैस्सन्नतपर्वभिः।
अनीकमध्ये तिष्ठन्तं गाङ्गेयं भरतर्षभ।३३॥

आशीविषमिव क्रुद्धं पाण्डवाः प्रत्यवारयन्॥३४॥
दशमेऽहनि तस्मिंस्तु दर्शयञ् शक्तिमात्मनः।

राजञ् शतसहस्राणि सोऽवधीत कुरुनन्दन॥३५॥

पाञ्चालानां च ये श्रेष्ठा राजपुत्रा महाबलाः।
तेषामादत्त तेजांसि जलं सूर्य इवांशुभिः॥३६॥

हत्वा दशसहस्राणि कुञ्जराणां तरस्विनाम्।

सारोहाणां महाराज यानामयुतं शुभम्॥३७॥

पूर्णे शतसहस्रे द्वे पत्तीनां च नरोत्तम॥३७॥

प्रजज्वाल रणे भीष्मो द्वितीय इव पावकः॥३८॥

न चैनं पाण्डवेयानां केचिच्छता निरीक्षितुम्।
उत्तरां दिशमास्थाय तपन्तमिव भास्करम्॥३९॥

ते पाण्डवेयास्संरब्धा महेष्वासेन पीडिताः।
वधायाभ्यद्रवन् भीष्मं सृञ्जयाश्च महारथाः॥४०॥

स वध्यमानो बहुभिर् भीष्मश्शान्तनवस्तदा।
अवकीर्णो महेष्वासश् शैलो मेघैरिवावृतः॥४१॥

पुत्रास्तु तव गाङ्गेयं समन्तात् पर्यवारयन्।
महत्या सेनया सार्धं ततो युद्धमवर्तत॥४२॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि पञ्चाधिकशततमोऽध्यायः॥ १०५॥
॥६४॥ भीष्मवधपर्वणि पञ्चषष्टितमोऽध्यायः॥ ६५॥
[ अस्मिन्नध्याये ४२ श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1706021597मम.png"/>

॥षडधिकशततमोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1705980712ननन.png"/>

अर्जुनदुश्शासनयुद्धम्॥

<MISSING_FIG href="../books_images/U-IMG-1705980723ववव.png"/>

सञ्जयः—

अर्जुनस्तु रणे राजन् दृष्ट्वा भीष्मस्य विक्रमम्।
शिखण्डिनमथोवाच समभ्येहि पितामहम्॥१॥

¹न504 चापि भीस्त्वया कार्या भीष्मादद्य कथञ्चन।
अहमेनं शरैस्तीक्ष्णैः पातयिष्ये रथोत्तमात्॥२॥

एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ।
अभ्यद्रवत गाङ्गेयं श्रुत्वा पार्थस्य भाषितम्॥३॥

²धृष्टद्युम्नस्तथा505 राजन् सौभद्रश्च महारथः।
अभ्यद्रवेतां गाङ्गेयं श्रुत्वा पार्थस्य भाषितम्॥४॥

विराटद्रुपदौ वृद्धौ कुन्तिभोजश्च दंशितः।
अभ्यद्रवन्त गाङ्गेयं श्रुत्वा पार्थस्य भाषितम्॥५॥

नकुलस्सहदेवश्च धर्मराजश्च वीर्यवान्।
तथेतराणि सैन्यानि समवेतानि भारत॥६॥

समाद्रवन्त गाङ्गेयं श्रुत्वा पार्थस्य भाषितम्॥६॥

प्रत्युद्ययुस्तावकाश्च समवेतान् महाबलान्।
यथाशक्ति यथोत्साहं तन्मे निगदतश्शृणु॥७॥

चित्रसेनो महाराजं चेकितानं समभ्ययात्।
भीष्मप्रेप्सुं रणे यान्तं ¹वृषं506 व्याघ्रशिशुर्यथा॥८॥

धृष्टद्युम्नं महाराज भीष्मान्तिकमुपागतम्।
त्वरमाणं रणे यत्तं कृतवर्माऽभ्यवारयत्॥९॥

भीमसेनं रणे यत्तं गाङ्गेयस्य वधैषिणम्।
त्वरमाणं रणे यत्तस् सौमदत्तिरवारयत्॥१०॥

तथैव नकुलं शूरं किरन्तं सायकान् बहून्।
विकर्णो वारयामास इच्छन् भीष्मस्य जीवितम्॥११॥

सहदेवं तथाऽऽयान्तं राजन् भीष्मरथं प्रति।
वारयामास सङ्क्रुद्धः कृपश्शारद्वतो युधि॥१२॥

राक्षसं घोरकर्माणं भैमसेनिं महाबलम्।
भीष्मस्य निधनप्रेत्सुं दुर्मुखोऽभ्यद्रवद्बली॥१३॥

सात्यकिं समरे क्रुद्धम् आर्श्यशृङ्गिर्न्यवारयत्।
भीष्मस्य वधमिच्छन्तं पाण्डवप्रीतिकाम्यया॥१४॥

²अभिमन्युं124 महाराज यान्तं भीष्मरथं प्रति।

सुदक्षिणो महावीर्यः काम्भोजः प्रत्यवारयत्॥१५॥

विराटद्रुपदौ वृद्धौ ससेनावरिमर्दनौ।
अश्वत्थामा रणे क्रुद्धो वारयामास भारत॥१६॥

तथा पाण्डुसुतं ज्येष्ठं भीष्मस्य वधकाक्षिणम्।
भारद्वाजो रणे यत्तो धर्मपुत्रमवारयत्॥१७॥

अर्जुनं रभसं क्रुद्धं पुरस्कृत्य शिखण्डिनम्।
भीष्मप्रेप्सुं महाराज तापयन्तं दिशो दश॥१८॥

दुश्शासनो महेष्वासो वारयामास संयुगे॥१९॥

अन्ये च तावका योधाः पाण्डवानां महारथान्।
भीष्मस्याभिमुखान् यातान् वारयामासुराहवे॥२०॥

धृष्टद्युम्नस्तु सैन्यानि ¹प्राक्रोशत507 पुनः पुनः॥२०॥

धृष्टद्युम्नः—

²अभिद्रवत508 संरब्धा भीष्ममेकं महारथम्।
एषोऽर्जुनो रणे भीष्मं प्रयातः कुरुनन्दनः॥२१॥

^(3–4)अभिद्रवत509 माभैष्ट भीष्मो न प्राप्स्यते हि वः।

अर्जुनं समरे योद्धुं नोत्सहेदपि वासवः॥२२॥

किमु भीष्मो रणे वीरा गतसखोऽल्पजीवितः ॥२३॥

सञ्जयः—

इति सेनापतेश्श्रुत्वा पाण्डवानां महारथाः।
अभ्यद्रवन्त सङ्क्रुद्धा गाङ्गेयस्य रथं प्रति॥२४॥

आगच्छतस्तान् समरे वार्योघानचला इव।
न्यवारयन्त संहृष्टास् तावकाः पुरुषर्षभाः॥२५॥

दुरशासनो महाराज भयं त्यक्त्वा महारथः।
भीष्मस्य जीविताकाङ्क्षी धनञ्जयमुपाद्रवत् ॥२६॥

अयोधयच्च समरे तव पुत्रो महारथः॥२६॥

तत्राद्भुतमपश्याम चित्ररूपं विशां पते।
दुश्शासनरथं प्राप्य यत् पार्थो नाभ्यवर्तत॥२७॥

यथा वारयते वेला क्षुब्धतोयं महार्णवम्।
तथैव पाण्डवं क्रुद्धं तवपुत्रो न्यवारयत्॥२८॥

उभौ तौ रथिनां श्रेष्ठावुभौ भारत दुर्जयौ।
उभौ चन्द्रार्कसदृशौ दीप्त्या कान्त्या च भारत ॥२९॥

तौ तथा जातसंरम्भावन्योन्यवधकाङ्क्षिणौ।
¹दुश्शासनार्जुनौ141 वीरौ वृत्रेन्द्रसमतेजसौ ॥३०॥

समीयतुर्महासङ्ख्ये यमशक्रोयथा पुरा।
दुश्शासनो महाराज पाण्डवं निशितैस्त्रिभिः॥३१॥

वासुदेवं च विंशत्या ताडयामास सायकैः॥३२॥

ततोऽर्जुनो जातमन्युर् वार्ष्णेयं वीक्ष्य पीडितम्।
दुश्शासनं शतेनाजौ नाराचानां समर्पयत्॥३३॥

ते तस्य कवचं भित्त्वा पपुश्शोणितमाहवे।
¹यथैव510 पन्नगा राजंस् तटाकं तृषितास्तथा॥३४॥

दुश्शासनस्ततः क्रुद्धः पार्थं विव्याध पञ्चभिः।
ललाटे भरतश्रेष्ठ शरैस्सन्नतपर्वभिः॥३५॥

ललाटस्थैस्तु तैर्बाणैश् शुशुभे पाण्डवर्षभः।
यथा मेरुमहाराज शृङ्गैरत्यन्तमुच्छ्रितैः॥३६॥

सोऽतिविद्धो महेष्वासः पुत्रेण तव धन्विना।
व्यरोचत रणे पार्थः किंशुकः पुष्पवानिव॥३७॥

दुश्शासनं ततः क्रुद्धः पीडयामास पाण्डवः।
पर्वणीव सुसंक्रुद्धोराहुरुग्रो निशाकरम्॥३८॥

पीड्यमानो बलवता पुत्रस्तव विशां पते।
विव्याध समरे पार्थं कङ्कपत्रैश्शिलाशितैः॥३९॥

तस्य पार्थो धनुश्छित्वा त्वरमाणः पराक्रमी।

आजघान ततः पश्चात् पुत्रं ते नवभिश्शरैः॥४०॥

सोऽन्यत् कार्मुकमादाय भीमस्य प्रमुखे स्थितः।
अर्जुनं पश्चविंशत्या बाह्वोरुरसि चार्पयत्॥४१॥

तस्य क्रुद्धो महाराज पाण्डवश्शत्रुकर्शनः।
अप्रैषयच्छरान् राजन् यमदण्डोपमान् बहून्॥४२॥

अप्राप्तानेव तान् बाणांश् चिच्छेद तनयस्तव।
यतमानस्य पार्थस्य तदद्भुतमिवाभवत्॥४३॥

पार्थं च निशितैर्बाणैर् अविध्यत् तनयस्तव॥४३॥

ततः क्रुद्धो रणे पार्थश् शरान् सन्धाय कार्मुके।
प्रेषयामास निशितान् स्वर्णपुङ्खाञ्छिलाशितान्॥४४॥

न्यमज्जंस्ते महाराज तस्य काये महात्मनः।
यथा हंसा महाराज तटाकं प्राप्य भारत॥४५॥

पीडितश्चापि पुत्रस्ते पाण्डवेन महात्मना।
हित्वा पार्थरथं तूर्णं भीष्मस्य रथमाश्रयत्॥४६॥

अगाधे मज्जतस्तस्य भीष्मो द्वीपोऽभवत् तदा॥४७॥

प्रतिलभ्य ततस्सन्ज्ञां पुत्रस्तव विशां पते।
अवारयत् ततश्शूरो भूय एव पराक्रमी॥४८॥

शरैस्सुनिशितैः पार्थं यथा वृत्रः पुरन्दरम्।
निर्बिभेद महावार्यो विव्यथे च तदाऽर्जुनः॥४९॥

¹अर्जुनस्तु511 सुसङ्क्रुद्धस् तव पुत्रं महाबलम्।
पुनर्जघान समरे तदद्भुतमिवाऽभवत्॥५०॥

इति श्रीमहाभारते शतसहस्रिकायांसंहितायांवैयासिक्यां
भीष्मपर्वणि षडधिकशततमोऽध्यायः॥ १०६॥
॥६४॥ भीष्मवधपर्वणि षट्षष्टितमोऽध्यायः॥ ६६॥
[ अस्मिन्नध्याये ५० श्लोकाः]
<MISSING_FIG href="../books_images/U-IMG-1705933258मम.png"/>

॥सप्ताधिकशततमोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1705933288नन.png"/>

इन्द्रयुद्धम्॥

<MISSING_FIG href="../books_images/U-IMG-1705933312मम.png"/>

सञ्जयः—

सात्यकिं रभसं युद्धे भीष्मायाभ्युद्यतं रणे।
आर्यभृङ्गिमहावीर्यो वारयामास सायकैः॥१॥

माधवस्तु महावीर्यो राक्षसं नवभिश्शरैः।
आजघान रणे राजन् प्रहसन्निव भारत॥२॥

तथैव राक्षसो राजन् माधवं नवभिश्शरैः।
अर्दयामास राजेन्द्र सङ्क्रुश्शिनिपुङ्गवम्॥३॥

शैनेयश्शरसङ्घातान् प्रेषयामास संयुगे।
राक्षसाय सुसङ्क्रुद्धो माधवः परवीरहा॥४॥

ततो रक्षो महावीर्यं सात्यकिं सत्यविक्रमम्।

विव्याध निशितैर्बाणैस् सिंहनादं ननाद च॥५॥

माधवस्तु भृशं विद्धो राक्षसेन तदा रणे।
धैर्यमालम्ब्य तेजस्वी जहास च ननाद च॥६॥

भगदत्तस्ततः क्रुद्धो माधवं निशितैश्शरैः।
ताडयामास समरे तोत्रैरिव महाद्विपम्॥७॥

विहाय राक्षसं युद्धे शैनेयो रथिनां वरः।
प्राग्ज्योतिषाय चिक्षेप शरान् सन्नतपर्वणः॥८॥

तस्य प्राग्ज्योतिषो राजा माधवस्य महद्धनुः।
¹चिच्छेद471 शितधारेण भल्लेन कृतहस्तवत्॥९॥

अथान्यद्धनुरादाय वेगवत् परवीरहा।
भगदत्तं रणे क्रुद्धो विव्याध निशितैश्शरैः॥१०॥

सोऽतिविद्धो महेष्वासस् सृक्विणी परिसंलिहन्।
शक्तिं कनकवैडूर्यहेमचित्रां तथाऽऽयसीम्॥११॥

कालदण्डोपमां घोरां प्राहिणोत् सात्यकाय वै॥११॥

तामापतन्तीं सहसा तस्य बाहुबलेरिताम्।
सात्यकिस्समरे राजन् द्विधा चिच्छेद सायकैः॥१२॥

सा हेमविकृता शक्तिर् माधवस्य भुजच्युतैः।
निपपात शरैश्छिन्ना महोल्केव हतप्रभा॥१३॥

शक्तिं विनिहतां दृष्ट्वा पुत्रस्तव विशां पते।
महता रथवंशेन वारयामास माधवम्॥१४॥

ततः परिवृतं दृष्ट्वा वार्ष्णेयानां महारथम्।
दुर्योधनो भृशं क्रुद्धो भ्रातॄन् सर्वानुवाच ह॥१५॥

दुर्योधनः—

तथा कुरुत कौरव्या यथा वस्सात्यको युधि।
न जीवन् प्रतिनिर्याति महतोऽस्माद्रथव्रजात्॥१६॥

अस्मिन् हते हतं मन्ये पाण्डवानां महाबलम्॥१७॥

सञ्जयः—

तत् तथेति वचस्तस्य परिगृह्य महारथाः।
शैनेयं योधयामासुर् भीष्मस्य प्रमुख तथा॥१८॥

अभिमन्युं तथाऽऽयान्तं भीष्मस्याभ्युद्यतं वधे।
काम्भोजराजो बलवान् वारयामास भारत॥१९॥

¹आर्जुनिं307 नृपतिर्विद्ध्वाशरैस्सन्नतपर्वभिः।
पुनरेव चतुष्षष्ट्या राजन् विव्याध तं नृप॥२०॥

²सुदक्षिणं471 च समरे पुनर्विव्याध पञ्चभिः।
सारथिं चास्य नवभिर् इच्छन् भीष्मस्य जीवितम्॥२१॥

तयुद्धमासीत् सुमहत् तयोः पुरुषसिंहयोः।

तथाऽभ्यधावद्गाङ्गेयं शिखण्डी शत्रुतापनः॥२२॥

विराटद्रुपदौ वृद्धौ वारयन्तौ महाचमूम्।
भीष्मस्य युधि संरब्धौ प्राद्रवेतां महारथौ॥२३॥

अश्वत्थामा रणे क्रुद्धस् समायाद्रथसत्तमः।
ततः प्रववृते युद्धं ¹तयोस्तस्य512 च भारत॥२४॥

विराटो दशभिर्भल्लैर् आजघान परन्तपः।
यतमानं महेष्वासं द्रौणिमाहवशोभिनम्॥२५॥

द्रुपदश्च त्रिभिर्भल्लैर् विव्याध निशितैश्शरैः।
गुरुपुत्रंसमासाद्य भीष्मस्य प्रमुख स्थितम्॥२६॥

²अश्वत्थामा513 ततस्तौ तु विव्याध निशितैश्शरैः।
विराटद्रुपदौ वीरौ भीष्मं प्रति समुद्यतौ॥२७॥

तद्भुतमपश्याम वृद्धयोश्चरितं महत्।
यद्द्रोणेस्सायकान् घोरान् प्रत्यवारयतां युधि॥२८॥

सहदेवं तथाऽऽयान्तं कृपश्शारद्वतोऽभ्ययात्।
यथा नागो वने नागं मत्तो मत्तमुपाद्रवत्॥२९

कृपश्च समरे शूरो माद्रीपुत्रं महारथम्।
निजघान शरैस्तीक्ष्णैस् सप्तत्या रुक्मभूषितैः॥३०॥

तस्य माद्रीसुतश्चापं द्विधा चिच्छेद सायकैः।
अथैनं छिन्नधन्वानं विव्याध निशितैश्शरैः॥३१॥

सोऽन्यत् कार्मुकमादाय समरे भारसाधनम्।
माद्रीपुत्रं सुसंहृष्टो दशभिर्निशितैश्शरैः॥३२॥

आजघानोरसि क्रुद्ध इच्छन् भीष्मस्य जीवितम्।
तथैव पाण्डवो राजन् ब्राह्मणं वेदपारगम्॥३३॥

आजघान रणे क्रुद्धो भीष्मस्य वधकाङ्क्षया॥३३॥

तयोस्समभवद्युद्धं घोररूपं भयावहम्॥३४॥

नकुलं तु रणे शूरं विकर्णश्शत्रुतापनः।
विव्याध सायकैष्षष्ट्या रक्षन् भीष्मं महाबलम्॥३५॥

नकुलोऽपि भृशं विद्धस् तव पुलं नरेश्वर।
विकर्णं सप्तसप्तत्या निर्बिभेद शिलीमुखैः॥३६॥

तत्र तौ पुरुषव्याघ्रो भीष्महेतोः परन्तपौ।
ततक्षतुस्तदाऽन्योन्यं गोष्ठे गोवृषभाविव॥३७॥

घटोत्कचं रणे यत्तं निघ्नन्तं तव वाहिनीम्।
दुर्मुखस्समरे प्रायाद् भीष्महेतोः पराक्रमी॥३८॥

हैडिम्बं तं रणे राजन् दुर्मुखश्शत्रुतापनः।

आजघानोरसि क्रुद्धो नवत्या निशितैरैशरैः॥३९॥

भीमसेनसुतश्चापि दुर्मुखं सुमुखैश्शरैः।
षष्ट्या वीरो नदन हृष्टो विव्याध रणमूर्धनि॥४०॥

धृष्टद्युम्नं ततो यान्तं भीष्मस्य वघकाङ्क्षया।
हार्दिक्यो वारयामास रक्षन् भीष्मस्य जीवितम्॥४१॥

हार्दिक्यं पार्षतश्शूरो विद्ध्वापञ्चभिराशुगैः।
पुनः पञ्चाशता तूर्णम् आजघान महारथम्॥४२॥

¹तथैव406 पार्षतो राजन् हार्दिक्यं नवभिश्शरैः।
विव्याध निशितैस्तीक्ष्णैः कङ्कपत्रैरजिह्मगैः॥४३॥

तयोस्समभवद्युद्धं भीष्महेतोर्महाहवे।
अन्योन्यं निघ्नतोर्बाणैर् यथा वृत्रमहेन्द्रयोः॥४४॥

भीमसेनं तथाऽऽयान्तं भीष्मं प्रति महारथम्।
भूरिश्रवा ययौ तूर्णं तिष्ठ तिष्ठेति चाब्रवीत्॥४५॥

सौमदत्तिरथो भीमम् आजघान स्तनान्तरे।
नाराचेन सुतीक्ष्णेन रुक्मपुङ्खेन संयुगे॥४६॥

उरस्स्थेन च बाणेन भीमसेनः प्रतापवान्।
स्कन्दशक्त्या यथा क्रौञ्चोविबभौ नृपते पुरा॥४७॥

तौ शरान् सूर्यसङ्काशान् कर्मारपरिमार्जितान्।

अन्योन्यस्य रणे क्रुद्धौ प्रेषयेतां नरोत्तमौ॥४८॥

कृतप्रतिकृते यत्तौ चेष्टमानौ परस्परम्॥४८॥

¹भीमो254 भीष्मवधे यत्तस् सौमदत्तिं महारथम्।
तदा भीष्मजये गृध्नुस् सौमदत्तिश्च पाण्डवम्॥४९॥

²अयोधयेतां514 समरे तुल्यवेगौ नरोत्तमौ॥५०॥

युधिष्ठिरं महाराज महत्या सेनया वृतम्।
भीष्मायाभिमुखं यान्तं भारद्वाजोऽभ्यवारयत्॥५१॥

तत्र युद्धमभूद्घोरं तयोः पुरुषसिंहयोः।
द्रोणस्य रथनिर्घोषं पर्जन्यनिनदोपमम्॥५२॥

श्रुत्वा प्रभद्रका राजन् समकम्पन्त भारत॥५२॥

³सा64 सेना महती राजन् पाण्डुपुत्रस्य संयुगे।
द्रोणेन वारिता यत्ता न चचाल पदात् पदम्॥५३॥

चेकितानं रणे क्रुद्धं भीष्मं प्रति जनेश्वर।
चित्रसेनस्सुतस्तुभ्यं क्रुद्धश्शूरमुपाद्रवत्॥५४॥

⁴भीष्महेतोः515 पराक्रान्तं चित्रसेनो महारथः।
चेकितानं परं शक्त्या योधयामास भारत॥५५॥

¹तथैव232 चेकितानोऽपि चित्रसेनमयोधयत्॥५६॥

तदाऽऽसीत् तुमुलं युद्धं तयोस्तत्व महात्मनोः॥५६॥

अर्जुनो वार्यमाणस्तु बहुशस्तनयेन ते।
विमुखीकृत्य पुत्रं ते सेनां तव ममर्द ह॥५७॥

दुश्शासनोऽपि परया शक्त्या पार्थमवारयत्।
²कथं516 भीष्मं न नो हन्याद् इति निश्चित्य भारत॥५८॥

³पार्थोऽपि517 समरे राजन् दुश्शासनमताडयत्॥५९॥

ताडिते बहुधा पुत्रेपार्थबाणैरजिह्मगैः।
बभूव व्यथिता सेना दृष्ट्वा पार्थपराक्रमम्॥६०॥

पुनश्च ताडिता तेन पार्थेनामिततेजसा।
सा वध्यमाना समरे तव पुत्रस्य वाहिनी॥६१॥

लोड्यते रथिभिवरस् तत्र तत्रैव भारत॥६२॥

इति श्रीमहाभारते शतसहस्रिकायांसंहितायां वैयासिक्यां
भीष्मपर्वणि सप्ताधिकशततमोऽध्यायः॥ १०७॥
॥६४॥ भीष्मवधपर्वणि सप्तषष्टितमोऽध्यायः॥ ६७॥
[अस्मिन्नध्याये ६१॥ श्लोकाः]
<MISSING_FIG href="../books_images/U-IMG-1705930904मम.png"/>

॥अष्टाधिकशततमोऽध्यायः॥
<MISSING_FIG href="../books_images/U-IMG-1705550468mmm.png"/>

द्रोणेनाश्वस्थामानं प्रति दुर्निमित्तप्रदर्शनपूर्वकं युद्धानुशासनम्॥

<MISSING_FIG href="../books_images/U-IMG-1705470781ववव.png"/>

सञ्जयः—

अथ वीरो महेष्वासो मत्तवारणविक्रमः।
आददानो महच्चापं मत्तवारणवारणम्॥१॥

विधून्वानो धनुश्श्रेष्ठं द्रावयाणो महारथान्।
पृतनां पाण्डवेयानां गाहमानो महारथः॥२॥

निमित्तानि निमित्तज्ञस् सर्वतो वीक्ष्य वीर्यवान्।
प्रतपन्तमनीकाग्रे द्रोणः पुत्रमभाषत॥३॥

द्रोणः—

अयं स दिवसस्तात यत्रपार्थो महारथः।
जिघांसुस्समरे भीष्मं परं यत्नं करिष्यति॥४॥

उत्पतन्तीव मे बाणा धनुः प्रस्फुरतीव मे।
योगमत्राणि नेच्छन्ति क्रूरं मे वर्तते मनः॥५॥

विश्वशान्तानि घोराणि व्याहरन्ति मृगद्विजाः।
नीचैर्गृध्रा निलीयन्ते भारतानां चमूं प्रति॥६॥

नष्टप्रभ इवादित्यः लोहितास्सर्वतो दिशः।
रवते चलते भूमिर् अनुष्टनति वाहनम्॥७॥

गृध्रा वार्ध्रवलाश्चैव व्याहरन्ति मुहुर्मुहुः॥७॥

शिवाश्चाप्यशिवा घोरा वेदयाना महद्भयम्।
¹ववाशिरे141 भयकरा दीप्तास्याभिमुखे रवेः॥८॥

पपात महती चोल्का मध्येनादित्यमण्डलम्।
सकबन्धस्सपरिघो भानुमानुदतिष्ठत॥९॥

परिवेषस्तथा घोरश्चन्द्रभास्करयोरभूत्।
वेदयानो भयं घोरं राजमुख्यावकर्तनम्॥१०॥

देवतायतनस्थाश्च देवताः कौरवे बले।
कम्पन्ते च हसन्ते च नृत्यन्ति च रुदन्ति च॥११॥

अपसव्यं ग्रहाश्चेरुर् अलक्ष्माणं निशाकरम्।
अधश्शिराश्च भगवान् उपातिष्ठति चन्द्रमाः॥१२॥

वपूंषि च नरेन्द्राणां धार्तराष्ट्रस्य योधिनाम्।
²निष्प्रभाणि518 च गात्राणि न च भ्राजन्ति दंशिताः॥ १३॥

सेनयोरुभयोश्चैव समन्ताच्छ्रुयते महान्।
पाञ्चजन्यस्य निर्घोषो गाण्डीवस्य च निस्स्वनः॥१४॥

ध्रुवमभ्येति बीभत्सुर् उत्तमास्त्राणि संयुगे।
अपास्य च रणे योधान् अभ्येति च पितामहम्॥१५॥

हृष्यन्ति रोमकूपाणि सीदतीव च मे मनः।
चिन्तयित्वा महाबाहो भीष्मार्जुनसमागमम्॥१६॥

तं चैव निकृतिप्रज्ञं पाश्चाल्यंपापचेतसम्।
पुरस्कृत्य रणे पार्थो भीष्मस्यायोधनं गतः॥१७॥

अब्रवीच्च पुरा भीष्मो नाहं हन्यां शिखण्डिनम्।
स्त्री ह्येषा विहिता धात्रा दैवाच्च स पुनः पुमान्॥१८॥

असङ्कल्पध्वजश्चैव याज्ञसेनिर्महाबलः।
न चासङ्कल्पिते तस्मिन् प्रहरेत पितामहः॥१९॥

एतद्विचिन्तयानस्य प्रज्ञा सीदति मे भृशम्।
¹रिपुं141 प्रमुखतस्स्थाप्य भीष्मस्य सुमहात्मनः॥२०॥

अयं भीष्मं रणे पार्थः पातयेत रथोत्तमात्॥२१॥

युधिष्ठिरस्य च क्रोधो भीष्मार्जुनसमागमः।
मम चाप्यतिसंरम्भः प्रजानां नाशनं ध्रुवम्॥२२॥

मनस्वी बलवांश्चैव कृतास्त्रो लघुविक्रमः।
दूरपाती दृढेषुश्च निमित्तज्ञश्च पाण्डवः॥२३॥

²अजेयस्समरे519 चापि देवैरपि सवासवैः।
बलवान् बुद्धिमांश्चैव तीर्णपारो युधां पतिः॥२४॥

विजयी च रणे नित्यं भैरवास्त्रश्च पाण्डवः।

¹अभ्युद्यतं520 रणे दृष्ट्वा भैरवास्त्रं च पाण्डवम्॥२५॥

तस्य मार्गं परिहरन् द्रुतं गच्छ पितामहम्।
पश्य चैतं महाघोरे संयुगे वैशसं महत्॥२६॥

हेमचित्राणि शूराणां महान्ति च शुभानि च।
कवचानि विशीर्यन्ते शरैस्सन्नतपर्वभिः॥२७॥

छिद्यन्ते च ध्वजाग्राणि तोमराणि धनूंषि च।
प्रासाश्च विमलास्तीक्ष्णाश् शक्त्यश्च कनकोज्ज्वलाः॥२८॥

वैजयन्त्यश्च नागानां सङ्क्रुद्धेन किरीटिना॥२८॥

नायं संरक्षितुं कालः प्राणान् युद्धोपजीविनाम्।
याहि स्वर्गं पुरस्कृत्य यशसे विजयाय च॥२९॥

हयनागरथावर्तां महाघोरां सुदुर्गमाम्।
रथेन सङ्ग्रामनदीं तरत्येष कपिध्वजः॥३०॥

ब्रह्मण्यता तपो दानं स्वधीतं ज्ञानमेव च।
यस्मिन् प्रतिष्ठितं पार्थे ²धर्मपु521त्रेयुधिष्ठिरे॥३१॥

बलवांस्तादृशगुणो यस्य भ्राता धनञ्जयः॥३२॥

भीमसेनश्च बलवान् माद्रीपुत्रौ च पाण्डवौ।
वासुदेवश्च वार्ष्णेयो नाथो यस्य व्यवस्थितः॥३३॥

तस्यैष मन्युप्रभवो धार्तराष्ट्रस्य दुर्मतेः।
तपो भावितदेहस्य कोपो दहति वाहिनीम्॥३४॥

एष संदृश्यते पार्थो वासुदेवव्यपाश्रयः।
दारयन् सर्वसैन्यानि धार्तराष्ट्राणि सर्वशः॥३५॥

एतदालोक्यते सैन्यं क्षोभ्यमाणं किरीटिना।
महोर्मिनद्धं सुमहत् तिमिनेव नदीमुखम्॥३६॥

हाहाकिलकिलाशब्दश् श्रूयते च चमूमुखे।
याहि पाण्डवदायादम् अहं योत्स्ये युधिष्ठिरम्॥३७॥

दुर्गमाभ्यन्तरो राज्ञो व्यूहस्तस्यामितौजसः।
समुद्रकुक्षिप्रतिमस् सर्वतोऽतिरथैस्स्थितैः॥३८॥

सात्यकिश्चाभिमन्युश्च धृष्टद्युम्नवृकोदरौ।
परिरक्षन्ति राजानं यमौ च मनुजेश्वरम्॥३९॥

उपेन्द्रसदृशश्यामो महासाल इवोच्छ्रितः।
एष गच्छत्यनीकाग्रे द्वितीय इव फल्गुनः॥४०॥

उत्तमात्राणि चादाय गृहीत्वाऽन्यन्महद्धनुः।
पार्श्वतो याहि राजानं युध्यस्व च वृकोदरम्॥४१॥

को हि नेच्छेत् प्रियं पुत्रं जीवन्तं शाश्वतीस्समाः।
¹क्षत्रधर्म522ं समाश्रित्य ततस्त्वां नियुजाम्यहम्॥४२॥

एष चापि रणे भीष्मो दहते च महाचमूम्।
युद्धेऽपि सदृशस्तात यमस्य वरुणस्य च॥४३॥

सञ्जयः—

¹पुत्रं231 समनुशास्यैवं भारद्वाजः प्रतापवान्।
महारणे महाराज धर्मराजमयोधयत्॥४४॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि अष्टाधिकशततमोऽध्यायः॥१०८॥
॥६४॥भीष्मवधपर्वणि अष्टषष्टितमोऽध्यायः॥६८॥
[ अस्मिन्नध्याये ४४ श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1705377517ववव.png"/>

॥नवाधिकशततमोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1705377505mmm.png"/>

भीमसेनपराक्रमवर्णनम्॥

<MISSING_FIG href="../books_images/U-IMG-1705377493ववव.png"/>

सञ्जयः—

भगदत्तः कृपश्शल्यः कृतवर्मा च सात्वतः।
विन्दानुविन्दावावन्त्यौ सैन्धवश्च जयद्रथः॥१॥

चित्रसेनो विकर्णश्च तथा दुर्मर्षणो युवा।
दशैते तावका योधा भीमसेनमयोधयन्॥२॥

महत्या सेनया युक्ता नानादेशसमुत्थया।
भीष्मस्य समरे राजन् प्रार्थयाना महद्यशः॥३॥

शल्यस्तु नवभिर्बाणैर् भीमसेनमताडयत्।
¹कृतवर्मा343 त्रिभिर्बाणैः कृपश्च नवभिश्शरैः॥४॥

²चित्रसेनो465 विकर्णश्च भगदत्तश्च वीर्यवान्।
दशभिर्दशभिर्बाणैर् भीमसेनमताडयन्॥५॥

³सैन्धवश्च523 त्रिभिर्बाणैर् भीमसेनमताडयत्॥५॥

⁴विन्दानुविन्दावावन्त्यौ408 पञ्चभिः पञ्चभिश्शरैः।
^(5242)दुर्मर्षणश्च242 विंशत्या बाणैस्सन्नतपर्वभिः॥६॥

⁶स524 तान् राजन् महाराज भ्राजमानान् पृथक् पृथक्।
प्रवीरान् सर्वलोकस्य धार्तराष्ट्रान् महारथान्॥७॥

विव्याध निशितैर्बाणैर् भीमसेनो महाबलः॥८॥

⁷शल्यं232 च पञ्चविंशत्या विध्वा बाणैस्सुपर्वभिः।
विव्याध निशितैर्बाणैः कृतवर्माणमष्टभिः॥९॥

कृपस्य सशरं चापं मध्ये चिच्छेद भारत।
अथैनं छिन्नधन्वानं पुनर्विव्याध पञ्चभिः॥१०॥

विन्दानुविन्दावावन्त्यौ त्रिभिस्त्रिभिरजिह्मगैः।
दुर्मर्षणं च विंशत्या चित्रसेनं च पञ्चभिः॥११॥

विकर्णं दशभिर्बाणैः पञ्चभिश्च जयद्रथम्।
विद्ध्वाभीमोऽनदद्धृष्टस् सैन्धवं च पुनस्त्रिभिः॥१२॥

अथान्यद्धनुरादाय गौतमो रथिनां वरः।
भीमं विव्याध संरब्धो दशभिर्निशितैश्शरैः॥१३॥

स विद्धो दशभिर्बाणैस् तोत्रैरिव महाद्विपः।
¹व्यनदत्236 समरे शूरस् सिंहवद्रणमूर्धनि॥१४॥

ततः क्रुद्धो महाराज भीमसेनः प्रतापवान्।
गौतमं ताडयामास शरैर्बहुभिराहवे॥१५॥

सैन्धवस्य तथाऽश्वां सारथिं च त्रिभिश्शरैः I
प्राहिणोन्मृत्युलोकाय कालान्तकसमद्युतिः॥१६॥

हताश्वात् तु रथात् तूर्णम् अवप्लुत्य महारथः।
शरांश्चिक्षेप निशितान् भीमसेनाय संयुगे॥१७॥

तस्य भीमो धनुर्मध्ये द्वाभ्यां चिच्छेद मारिष।
भल्लाभ्यां भरतश्रेष्ठ सैन्धवस्य महात्मनः॥१८॥

स च्छिन्नधन्वा विरथो हताश्वोहतसारथिः।
चित्रसेनरथं राजन्नारुरोह त्वरान्वितः॥१९॥

अत्यद्भुतं रणे कर्म कृतवांस्तत्व पाण्डवः।
महारथान् शरैर्विद्ध्वावारयित्वा च भारत॥२०॥

विरथं सैन्धवं चक्रे सर्वलोकस्य पश्यतः।
न तु तं ममृषे शल्यो भीमसेनस्य विक्रमम्॥२१॥

स संघाय शरांस्तीक्ष्णान् कर्मारपरिमार्जितान्।
भीमं विव्याध समरे तिष्ठ तिष्ठेति चाब्रवीत्॥२२॥

कृपश्च कृतवर्मा च भगदत्तश्च भारत।
विन्दानुविन्दावावन्त्यौ चित्रसेनश्च संयुगे॥२३॥

दुर्मर्षणो विकर्णश्च दुष्कर्णश्चापि वीर्यवान्।
भीमं ते विव्यधुस्तूर्णं शल्यहेतोररिन्दमाः॥२४॥

स तु तान् प्रतिविव्याध पञ्चभिः पञ्चभिश्शरैः।
शल्यं विव्याध सप्तत्या पुनश्च दशमिश्शरैः॥२५॥

तं शल्यो नवभिर्भित्त्वापुनर्विव्याध पञ्चभिः।
¹सारथिं525 चास्य भल्लेन पुनर्विव्याध मर्मणि॥२६॥

विशोकं वीक्ष्य निर्भिन्नं भीमसेनः प्रतापवान्।
मद्रराजं त्रिभिर्बाणैर् बाह्वोरुरसि चार्पयत्॥२७॥

¹भगदत्तं141 तथा वीरः कृतवर्माणमाहवे।
तथेतरान् महेष्वासांस् विभिस्त्रिभिरजिह्मगैः॥२८॥

ताडयामास समरे सिंहवद्विननाद च॥२८॥

तेऽपि यत्ता महेष्वासाः पाण्डवं युद्धदुर्मदाः।
त्रिभिस्त्रिभिरजिह्माग्रैर्भृशं मर्मस्वताडयन्॥२९॥

सोऽतिविद्धो महेष्वासो भीमसेनो न विव्यथे।
पर्वतो वारिधाराभिर् सिच्यमान इवाम्बुदैः॥३०॥

शल्यं च नवभिर्बाणैर् भृशं विद्ध्वामहायशाः।
प्राग्ज्योतिषं शतेनाजौ राजन् विव्याध संयुगे॥३१॥

ततस्तु सशरं चापं सात्वतस्य महात्मनः।
क्षुरप्रेण सुतीक्ष्णेन पातयामास भारत॥३२॥

अथान्यद्धनुरादाय कृतवर्मा वृकोदरम्।
आजघान भ्रुवोर्मध्ये नाराचेन परन्तपः॥३३॥

विरराज महाबाहुर् ललाटस्थेन पत्रिणा।
एकशृङ्गो महाराज यथा पर्वतसत्तमः॥३४॥

अथ भीमो महाबाहुः क्रुद्धस्सर्वान् महारथान्।

विमुखीकृत्य बाणौघैस् तस्थौ गिरिरिवाचलः॥३५॥

भीमस्तु समरे विद्ध्वाशल्यं नवभिराशुगैः।
भगदत्तं त्रिभिश्चैव कृतवर्माणमष्टभिः॥३६॥

द्वाभ्यां द्वाभ्यां तु विव्याध गौतमप्रभृतीन् रथान्।
ते तु तं समरे राजन् विव्यधुर्निशितैश्शरैः॥३७॥

स तथा भिद्यमानोऽपि सर्वतस्तैर्महारथैः।
मत्वा तृणेन तांस्तुल्यान् विचचार गतव्यथः॥३८॥

ते चापि रथिनां श्रेष्ठा भीमाय निशिताञ् छरान्।
प्रेषयामासुरव्यग्राश् शतशोऽथ सहस्रशः॥३९॥

तस्य शक्तिं महावेगां भगदत्तो महारथः।
चिक्षेप समरे वीरो हेमदण्डां महाधनाम्॥४०॥

तोमरं सैन्धवो राजा पट्टसं चैव सात्त्वतः।
शतघ्नीं च कृपो राजञ्छरान् शल्यश्च संयुगे॥४१॥

तथेतरे महेष्वासाः पञ्च पञ्च शिलीमुखान्।
¹भीमसेनं526 समुद्दिश्य प्रेषयामासुरञ्जसा॥४२॥

²तोमरं527 च द्विधा चक्रे क्षुरप्रेणानिलात्मजः।

पट्टसं च त्रिभिर्बाणैश् चिच्छेद तिलशस्तथा॥४३॥

स बिभेद शतघ्नीं च नवभिः कङ्कपत्रिभिः।
¹शक्तिं528 चिच्छेद समरे भगदत्तेरितां रणे॥४४॥

तथेतराञ् शरान् घोराञ् शरैस्सन्नतपर्वभिः।
²भीमसेनो139 रणश्लाघी त्रिधैकैकं समाच्छिनत्॥४५॥

तांश्च सर्वान् महेष्वासांस् त्रिभिस्त्रिभिरताडयत्॥४६॥

ततो धनञ्जयस्तत्रवर्तमाने महारणे।
आजगाम रथेनाजौ भीमं दृष्ट्वा महारथम्॥४७॥

निघ्नन्तं समरे शत्रून् योधयानं च सायकैः॥४७॥

तौ तु तत्रमहात्मानौ समेतौ वीक्ष्य पाण्डवौ।
नाशशंसुर्जयं तत्र तावकाः पुरुषर्षभाः॥४८॥

दृष्ट्वाऽर्जुनो रणे भीमं योधयन्तं महारथान्।
भीष्मस्य निधनाकाङ्क्षी पुरस्कृत्य शिखण्डिनम्॥४९॥ .

आससाद रणे वीरांस् तावकान् दश भारत॥५०॥

ये स्म राजन् रणे भीमं योधयन्तो व्यवस्थिताः।
बीभत्सुस्तानथाविध्यद् भीमस्य हितकाम्यया॥५१॥

ततो दुर्योधनो राजा सुशर्माणमचोदयत्।
अर्जुनस्य वधार्थाय भीमसेनस्य चोभयोः॥५२॥

दुर्योधनः—

सुशर्मन् गच्छ शीघ्रं त्वं बलौघैः परिवारितः।
जहि पाण्डुसुतावेतौ धनञ्जयवृकोदरौ॥५३॥

सञ्जयः—

तच्छ्रुत्वाशासनं तस्य त्रिगर्तः प्रस्थलाधिपः।
अभिप्लुत्य रणे भीमम् अर्जुनं चैव धन्विनाम्॥५४॥

रथैरनेकसाहस्रैः परिवव्रेसमन्ततः॥५४॥

ततः प्रववृते युद्धम् अर्जुनस्य परैस्सह॥५५॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि नवाधिकशततमोऽध्यायः॥ १०९॥
॥६४॥ भीष्मवधपर्वणि एकोनसप्ततितमोऽध्यायः॥ ६९॥
[ अस्मिन्नध्याये ५५ श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1705375303ववव.png"/>

॥दशाधिकशततमोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1705375317ललल.png"/>

भीष्मार्जुनपराक्रमवर्णनम्॥

<MISSING_FIG href="../books_images/U-IMG-1705375351ववव.png"/>

सञ्जयः—

अर्जुनस्तु रणे शल्यं यतमानं महारथम्।
छादयामास समरे शरैस्सन्नतपर्वभिः॥१॥

सुशर्माणं कृपं चैव त्रिभिस्त्रिभिरविध्यत॥१॥

प्राग्ज्योतिषं च समरे सैन्धवं च जयद्रथम्।
चित्रसेनं विकर्णं च कृतवर्माणमेव च॥२॥

दुर्मर्षणं च राजेन्द्र ह्यावन्त्यौ च महारथौ।
एकैकं त्रिभिरानर्च्छत् कङ्कबर्हिणवाजितैः॥३॥

शरैरतिरथो युद्धे पीडयन् वाहिनीं तव॥४॥

जयद्रथो रणे पार्थं विद्ध्वाभारत सायकैः।
भीमं विव्याध तरसा चित्रसेनरथे स्थितः॥५॥

शल्यश्च समरे जिष्णुं कृपश्च रथिनां वरः।
विव्याध तं महाबाहुं बहुधा मर्मभेदिभिः॥६॥

चित्रसेनादयश्चैव पुत्रास्तव विशां पते।
पञ्चभिः पञ्चभिस्तूर्णं संयुगे निशितैश्शरैः॥७॥

आजघ्नुरर्जुनं सङ्ख्ये भीमसेनं च मारिष॥७॥

तौ तत्ररथिनां श्रेष्ठो कौन्तेयौभरतर्षभौ।
अपीडयेतां समरे त्रिगर्तानां महाबलम्॥८॥

सुशर्मा च रणे पार्थ विध्वा बहुभिराशुगैः।
ननाद बलवान् नादं नादयानो नभस्स्थलम्॥९॥

अन्ये च रथिनश्शूरा भीमसेनधनञ्जयौ।
विव्यधुर्निशितैर्बाणैरुक्मपुङ्खैरजिह्मगैः॥१०॥

तेषां तु रथिनां मध्ये कौन्तेयौरथिनां वरौ।
क्रीडमानौ रथोदारौ चित्ररूपौ व्यदृश्यताम्॥११॥

¹गजसङ्घातमध्यस्थौ529 सिंहाविव मदोद्धतौ॥१२॥

छित्त्वा धनूंषि वीराणां शरांश्च बहुधा रणे।
पातयामासतुर्वीरौ शिरांसि शतशस्तथा॥१३॥

रथाश्च बहवो भघ्नाहयाश्च बहुशो हताः।
गजाश्च सगजारोहाः पेतुरुर्व्यांमहाहवे॥१४॥

रथिनस्सादिनश्चैव तत्र तत्र निषूदिताः।
दृश्यन्ते बहुधा राजन् वेष्टमानास्समन्ततः॥१५॥

हतैर्गजपदात्योघैर् वाजिभिश्च निषूदितैः।
रथैश्च बहुधा भग्नैस् समास्तीर्यत मेदिनी॥१६॥

²छत्रैश्च530 बहुधा च्छिन्नैर् ध्वजैश्च विनिपातितैः।
चामरैर्हेमदण्डैश्च समास्तीर्यत मेदिनी॥१७॥

³अङ्कुशैर531पविद्धैश्च परिस्तोभैश्चभारत \।
घण्टाभिश्च कशाभिश्च समास्तीर्यत मेदिनी॥१८॥

केयूरैरङ्गदैर्हारै राङ्कवैर्मृदितैस्तथा।
कुण्डलैर्मणिचित्रैश्च समास्तीर्यत मेदिनी॥१९॥

उष्णीषैरपविद्धैश्च चामरैर्व्यजनैरपि।

तत्र तत्रापविद्धैश्च बाहुभिश्चन्दनोक्षितैः॥२०॥

ऊरुभिश्च नरेन्द्राणां समास्तीर्यत मेदिनी॥२०॥
तत्राद्भुतमपश्याम रणे पार्थस्य विक्रमम्॥

शरैस्संवार्य तान् वीरान् यज्जघान बलं तव॥२१॥

पुत्रास्तु तव तं दृष्ट्वा भीमार्जुनसमागमम्।

गाङ्गेयस्य स्थाभ्याशम् उपजग्मुर्महाहवे॥२२॥

कृपश्च कृतवर्मा च सैन्धवश्च जयद्रथः।
विन्दानुविन्दावावन्त्यौ न जहुस्संयुगेऽर्जुनम्॥२३॥

ततो भीमो महाबाहुः फल्गुनश्चमहाबलः।
कौरवाणां चमूं घोरां भृशं दुद्रुवत् रणे॥२४॥

ततो बर्हिणवाजानाम् अयुतान्यर्बुदानि च।
धनञ्जयरथे तूर्णं पातयन्ति स्म पार्थिवाः॥२५॥

ततस्ताञ्शरजालेन सन्निवार्य महारथान्।
पार्थस्समन्तात् समरे प्रेषयामास मृत्यवे॥२६॥

शल्यश्च समरे जिष्णुं क्रीडन्निव महारथः।
आजघानोरसि क्रुद्धो भलैस्सन्नतपर्वभिः॥२७॥

¹तस्य532 पार्थो धनुश्छित्वा हस्तावापं च पञ्चभिः।
अर्थानं सायकैस्तीक्ष्णैर् भृशं विव्याध मर्मणि॥२८॥

अथान्यद्धनुरादाय समरे भारसाधनम्।
मद्रेश्वरो रणे जिष्णुं ताडयामास रोषितः॥२९॥

त्रिभिर्गाण्डीवधन्वानं वासुदेवं च पञ्चभिः।
¹भीमसेनं124 च नवभिर् बाहोरुरसि चार्पयत्॥३०॥

ततो द्रोणो महाराज मागधश्च महारथः।
दुर्योधनसमादिष्टौ तं देशमुपजग्मतुः॥३१॥

यत्र पार्थो महाराज भीमसेनश्च पाण्डवः।
कौरव्यस्य महासेनं जघ्नतुस्सुमहारथौ॥३२॥

जयत्सेनस्तु समरे भीमं भीमायुधं युधि।
विव्याध निशितैर्बाणैर् अष्टभिर्भरतर्षभ॥३३॥

तं भीमो दशभिर्विद्ध्वापुनर्विव्याध सप्तभिः।
सारथिं चास्य भल्लेन रथनीडादपाहरत्॥३४॥

उद्भ्रांतैस्तुरगैस्सोऽथ द्रवमाणैस्समन्ततः।
मागधोऽपसृतो राजा सर्वसैन्यस्य पश्यतः॥३५॥

द्रोणोऽपि विवरं दृष्ट्वा भीमसेनं शिलीमुखैः।
विव्याध निशितैर्बाणैः पञ्चभिष्षट्भियसैः॥३६॥

तं भीमस्समरक्रुद्धो गुरुं पितृसमं रणे।
विव्याध नवभिर्भल्लैस् तथा षष्ट्या च भारत ॥ ३७॥

अर्जुनस्तु सुशर्माणं विद्ध्वाबहुभिरायसैः।
व्यधमत् तस्य सैन्यानि महाभ्राणि यथाऽनिलः॥३८॥

ततो भीष्मश्च राजा च कौसल्यश्च बृहद्बलः।
¹अभ्यवर्तन्त533 सङ्क्रुद्धा भीमसेनधनञ्जयौ॥३९॥

तथैव पाण्डवाश्शूरा धृष्टद्युम्नश्च पार्षतः।
अभ्यद्रवन् रणे भीष्मं व्यादितास्यमिवान्तकम्॥४०॥

शिखण्डी तु समासाद्य भारतानां पितामहम्।
अभ्यद्रवत संहृष्टो भयं त्यक्त्वा यतव्रतम्॥४१॥

युधिष्ठिरमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम्।
अयोधयन् रणे भीष्मं सहितास्सर्वसृञ्जयैः॥४२॥

तथैव तावकास्सर्वे पुरस्कृत्य यतव्रतम्।
शिखण्डिप्रमुखान् पार्थान् योधयन्ति स्म संयुगे॥ ४३॥

ततः प्रववृते युद्धं कौरवाणां भयावहम्।
तत्रपाण्डुसुतैस्सार्धं भीष्मस्य विजयं प्रति॥४४॥

तावकानां रणे भीष्मः प्लव आसीद्विशां पते।
तत्रहि द्यूत आसक्तो विजयायेतराय वा॥४५॥

²धृष्टद्युम्नो534 महाराज सर्वसैन्यान्यचोदयत्॥४६॥

धृष्टद्युम्नः—

अभ्यद्रवत गाङ्गेयं मा भैष्ट कुरुसत्तमम्॥४६॥

सञ्जयः—

सेनापतिवचश्श्रुत्वा पाण्डवानां वरूथिनी।
भीष्ममेवाभ्ययात् तूर्णं प्राणांस्त्यक्त्वा महाहवे॥४७॥

भीष्मोऽपि रथिनां श्रेष्ठः प्रतिजग्राह तां चमूम्।
आपतन्तीं महाराज वेलामिव महोदधिः॥४८॥

इति श्रीमहाभारते शतसहस्रिकायांसंहितायां वैयासिक्यां
भीष्मपर्वणि दशाधिकशततमोऽध्यायः॥११०॥
॥६४॥भीष्मवधपर्वणि सप्ततितमोऽध्यायः॥७०॥
[ अस्मिन्नध्याये ४८॥श्लोकाः]
<MISSING_FIG href="../books_images/U-IMG-1705299829ववव.png"/>

॥एकादशाधिकशततमोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1705299817mmm.png"/>

युद्धे विरक्तेन भीष्मेण युधिष्ठिरं प्रति स्ववधोद्यमचोदना॥

<MISSING_FIG href="../books_images/U-IMG-1705299805ववव.png"/>

धृतराष्ट्रः—

कथं शान्तनवो भीष्मो दशमेऽहनि सञ्जय।
अयुध्यत महावीर्यैः पाण्डवैस्सहसृञ्जयैः॥

कुरवश्चकथं युद्धे पाण्डवान् प्रत्यवारयन्।
आचक्ष्व मे यथायुद्धं भीष्मस्याहवशोभिनः॥

सञ्जयः—

कुरवः पाण्डवैस्सार्धं यथाऽयुध्यन्त भारत।
यथा च तदभूद्युद्धं तत् ते वक्ष्यामि शृण्वतः॥३॥

प्रेषिताः परलोकाय परमास्त्रैःकिरीटिना।
अहन्यहनि सम्प्राप्ते तावकानां महारथाः॥४॥

यथाप्रतिज्ञं कौरव्यस् स चापि समितिञ्जयः।
पार्थानामकरोद्भीष्मस् सततं समिति क्षयम्॥५॥

¹कुरुभिस्सहितं500 भीष्मं युध्यमानं महारथम्।
अर्जुनं च सपाञ्चाल्यंदृष्ट्वा संशयिता जनाः॥६॥

दशमेऽहनि तस्मिंस्तु भीष्मार्जुनसमागमे।
अवर्तत महारौद्रस् सततं समिति क्षयः॥७॥

तस्मिन्नयुतशो राजन् भूयश्चापि परन्तपः।
भीष्मश्शान्तनवो योधाञ्जघान परमास्त्रवित्॥८॥

येषामज्ञातकल्पानि नामगोत्राणि पार्थिव।
ते हतास्तत्र भीष्मेण सर्वे शूरेण संयुगे॥९॥

दशाहानि तथा तप्त्वा भीष्मः पाण्डववाहिनीम्।
निरविद्यत धर्मात्मा जीविते स परन्तपः॥१०॥

स क्षिप्रं वधमन्विच्छन्नात्मनोऽभिमुस्वं रणे।

न हन्यां मानवश्रेष्ठान् सङ्ग्रामेऽभिमुखानिति॥११॥

चिन्तयित्वा महाबाहुः पिता देवव्रतस्तव।
अभ्याशस्थं महाराज पाण्डवं वाक्यमब्रवीत्॥१२॥

भीष्मः—

युधिष्ठिर महाप्राज्ञ सर्वशास्त्रविशारद।
शृणु मे वचनं तात धर्म्यं स्वयं च जल्पतः॥१३॥

निर्विण्णोऽस्मि भृशं तात देहेनानेन भारत।
घ्नतश्च मे गतः कालस् सुबहून् प्राणिनो रणे॥१४॥

तस्मात् पार्थ पुरोधाय पाञ्चाल्यान् सृञ्जयांस्तथा।
मद्वधे क्रियतां यत्नो मम चेदिच्छसि प्रियम्॥१५॥

सञ्जयः—

तस्य तन्मतमाज्ञाय पाण्डवस्सत्यदर्शिनः।
भीष्मं प्रति ययुर्यत्तास् सङ्ग्रामे सह सृञ्जयैः॥१६॥

धृष्टद्युम्नस्ततो राजन् पाण्डवश्चयुधिष्ठिरः।
श्रुत्वा भीष्मस्य तां वाचं चोदयामासतुर्बलम्॥१७॥

धृष्टद्युम्नयुधिष्ठिरौ—

अभिद्रवत युद्ध्यध्वं भीष्मं जयत संयुगे।
रक्षितास्सत्यसन्धेन जिष्णुना रिपुजिष्णुना॥१८॥

अयं चापि महेष्वासः पार्षतो वाहिनीपतिः।

भीमसेनश्च समरे पालयिष्यति वो ध्रुवम्॥१९॥

न वो भीष्मभयं किश्चिद् अस्त्वद्य युधि सृञ्जयाः।
ध्रुवं भीष्मं वधिष्यामः पुरस्कृत्य शिखण्डिनम्॥२०॥

¹तथा229 तु समयं कृत्वा दशमेऽहनि पाण्डवाः।
ब्रह्मलोकं जेतुकामास् सञ्जग्मुः क्रोधमूर्च्छिताः॥२१॥

²शिखण्डिनं229 पुरस्कृत्य पाण्डवं च धनञ्जयम्।
भीष्मस्य पातने यत्नं परमं ते समास्थिताः॥२२॥

³ततस्तव535 सुतादिष्टा नानाजनपदेश्वराः।
द्रोणेन सहपुत्रेण सहसेना महाबलाः॥२३॥

दुश्शासनश्च बलवान् सर्वैस्सह सहोदरैः।
भीष्मं समरमध्यस्थं पालयाञ्चक्रिरे तदा॥२४॥

ततस्तु तावकाश्शूराः पुरस्कृत्य यतव्रतम्।
शिखण्डिप्रमुखान् पार्थान् योधयामासुराहवे॥२५॥

चेदिभिस्सहपाश्वालैस् सहितो वानरध्वजः।
ययौ शान्तनवं भीष्मं पुरस्कृत्य शिखण्डिनम्॥२६॥

द्रोणपुलं शिनेर्नप्ता धृष्टकेतुस्तु पौरवम्।
युधामन्युस्सहामात्यं दुर्योधनमयोधयत्॥२७॥

विराटस्तु सहानीकस् सहानीकं जयद्रथम्।

वृद्धक्षत्रस्य दायादम् आससाद परन्तपः ॥२८॥

मद्रराजं महेष्वासं सह सैन्यैर्युधिष्ठिरः।
भीमसेनाभिगुप्तस्तु गजानीकमुपाद्रवत्॥२९॥

अप्रधृष्यमनावार्यं सर्वशस्त्रभृतां वरम्।
द्रोणं प्रति ययौ यत्तः पाञ्चाल्यास्सह सोमकैः ॥३०॥

कर्णिकारध्वजं चापि सिंहकेतुररिन्दमः।
प्रत्युज्जगाम सौभद्रं राजपुत्रो बृहद्बलः॥३१॥

शिखण्डिनं च पुत्रास्ते पाण्डवं च धनञ्जयम्।
राजभिस्समरे सार्धम् अभिपेतुर्जिघांसवः॥३२॥

तस्मिन्नतिभये भीमे सेनयोर्वैपराक्रमे।
सम्प्रधावत्स्वनीकेषु मेदिनी समकम्पत॥३३॥

¹तान्यनीकान्यनीकेषु536 समयुध्यन्त भारत।
तावकानां परेषां च दृष्ट्वाशान्तनवं रणे॥३४॥

ततस्तेषां प्रयतताम् अन्योन्यमभिधावताम्।
प्रादुरासीन्महाञ्शब्दो दिक्षु सर्वासु भारत॥३५॥

शङ्खदुन्दुभिर्निर्घोषो वारणानां च बृंहितम्।
सिंहनादश्च सैन्यानां दारुणस्समपद्यत॥३६॥

²या537 तु सर्वनरेन्द्राणां चन्द्रार्कसदृशप्रभा।

हाराङ्गदकिरीटेषु निष्प्रभा समपद्यत॥३७॥

रजोमेघाश्च सञ्जज्ञुश् शस्त्रविद्युद्धिरावृताः।
धनुषां चापि निर्घोषो दारुणस्समपद्यत॥३८॥

बाणशङ्खप्रणादाश्च भेरीणां च महास्वनाः।
रथघोषाश्च सञ्जज्ञुस्सेनयोरुभयोरपि॥३९॥

प्रासशक्त्यष्टिसङ्घैश्च बाणौघैश्चसमाकुलम्।
निष्प्रमाणमिवाकाशं सेनयोस्समपद्यत॥४०॥

^(1–2)अन्योन्यं538 रथिनःपेतुर् वाजिनश्च महाहवे।
कुञ्जराः कुञ्जराञ्जघ्नुः पादातांश्च पदातयः॥४१॥

तदासीत् सुमहद्युद्धं कुरूणां पाण्डवैस्सह।
भीष्महेतोर्नरव्याघ्र श्येनयोरामिषं यथा॥४२॥

तयोस्समागमो घोरो बभूव युधि भारत।
अन्योन्यस्य वधार्थाय जिगीषूणां रणाजिरे॥४३॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्या
भीष्मपर्वणि एकादशाधिकशततमोऽध्यायः॥ १११॥
॥ ६४॥ भीष्मवधपर्वणि एकसप्ततितमोऽध्यायः॥ ७९॥
[ अस्मिन्नध्याये ४३ श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1705298418ववव.png"/>

॥द्वादशोत्तरशततमोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1705297912mmm.png"/>

सङ्कुलयुद्धवर्णनम्॥

<MISSING_FIG href="../books_images/U-IMG-1705297978ववव.png"/>

सञ्जयः—

¹अभिमन्युर्महाराज539 तव पुत्रमयोधयत्।
महत्या सेनया युक्तो भीष्महेतोः पराक्रमी॥१॥

दुर्योधनो रणे कार्ष्णिंनवभिर्नतपर्वभिः।
आजघानोरसि क्रुद्धः पुनश्चैनं त्रिभिश्शरैः॥२॥

तस्य शक्तिं रणे कार्ष्णिर्मृत्योर्जिह्वामिवायसीम्।
प्रेषयामास सङ्क्रुद्धो दुर्योधनरथं प्रति॥३॥

तामापतन्तीं सहसा घोररूपां विशां पते।
द्विधा चिच्छेद पुत्रस्ते क्षुरप्रेण महारथः॥४॥

तां शक्तिं पतितां दृष्ट्वा कार्ष्णिःपरमकोपनः।
दुर्योधनं त्रिभिर्बाणैर् बाह्वोरुरसि चार्पयत्॥५॥

पुनश्चैनं शरैर्घोरैर् आजघान स्तनान्तरे।
दशभिर्भरतश्रेष्ठ दुर्योधनममर्षणम्॥६॥

तद्युद्धमभवद्घोरं चित्ररूपं च भारत।
ईक्षितृप्रीतिजननं सर्वपार्थिवपूजितम्॥७॥

भीष्मस्य निधनार्थाय पार्थस्य विजयाय च।
युयुधाते रणे वीरौ सौभद्रकुरुपुङ्गवौ॥८॥

सात्यकिं540 रभसं युद्धे द्रौणिर्ब्राह्मणपुङ्गवः।
आजघानोरसि क्रुद्धो नाराचेन परन्तपः॥९॥

शैनेयोऽपि गुरोः पुत्रं सर्वमर्मसु भारत।
अताडयदमेयात्मा नवभिः कङ्कपत्रिभिः॥१०॥

अश्वत्थामा तु समरे सात्यकिं नवभिश्शरैः।
^(2–3)त्रिंशता541 च पुनस्तूर्णं बाह्वोरुरसि चार्पयत्॥११॥

सोऽतिविद्धो महेष्वासो द्रोणपुत्रेण सात्यकिः।
द्रोणपुत्रंत्रिभिर्बाणैर् आजघान महायशाः॥१२॥

पौरवो धृष्टकेतुं तं शरैरासाद्य संयुगे।
व्यदारयत् तदा राजन् महेष्वासं महारथम्॥१३॥

तथैव पौरवं युद्धे धृष्टकेतुर्महारथः।
त्रिंशता निशितैर्बाणैर् विव्याध स महाभुजम्॥१४॥

पौरवस्तु धनुश्छित्वाधृष्टकेतोर्महारथः।

ननाद बलवान्नादं विव्याध निशितैश्शरैः॥१५॥

सोऽन्यत् कार्मुकमादाय पौरवं निशितैश्शरैः।
आजघान महाराज त्रिसप्तत्या शिलीमुखैः॥१६॥

तो तु तत्र महेष्वासौ महात्मानौ महारथौ।
महता शरवर्षेण परस्परमवर्षताम्॥१७॥

अन्योन्यस्य धनुश्छित्वा हयान् हत्वा च भारत।
विरथावसियुद्धाय सङ्गतौतो महारथौ॥१८॥

आर्षभे चर्मणी चित्रे शतचन्द्रपरिष्कृते।
तारकाशतचित्रे च निस्त्रिंशौ च महाप्रभौ॥१९॥

प्रगृह्य विपुलौ राजंस् तावन्योन्यमभिद्रुतौ।
वाशितासङ्गमे यत्तौ सिंहाविव महावने॥२०॥

मण्डलानि विचित्राणि गतप्रत्यागतानि च।
चेरतुर्दर्शयन्तौ तौ प्रार्थयान्तौपरस्परम्॥२१॥

पौरवो धृष्टकेतुं च शङ्खदेशे वरासिना।

¹तावन्योन्यं542 महाराज समासाद्य महारणे॥२२॥

अन्योन्यवेगाभिहतौ निपेततुररिन्दमौ॥२२॥

ततस्स्वरथमारोप्य पौरवं तनयस्तव।
जयत्सेनो रथेनाजावपोवाह रणाजिरात्॥२३॥

धृष्टकेतुं च समरे माद्रीपुत्रः प्रतापवान्।
अपोवाह रणे राजन् सहदेवः पराक्रमी॥२४॥

सहदेवस्सुशर्माणं विद्ध्वादशभिराशुगैः।
पुनर्विव्याध तं षष्ट्या पुनश्चनवभिश्शरैः॥२५॥

सुशर्मा तु रणे क्रुद्धस् तव पुत्रं विशां पते।
दशभिर्दशभिश्चैव विव्याध निशितैश्शरैः॥२६॥

चित्रसेनश्च तं राजन् विंशत्या नतपर्वभिः।
आजघान रणे क्रुद्धस् स च तं प्रत्यविध्यत॥२७॥

भीमस्य समरे राजन् यशो मानं च वर्धयन्।
सौभद्रो राजपुत्रंच बृहद्बलमयोधयत्॥२८॥

पार्थहेतोः पराक्रान्तो भीष्मस्य निधनं प्रति।
आर्जुनिं कोसलेन्द्रस्तु विद्ध्वानवभिरायसैः॥२९॥

पुनर्विव्याध सप्तत्या शरैस्सन्नतपर्वभिः॥३०॥

बृहद्बलं च सौभद्रो विद्ध्वापञ्चभिरायसैः।
नाकम्पयत सङ्ग्रामे विद्ध्वातं निशितैश्शरैः॥३१॥

कौसल्यश्च पुनश्चापि धनुश्चिच्छेद फाल्गुनेः।
आजघान शरैश्चापि त्रिंशद्भिः कङ्कपत्रिभिः॥३२॥

सोऽन्यत् कार्मुकमादाय राजपुत्रं बृहद्बलम्।
फाल्गुनिस्समरे क्रुद्धो विव्याध निशितैश्शरैः॥३३॥

¹युद्धं543 तयोस्समभवद् भीष्महेतोः परन्तप।
संरब्धयोर्महाराज समरे चित्रयोधिनोः॥३४॥

यथा देवासुरे युद्धे बलवासवयोरभूत्॥३४॥

भीमसेनो गजानीकं योधयन् बह्वशोभत।
यथा शक्रो वज्रपाणिर् दारयन् पर्वतोत्तमान्॥३५॥

ते वध्यमाना भीमेन मातङ्गा गिरिसन्निभाः।
निपेतुरुर्व्यां सहसा नादयन्तो वसुन्धराम्॥३६॥

गिरिमात्रा हि ते नागा भिन्नाञ्जनचयोपमाः।
विरेजुर्वसुधां प्राप्य विकीर्णा इव पर्वताः॥३७॥

युधिष्ठिरो महाराज मद्रराजं महाहवे।
महत्या सेनया युक्तं पीडयामास सङ्गतम्॥३८॥

मद्रेश्वरश्च समरे धर्मपुत्रं महारथम्।
पीडयामास सङ्क्रुद्धो भीष्महेतोः पराक्रमी ॥३९॥

विराटं सैन्धवो राजा विद्ध्वा सन्नतपर्वभिः।
नवभिस्सायकैस्तीक्ष्णैस् त्रिंशता पुनरर्पयत्॥४०॥

विराटश्च महाराज सैन्धवं वाहिनीमुखे।

¹त्रिंशता544 निशितैर्बाणैर् आजघान स्तनान्तरे॥४१॥

चित्रकार्मुकनिस्त्रिंशौचित्रवर्मायुधध्वजौ।
रेजतुश्चित्ररूपौ तौ सङ्ग्रामे मात्स्यसैन्धवौ॥४२॥

²द्रोणः523 पाञ्चालपुत्रेण समागम्य महारणे।
महासमुदयं चक्रे शरैस्सन्नतपर्वभिः॥४३॥

ततो द्रोणो महाबाहुर् पार्षतस्य महद्धनुः।
छित्त्वा पञ्चशतेषूंश्च पार्षतं प्रति सृष्टवान्॥४४॥

सोऽन्यत् कार्मुकमादाय पार्षतः परवीरहा।
द्रोणस्य मिषतो युद्धे प्रेषयामास सायकान्॥४५॥

ताञ्शराञ्शरसङ्घैश्च सन्निवार्य महारथः।
द्रोणो द्रुपदपुत्राय प्राहिणोत् पञ्च सायकान्॥४६॥

तस्य क्रुद्धो महाराज पार्षतः परवीरहा।
द्रोणाय चिक्षेप गदां यमदण्डोपमां रणे॥४७॥

तामापतन्तीं सहसा हेमपट्टविभूषिताम्।
शरैः पञ्चाशता द्रोणो वारयामास संयुगे॥४८॥

सा छिन्ना बहुधा राजन् द्रोणचापच्युतैश्शरैः।
चूर्णीकृता विशीर्यन्ती पपात वसुधातले॥४९॥

गदां विनिहतां दृष्ट्वा पार्षतश्शत्रुसूदनः।

द्रोणाय शक्तिं चिक्षेप सर्वपारशवीं शुभाम्॥५०॥

तां द्रोणो नवभिर्बाणैश् चिच्छेद युधि भारत।
पार्षतं च महेष्वासं पीडयामास संयुगे॥५१॥

एवमेतन्महायुद्धं द्रोणपार्षतयोरभूत्।
भीष्मं प्रति महाराज घोररूपं भयानकम्॥५२॥

अर्जुनः प्राप्य गाङ्गेयं पीडयन् निशितैश्शरैः।
अभ्यद्रवत संयत्तो वने मत्तमिव द्विपम्॥५३॥

प्रत्युद्ययौ च तं पार्थ भगदत्तः प्रतापवान्।
त्रिधा भिन्नेन नागेन मदान्धेन महाबलः॥५४॥

तमापतन्तं सहसा महेन्द्र गजसन्निभम्।
परं यत्नं समास्थाय बीभत्सुः प्रत्यविध्यत॥५५॥

ततो गजगतो राजा भगदत्तः प्रतापवान्।
अर्जुनं शरवर्षेण पीडयामास संयुगे॥५६॥

अर्जुनस्तु रणे नागम् आयान्तं पर्वतोपमम्।
विमलैरायसैस्तीक्ष्णैर् अविध्यत महारणे॥५७॥

शिखण्डिनं च कौन्तेयो याहि याहीत्यचोदयत्।
भीष्मं प्रति महाराज जह्येनमिति चाब्रवीत्॥५८॥

प्राग्ज्योतिषस्ततो हित्वा पाण्डवं पाण्डुपूर्वज।
प्रययौ त्वरितो राजन् द्रुपदस्य रथं प्रति॥५९॥

ततोऽर्जुनो महाराज भीष्ममभ्यद्रवद्द्रुतम्।
शिखण्डिनं पुरस्कृत्य ततो युद्धमवर्तत॥६०॥

ततस्ते तावकाश्शूराः पाण्डवं रभसं युधि।
तमभ्यधावन् क्रोशन्तस् तदद्भुतमिवाभवत्॥६१॥

नानाविधान्यनीकानि पुत्राणां ते नराधिप।
अर्जुनो व्यधमत् काले दिवीवाभ्राणि मारुतः॥६२॥

शिखण्डी तु समासाद्य भरतानां पितामहम्।
इषुभिस्तूर्णमव्यग्रो बहुभिस्स्तं समाचिनोत्॥६३॥

सोमकांश्च रणे भीष्मो जघ्ने पार्थपदानुगान्॥६४॥

रथाग्न्यङ्गारचापार्चिर् असिशक्तिगदेन्धनः।
शरसङ्घमहाज्वालः क्षत्रियान् समरेऽदहत्॥६५॥

यथा हि सुमहानग्निःकक्षे चरति सानिलः।
तथा जज्वाल भीष्माग्निर् दिव्यान्यस्त्राण्युदीरयन्॥६६॥

न्यवारयत सैन्यं च पाण्डवानां महारथः।
सुवर्णपुङ्खैरिषुभिश् शरैस्सन्नतपर्वभिः॥६७॥

छादयन् स दिशो भीष्मः प्रदिशञ्च महायशाः।
पातयन् रथिनो राजन् गजाश्वान् सहसादिभिः॥६८॥

मुण्डतालवनानीव स चकार रथव्रजान्॥६८॥

निर्मनुष्यान् स्थान् राजन् गजानश्वांश्च संयुगे।
चकार समरे भीष्मस् सर्वशस्त्रभृतां वरः॥६९॥

तस्य ज्यातलनिर्घोषं विष्फूर्जितमिवाशनेः।
निशम्य सर्वतो राजन् समकम्पन्त सैनिकाः॥७०॥

¹अमोघान्यपतन254् बाणाः पितुस्ते भरतर्षभ।
नासज्जन्त शरीरेषु भीष्मचापच्युताश्शराः॥७१॥

निर्मनुष्यान् रथान् राजन् सुयुक्ताञ्जवनैर्हयैः।
वातायमानान् पश्यामो ह्रियमाणान् विशां पते॥७२॥

चेदिकाशिकरूशानां सहस्राणि चतुर्दश।
महारथास्समाख्याताः कुलपुत्रास्तनुत्यजः॥७३॥

अपरावर्तिनश्शूरास् सुवर्णविकृतध्वजाः।
सङ्ग्रामे भीष्ममासाद्य सवाजिरथकुञ्जराः॥७४॥

जग्मुस्ते परलोकाय व्यादितास्यमिवान्तकम्॥७५॥

तत्र नासीन्महाराज सोमकानां महारथः।
यस्सम्प्राप्य रणे भीष्मं जीविताय मनो दधे॥७६॥

तांश्च सर्वान् रणे योधान् प्रेतराजपुरं प्रति।
नीतान् भीष्मेण मन्यन्ते दृष्ट्वा भीष्मस्य विक्रमम्॥७७॥

न कश्चिदेनं समरे प्रत्युद्याति महारथः।

¹ऋते545 पाण्डुसुतं वीरं श्वेताश्वं कृष्णसारथिम्॥७८॥

शिखण्डिनं च समरे पाञ्चाल्यममितौजसम्॥७८॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि द्वादशाधिकशततमोऽध्यायः॥ ११२॥
॥ ६४॥ भीष्मवधपर्वणि द्विसप्ततितमोऽध्यायः॥ ७२॥
[अस्मिन्नध्याये ७८॥ श्लोकाः]
<MISSING_FIG href="../books_images/U-IMG-1705295596ववव.png"/>

॥त्रयोदशाधिकशततमोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1705295665ललल.png"/>

सङ्कुलयुद्धवर्णनम्॥

<MISSING_FIG href="../books_images/U-IMG-1705295698ववव.png"/>

सञ्जयः—

शिखण्डी तु ततो भीष्मम् ²विजिगीषुर्महारथम्546
³जयाय547 पाण्डुपुत्राणाम् आसाद्य पुरुषर्षभम्॥१॥

तरस्वी बलवान् सङ्ख्ये प्रत्युद्यातो महारथः॥१॥

दशभिर्निशितैर्भल्लैर् आजघान स्तनान्तरे॥२॥

शिखण्डिनं तु गाङ्गेयः क्रोधदीप्तेन चक्षुषा।
अवैक्षत कटाक्षेण निर्दहन्निव भारत॥३॥

स्त्रीत्वं तत् संस्मरन् राजन् सर्वलोकस्य पश्यतः।

नाजधान रणे भीष्मो बाणगोचरमागतम्॥४॥

अर्जुनस्तु महाराज शिखण्डिनमभाषत॥४॥

अर्जुनः—

अभित्वरस्वास्य वधे शिखण्डिन् रथसत्तम।
किं ते विवक्षया वीर जहि भीष्मं महारथम्॥५॥

न ह्यन्यमनुपश्यामि कश्चिद्यौधिष्ठिरे बले।
यश्शक्तस्समरे भीष्मं योधयेत पितामहम्॥६॥

ऋते त्वां पुरुषव्याघ्र सत्यमेतद्ब्रवीमि ते॥७॥

सञ्जयः—

एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ।
शरैर्नानाविधैस्तूर्णं पितामहमुपाद्रवत्॥८॥

अचिन्तयित्वा तान् बाणान् पिता देवव्रतस्तव।
अर्जुनं समरे क्रुद्धं वारयामास सायकैः॥९॥

तथैव च चमूं सर्वां पाण्डवानां महारथः।
अप्रैषीत् समरे भीष्मः परलोकाय सायकैः॥१०॥

तथैव पाण्डवा राजन् सैन्येन महता वृताः।
भीष्मं सम्प्रच्छादयामासुर् मेघा इव दिवाकरम्॥११॥

स समन्तात् परिवृतो भीष्मो हि भरतर्षभ।
निर्ददाह रणे शूरान् वने वह्निरिव ज्वलन्॥

तत्राद्भुतमपश्याम तव पुत्रस्य पौरुषम्।
अयोधयत यत् पार्थ जुगोप च महाव्रतम्॥१३॥

कर्मणा तेन समरे तव पुत्रस्य धन्विनः।
दुश्शासनस्य तुतुषुस् सर्वे लोका महात्मनः॥१४॥

यदेकस्समरे पार्थान् सानुगान् समयोधयत्।
न चैनं पाण्डवा युद्धे वारयामासुरुल्बणम्॥१५॥

दुश्शासनेन समरे रथिनो विरथीकृताः।
सादिनश्च महाराज दन्तिनश्च महाबलाः॥१६॥

विनिर्भिन्नाश्शरैस्तीक्ष्णैर् निपेतुर्धरणीतले।
शरातुरास्तथैवान्ये दन्तिनो विद्रुता दिशः॥१७॥

यथाग्निरिन्धनं प्राप्य ज्वलेद्दीप्तार्चिरुल्बणम्।
तथा जज्वाल पुत्रस्ते पाण्डुसेनां विनिर्दहन्॥१८॥

तं भारतमहामात्रं पाण्डवानां महारथः।
जेतुं नोत्सहते कश्चिन्नाभ्युद्यातुं कथञ्चन॥१९॥

ऋते महेन्द्रतनयं श्वेताश्वं कृष्णसारथिम्॥१९॥

स हि तं समरे राजन् विजित्य विजयोऽर्जुनः।
भीष्ममेवाभिदुद्राव सर्वसैन्यस्य पश्यतः॥२०॥

विजितस्तव पुत्रोऽपि भीष्मबाहुव्यपाश्रयः।
पुनस्समाश्वास्य प्रायुध्यत रणोत्कटः॥२१॥

अर्जुनं च रणे राजन् योधयन् बह्वशोभत॥२२॥

¹शिखण्डी548 तु रणे राजन् विव्याध च पितामहम्।
शरैरशनिसंस्पर्शैस् तथा सर्पविषोपमैः॥२३॥

न च स्म ते रुजं चक्रुः पितुस्तव जनेश्वर \।
स्मयमानस्तु गाङ्गेयस् तान् बाणाञ् जगृहे तदा॥२४॥

उष्णार्तो हि नरो यद्वज् जलधाराः प्रतीच्छति।
तथा जग्राह गाङ्गेयश् शरधाराश्शिखण्डिनः॥२५॥

तं क्षत्रिया महाराज ददृशुर्घोरामाहवे।
भीष्मं दहन्तं सैन्यानि पाण्डवानां महात्मनाम्॥२६॥

ततोऽब्रवीत् तव सुतस् सर्वसैन्यानि मारिष॥२६॥

दुर्योधनः—

अभिद्रवत सैन्यानि फल्गुनं सर्वतो रथैः।
भीष्मो वस्समरे सर्वान् पालयिष्यति धर्मवित्॥२७॥

तद्भयंसुमहत् त्यक्त्वा पाण्डवान् प्रति युध्यत।
एष तालेन दीप्तेन भीष्मस्तिष्ठति पालयन्॥२८॥

सर्वेषां धार्तराष्ट्राणां रणे वर्म च शर्म च।
देवा अपि समुद्युक्ता नालं भीष्मं समासितुम्॥२९॥

किमु पार्था महात्मानं मर्त्यभूता वृथाबलाः॥३०॥

तस्माद्द्रवत हे योधाः फल्गुनं प्राप्य संयुगे॥३०॥

अहमद्य रणे यत्तो योधयिष्यामि फल्गुनम्।
सहितस्सर्वतो यत्तैर् भवद्भिर्वसुधाधिपैः॥३१॥

सञ्जयः—

तच्छ्रुत्वा तु वचो राजंस तव पुत्रस्य धन्विनः।
अर्जुनं प्रति संयत्ता बलवन्तो महारथाः॥३२॥

विदेहास्तं कलिङ्गाश्च दासेरुकगणैस्सह।
अभिपेतुर् निषादाश्च सौवीराश्च महारणे॥३३॥

बाह्लीका दरदाश्चैव प्रतीच्यादीच्यमालवाः।
¹अभीषाहाश्शूरसेनाश्शिबयोऽथ वसातयः॥३४॥

साल्वाश्शूरास्त्रिगर्ताश्च अम्बष्ठाः केकयैस्सह।
अभिपेतू रणे पार्थ पतङ्गा इव पावकम्॥३५॥

स तान् सर्वान् सहानीकान् महाराज महारथान्।
दिव्यान्यस्त्राणि सञ्चिन्त्य प्रसन्धाय धनञ्जयः॥३६॥

स तैरस्त्रैर्महावेगैर ददाहाशु महाबलः।
शरप्रतापैर्बीभत्सुः पतङ्गानिव पावकः॥३७॥

तस्य बाणसहस्राणि सृजतो दृढधन्विनः।
दीप्यमानमिवाकाशे गाण्डीवं समदृश्यत॥३८॥

¹ते549 शरार्ता महाराज विप्रकीर्णरथध्वजाः।
नात्यवर्तन्त राजानस्सहिता वानरध्वजम्॥३९॥

²सध्वजा550 रथिनः पेतुर् हयारोहा हयैस्सह।
गजाश्च सगजारोहाः किरीटिशरपीडिताः॥४०॥

ततोऽर्जुनभुजोत्सृष्टैर् आवृतासीद्वसुन्धरा।
विद्रुतं दिक्षु सर्वासु शरैर्बलमदृश्यत॥४१॥

अथ पार्थो महाबाहुर् द्रावयित्वा वरूथिनीम्।
दुश्शासनाय समरे प्रेषयामास सायकान्॥४२॥

ते तु भित्त्वा तव सुतं दुश्शासनमयोमुखाः।
धरणीं विविशुस्सर्वे वल्मीकमिव पन्नगाः॥४३॥

हयांश्चास्य ततो जघ्ने सारथिं च न्यपातयत्॥४४॥

विविंशतिं च विंशत्या विरथीकृतवान् प्रभुः।
आजघान भृशं चैव नवभिर्नतपर्वभिः॥४५॥

कृपं शलं च शल्यं च विद्ध्वाबहुभिरायसैः।
चकार विरथांश्चैव कौन्तेयश् श्वेतवाहनः॥४६॥

एवं ते विरथास्सर्वे कृपश्शल्यश्च मारिष।

¹दुरशासनो551 विकर्णश्च तथैव च विविंशतिः॥४७॥

सम्प्राद्रवन्त समरे निर्जितास्सव्यसाचिना॥४७॥

पूर्वाह्णेतु महाराज पराजित्य महारथान्।
प्रजज्वाल रणे पार्थो विधूम इव पावकः॥४८॥

तथैव शरवर्षेण भास्करो रश्मिमानिव।
अन्यानपि महाराज तापयामास पार्थिवान्॥४९॥

पराङ्मुखीकृत्य तथा शरवर्षैर्महारथान्।
प्रावर्तयत सङ्ग्रामे शोणितोदां महानदीम्॥५०॥

²मध्येन229 कुरुसैन्यानां पाण्डवानां च भारत॥५१॥

तस्मिन्नतिमहाभीमे राजन् वीरवरक्षये।
भीष्मं प्रति पराक्रान्ताः पाण्डवास्सह सृञ्जयैः॥५२॥

तैः पराक्रान्तमालोक्य युधि राजन् पितामहम्।
न न्यवर्तन्त ते पुत्रा ब्रह्मलोकपुरस्कृताः॥५३॥

इच्छन्तो निधनं युद्धे स्वर्गलोकपरायणाः।
³पाण्डवानभ्यवर्तन्त229 तावका युद्धदुर्मदाः॥५४॥

पाण्डवाश्च महाराज स्मरन्तो विविधान् बहून्।

¹क्लेशान्139 कृतान् सपुत्रेण त्वया पूर्वं नराधिप॥५५॥

भयं त्यक्त्वा रणे शूरास् स्वर्गलोकपुरस्कृताः।
तावकांस्तव पुत्रांश्च योधयन्ति स्म हृष्टवत्॥५६॥

²गजाश्वरथसङ्घाश्च552 बहुधा रथिभिर्हताः।
रथाश्वा निहता नागैर् नागा हयपदातिभिः॥५७॥

अन्तरा च्छिद्यमानानि शरीराणि शिरांसि च।
निपेतुर्दिक्षु सर्वासु गजाश्वरथयोधिनाम्॥५८॥

छन्नमायोधनं रेजे कोदण्डाङ्गदधारिभिः।
पतितैः पायमानैश्च राजपुत्रैर्महारथैः॥५९॥

रथनेमिनिकृत्ताङ्गारथाश्वैरवपोथितैः।
पादाताश्च व्यदृश्यन्त साश्वाश्चहयसादिनः॥६०॥

गजाश्च रथसङ्घाश्च परिपेतुस्समन्ततः।
विकीर्णाश्च रथा भूमौ भग्नचक्रयुगध्वजाः॥६१॥

³तद्धताश्वरथौघानां229 रुधिरेण समुक्षितम्।
छन्नमायोधनं रेजे रक्ताभ्रमिव चाम्बरम्॥६२॥

श्वानः काकाश्च गृध्राश्च वृका गोमायुभिस्सह।
प्रणेदुर्भक्षमासाद्य विविधाश्च मृगद्विजाः॥६३॥

चवुर्बहुविधाश्चैव दिक्षु सर्वासु मारुताः।
दृश्यमानेषु रक्षस्सु भूतेषु च नदत्सु च॥६४॥

काञ्चनानि च दामानि पताकाश्च महाधनाः।
धूयमाना व्यदृश्यन्त सहसा मारुतेरिताः॥६५॥

श्वेतच्छत्रसहस्राणि250 सध्वजाश्च महारथाः।
विकीर्णास्समदृश्यन्त शतशोऽथ सहस्रशः॥६६॥

सपताकाश्च मातङ्गा दिशो जग्मुश्शरातुराः॥६६॥

²क्षत्रियाश्च553मनुष्येन्द्र गदाशक्तिधनुर्धराः।
समन्ततश्च दृश्यन्ते पतिता धरणीतले॥६७॥

इषुभिस्ताड्यमानाश्च नाराचैश्च सहस्रशः।
पेतुरार्तस्वरं कृत्वा तत्र तत्र महागजाः॥६८॥

सेनापतिस्तु समरे ³धृष्टद्युम्नः554 प्रतापवान्।
अभिदुद्राव वेगेन तव सेनां महाबलः॥६९॥

सेनापतिः पुनः क्रुद्धस् स्वसेनां प्राह वै तदा॥७०॥

धृष्टद्युम्नः—

अभिद्रवत गाङ्गेयं सोमकाः किं चिरेण वः॥७०॥

सञ्जयः—

⁴सेनापतिवचश्श्रुत्वा179 सोमकास्सह सृञ्जयैः।

अभ्यद्रवन्त गाङ्गेयं शस्त्रवृष्ट्या समन्ततः॥७१॥

तदा भीष्मो महाराज दिव्यमस्त्रमुदीरयन्।
अभ्यद्रवत कौन्तेयं मिषतां सर्वधन्विनाम्॥७२॥

तं शिखण्डी रणे क्रुद्धम् अभ्यधावत दंशितः।
असंहरत् ततो भीष्मस् तदस्त्रं पावकोपमम्॥७३॥

एतस्मिन्नेव काले तु कौन्तेयश्श्वेतवाहनः।
निजघ्नेतावकं सैन्यं मोहयित्वा पितामहम्॥७४॥

इति श्रीमहाभारते शतसहस्रिकार्या संहितार्यंवैयासिक्यां
भीष्मपर्वणि त्रयोदशोत्तरशततमोऽध्यायः॥ ११३॥
॥ ६४॥ भीष्मवधपर्वणि त्रिसप्ततितमोऽध्यायः॥ ७३॥
[ अस्मिन्नध्याये ७४॥ श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1705232286ववव.png"/>

॥चतुर्दशोत्तरशततमोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1705232303mmm.png"/>

भीष्मपराक्रमवर्णनम्॥

<MISSING_FIG href="../books_images/U-IMG-1705232334ववव.png"/>

सञ्जयः—

असंव्यूढेष्वनीकेषु भूयिष्ठमनुवर्तिषु।
ब्रह्मलोकपरास्सर्वे समयुध्यन्त भारत॥१॥

न ह्यनीकमनीकेषु समसज्जत सङ्कुले॥१॥

¹रथा555 न रथिभिस्सार्धं पादाता न पदातिभिः।

अश्वा नाश्वैरयुध्यन्त नं गजा गजयोधिभिः॥२॥

महान् व्यतिकरो रौद्रस् सेनयोस्समपद्यत॥३॥

नरनागरथाश्वेषु व्यवकीर्णेषु सर्वशः।
क्षयस्तस्मिन् महारौद्रे निर्विशेषमजायत॥४॥

ततश्शल्यः कृपश्चैव चित्रसेनश्च भारत।
दुश्शासनो विकर्णश्च रथानास्थाय दंशिताः॥५॥

पाण्डवानां रणे शूरा ध्वजिनीं समकम्पयन्॥५॥

सा वध्यमाना समरे पाण्डुसेना महात्मभिः।
त्रातारं नाध्यगच्छद्धैमज्जमानेव नौर्जले॥६॥

यथा हि शैशिरः कालो गवां मर्माणि कृन्तति।
तथा पाण्डुसुतानां वै भीष्मो मर्माण्यकृन्तत॥७॥

¹अतीव556 तव सैन्यस्य पार्थेन च महात्मना।
नगमेघप्रतीकाशाः पातिता बहुधा गजाः॥८॥

सोमकास्सृञ्जयैस्सार्धं सर्वे ते युद्धदुर्मदाः।
अभ्यद्रवन्त गाङ्गेयं शरवृष्ट्या समन्ततः॥९॥

वध्यमानस्ततो राजन् पिता देवव्रतस्तव।
अमर्षवशमापन्नो योधयामास सृञ्जयान्॥१०॥

तस्य कीर्तिमतस्तात पुरा रामेण धीमता।

सम्यग् दत्ता शस्त्रशिक्षा परानीकविनाशनी॥११॥

स तां विद्यामधिष्ठाय कुर्वन् परबलक्षयम्।
अहन्यहनि पार्थानां वृद्धः कुरुपितामहः॥१२॥

भीष्मो दश सहस्राणि जघान परवीरहा॥१३॥

¹तस्मिंस्तु557 दशमे प्राप्ते दिवसे भरतर्षभ।
एको भीष्मो हि मत्स्येषु पाञ्चालेषु च संयुगे॥१४॥

²गजाश्वं558चामितं हत्वा हत्वा चैव महारथान्।
हत्वा पञ्च सहस्राणि रथानां पृथिवीपते॥१५॥

नराणां चायुतं युद्धे सहस्राणि चतुर्दश।
तथा दन्तिसहस्रं च हयानामयुतं पुनः॥१६॥

शिक्षावशेन न्यहनत् पिता तव विशां पते॥१६॥

ततस्सर्वान् महीपालान् क्षोभयित्वा विशां पते॥
विराटस्य प्रियो भ्राता शतानीको निपातितः॥१७॥

शतानीकं च समरे हत्वा भीष्मः प्रतापवान्।
³सहस्राणि490 महाराज राज्ञां भल्लैरपातयत्॥१८॥

ये च केचन पाण्डूनाम् अन्वगीयुर्धनञ्जयम्।
राजानो भीष्ममासाद्य गतास्ते यमसादनम्॥१९॥

किरन् दश दिशो भीष्मश् शरजालैस्समन्ततः।
अतीत्य सेनां पार्थानाम् अवतस्थे चमूमुखे॥२०॥

स कृत्वा सुमहत् कर्म तस्मिन् वै दशमेऽहनि।
¹सेनयोरन्तरा559 तिष्ठन् प्रगृहीतशरासनः॥२१॥

न चैनं पार्थिवास्तत्र शेकुः केचिन्निरीक्षितुम्।
मध्यं प्राप्तं यथा ग्रीष्मे तपन्तं भास्करं दिवि॥२२॥

यथा दैत्यचमूं स्कन्दस् तापयामास संयुगे।
तथा भीष्मः पाण्डुसेनां तापयामास भारत॥२३॥

तथा च तं पराक्रान्तम् आलोक्य मधुसूदनः।
उवाच देवकीपुत्रः प्रीयमाणो धनञ्जयम्॥२४॥

श्रीभगवान्—

एकश्शान्तनवो भीष्मस् सेनयोरन्तरे स्थितः।
तं निहत्य बलादेनं विजयस्ते भविष्यति॥२५॥

यत्तस्संस्तम्भयस्वैनं यत्रैषोऽभ्येति ते चमूम्।
न हि भीष्मशरानन्यस् सोढुमुत्सहते पुमान्॥२६॥

सञ्जयः—

ततस्तस्मिन् क्षणे राजंश चोदितो वानरध्वजः।

सरथं सध्वजं साश्वंभीष्ममन्तर्दधे शरैः॥२७॥

स चापि कुरुमुख्यानाम् ऋषभः पाण्डवेरितान्।
शरव्रातैश्शरव्रातान् बहुधा विदुधाव तान्॥२८॥

¹तथा233 पुनर्जघानाशु पाण्डवानां महारथान्।
शरैरशनिकल्पैश्च शिताग्रैश्च सुपर्वभिः॥२९॥

ततः पाञ्चालराजश्च धृष्टकेतुश्च वीर्यवान्।
पाण्डवो भीमसेनश्च धृष्टद्युम्नश्च पार्षतः॥३०॥

यमौ च चेकितानश्च सात्यकिश्च महारथः।
सौभद्रो रथिनां श्रेष्ठो राक्षसश्च घटोत्कचः॥३१॥

द्रौपदेयाश्शिखण्डी च कुन्तिभोजश्च वीर्यवान्।
विराटश्च महाराज पाण्डवेयाश्च सर्वशः॥३२॥

एते चान्ये च बहवो निकृत्ता भीष्मसायकैः।
समुद्धूता महाराज निमग्नाश्शोकसागरे॥३३॥

²अथोद्यता233 महाराज प्रगृहीत शरासनाः।
रणोद्यतंमहावीरं भीष्ममेवाभिदुद्रुवुः॥३४॥

ततश्शिखण्डी वेगेन प्रगृह्य परमायुधम्।
भीष्ममेवाभिदुद्राव रक्ष्यमाणः किरीटिना॥३५॥

ततोऽस्य तुरगान् हत्वा सर्वान्तरविभागवित्।

भीष्ममेवाभिदुद्राव बीभत्सुरपराजितः॥३६॥

सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः।
विराटो द्रुपदश्चैव माद्रीपुत्रौ युधिष्ठिरः॥३७॥

दुद्रुवुर्भीष्ममेवाजौ रक्षिता दृढधन्वना॥३८॥

अभिमन्युश्च समरे द्रौपद्याः पञ्च चात्मजाः।
दुद्रुवुस्समरे भीष्मं समुद्यतदृढायुधम्॥३९॥

ते सर्वे दृढधन्वानस् संयुगेष्वपलायिनः।
बहुधा भीष्ममानर्च्छुर् मार्गणैः कृतमार्गणाः॥४०॥

विधूय तान् बाणगणान् ये मुक्ताः पार्थिवोत्तमैः।
पाण्डवानामदीनात्मा व्यगाहत वरूथिनीम्॥४१॥

कृत्वा शरविघातं च क्रीडन्निवमहारथः।
नाभिसन्धत्त पाञ्चाल्ये स्मयमानो मुहुर्मुहुः॥४२॥

स्त्रीत्वं च समनुस्मृत्य भीष्मस्तत्रशिखण्डिनः।
जघान द्रुपदानीके रथान् सप्त महारथः॥४३॥

ततः किलकिलाशब्दः क्षणेन समजायत।
मध्ये पाञ्जालचेदीनां तमेकमभिधावताम्॥४४॥

ते नराश्वरथव्रातैर् वारणैश्च पदातिभिः।
तमेकं छादयामासुर् मेघा इव दिवाकरम्॥४५॥

भीष्मं भागीरथीपुत्रंप्रतपन्तं रणे रिपून्॥४५॥

ततस्तस्य च तेषां च युद्धे देवासुरोपमे।
¹किरीटी560 भीष्ममानर्च्छत् पुरस्कृत्य शिखण्डिनम्॥४६॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि चतुर्दशाधिकशततमोऽध्यायः॥११४॥
॥६४॥भीष्मवधपर्वणि चतुस्सप्ततितमोऽध्यायः॥७४॥
[ अस्मिन्नध्याये ४६॥श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1705230346ववव.png"/>

॥पञ्चदशोत्तरशततमोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1705230335ललल.png"/>

भीष्मनिपातः॥

सञ्जयः—

एवं ते पाण्डवास्सर्वे पुरस्कृत्य शिखण्डिनम्।
विव्यधुस्समरे भीष्मं परिवार्य समन्ततः॥१॥

शतघ्नीभिस्सुघोराभिः पट्टसैश्च परश्वथैः।
मुद्गरैर्मुसलैः प्रासैः क्षेपणीयैश्च सर्वतः॥२॥

शरैः कनकपुङ्खैश्च शक्तितोमरकर्पणैः।
नाराचैर्वत्सदन्तैश्च मुसुण्ठीभिश्च सर्वशः॥३॥

अताडयन् रणे भीष्मं सहितास्सर्वसृञ्जयैः॥३॥

स विशीर्णतनुत्राणः पीडितो बहुभिश्शरैः।

विव्यथे नैव गाङ्गेयो भिद्यमानेषु मर्मसु॥४॥

सुदीप्तशरजालार्चिर् अस्त्रप्रसृतमारुतः।
नेमिनिर्ह्रादसन्नादो महास्त्रोदयपावकः॥५॥

चित्रचापमहाज्वालो वीरक्षयमहेन्धनः।
युगान्ताग्निसमो भीष्मः परेषां समपद्यत॥६॥

निवृत्य रथसङ्घानाम् अन्तरेण विनिस्सृतः।
दृश्यते स्म नरेन्द्राणां पुनर्मध्यगतश्चरन्॥७॥

ततः पाञ्चालराजं च धृष्टकेतुमतीत्य च।
पाण्डवानीकिनीमध्यम् आससादातिवेगितः॥८॥

ततस्सात्यकिभीमौ च पाण्डवं च धनञ्जयम्।
द्रुपदं च विराटं च धृष्टद्युम्नं च पार्षतम्॥९॥

¹भीमघोषैर्महावेगैर229् मर्मावरणभेदिभिः।
षडेतान् षड्भिरानर्छद् भास्करप्रतिमैश्शरैः॥१०॥

तस्य ते निशितान् बाणान् सन्निवार्य महारथाः।
²दशभिर्दशभिर्भीष्मम्561 अर्दयामासुरोजसा॥११॥

शिखण्डी च महाबाणान् मुमोचान्यान् महाव्रते।
ते भीष्मं विविशुस्तूर्णं स्वर्णपुङ्खाश्शिलाशिताः॥१२॥

ततः किरीटी संरब्धो भीष्ममेवाभ्यवर्तत।

<MISSING_FIG href="../books_images/U-IMG-1707475640Screenshot2024-01-08164655.jpg"/>1. अ-क—नास्तीदमर्धम् 2. अ–षडर्धानि न सन्ति

शिखण्डिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत्॥१३॥

भीष्मस्य धनुषश्छेदं नामृष्यन्त महारथाः॥१४॥

द्रोणश्च कृतवर्मा च सैन्धवश्च जयद्रथः।
भूरिश्रवाश्शलश्शल्यो भगदत्तस्तथैव च॥१५॥

निजघ्नुः परमक्रुद्धाः किरीटिनमभिद्रुताः।
उत्तमास्त्राणि दिव्यानि दर्शयन्तो महारथाः॥१६॥

अभिपेतुस्स्म संरब्धाश् छादयन्ति स्म पाण्डवम्॥१६॥

तेषामापततां शब्दश् शुश्रुवे फल्गुनं प्रति।
उद्धूतानां यथा शब्दश् समुद्राणां युगक्षये॥१७॥

घ्नत त्वरत गृह्णीत युध्यत प्रनिकृन्तत।
इत्यासीत् तुमुलश्शब्दः फल्गुनस्य रथं प्रति॥१८॥

तं शब्दं तुमुलं श्रुत्वा पाण्डवानां महारथाः।
¹अभ्यधावन562् परीप्सन्तः फल्गुनस्य रथं प्रति॥१९॥

सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः।
विराटद्रुपदौ चोभौ राक्षसश्च घटोत्कचः॥२०॥

अभिमन्युश्च सङ्क्रुद्धस् सप्तैते क्रोधमूर्च्छिताः।
²समभ्यधावंस्त्वरिताश्229 चित्रकार्मुकधारिणः॥२१॥

<MISSING_FIG href="../books_images/U-IMG-1707474841Screenshot2024-01-08164655.jpg"/>

1. घ—इतस्सप्तदशार्धानि न सन्ति

2. अ-क—नास्तीदमर्धम्

तेषां समभवद्युद्धं तुमुलं रोमहर्षणम्।
पुरा वै भरतश्रेष्ठ देवानां दानवैरिव॥२२॥

शिखण्डी तु रथश्रेष्ठो रक्ष्यमाणः किरीटिना।
अविध्यद्दशभिर्भीष्मं छिन्नधन्वानमाहवे॥२३॥

सारथिं दशभिश्चास्य ध्वजमेकेन चिच्छिदे॥२४॥

सोऽन्यत् कार्मुकमादाय गाङ्गेयो वेगवत्तरम्।
¹जघान563 निशितैर्बाणैर् अर्जुनं परवीरहा॥२५॥

तदप्यस्य शितैर्भल्लैस् त्रिधा चिच्छेद फल्गुनः॥२५॥

एवं स पाण्डवः क्रुद्ध आत्तमात्तं पुनः पुनः।
धनुश्चिच्छेद भीष्मस्य सव्यसाची धनञ्जयः॥२६॥

स च्छिन्नधन्वा सङ्क्रुद्धस् सृक्विणी परिसंलिहन्।
शक्तिं जग्राह वेगेन गिरीणामपि दारणीम्॥२७॥

तां च चिक्षेप सङ्क्रुद्धः फल्गुनस्य रथं प्रति॥२८॥

तामापतन्तीं सम्प्रेक्ष्य ज्वलन्तीमशनीमिव।
समधत्त शितान् भल्लान् पञ्च पाण्डवनन्दनः॥२९॥

ततश्चिच्छेद तां शक्तिं पञ्चधा पञ्चभिश्शरैः।
सङ्क्रुद्धो भरतश्रेष्ठो भीष्मबाहुबलेरिताम्॥३०॥

सा पपात भुवि च्छिन्ना सङ्क्रुद्धेन किरीटिना।
मेघबृन्दादिव भ्रष्टा विच्छिन्नेव शतह्रदा॥३१॥

¹

छिन्नांशक्तिमथालोक्य भीष्मः क्रोधसमन्वितः।
अचिन्तयद्रणे वीरो बुद्ध्या परपुरञ्जयः॥३२॥

शक्तोऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान्।
यद्येषां न भवेद्गोप्ता विष्णुः कारणमानुषः॥३३॥

अजय्यश्चैव लोकानां सर्वेषामिति मे मतिः।
कारणद्वयमास्थाय नाहं योत्स्यामि पाण्डवैः॥३४॥

अवध्यत्वाच्च पाण्डूनां स्त्रीभावाच्च शिखण्डिनः।
पित्रा तुष्टेन मे पूर्वं यदाऽम्बां स्वामुदावहत्॥३५॥

—————————————————————————————————————————

1. अ–क—शरान् निपातयामास ह्यर्जुनस्य रथोपरि।
तीक्ष्णवेगान् महारौद्रान् कालकल्पाञ् शिलीमुखान्॥

तानर्जुनो न शक्तोऽभून्निवारयितुमञ्जसा।
सुवर्णपुङ्खैर्निशितैस् स्वबाहुबलवेगितैः॥

ततश्शान्तनवो भीष्मः पुनश्चार्जुनमाहवे।
विव्याध निशितैर्बाणैश् शिताग्रैश्च शिलीमुखैः॥

तानर्जुनप्रयुक्तांश्च बाणपूगान् सहस्रशः।
नाशयामास निशितैश् शरत्रातैस्सुपर्वभिः॥

भीष्मश्शान्तनवो राजन् तदद्भुतमिवाभवत्॥

भीष्मस्य चापच्युतबाणवर्षैः
पार्थस्य बाणाःक्षयतामवापुः।
यावायवाभ्यां शुचिशुक्रयोगे
आतानतप्ता इव दावसङ्काः॥

तद्बाणवर्षं युधि चार्जुनेन
प्रयुक्तमाशीविषतुल्यरूपः।
भीष्मोऽप्रमेयो निशितैश्शराग्रैस्
तस्मिन् क्षणे संशमयाञ्चकार॥

ततोऽर्जुनो गाण्डोववेगमुक्तैश्
शराग्रपुङ्खीकृतशस्त्रपुङ्खैः।
ववर्ष भोष्मं युधि बाणवर्षैस्
स्वातीगतश्शुक्र इवातिवृष्टिम्॥

रणप्रचण्डं सुमहानुभावं
भीष्मं स्थितं चाभिमुखेऽभियोद्धुम्।
दृष्ट्वाऽर्जुनोऽमुच्यत बाणवर्षैस्
स्वातीगतश्शुक्र इवातिवृष्टिम्॥

ततोऽर्जुनं भोमबलो महात्मा
पुनर्जंघानाशु शरैस्स भीष्मः।
तानर्जुनश्चापततस्सुतीक्ष्णान्
भल्लैश्शितैरुग्रवेगैः प्रशाम्य॥

छित्त्वा धनुश्वास्य पुनर्बिभेद
द्विधा दृढं शान्तनवस्य राजन्॥
स च्छिन्नधन्वा युधि सम्प्रक्रुद्धो
धनुस्समुत्सृज्य महोग्ररूपाम्।

भीष्मश्शितांकाञ्चनहेमदण्डां
चिक्षेप शक्तिं द्रुतमर्जुनाय॥

तामापतन्तीं भुजगेन्द्रकल्पां
दृष्ट्वाऽर्जुनो रोषपरीतचेताः॥

चिच्छेद राजन् परवीरहन्ता
सम्पश्यतां सर्वमहीपतीनाम्॥

                            \[ अधिकः पाठः \]

¹स्वच्छन्दमरणं564 दत्तम् अवध्यत्वं रणे तथा।
तस्मान्मृत्युमहं मन्ये प्राप्तकालमिवात्मनः॥३६॥

एतज्ज्ञात्वा व्यवसितं भीष्मस्यामिततेजसः।
ऋषयो देवताश्चापि वियत्स्था भीष्ममब्रुवन्॥३७॥

देवाः—

यत् ते व्यवसितं तात तदस्माकमपि प्रियम्।
तत् कुरुष्व महेष्वास युद्धाद्बुद्धिं निवर्तय॥३८॥

सञ्जयः—

अस्य वाक्यस्य निधने प्रादुरासीच्छिवोऽनिलः।
अनुलोमस्सुगन्धी च पृषतैश्च समन्वितः॥३९॥

देवदुन्दुभयश्चैव सम्प्रणेदुरनेकशः।
पपात पुष्ववृष्टिश्च भीष्मस्योपरि पार्थिव॥४०॥

न च ताश्शुश्रुवे कश्चित् तेषां संवदतां गिरः।
ऋते भीष्मं महाबाहुं मां चापि मुनितेजसा॥४१॥

सम्भ्रमश्चमहानासीत् विदशानां विशां पते॥४१॥

पतिष्यति रणे भीष्मस् सर्वलोकप्रिये रतः।
इति देवगणानां च श्रुत्वा वाक्यं महात्मनाम्॥४२॥

ततश्शान्तनवो भीष्मो बीभत्सुं नाभ्यवर्तत।
भिद्यमानश्शतैर्बाणैस् सर्वावरणभेदिभिः॥४३॥

शिखण्डी तु महाराज भारतानां पितामहम्।
आजघानोरसि क्रुद्धो नवभिर्निशितैश्शरैः॥४४॥

न चक्रुस्ते रुजं तस्य रुक्मपुङ्खाश्शिलीमुखाः॥४५॥

स तेनाभिहतस्सङ्ख्ये भीष्मः कुरुपितामहः।
¹नाकम्पत141 महाराज क्षितिकम्पे यथाऽचलः॥४६॥

²शिखण्डिनि229 रणे बाणं न मुमोच नराधिप॥४६॥

ततः प्रहस्य बीभत्सुर् व्याक्षिपद् गाण्डिवं धनुः।
गाङ्गेयं पञ्चविंशत्या क्षुद्रकाणां समार्पयत्॥४७॥

पुनश्शरशतेनाजौ त्वरमाणो धनञ्जयः।
सर्वगात्रेषु सङ्क्रुद्धस् तदा मर्मस्वताडयत्॥४८॥

एवमन्यैरपि भृशं विद्ध्यमानो महारथः।
³नाकम्पत565 महाराज क्षितिकम्पे यथाऽचलः॥४९॥

न चक्रुस्ते रुजं तस्य रुक्मपुङ्खाश्शिलाशिताः॥५०॥

ततः किरीटी संरब्धो भीष्ममेवाभ्यवर्तत।
शिखण्डिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत्॥५१॥

विध्वा च नवभिर्बाणैर् ध्वजमेकेन चाच्छिनत्।
सारथिं दशभिश्चास्य विशिखैस्समकम्पयत्॥५२॥

सोऽन्यत् कार्मुकमादत्त गाङ्गेयो बलवत्तरम्।

तदप्यस्य शितैर्भल्लैस् त्रिधा त्रिभिरथाच्छिनत्॥५३॥

निमेषार्धेन कौन्तेय आत्तमात्तं महारथः।
एवमेव धनूंष्याजौ चिच्छेद सुबहून्युत॥५४॥

ततश्शान्तनवो भीष्मो बीभत्सुं नाभ्यवर्तत।
बीभत्सुरेनं विंशत्या क्षुद्रकाणां समर्पयत्॥५५॥

सोऽतिविद्धो महेष्वासो दुश्शासनमभाषत॥५५॥

भीष्मः—

एष पार्थो रणे क्रुद्धः पाण्डवानां महारथः।
शरैरनेकसाहस्रैर् मामेवाभ्यपतद्रणे॥५६॥

न चैष समरे शक्यो जेतुं वज्रभृता स्वयम्॥५७॥

न चापि समरे क्रुद्धो देवदानवराक्षसैः।
एष शक्यो रणे जेतुं किमु मर्त्यैर्महारथैः॥५८॥

¹न566 चाहमपि शक्तस्स्यां सर्वैरपि महारथैः।
ऋतेऽर्जुनं सुसङ्क्रुद्धैर् एतत् सत्यं ब्रवीमि ते॥५९॥

सञ्जयः—

²तयोस्संवदतोरेव567 फल्गुनो निशितैश्शरैः।

शिखण्डिनं पुरस्कृत्य भीष्मं विव्याध संयुगे॥६०॥

ततो दुःशासनं भीष्मस् स्मयमान इवाब्रवीत्।
अर्दितोनिशितैर्बाणैर् भृशं गाण्डीवधन्वना॥६१॥

भीष्मः—

वज्राशनिसमस्पर्शास् सुपुङ्खास्सुप्रतेजनाः।
सुमुखा अव्यवच्छिन्ना नेमे बाणाश्शिखण्डिनः॥६२॥

भुजङ्गा इव सङ्क्रुद्धा लेलिहाना विषोल्बणाः।
इमे विशन्ति मर्माणि नेमे बाणाश्शिखण्डिनः॥६३॥

¹नाशयन्ति568 मम प्राणान् यमदूता इवागताः।
गदापरिघसंस्पर्शा नेमे बाणाश्शिखण्डिनः॥६४॥

²इमे438 कृन्तन्ति गात्राणि माघमासे गवामिव।
अर्जुनस्य इमे बाणा नेमे बाणाश्शिखण्डिनः॥६५॥

निकृन्तमाना मर्माणि दृढावरणभेदिनः।
मुसलानीव निघ्नन्ति नेमे बाणाश्शिखण्डिनः॥६६॥

³ब्रह्मदण्डसमस्पर्शा124 वज्रवेगा दुरासदाः।

——————————————————————————————————————————————————————

ब्रह्मदण्डसमस्पर्शा वज्रवेगदुरासदाः॥
मम प्राणान्निकृन्तन्ति नेमे बाणाश्शिखण्डिनः। [ अधिकः पाठः ]

मम प्राणान्निकृन्तन्ति नेमे बाणाश्शिखण्डिनः॥६७॥

सर्वे ह्यपि न मे दुःखं कुर्युरन्ये नराधिपाः।
वीरं गाण्डीवधन्वानम् ऋते जिष्णुं कपिध्वजम्॥६८॥

सञ्जयः—

इति ब्रुवञ् छान्तनवो दिधक्षुरिव पाण्डवम्।
सविष्फुलिङ्गां दीप्ताग्रां शक्तिं चिक्षेप भारत॥६९॥

तामस्य विशिखैश्छित्त्वा त्रिधा त्रिभिरपातयत्।
पश्यतां कुरुवीराणां सर्वेषां तत्र भारत॥७०॥

¹अर्जुनस्समरश्लाघी141 विननाद महाबलः॥७०॥

चर्म चादत्त गाङ्गेयो जातरूपपरिष्कृतम्।
खड्ङ्गं चान्यतरप्रेप्सुर् मृत्योर जयाय वा॥७१॥

तस्य तच्छतधा चर्म व्यधमच्छंसितात्मनः।
रथादनवरूढस्य तदद्भूतमिवाभवत्॥७२॥

स सिंहवद् विनद्योच्चैस् स्वान्यनीकानि हर्षयन्।
²अब्रवीत्277 परमक्रुद्धो जयेप्सुस्संयुगेऽर्जुनः॥७३॥

अर्जुनः—

अभिद्रवत गाङ्गेयं मा वोऽस्तु भयमण्वपि॥७४॥

सञ्जयः—

अथ ते तोमरैः प्रासैर् बाणौघैश्च समन्ततः।

पट्टसैश्च सनिस्त्रिंशैर् नानाशस्त्रैस्तथा शितैः॥७५॥

वत्सदन्तैश्च भल्लैश्च तमेकमभिदुद्रुवुः॥७५॥

सिंहनादस्ततो घोरः पाण्डवानामजायत।
तथैव तव पुत्राणां राजन् भीष्मजयैषिणाम्॥७६॥

तमेकमभ्यरक्षन्त कुरवस्सनृपा रणे॥७७॥

तत्रासीत् तुमुलं युद्धं तावकानां परैस्सह।
दशमेऽहनि राजेन्द्र भीष्मार्जुनसमागमे॥७८॥

आसीद्धोर इवावर्तोमुहूर्तमुदधेरिव।
सैन्यानां युध्यमानानां युध्यतामितरेतरम्॥७९॥

अगम्यरूपा पृथिवी शोणिताक्ता तदाऽभवत्।
समं च विषमं चैव न प्राज्ञायत किञ्चन॥८०॥

योधानामयुतं हत्वा स तस्मिन् दशमेऽहनि।
अतिष्ठदाहवे भीष्मो भिद्यमानेषु मर्मसु॥८१॥

ततस्सेनामुखे तस्मिन् स्थितः पार्थो धनञ्जयः।
मध्ये तु कुरुसैन्यानां द्रावयामास वाहिनीम्॥८२॥

¹तथा233 च तव सैन्यानि तापयामासुरोजसा।
शरैरशनिसङ्काशैः पाण्डवाश्चेतरे नृपाः॥८३॥

तत्राद्भुतमपश्याम पाण्डवानां पराक्रमम्।
द्रावयामासुरिषुभिस् सर्वान् भीष्मपदानुगान्॥८४॥

वयं श्वेतहयाद्भीताः कुन्तीपुत्राद्धनञ्जयात्।
भिद्यमानाश्शितैर्बाणैः प्राद्रवाम रणे तदा॥८५॥

^(1–2)पाण्डवैः569 पञ्चभिस्सार्धं सात्यकेन च धन्विना।
धृष्टद्युम्नमुखैस्सर्वैः पाञ्चाल्यैश्च समन्ततः॥८६॥

भिद्यमानाश्शरैस्तीक्ष्णैस् सर्वे कार्ष्णिपुरोगमाः।
द्रोणद्रौणित्रिगर्तैश्च सर्वे शल्यकृपादयः॥८७॥

तावकास्समरे राजन् जहुर्भीष्मं महाहवे॥८७॥

सौवीराः कितवाः प्राच्याः प्रतीच्यादीच्यमालवाः।
अभीषहाश्शूरसेनाश् शिवयोऽथ वसातयः॥८८॥

साल्वाश्शूरास्त्रिगर्ताश्च अम्बष्ठाः कैकयैस्सह।
चतुर्दशैते शूराश्च राजानः क्षत्रियर्षभाः॥८९॥

³सङ्ग्रामे570 विजहुर्भीष्मं युध्यमानाः किरीटिना॥९०॥

ततस्तमेकं बहवः परिवार्य समन्ततः।
परिताप्य कुरून् सर्वाञ् शरवर्षैरवाकिरन्॥९१॥

निपातयत गृह्णीत युध्यतावचकर्तत।

इत्यासीत् तुमुलश्शब्दो राजन् भीष्मरथं प्रति॥९२॥

शरौधैरभिवृष्टस्य शतशोऽथ सहस्रशः।
न तस्यासीदनिर्भिन्नं गात्रे व्यङ्गुलमन्तरम्॥९३॥

¹सह571 भीष्मेण सर्वेषाम् एवं युद्धमभूत् किल।
नृपाणां पाण्डवेयानां पुनर्भीष्ममुपेयुषाम्॥९४॥

एवं विभो तव पिता शरैर्विशकलीकृतः।
शिताग्रैःफल्गुनेनाजौ प्राक्शिराः प्रापतद्रथात्॥९५॥

किञ्चिच्छेषे दिनकरे पुत्राणां तव पश्यताम्॥९५॥

हाहेति दिवि देवानां पार्थिवानां च सर्वशः।
पतमाने रथाद्भीष्मे बभूव सुमहान् स्वनः॥९६॥

तं पतन्तमभिप्रेक्ष्य भारतानां पितामहम्।
सह भीष्मेण सर्वेषां प्रापतन् हृदयानि नः॥९७॥

स पपात महाबाहुर् वसुधामनुनादयन्।
इन्द्रध्वज इवोत्सृष्टः केतुस्सर्वधनुष्मताम्॥९८

धरणीं नास्पृशच्चापि शरसङ्घैस्समाचितः।
शरतल्पे महेष्वासश् शयानः पुरुषर्षभः॥९९॥

रथात् प्रपतितं भीष्मं दिव्यो भावस्समाविशत्॥

अभ्यवर्षच्च पर्जन्यः प्राकम्पत च मेदिनी॥१००॥

पतन् स ददृशे चापि दक्षिणेन दिवाकरम्॥१०१॥

संज्ञां चैवालभद्वीरः कालं सञ्चिन्त्य भारत।
अन्तरिक्षे च शुश्राव दिव्यानां च शुभा गिरः॥१०२॥

दैवी वाक्—

कथं महात्मा गाङ्गेयस् सर्वशस्त्रभृतां वरः।
¹कथं141 ह्यकाले पतितः सर्वधर्मभृतां वरः॥१०३॥

कालकर्ता नरव्याघ्रस् सम्प्राप्ते दक्षिणायने॥१०३॥

सञ्जयः—

स्थितोऽस्मीति च गाङ्गेयस् तच्छ्रुत्वा वाक्यमब्रवीत्॥१०४॥

धारयिष्याम्यहं प्राणान् पतितोऽपि महीतले।
उत्तरायणमन्विच्छन् सुगतिप्राप्तिकाङ्क्षया॥१०५॥

सञ्जयः—

²एवं233 वदन् महाप्राज्ञः शरतल्पगतश्चिरम्।
उत्तरायणमन्विच्छद् भीष्मः कुरुपितामहः॥१०६॥

तस्य तं मतमाज्ञाय गङ्गा हिमवतस्सुता।
महर्षीन् हंसरूपेण प्रेषयामास तत्र वै॥१०७॥

ततस्सम्पतिता हंसास् त्वरमाणा महौजसः।
आजग्मुस्सहिता द्रष्टुं भीष्मं कुरुपितामहम्॥१०८॥

यत्र शेते नरश्रेष्ठस् शरतल्पे पितामहः॥१०८॥

ते तु भीष्मं समासाद्य मुनयो हंसरूपिणः।
अपश्यञ् छरतल्पस्थं भीष्मं कुरुकुलोद्वहम्॥१०९॥

ते तं दृष्ट्वा महात्मानं परिवृत्य प्रदक्षिणम्।
गाङ्गेयं भरतश्रेष्ठं दक्षिणेन च भास्करम्॥११०॥

इतरेतरमामन्त्र्य प्राहुस्तत्र मनीषिणः॥१११॥

हंसाः—

अयं भीष्मो महाबुद्धिः संस्थितो दक्षिणायने॥१११॥

सञ्जयः—

इत्युक्त्वा प्राद्रवन् हंसा दक्षिणामभितो दिशम्॥११२॥

सम्प्रेक्ष्य वै महाबुद्धिश् चिन्तयित्वा च भारत।
ततोऽब्रवीच्छान्तनवो नाहं गन्ता कथञ्चन॥११३॥

दक्षिणावृत्त आदित्ये एतन्मे मनसि स्थितम्॥११३॥

गमिष्यामि स्वकं स्थानम् आसीद्यन्मे पुरातनम्।
उदगावृत्त आदित्ये हंसा¹स्सत्यं572 ब्रवीमि वः॥११४॥

धारयिष्याम्यहं प्राणान् उत्तरायणकाङ्क्षया।
प्राणानां च समुत्सर्ग ऐश्वर्यं नियतं मम॥११५॥

²तस्मात्229 प्राणान् धारयिष्ये मुमूर्षुरुदगायने॥११६॥

यश्च दत्तो वरो मह्यं पित्रा तेन महात्मना।

छन्दतस्ते भवेन्मृत्युर् इति तत् सत्यमस्तु मे॥११७॥

¹धारयिष्ये528 ततः प्राणान् उत्सर्गे नियते सति।
इत्युक्तास्ते गता हंसास्स शेते शरतल्पगः॥११८॥

एवं कुरूणां पतिते शृङ्गे भीष्मे महौजसि।
पाण्डवास्सृञ्जयश्चैव सिंहनादं प्रचक्रिरे॥११९॥

तस्मिन् हते महासत्वे भारतानां पितामहे।
न किश्चित् प्रत्यपद्यन्त पुत्रास्तव विशां पते॥१२०॥

सम्मोहश्चैव तुमुलः कुरूणामभवत् तदा॥१२०॥

²नृपा573 दुर्योधनमुखा निश्श्वस्य रुरुदुस्ततः।
विषादाच्च चिरं कालम् अतिष्ठन् विगतेन्द्रियाः॥१२१॥

ते दीर्घकालं ध्यायन्तो न युद्धे दधिरे मनः।
ऊरुस्तम्भगृहीताश्च नाभ्यधावन्त पाण्डवान्॥१२२॥

अवध्ये शन्तनोः पुत्रे हते भीष्मे महौजसि।
³दुःखार्तास्ते574 तदा राजन् कुरूणां पतयोऽभवन्॥१२३॥

विमोहस्सहसा राजन् कुरूणामभवत् तदा॥१२४॥

हतप्रवीरा वित्रस्ता निकृत्ता निशितैश्शरैः।
कर्तव्यं नाभिजानीमो निर्जितास्सव्यसाचिना॥१२५॥

पाण्डवास्तु जयं लब्ध्वा प्रहृष्टमनसोऽभवन्।
सर्वे दध्मुर्मुदा शङ्खाञ् शूराः परिघबाहवः॥१२६॥

सोमकाश्च सपाञ्चालाः प्रहृष्यन्त जनेश्वर।१२६॥

ततस्तूर्यसहस्रेषु प्रणदत्सु महाबलाः।
¹सिंहनादं575 प्रचक्रुश्च पाञ्चालास्सह सोमकैः॥१२७॥

आस्फोटयामास भृशं भीमसेनो ननाद च।
सेनयोरुभयोर्मध्ये गाङ्गेये विनिपातिते॥१२८॥

सन्त्यज्य वीराश्शस्त्राणि प्रध्यायन्तस्समन्ततः।
प्राक्रोशन्विप्रमूढाञ्च जग्मुर्मोहं तथाऽपरे॥१२९॥

क्षुद्राश्चैके विनिन्दन्ति भीष्मं चैकेऽभ्यपूजयन्।
ऋषयः पितरश्चैव प्रशशंसुर्महाव्रतम्॥१३०॥

भारतानां च ये पूर्वे ते चैव प्रशशंसिरे॥१३१॥

महोपनिषदं चैव योगमास्थाय वीर्यवान्।
जपञ् शान्तनवो धीमान् कालकाङ्क्षी स्थितोऽभवत्॥१३२

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि पञ्चदशोत्तरशततमोऽध्यायः॥११५॥
॥६४॥भीष्मवधपर्वणि पञ्चसप्ततितमोऽध्यायः॥७५॥
[ अस्मिन्नध्याये १३२ श्लोकाः]
<MISSING_FIG href="../books_images/U-IMG-1705224210ववव.png"/>

॥षोडशोत्तरशततमोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1705220775ननन.png"/>

कुरुपाण्डवैरन्यै राजभिश्च भीष्माभिवादनम्॥१॥अर्जुनेन भीष्माय बाणमयोपधानसमर्पणम्॥२॥

<MISSING_FIG href="../books_images/U-IMG-1705220786ववव.png"/>

धृतराष्ट्र—

कथमासंस्तदा योधा हीना भीष्मेण सञ्जय।
बलिना देवकल्पेन कौमारब्रह्मचारिणा॥१॥

तदैव निहतान् मन्ये कुरुनन्यांश्च पार्थिवान्।
न प्राहरद्यदा भीष्मो घृणी च द्रुपदात्मजे॥२॥

इतो दुःखतरं मन्ये किमन्यत् प्रभविष्यति।
अद्येह निहतं श्रुत्वा पितरं मम दुर्मतेः॥३॥

अश्मसारमयं नूनं हृदयं मम सञ्जय।
श्रुत्वा विनिहतं भीष्मं शतधा यन्न दीर्यते॥४॥

¹किं576 कृतं कुरुवृद्धेन तन्मे कथय सञ्जय॥४॥

पुनःपुनर्न मृष्यामि हृतं देवव्रतं रणे।
न हतो जामदग्न्येन दिव्यैरस्त्रैश्च यः पुरा॥५॥

²यदद्य577 निहतेनाजौभीष्मेण जयमिच्छता।
चेष्टितं नरसिंहेन तन्मे कथय सञ्जय॥६॥

सञ्जयः—

सायाह्नेन्यपतद्भूमौ धार्तराष्ट्रान् विषादयन्।
पाञ्चालान् हर्षयंश्चैव कुरुवृद्धः पितामहः॥७॥

स शेते शरतल्पस्थो मेदिनीमस्पृशंस्तदा।
भीष्मो रथात् प्रपतितस् सञ्छन्नोबहुभिश्शरैः॥ ८॥

हाहेति तुमुलश्शब्दो भूतानां समपद्यत॥९॥

सीमावृक्षे निपतिते कुरूणां समितिञ्जये।
उभयोस्सेनयो राजन क्षत्रियान् भयमाविशत्॥१०॥

भीष्मं शान्तनवं दृष्ट्वा विशीर्णकवचध्वजम्।
कुरवः पर्यतप्यन्त पाण्डवाश्च विशां पते॥११॥

खं तमोवृतमासीच्च नासीद्भानुमतः प्रभा।
ररास पृथिवी चैव भीष्मे शान्तनवे हते॥१२॥

अयं ब्रह्मविदां श्रेष्ठस् सदा ब्रह्मविदां गतिः।
इत्यभाषन्त भूतानि शयानं पुरुषर्षभम्॥१३॥

ऋषयः—

अयं पितरमाज्ञाय कामार्तं शन्तनुं पुरा।
ऊर्ध्वरेतसमात्मानं चकार भरतर्षभः॥१४॥

सञ्जयः—

¹इति229 स्म शरतरूपस्थं भरतानां पितामहम्।

ऋषयःप्रत्यभाषन्त सहितास्सिद्धचारणैः॥१५॥

हते शान्तनवे भीष्मे भरतानां पितामहे।
न किश्चित् प्रत्यपद्यन्त पुत्रास्तव विशां पते॥१६॥

विवर्णवदनाश्चासन् गतश्रीकाश्च भारत।
अतिष्ठन् मिलिताश्चैव ह्रिया युक्ता ह्यधोमुखाः॥१७॥

पाण्डवाश्च जयं लब्ध्वा सङ्ग्रामशिरसि स्थिताः।
सर्वे दध्मुर्महाशङ्खांस् तप्तहेमपरिष्कृतान्॥१८॥

भृशं तूर्यनिनादेषु वर्तमानेषु चासकृत्।
अपश्याम रणे राजन् भीमसेनं महाबलम्॥१९॥

आक्रीडमानं कौन्तेयं हर्षेण महता वृतम्।
निहत्य तरसा शत्रून् महाबलसमन्वितम्॥२०॥

सम्मोहश्चापि तुमुलः कुरूणामभवत् तदा।
कर्णदुर्योधनौ चापि निश्श्वसेतां मुहुर्मुहुः॥२१॥

तथा निपतिते भीष्मे कौरवाणां धुरन्धरे।
हाहाकृतमभूत् सर्वं निर्मर्यादमवर्तत॥२२॥

दृष्ट्वा च पतितं भीष्मं पुत्रो दुश्शासनस्तव।
उत्तमं जवमास्थाय द्रोणानीकमुपाद्रवत्॥२३॥

भ्रात्राप्रस्थापितो वीरस् स्वेनानीकेन दंशितः।
प्रययौ पुरुषव्याघ्रस् स्वसैन्यमभिहर्षयन्॥२४॥

तमायान्तमभिप्रेक्ष्य कुरवः पर्यवारयन्।
दुश्शासनं महाराज किमयं वक्ष्यतीति वै॥२५॥

ततो द्रोणाय निहतं भीष्ममाचष्ट भारत।
द्रोणस्तदप्रियं श्रुत्वा सहसा मोहमागतः॥२६॥

स संज्ञामुपलभ्याशु भारद्वाजःप्रतापवान्।
निवारयामास तदा स्वान्यनीकानि भारत॥२७॥

विनिवृत्तान् कुरून् दृष्ट्वा पाण्डवाश्च स्वसैनिकान्।
रथैश्शीघ्राश्वसंयुक्तैस् समन्तात् पर्यवारयन्॥२८॥

विनिवृत्तेषु सैन्येषु पारम्पर्येण सर्वशः।
विमुक्तकवचास्सर्वे भीष्ममीयुर्नराधिपाः॥२९॥

उपरम्य ततो युद्धाद् योधाश्शतसहस्रशः।
उपतस्थुर्महात्मानं प्रजापतिमिवामराः॥३०॥

ततो भीष्मं समासाद्य शयानं पुरुषर्षभम्।
अभिवाद्य व्यतिष्ठन्त पाण्डवाः कुरुभिस्सह॥३१॥

अथ पाण्डून् कुरूंश्चैव प्रणिपत्याग्रतस्थितान्।
अभ्यभाषत धर्मात्मा भीष्मश्शान्तनवस्तदा॥३२॥

भीष्मः—

स्वागतं वो महाभागास् स्वागतं वो महारथाः।
तुष्यामि दर्शनाच्चाहं युष्माकममरोपमाः॥३३॥

सञ्जयः—

अभिनन्द्यस तानेवं शिरसा लम्बताऽब्रवीत्।
परिपार्श्वे तव सुतान् स्थितानुद्वीक्ष्य भारत॥३४॥

भीष्मः—

शिरो मे लम्बतेऽत्यर्थम् उपधानं प्रदीयताम्॥३४॥

सञ्जयः—

ततो नृपास्समाजह्रुस् तनूनि च मृदूनि च।
उपधानानि मुख्यानि नैच्छत् तानि पितामहः॥३५॥

अब्रवीच्चनरव्याघ्रः प्रहसन्निव तान् नृपान्॥३६॥

भीष्मः—

नैतानि वीरशय्यासु युक्तरूपाणि पार्थिवाः॥३६॥

सञ्जयः—

ततस्तु भरतश्रेष्ठम् अभ्यभाषत पाण्डवम्।
घनञ्जयं महाबाहुं सर्वलोकमहारथम्॥३७॥

भीष्मः—

धनञ्जय महाबाहो शिरो मे प्रतिलम्बते।
दीयतामुपधानं मे यद् युक्तमिह मन्यसे॥३८॥

सञ्जयः—

स सन्न्यस्य महच्चापम् अभिवाद्य पितामहम्।
नेत्राभ्यामश्रुपूर्णाभ्याम् इदं वचनमब्रवीत्॥३९॥

अर्जुनः—

आज्ञापय कुरुश्रेष्ठ सर्वधर्मविदां वर।
प्रेष्योऽहं तव दुर्धर्ष क्रियतां किं पितामह॥४०॥

सञ्जयः—

तमब्रवीच्छान्तनवश् शिरो मे तात लम्बते।
¹दीयतामुपधानं229 मे यद् युक्तमिह मन्यसे॥४१॥

उपधानं कुरुश्रेष्ठ उपधेहि ममार्जुन।
वीरशय्यानुरूपं वै शीघ्रं वीर प्रयच्छ मे॥४२॥

त्वं हि तात समर्थो वै श्रेष्ठस्सर्वधनुष्मताम्।
क्षत्रधर्मस्य वेत्ता च बुद्धिसत्त्वगुणान्वितः॥४३॥

फल्गुनोऽथ तथेत्युक्त्वा व्यवसायपुरोगमः।
गृह्यानुमन्त्र्य गाण्डीवं शरांश्च नतपर्वणः॥४४॥

अनुमान्य महात्मानं भरतानां पितामहम्।
त्रिभिस्तीक्ष्णैर्महावेगैर् उद्गृह्णाच्छिरश्शरैः॥४५॥

अभिप्राये तु विदिते धर्मात्मा सव्यसाचिना।
आश्वस्य भरतश्रेष्ठो भीष्मो धर्मार्थतत्त्ववित्॥४६॥

उपधानेन दत्तेन प्रत्यनन्दद्धनञ्जयम्।
कुन्तीपुत्रं युधां श्रेष्ठं सुहृदां प्रीतिवर्धनम्॥४७॥

भीष्मः—

शयनस्यानुरूपं मे उपधानं त्वया कृतम्।
यद्यन्यथा प्रपद्येथाश् शपेयं त्वामहं पुरा॥४८॥

एवमेतन्महाबाहो धर्मेषु परिनिश्चितम्।
स्वप्नव्यं क्षत्रियेणाजौ शरतल्पगतेन वै॥४९॥

सञ्जयः—

एवमुक्त्वा तु बीभत्सुं सर्वांस्तानब्रवीद्वचः।
राज्ञश्च राजपुत्रांश्च पाण्डवैरभिसंवृतान्॥५०॥

भीष्मः—

शयेऽहमस्यां शय्यायां यावदावर्तनाद्रवेः।
ये तदा धारयिष्यन्ति ते मां द्रक्ष्यन्ति वै नृपाः॥ ५१॥

दिशं वैश्रवणाक्रान्तां यदा गन्ता दिवाकरः।
अर्चिष्मान् प्रतपल्लोकान् रथेनोत्तमतेजसा॥५२॥

रक्षेऽहं वै मम प्राणान् सुहृदस्सुप्रियानिव॥५३॥

परिखा खन्यतामत्रममावसथतो नृपाः।
उपासिष्ये विवस्वन्तम् एवं शरशताचितः॥५४॥

उपारमध्वं सङ्ग्रामाद् वैरमुत्सृज्य पार्थिवाः॥५४॥

सञ्जयः—

उपातिष्ठंस्तदा वैद्याश् शल्योद्धरणकोविदाः।
सर्वोपकरणैर्युक्ताः कुशलास्साधुशिक्षिताः॥५५॥

तान् दृष्ट्वा जाह्नवीपुतः प्रोवाच तनयं तव॥५६॥

भीष्मः—

दत्तदेया विसृज्यन्तां पूजयित्वा चिकित्सकाः।
एवं गतस्य नेदानीं वैद्यकार्यमिहास्ति मे॥५७॥

क्षत्रधर्मप्रशस्तां हि प्राप्तोऽस्मि परमां गतिम्।
एष धर्मो महीपालाश शरतल्पगतस्य मे॥५८॥

एभिरेव शरैश्चाहं दग्धव्योऽग्नौ नराधिपाः॥५८॥

सञ्जयः—

तच्छ्रुत्वा वचनं तस्य पुत्रो दुर्योधनस्तव।
वैद्यान् विसर्जयामास पूजयित्वा यथार्हतः॥५९॥

ततस्ते विस्मयं जग्मुर् नानाजनपदेश्वराः।
स्थितं धर्मे परे दृष्ट्वा भीष्मं त्वमिततेजसम्॥६०॥

उपधानं ततो दत्वा पितुस्तव जनेश्वर।
सहिताः पाण्डवास्सर्वे कुरवश्च महारथाः॥६१॥

उपगम्य महात्मानं शयानं शयने शुभे।
तेऽभिवाद्य ततो भीष्मं कृत्वा चापि प्रदक्षिणम्॥६२॥

विधाय रक्षां भीष्मस्य सर्व एव समन्ततः।
वीरास्वशिबिराण्येव ध्यायन्तः परमातुराः॥६३॥

निवेशयाभ्युपागच्छन् सायाह्ने रुधिरोक्षिताः॥६४॥

निविष्टान् पाण्डवांश्चापि प्रीयमाणान् महारथान्।
भीष्मस्य पतनं दृष्ट्वा चोपगम्य महारथम्॥६५॥

उवाच देवकीपुत्रोधर्मपुत्रं युधिष्ठिरम्॥६५॥

श्रीभगवान्—

दिष्ट्या जयसि कौरव्य दिष्ट्या भीष्मो निपातितः।
अवध्यो मानुषैरेव सत्यसन्धो महारथः॥६६॥

अथवा दैवतैःपार्थ सर्वशस्त्रास्त्रपारगः।
त्वां तु चक्षुर्हणं प्राप्य दग्धो घोरेण चक्षुषा॥६७॥

सञ्जयः—

एवमुक्तो धर्मराजः प्रत्युवाच जनार्दनम्॥६८॥

युधिष्ठिरः—

तव प्रसादाद्विजयःक्रोधात् तव पराजयः।
त्वं हि नश्शरणं कृष्ण भक्तानामभयङ्करः॥६९॥

अनाश्चर्यो जयस्तेषां येषां त्वमसि केशव।
रक्षिता समरे नित्यं नित्यं चापि हिते रतः॥७०॥

सर्वथा त्वां समासाद्य रक्षितास्तव तेजसा॥७०॥

सञ्जयः—

एवमुक्तः प्रत्युवाच स्मयमानो जनार्दनः॥७१॥

श्रीभगवान्—

त्वय्येवैतद्युक्तरूपं वचनं पार्थिवोत्तम॥७१॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्या
भीष्मपर्वणि षोडशाधिकशततमोऽध्यायः॥ ११६॥
॥६४॥ भीष्मवधपर्वणि षट्सप्ततितमोऽध्यायः॥ ७६॥
[ अस्मिन्नध्याये ७१॥ श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1705218636ववव.png"/>

॥सप्तदशोत्तरशततमोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1705218198mmm.png"/>

तृषार्तेन भीष्मेन पानीययाचनम्॥ १॥ राजभिः कलशेनानीते जले भीष्मेण तन्निन्दनपूर्वकमर्जुनं प्रति याचनम्॥ २॥ अर्जुनेन पर्जन्यास्त्रेण भूमिं भित्त्वोत्थापितसलिलधारया भीष्मस्य तृष्णाशमनम्॥ ३॥ भीष्मेण दुर्योधनं प्रति अर्जुनप्रशंसनपूर्वकं पाण्डवैः सह शमोपदेशः॥ ४॥

<MISSING_FIG href="../books_images/U-IMG-1705218232ववव.png"/>

सञ्जयः—

व्युष्टायां तु तथा राजन् रजन्यां सर्वपार्थिवाः।
पाण्डवा धार्तराष्ट्राश्च ह्यभिजग्मुः पितामहम्॥१॥

तं वीरशयने वीरं शयानं कुरुसत्तमम्।
अभिवाद्योपतस्थुर्वै क्षत्रियाः क्षत्रियर्षभम्॥२॥

कन्याश्चन्दनचूर्णैश्च लाजैर्माल्यैश्च सर्वशः।
¹अवाकिर135ञ्छान्तनवं तत्र गत्वा पितामहम्॥३॥

स्त्रियो बालाश्च वृद्धाश्च प्रेक्षकाश्च पृथग्जनाः।
तमभ्ययुश्शान्तनवं भूतानीव तमोनुदम्॥४॥

तूर्याणि गणिका वीरास् तथैव नटनर्तकाः।
उपानृत्यञ् जगुश्चैव वृद्धं कुरुपितामहम्॥५॥

उपागम्य च राजेन्द्र सन्नाहान् प्रतिमुच्य च।
आयुधानि च निक्षिप्य सहिताः कुरुपाण्डवाः॥६॥

अन्वासन्त सुदुर्धर्षंदेवव्रतमरिन्दमम्।
अन्योन्यं प्रीतिमन्तस्ते यथापूर्वं यथावयः॥७॥

सा पार्थिवसमाकीर्णा समितिर्भीष्मसंयुता।
शुशुभे भारती दीप्ता दिवीवादित्यमण्डलम्॥८॥

विबभौ च नृपाणां सा पितामहमुपासताम्।
देवानामिव देवेशं पितामहमुपासताम्॥९॥

भीष्मस्तु वेदनां धैर्यान्निगृह्य भरतर्षभ।
अभितप्तश्शरैश्चैव नातिहृष्टमनाऽब्रवीत्॥१०॥

भीष्मः—

शराभितप्तकायोऽस्मि शस्त्रसन्तापमूर्च्छितः।
पानीयमिति सम्प्रेक्ष्य राज्ञस्तान् प्रत्यभाषत॥११॥

सञ्जयः—

ततस्ते क्षत्रिया राजन् समाजह्रुस्समन्ततः।
भक्ष्यांश्वोच्चावचांस्तत्र वारिकुम्भांश्च शीतलान्॥१२॥

उपनीतं तु तद्दृष्ट्वा भीष्मश्शान्तनवोऽब्रवीत्॥१२॥

भीष्मः—

नाद्य शक्या मया भोक्तुं भोगाःकेवलमानुषाः।
अपक्रान्तो मनुष्येभ्यश् शरशय्यां गतो ह्यहम्॥१३॥

प्रतीक्षमाणस्तिष्ठामि निवृत्तिं शशिसूर्ययोः॥१४॥

सञ्जयः—

एवमुक्त्वा तदोवाच भीष्मश्शरशतैश्चितः॥१४॥

भीष्मः—

पयः पास्यामि गोपाला गोमयं न तु गोमयम्।
गोमयेनाग्निवर्णेन गोमयं न तु गोमयम्॥१५॥

सञ्जयः—

एवमुक्त्वा शान्तनवो दीनवाक् सर्वपार्थिवान्।
अर्जुनं द्रष्टुमिच्छामि इत्यभाषत पाण्डवान्॥१६॥

¹अथोपेत्य578 महाबाहुर् ²अर्जुनस्सर्वधर्मवित्421
प्रदक्षिणीकृत्य तदा अभिवाद्य पितामहम्॥१७॥

अतिष्ठत् प्राञ्जलिर्भूत्वा किं ते कुर्मीति चाब्रवीत्॥१८॥

तं दृष्ट्वा पाण्डवं राजन्नभिवाद्याग्रतस्थितम्।
अब्रवीत् सर्वधर्मज्ञो भीष्मः प्रीतो धनञ्जयम्॥१९॥

भीष्मः—

दह्यते च शरीरं मे तापितोऽस्मि तवेषुभिः।
मर्माणि परिदूयन्ते वदनं परिशुष्यति॥२०॥

ह्लादनार्थं शरीरस्य प्रयच्छापो ममार्जुन।
त्वं हि शक्तो महेष्वास दातुमापो यथाविधि॥२१॥

सञ्जयः—

अर्जुनस्तु तथेत्युक्त्वा रथमारुह्य वीर्यवान्।

अधिज्यं गाण्डिवं कृत्वा व्याक्षिपत् तद्धनुर्महत्॥२२॥

¹तस्य579 ज्यातलनिर्घोषं विष्फूर्जितमिवाशनेः।
वित्रेसुस्सर्वभूतानि श्रुत्वा सर्वे च पार्थिवाः॥२३॥

ततः प्रदक्षिणं कृत्वा रथेन रथिनां वरः।
शयानं भरतश्रेष्ठं सर्वशस्त्रभृतां वरम्॥२४॥

प्रदक्षिणीकृत्य तदा स सम्मन्त्र्य महारथः।
पर्जन्यास्त्रेण बीभत्सुस् सर्वलोकस्य पश्यतः॥२५॥

अभिन्दत् पृथिवीं पार्थः पार्श्वे भीष्मस्य दक्षिणे ॥२५॥

उत्पपात ततो घारा विमला वारिणश्शुभा।
शीतस्यामृतकल्पस्य दिव्यगन्धरसस्य च॥२६॥

अतर्पयत् ततः पार्थस् स तया जलधारया।
भीष्मं कुरूणामृषभं दिव्यं दिव्यपराक्रमम्॥२७॥

कर्मणा तेन पार्थस्य शक्रस्येव विकुर्वतः।
विस्मयं परमं जग्मुस् सुतास्तव नराधिप॥२८॥

तत् कर्म प्रेक्ष्य बीभत्सोर् अतिमानुषमद्भुतम्।
सम्प्रावेपन्त कुरवो गावश्शीतार्दिता इव॥२९॥

विस्मयाञ्चोत्तरीयाणि व्याविध्यन् सर्वतो नृपाः।
शङ्खदुन्दुभिनिर्घोषस् तुमुलस्सर्वतोऽभवत्॥३०॥

तृप्तश्शान्तनवश्चापिराजन् बीभत्सुमब्रवीत्।
सर्वपार्थिववीराणां सन्निधौ पूजयन्निव॥३१॥

भीष्मः—

नैतच्चित्रंमहाबाहो त्वयि कौरवनन्दन।
कथितो नारदेनासि पूर्वर्षिरमितद्युते॥३२॥

वासुदेवसहायस्त्वं महत् कर्म करिष्यसि।
¹यन्नोत्सहेत229 देवेन्द्रस् सह देवैरपि ध्रुवम्॥३३॥

विदुस्त्वां निधनं पार्थ सर्वक्षत्रस्य धन्विनः।
धनुर्धराणामेकस्त्वं पृथिव्यां प्रवरो नृषु॥३४॥

मनुष्यो जगति श्रेष्ठो गरुडः पक्षिणां वरः।
सरसां सागरश्श्रेष्ठश् श्रेष्ठस्त्वमसि धन्विनाम्॥३५॥

आदित्यस्तेजसां श्रेष्ठो गिरीणां हिमवान् वरः।
जातीनां ब्राह्मणश्श्रेष्ठ श्रेष्ठस्त्वमसि धन्विनाम्॥३६॥

न वै श्रुतं धार्तराष्ट्रेण वाक्यं
मयोच्यमानं विदुरेणासकृच्च।
द्रोणेन रामेण जनार्दनेन
मुहुर्मुहुस्सञ्जयेनैव चोक्तम्॥३७॥

परीतबुद्धिर्हि विसंज्ञकल्पो
दुर्योधनो नाभ्यनन्दद्वचो मे।

स शेष्यते निहतोऽथाचिरेण
शास्त्रातिगो भीमबलाभिभूतः॥३८॥

सञ्जयः—

ततश्श्रुत्वा तद्वचः कौरवेन्द्रो
दुर्योधनो दीनमना बभूव।
तमब्रवीच्छान्तनवोऽभिवीक्ष्य
पुत्रं च राजंस्तव वीतमन्युः॥३९॥

भीष्मः—

दृष्टं दुर्योधनैतत्ते तथा पार्थेन धीमता।
जलस्य धारा जनिता शीतस्यामृतगन्धिनः॥४०॥

एतस्य कर्ता लोकेऽस्मिन् नान्यः कश्चन विद्यते॥४१॥

आग्नेयं वारुणं सौम्यं वायव्यमथ वैष्णवम्।
ऐन्द्रं पाशुपतं ब्राह्मं पारमेष्ठ्यं प्रजापतेः॥४२॥

धातुस्त्वष्टुश्च सवितुस् सर्वाण्यस्त्राणि सर्वशः।
सर्वस्मिन् मानुषे लोके ह्येको वेत्ति धनञ्जयः॥४३॥

कृष्णो वा देवकीपुत्रो नान्यो वै वेद कश्चन॥४३॥

अशक्याःपाण्डवास्तात युद्धे जेतुं कथञ्चन।
अमानुषाणि कर्माणि यान्येतानि महात्मनि॥४४॥

तेन सत्त्ववता सङ्ख्ये शूरेणाहवशोभिना।
जिष्णुना सुमरे राजन् सन्धिस्ते तात युज्यताम्॥ ४५॥

यावत् कृष्णो महाबाहुस् स्वाधीनः कुरुसंसदि।
तावत् पार्थेन शूरेण सन्धिस्ते तात युज्यताम्॥४६॥

यावत् तिष्ठन्ति समरे हतशेषास्सहोदराः।
नृपाश्च बहवो राजन् तावत् सन्धिः प्रयुज्यताम्॥४७॥

यावच्चमूं न ते शेषां शरैस्सन्नतपर्वभिः।
नाशयत्यर्जुनस्तावत् सन्धिस्ते तेन युज्यताम्॥४८॥

निर्दहन्निव हि क्षत्रं क्रोधात् संरक्तलोचनः।
युधिष्ठिरो रणे तावत् सन्धिस्ते तात युज्यताम्॥४९॥

नकुलस्सहदेवश्च भीमसेनश्च पाण्डवः।
यावत् क्षत्रं न निघ्नन्ति तावत् सन्धिः प्रयुज्यताम्॥ ५०॥

¹यावच्चमूं266 महाराज नाशयन्ति न पाण्डवाः।
तावत् ते पाण्डवैस्सार्धं सौभ्रात्रमभिरोचताम्॥५१॥

युद्धं मदन्तमेवास्तु तावत् संशाम्य पाण्डवैः॥५२॥

एतत् ते रोचतां वाक्यं यदुक्तोऽसि मयाऽनघ।
एतत् क्षममहं मन्ये तव चैव कुलस्य च॥५३॥

त्यक्त्वा मन्युं त्वमुपशाम्यस्व पार्थैः
पर्याप्तमेतद्यत् कृतं फल्गुनेन।

¹भीष्मस्यान्ते580 सुभृशं सौहृदोऽस्तु
न ते प्रलोभस्साधु राजन् प्रसीद॥५४॥

राज्यस्यार्धं दीयतां पाण्डवानाम्
इन्द्रप्रस्थे धर्मराज्ञो निवासः।
मा मित्रध्रुक् पार्थिवानां जघन्यः
पापां कीर्तिं प्राप्स्यसे कौरवेन्द्र॥५५॥

ममावसाने शान्तिरस्तु प्रजानां
सङ्गच्छन्तां पाण्डवाः प्रीतिमन्तः।
पिता पुत्रं मातुलं भागिनेयो
भ्राता चैव भ्रातरं प्रैतु राजन्॥५६॥

न चेदेतत् प्राप्तकालं वचो मे
मोहाविष्टः प्रतिपद्यस्व बुद्ध्या।
दिष्टं गन्ता त्यक्तधर्मार्थकामः
पुत्रज्ञातिभ्रातृसंबन्धिहीनः॥५७॥

एवं वोऽस्तु विदितं कौरवेयास्
सत्यामेतां भारतीमीरयामि॥५७॥

सञ्जयः—

एतद्वाक्यं सौहृदादापगेयो
मध्ये राज्ञां भारती ग्राहयित्वा।
तूष्णीमासीच्छल्यसन्तप्तमर्मा
स्मृत्वाऽऽत्मानं वेदनां सन्निगृह्य¹581॥५८॥

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि सप्तदशाधिकशततमोऽध्यायः॥ ११७॥
॥ ६४॥ भीष्मवधपर्वणि सप्तसप्ततितमोऽध्यायः॥ ७७॥
[ अस्मिन्नध्याये ५८॥ श्लोकाः ]
<MISSING_FIG href="../books_images/U-IMG-1705030929ववव.png"/>

॥अष्टादशोत्तरशततमोऽध्यायः॥

<MISSING_FIG href="../books_images/U-IMG-1705030944ललल.png"/>

अपगतेषु राजसु कर्णेन रहसि भीष्ममेत्य तदभिवादनम्॥ १॥ भीष्मेण कर्णं प्रति तस्य कुन्तीसुतत्वोक्त्या पाण्डवैः सह संगमचोदना॥ २॥ कर्णेन सयुक्तिकं पाण्डवैः सङ्गमस्य दुष्करत्वमभिधाय भीष्मक्षमापनपूर्वकं स्वावासगमनम्॥ ३॥

<MISSING_FIG href="../books_images/U-IMG-1705030987ववव.png"/>

सञ्जयः—

ततस्ते पार्थिवास्सर्वे जग्मुस्स्वानालयान् प्रति।
तूष्णीं भूते महाराज भीष्मे शन्तनुनन्दने॥१॥

श्रुत्वा तु निहतं भीष्मं राधेयः पुरुषर्षभः।
ईषदागतसन्त्रासस् त्वरयोपजगाम ह॥२॥

स ददर्श महात्मानं शरतल्पगतं तदा।
वीरशय्यागतं वीरं गाङ्गेयं पुरुषर्षभम्॥३॥

निमीलिताक्षं तं वीरं साश्रुकण्ठस्तदा वृषा।
अभ्येत्य पादयोस्तस्य निपपात महाद्युतिः॥४॥

राधेयोऽहं कुरुश्रेष्ठ नित्यमक्षिगतस्तव।
द्वेष्योऽत्यन्तमनागास्सन्निति भीष्ममुवाच ह॥५॥

तच्छ्रुत्वा कुरुवृद्धस्तु बली संवृतलोचनः।
शनैरुद्वीक्ष्य सस्नेहम् इदं वचनमब्रवीत्॥६॥

राधेयं मन्युरहितस् समुत्सार्य च रक्षिणः।
पितेव पुत्रं गाङ्गेयः परिरभ्यैकबाहुना॥७॥

भीष्मः—

न विप्रियं ममैवेह यत् स्पर्धेया मया सह।
यदि मां नाभिगच्छेथा न ते श्रेयो भवेद्ध्रुवम्॥८॥

कौन्तेयस्त्वं न राधेयो ¹न582 तवाधिरथः पिता।
सूर्यजस्त्वं महाबाहो विदितोऽसि सदा मम॥९॥

कृष्णद्वैपायनाच्चैव तेजसा च न संशयः।
न च द्वेषोऽस्ति मे तात त्वयि सत्यं ब्रवीमि ते॥१०॥

तेजोवधनिमित्तं तु परुषं त्वाऽहमब्रुवम्।

अकस्मात् पाण्डवान् हि त्वं द्विषसीति मतिर्मम॥११॥

तेनासि बहुशो रूक्षं श्रावितः कुरुसंसदि।
जानामि समरे वीर्यं शत्रुभिर्दुस्सहं तव॥१२॥

ब्रह्मण्यतां च शौर्यं च दाने च परमां मतिम्॥१२॥

न त्वया सदृशः कश्चित् पुरुषेष्वमरोपम।
कुलभेदभयाच्चाहं सदा परुषमुक्तवान्॥१३॥

इष्वस्त्रे भारसन्धाने लाघवेऽस्त्रबले तथा।
सदृशःफल्गुनेनासि कृष्णेन च महात्मना॥१४॥

कर्ण भूमेः परं गत्वा त्वयैकेन धनुष्मता।
कन्यार्थे कुरुराजस्य राजानो मृदिता युधि॥१५॥

तथाऽतिबलबान् राजा जरासन्धो महाबलः।
तेजसा यशसा धैर्यान्न त्वया सदृशो भवेत्॥१६॥

ब्रह्मण्यस्सत्यवादी त्वं तेजसाऽर्कसमो ह्यसि।
देवगर्भो भवान् सङ्ख्ये मनुष्येष्वधिको भवान्॥१७॥

व्यपनीतोऽद्य मन्युर्मे यस्त्वां प्रति पुरा कृतः।
दैवं पुरुषकारेण न शक्यमतिवर्तितुम्॥१८॥

सोदराः पाण्डवा वीरा भ्रातरस्तेऽरिसूदन।
सङ्गच्छ तैर्महाबाहो मम चेदिच्छसि प्रियम्॥१९॥

मया भवतु निर्वृत्तं वैरमादित्यनन्दन।

¹पृथिव्यां583 सर्वराजानो भवन्त्वद्य निरामयाः॥२०॥

कर्णः—

जानाम्येव महाप्राज्ञ सर्वमेतन्न संशयः।
यथा वदसि दुर्धर्ष कौन्तेयोऽहं न सूतजः॥२१॥

अवकीर्णस्त्वहं कुन्त्या सूतेन च विवर्धितः।
²पुरा260 दुर्योधनेनाहं स्नेहं वै कृतवान् मुदा॥२२॥

तव कार्यं करिष्यामि यद्यत् सर्वं दुरासदम्।
इत्येवं वै प्रतिज्ञातं वचनं वै सुयोधने॥२३॥

तत् सत्यवचनं चाद्य न मिथ्या कर्तुमुत्सहे॥२४॥

वसु चैव शरीरं च पुत्रदारास्तथा यशः।
सर्वं दुर्योधनस्यार्थे त्यजेयं भूरिदक्षिण॥२५॥

कोपिताः पाण्डवा नित्यं मयाऽऽश्रित्य सुयोधनम्।
³अवश्यभावी406 यश्चार्थस् स न शक्यो निवर्तितुम्॥२६॥

दैवं पुरुषकारेण को निवर्तितुमुत्सहेत्॥२६॥

पृथिवीक्षयशंसीनि निमित्तानि पितामह।
भवद्भिरुपलब्धानि कथितानि च संसदि॥२७॥

पाण्डवा वासुदेवश्च विदिता मम सर्वशः॥२८॥

अजेयाः पुरुषैः पार्था इति पश्चात् सहामहे।
¹अधर्म्यं229 व्याधिमरणं क्षत्रियस्य पितामह॥२९॥

अनुजानीहि मां तात युद्धाय धृतनिश्चयम्।
अनुज्ञातस्त्वया वीर युध्येयमिति मे मतिः॥३०॥

दुरुक्तस्त्वं प्रतीपं मे संरम्भाच्चापलात् तथा।
यन्मयाऽपकृतं वीर तत् तत् क्षन्तुं त्वमर्हसि॥३१॥

भीष्मः—

अपमार्ष्टुंन चेच्छक्यं वैरमेतत् सुदारुणम्।
अनुजानामि कर्ण त्वां युध्यस्व स्वर्गमाप्नुहि॥३२॥

निर्मन्युर्गतसंरम्भः कृतकर्मा रणे भव।
यथाशक्ति यथोत्साहं सर्वपौत्रेषु वृत्तवान्॥३३॥

अहं त्वामनुजानामि यदिच्छसि तदाप्नुहि।
क्षत्रधर्मजिताल्ँलोकान् अवाप्स्यसि न संशयः॥३४॥

युध्यस्व निरहङ्कारो बलवीर्यव्यपाश्रयः।
धर्म्याद्धि युद्धादधिकं क्षत्रियस्य न विद्यते॥३५॥

प्रशमे हि कृतो यत्नस् सुमहान् सुचिरं मया।
न चैव शक्तस्तं कर्तुं यतो धर्मस्ततो जयः॥३६॥

सञ्जयः—

इत्युक्तवन्तं गाङ्गेयम् अभिवाद्य प्रसाद्य च।
राधेयो रथमारुह्य प्रायात् तव सुतं प्रति॥३७॥

वैशम्पायनः—

¹इत्येतद्बहुवृत्तान्तं584 भीष्मपर्वाखिलं मया।
शृण्वते ते महाराज प्रोक्तं पापहरं शुभम्॥३८॥

यश्श्रावयेत् सदा राजन् ब्राह्मणान वेदपारगान्।
श्रद्धावन्तश्च ये चापि श्रोष्यन्ति मनुजा भुवि॥३९॥

विधूय सर्वपापानि विहायान्ते कलेबरम्।
प्रयान्ति तत् पदं विष्णोर् यत् प्राप्यन निवर्तते॥४०॥

²तस्मात्124 सर्वप्रयत्नेन भारतं भरतर्षभ।
शृणुयात् सिद्धिमन्विच्छन्निह चामुत्रमानवः³585॥४१॥

¹भोजनं586 भोजयेद्विप्रान् गन्धमाल्यैरलङ्कृतान्।
भीष्मपर्वणि राजेन्द्र दद्यात् पानीयमुत्तमम्॥²587

इति श्रीमहाभारते शतसहस्रिकायां संहितायां वैयासिक्यां
भीष्मपर्वणि अष्टादशोत्तरशततमोऽध्यायः॥ ११८॥
॥ ६४॥ भीष्मवधपर्वणि अष्टसप्ततितमोऽध्यायः॥ ७८॥
[ अस्मिन्नध्याये ४२ श्लोकाः ]

भीष्मवधपर्व समाप्तम्॥
समाप्तमिदं भीष्मपर्व॥
———————————————————————————————————————————

॥अस्मिन् भीष्मपर्वणि ५८८४ श्लोकाः॥
<MISSING_FIG href="../books_images/U-IMG-1704859422ववव.png"/>
अतः परं द्रोणपर्व भविष्यति। तस्यायमाद्यश्श्लोकः॥
<MISSING_FIG href="../books_images/U-IMG-1704859434mmm.png"/>

जनमेजयः—

तमप्रतिमसत्त्वौजोबलवीर्यपराक्रमम्।
हतं देवव्रतं श्रुत्वा पाञ्चाल्येन शिखण्डिना॥

<MISSING_FIG href="../books_images/U-IMG-1704859451ववव.png"/>

———————————————————————————————————————————

Printed by V. Venkateswara Sastrulu of
V. Ramaswamy Sastrulu & Sons, at the ‘Vavilla’ Press, Madras.

॥ श्रीः ॥

महाभारतभीष्मपर्वस्थानामशुद्धानां शोधनम्

अस्मिन् पर्वणि आदितः अष्टानामध्यायानां समाप्तिवाक्ये ‘वैयासिक्याम्’ इत्यत्र अनुस्वारस्थाने मकारपातः स्खलित इति ज्ञेयम्

[TABLE]

पुटम् पङ्क्तिः अशुद्धम् शोधनम्
७८ कुशलाश् ते कुशलास् ते
८२ १८ महीपाला महीपालान्
८९ साहस्राः साहस्रा
९४ बर्हिणः वर्षिणः
११७ १० महाराजन् महाराज
१९९ १५ यक्षश्च यज्ञश्च
२१३ १८ प्रणष्ट प्रनष्ट
२१६ १२ सैन्यानां आवृणोत् सैन्यानाम् आवृणोत्
२३४ मृगुयां चक्रिरे मृगयांचक्रिरे
२३५ १२ तालेण तालेन
२४२ बिभ्रत् शङ्खं विभ्रच् छङ्खं
२५२ यूह्य व्यूह्य
२५३ प्रहरणस् प्रहरणास्
२६० २० कृन्तन् शस्त्रैः कृन्तञ् शस्त्रैः
२६७ १७ लाघवाव्द्यंसयामास लाघवाद् ध्वंसयासास
२९० काले कालो
३१५ ११ समुदीयमार्णम् समुदीर्यमाणम्
३१९ १६ वाह्वोर् बाह्वोर्
३२३ १८ व्यथया चकार व्यथयांचकार
३२५ १५ मज्जास्थितक मज्जास्थिक
३३ मुखाभिसञ्जुः मुखाऽभितस्थुः

[TABLE]

[TABLE]

]


  1. " ख-ग— निवेशं चक्रिरे योद्धुं तन्मे शंस महामते। [अधिकः पाठः]" ↩︎

  2. " अ-क-ग शङ्खान् महानादान्" ↩︎

  3. “ध-ड-म-वित्रेसु” ↩︎

  4. " घ-ङ-म-घोरं" ↩︎

  5. “ख—अन्तर्वीयत वादित्यस्; घ-ङ-म-अन्तर्धीयत चादित्यस्” ↩︎

  6. “ग—कर्दमान् घ-ङ-म-कर्दमः” ↩︎

  7. “ख—प्रवृत्ते तु नो चैव; ग—नः प्रवृत्ते; ङः-ध-म प्रष्टृत्ते नो” ↩︎

  8. “ख-घ-ङ—इदमधं नास्ति” ↩︎

  9. " घ-ङ-म कोशेषु अयं पादोऽनन्तरश्च न स्तः" ↩︎

  10. “ख-व-म-नयं तदा; ङ-नयत्तदा” ↩︎

  11. “ख—इदमर्धद्वयं नास्ति” ↩︎ ↩︎

  12. “घ-ङ-म-वाश्यन्तो” ↩︎

  13.  ↩︎
  14. “घ-ङ-म कम्पन्ते” ↩︎

  15. “ख-घ-ङ-म—आसीद्रुधिरवर्षं च पुष्पवर्षं च कामतः। [पाठान्तरम्]” ↩︎

  16. “ख-घ-ङ-म अयं पादोऽनन्तरश्च न स्तः” ↩︎

  17. “अ-क-ग–अर्धपञ्चकं नास्ति” ↩︎

  18. “घ-ङ-म कुरराश्शारिकाश्चैव” ↩︎

  19. “ख–बाह्वीकास्तापसास्तव वेश्मनि;घ-ड-म- कुहकास्तापसास्तव वेश्मनि” ↩︎

  20. " अ-क-ख-ग-भाग्यं" ↩︎

  21. “ख-इदमधंद्वयं नास्ति” ↩︎

  22. “ख-घ-म-मुदरस्य च” ↩︎

  23. “घ-ङ-म— ग्रस्तावेकत्राह्लि” ↩︎

  24. " ख- घ ङ-म— शुष्काशनिविमिश्रिताः" ↩︎

  25. " ख—ववाम शवगन्धी च धूमप्रायखरस्वनः। [पाठान्तरम्] घ-ङ-म-वामार्चि श्शिवगन्धी च" ↩︎

  26. “ख-ग-ङ-म— श्वसन्तः प्रकिरन्तश्च वालवेपथुसंयुताः । घ—श्वसन्तः प्राक् किरन्तश्च वाला वेपथुसंश्रिताः॥ [पाठान्तरम्]” ↩︎

  27. “अ-क-ख— अर्धद्वयं नास्ति” ↩︎

  28. " ख— हन्यात्स च न वा हन्यात् कालधर्मा घ-ड-मन— हन्यात्स च वा हन्यात् कालधर्मात् " ↩︎

  29. “ग—ते वशगा मे सुताश्च ख— ते वंशगा मे सुताश्च न कल्मषं कर्तुमिहार्हसे माम् घ-ङ-—मे वक्षगा मे सुतश्च न कल्मषं कर्तुमिहार्हसे माम्” ↩︎

  30. “अ-क– नास्तीदमर्धम्” ↩︎

  31. “ख -ग-घ-ङ-म— पश्चात्संसाधयत्यर्थं पुरस्तात्प्रतिषेधति। [पाठान्तरम्]” ↩︎

  32. “ख-ग— एको दीनो दारयति; घ-ङ-म-एको दीर्णो दारयति” ↩︎

  33. " ग—तां दीर्णामन्वदीर्यन्ते ख-घ-ङ-म— तं दीर्णमनुदीर्यन्ते यौधाः शूरतमा" ↩︎

  34. “ख– दीनइत्येव दीर्यन्ते सुविद्वांसोऽपि भारत । ग-घ- ङ—सुविद्वांसोऽपि भारत” ↩︎

  35. “अ-क— इदमर्धं नास्ति” ↩︎ ↩︎

  36. “ध —अर्धस्रयं नास्ति” ↩︎

  37. “ख—प्रसादात्तत्र घ-ङ-म— प्रसादात्तस्य” ↩︎

  38. “ख-ग-ङ-म— जीविनाम्” ↩︎

  39. “ख- घ-ङ-म— गृध्रन्ति” ↩︎

  40. “अ-क-ग —इदमर्धं नास्ति” ↩︎

  41. “ख-च- उन्म-द्विरंशे पिप्पलस्तव द्विरंशे च कुशो [पाठान्तरम् ]” ↩︎

  42. “ख व उ म अतो यदन्यथा भूप एप” ↩︎

  43. “ख— शोत्तरतस्तथा; घ-ङ-म— शाधस्स्थितस्तथा” ↩︎

  44. “अ-क-ख-ग— इदमर्धं नास्ति” ↩︎

  45. “ङ—इदमर्धं नास्ति” ↩︎ ↩︎

  46. " ख-ड-म— शिरस्येव" ↩︎

  47. “ख-घ-ङ-म—फलैः पुण्यः;” ↩︎

  48. “क-व-ड— दश पञ्च च” ↩︎

  49. “अ-क-ग- इदमर्धं नास्ति " ↩︎

  50. “ध-अर्धत्रयं नास्ति [अधिकः पाठः]” ↩︎

  51. “ख—नीलात्परतरः श्वेतश्श्वेताद्धैरावतं परम् । घ-ङ-म-नीलोत्पलतरं वर्षं रम्यकान्नाम भारत । हिरण्मयं च श्वेताद्रेः परवर्षं नराधिप । कुरुवर्षं ततो राजञ् शृङ्गवत्पर्वतात्परम्॥[ अधिकपाठान्तरम् ] ख-घ-ङ-म वर्षं चैरावृतं नाम तत्र शृङ्गवतः परम् । [ पाठान्तरम् ] " ↩︎

  52. “ख-घ-ङ-म - अध्युत्तरेण कैलासं मैनाकं पर्वतं प्रति । [पाठान्तरम्]” ↩︎

  53. “ख-घ-ङ-म-अचिन्त्यदेवसंकल्पा प्रभोरेवैष सन्निधिः । [पाठान्तरम् ]” ↩︎

  54. “ख-श्चैते पर्वते प्राय उच्यते; घ-ङ-म-ग्रहं श्वेते पर्वते प्राय उच्यते” ↩︎

  55. “अ-क-ख-ग-घ इदमर्धं नास्ति” ↩︎

  56. “अ-क–एतत्तृतीयं” ↩︎

  57. “अ-क-ख- इदमर्धं नास्ति” ↩︎

  58. “अ-क- ख- द्वीपश्च” ↩︎

  59. “ख— पूर्वे भानुसुगन्धिके; घ-ङ-म-सर्वे सर्वानुगन्धिकाः” ↩︎

  60. “अ-क-ख-ग—रवि” ↩︎

  61. “अ-क-ख— इदमर्धं नास्ति” ↩︎

  62. “घ-ङ-म— तथा सर्वे विरचिता नरास्ते नृपसत्तम । [अधिकः पाठः]” ↩︎

  63. “ख-घ-ङ-म-गृध्राः” ↩︎

  64. “अ—अर्धषट्कं नास्ति” ↩︎ ↩︎ ↩︎

  65. " ख—तथाकारां; ग-घ-ङ— तथा कान्तां” ↩︎

  66. “ख–लोकद्वयं नास्त्रि” ↩︎

  67. “ख-ग-ङ-म—दार्दरां पूर्णां बाहुदामथ वन्दनाम् घ—दुर्दरापर्णां बाहुदामथ वन्दनाम्” ↩︎

  68. “ख— परिष्णा; ग—वरिष्ठां रोहिणीं चैव;; घ-ङ-म— वरिष्णां रोहिणीं चैव” ↩︎

  69. “ख—असनां तमसां दाशां रसावन्तीं परायणीम् । ग—अनसां तमस दाशां सरवन्तीं परायणीम् । घ-ङ-म—असनां तामसां दाशां रसामन्तां परायणीम् [पाठान्तरम्]” ↩︎

  70. “अ-क—अर्धद्वयं नास्ति” ↩︎

  71. “अ -क—नास्तीदमर्धम्” ↩︎

  72. “ख—अत्रेमे + साल्वाश्चैवेह; ग-घ-ङ-म— साल्वाश्चैवेह” ↩︎

  73. " क–अर्धाष्टकं नास्ति” ↩︎

  74. “. ख ग घ - उन्म-वधैषिण” ↩︎

  75. " ग-घ-ङ-म इक्षुदस्सागरस्तथा" ↩︎

  76. “अ-क-ख- अर्धद्वयं नास्ति” ↩︎

  77. “अ-क-– इदमर्धं नास्ति” ↩︎

  78. “घ- अर्धद्वयं नास्ति” ↩︎

  79. “अ-क- इदमर्धं नास्ति” ↩︎ ↩︎ ↩︎

  80. “अ-क-ऋषभो” ↩︎

  81. “ख-घ-म-ड क्तः” ↩︎

  82. “ख-घ-म-ङ-क्त” ↩︎

  83. “ख-ग-भोगो ह्यचलः कुसुमोत्तरे ; घ-म – भागो ह्यचलः कुसुमोत्करः ङ-भागो ह्यचलत्कुसुमोत्करः” ↩︎

  84. " ग-मोदारः ; ख-स्याधमो धर्मो दारिः (? ↩︎

  85. “ख-शाक” ↩︎

  86. “ख-ग-घ-ङ-म-पूजा महानुगा” ↩︎

  87. “ख-ग-घ-ङ- इक्षुदश्च सुरोदश्च सर्पिक्षीरोदधिस्तथा। दधिमण्डोदकाश्चास्य शुद्धोदधिरथोमहान्॥ [पाठान्तरम्]।” ↩︎

  88. “अ-क-अर्धपञ्चकं नास्ति” ↩︎

  89. “ग-घ- ङ-म- सम्पूज्यते हि प्लक्षश्च स्वद्वीपख्यातिकृद्यथा [पाठान्तरम्],” ↩︎

  90. " ख-ग-यतः" ↩︎

  91. “अ-क- नास्तीदमर्धम्” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  92. “अ-कथं प्रहतुर्भीष्मस्य तिष्ठतो युधिशान्नवान्। स्थातुं ससैन्यास्तस्याग्रेशेकुस्सञ्जय पाण्डवाः ॥ [पाठान्तरम्]” ↩︎

  93. “ध-क- नास्तीदमर्धम्” ↩︎

  94. “अ-क- तेनाहीना मम चमूर्भ्रमते नूनमद्य वै । [ अधिकः पाठः ]” ↩︎

  95. “अ-क- अर्धसप्तकं नास्ति” ↩︎

  96. " व-अर्धत्रयं नास्ति" ↩︎

  97. “अ-क-ग-ब-अर्धत्रयं नास्ति” ↩︎

  98. " ख- रथानोकान्यदृश्यन्त नगराणीव भूरिशः। [अधिकः पाठः]" ↩︎

  99. “अ-क–अक्षौहिण्या चमूचासीदेकादशा सुतस्य ते । [पाठान्तरम्]” ↩︎

  100. " ख - व -ह-म-समुपेतौ + चेष्टितौ" ↩︎

  101. “अ-क-ग- अर्जुनस्सगरो वैम्यो ये चान्ये क्षत्रियोत्तमाः [अधिकः पाठः]” ↩︎

  102. " ख-ग-घ-ङ-म– यस्तु गोपायनश्शैब्यः सहितः सर्वं" ↩︎

  103. “अ-क-ग-स्फुरच्छ्वेतातपत्रेण ध्रियमाणश्च मूर्धनि। वीज्यमानस्सुचारुभ्यां चामराभ्यां च पार्श्वयोः ॥[अधिकःपाठः].” ↩︎

  104. “अ-क-ग-शोभमानस्स नृपतिश् शुशुभे चारुविक्रमः । [अधिकःपाठः]” ↩︎

  105. “अ-क-ग-ङअन्ये च बहवो भूपाश् शतशोऽथ सहस्रशः । प्रययुः पुरतः कृत्वा भीष्मं कुरुकुलोद्वहम्। [अधिकःपाठः]” ↩︎

  106. “अ-क-ग- कुरुक्षेतं प्रति तदा युद्धाय भरतर्षभ ॥ [अधिकःपाठः]” ↩︎

  107. " अ-क- नास्तीदमर्धम्" ↩︎ ↩︎

  108. “अ-क- काञ्चनाङ्गदिमो राजन् ज्वलिता इव पर्वताः । [पाठान्तरम्]” ↩︎

  109. " अ-क-अर्धत्रयं नास्ति" ↩︎

  110. “अ-क-ग-तब्बूहवृन्दाल्लोकेषु देवगन्धर्वमानुषाः । [अधिकःपाठः ]” ↩︎

  111. “अ-क-ग- श्रुत्वा युधिष्ठिरो वाक्यमर्जुनस्य महात्मनः। बभूव मुदितो राजा ह्यर्जुनं सोऽभ्यनन्दत ॥ [ अधिकः पाठः]!” ↩︎

  112. “अ-क–अर्धद्वयं नास्ति” ↩︎

  113. “अ-क-ख- नास्तीदमर्धम्” ↩︎

  114. “अ-क–अर्धद्वयं नास्ति” ↩︎

  115. “ख-ग-घ-ङ-म-ततोऽर्जुनं तत्र राजन् कृतास्त्राः प्रपातारस्ते विगत बभूवुः । [पाठान्तरम्]” ↩︎

  116. “अ-क- अर्धद्वयं नास्ति” ↩︎

  117. “अ क नास्तीदमर्धम्” ↩︎

  118. “ख उ म नेतारौ” ↩︎

  119. “अ-अर्धषट्रकं नास्ति” ↩︎

  120. " ख-व-ङ-म- नास्तीदमर्धम्" ↩︎

  121. " अ-क-ग- तस्याग्रमूर्धन्यपि धार्यमाणं विभाति चाकाश इवेन्दुमण्डलम् । सुशोभनैश्चामरैर्वीज्यमानं किरीटिनं कुण्डलिनं सुवस्त्रम् । [अधकिपाठः]" ↩︎

  122. “घ-क-म-युधिष्ठिरं परिवव्रुस्समेताः सर्वे यथा स्वस्त्ययनं ब्रुवन्तः । [पाठान्तरम् ]” ↩︎

  123. “अ क - घ -सग्दोमु; ख ग खजामुद्दाम” ↩︎

  124. “घ—अर्धद्वयं नास्ति” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  125. “क—ते त्वया वै गमिष्यन्ति त्यक्तासुन्दुर्बला युधि। राजा भीम महाबाहो वार्यतामस मानद॥ [पाठान्तरम् ] नकुलः— क्लैवं गमिष्यसि श्रेष्ठ त्यक्त्वास्मान्दुर्बलोयथा। राजापि त्वं महाबाहो वाग्यतो मन्युमानिव॥ [पाठान्तरम्] सहदेवः—” ↩︎

  126. “ङ–म—नैषोऽस्ति” ↩︎

  127. “ख–ग–घ–ङ–म—धिक्कृत्य तु” ↩︎

  128. “ग–घ–ङ–म—स्त्रियां स्त्रीनामधेये च विकले चैकपुत्रके।” ↩︎

  129. “ख–ग—अप्रसूतेव भीते च; घ–ङ–म—अप्रसूते च हीने च” ↩︎

  130. “घ–ङ–म—अर्थार्थे” ↩︎

  131. “अ–क–ग—को हि शक्तः पुमाञ्जेतुं भवन्तमपराजितम्। [अधिकः पाठः]” ↩︎

  132. “ख–म—यावदुर्व्यामहं रणे घ–ङ—यावदुर्व्या महारणे” ↩︎

  133. “अ–क—इदमर्धं नास्ति” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  134. “अ–क–ग—तस्माद्वरय राजेन्द्र पाण्डुपुत्रंयुधिष्ठिरम्। तेषां त्वमग्रणीश्श्रेष्ठ पाण्डवानां भविष्यसि। ज्येष्ठस्त्वमनुजास्ते वै पूजितस्त्वं भविष्यसि। [अधिकः पाठः]” ↩︎

  135. “ख—इदमर्धंनास्ति” ↩︎ ↩︎

  136. “ख–ग–घ–ङ-म—दशार्धानि न सन्ति” ↩︎

  137. “ख–ग–घ–ङ–म—अथ तं समभिप्रेप्सु र्युयुत्सुरिदमब्रवीत्। प्रीतात्मा धर्मराजानं कुन्तीपुत्रं युधिष्ठिरम्। अहं योत्स्यामि भवतः संयुगे धृतराष्ट्रजान्॥ [अधिकः पाठः]” ↩︎

  138.  ↩︎
  139. “अ–क—अर्धत्रयं नास्ति” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  140. “ख–ग–घ–ङ–म—द्वादशार्धानि न सन्ति” ↩︎

  141. “ख–घ–ङ–म—इदमर्धं नास्ति” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  142. “ख–ग–घ–ङ–म—चतुर्दशार्धानि न सन्ति” ↩︎

  143. “ख–ग–घ–ङ–म—प्रत्यपद्यन्त च पुनस्ते रथान्पुरुषर्षभाः। ततो राजन्यथाव्यूहं प्रत्यव्यूह्यन्त ते पुनः॥ अवादयन्दुन्दुभींश्च शतशश्चैव पुष्करान्॥ [अधिकः पाठः ]” ↩︎

  144. " ख–घ–म—हर्षिणः" ↩︎

  145. “ङ–म—कोशयोः गीता न लिखिता प्रसिद्धत्वात्” ↩︎

  146. “अ–क–ख–ग—ऽप्यनुनादयत्” ↩︎

  147. “अ–क–ख—क्ष्ये” ↩︎

  148. “अ–क–ख—विपश्चित्” ↩︎

  149. “घ—नं” ↩︎

  150. “अ–क—दन्ति मनीषिणः” ↩︎

  151. “अ–क–घ—प्रदाः” ↩︎

  152. “ख–ग—शक्ष्यसे” ↩︎

  153. “ग—समस्तान्” ↩︎

  154. “अ—इदमर्धं नास्ति” ↩︎

  155. “ख–घ—तद्राजसमुदाहृतम्” ↩︎

  156. “ग—अयं पादोऽनन्तरश्च न स्तः।” ↩︎

  157. “अ–क–ख–ग—इदं” ↩︎

  158. “घ–म—महं” ↩︎

  159. “ख–ग–घ–ङ–म—रासंस्ततस्तेषां समुद्भवाः” ↩︎

  160. “घ—अर्धचतुष्टयं नास्ति” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  161. “ख–ग–ङ–म—भीमसेनरथं प्रति” ↩︎

  162. “ख–ग–ङ–म—दुष्षहः कृपः” ↩︎

  163. “अ–क–ख–ग—नास्तीदमर्धम्” ↩︎ ↩︎

  164. " ख–घ–ङ–म—इदमर्धं नास्ति" ↩︎ ↩︎

  165. “अ-क-ग-ड -तदा रणोत्सुकान्येव व्यरोचन्त परस्परम् । [अधिकः पाठः]” ↩︎

  166. “अ-कृ- नास्तीदमर्धम्” ↩︎

  167. “घ-अर्धत्रयं नास्ति” ↩︎

  168. “. ख-ग - ङ - म-स्सहदेव जत्रु देशेषुणा पैयत्” ↩︎

  169. “ड -नास्तीदमर्धम्” ↩︎

  170. " घ- अर्धचतुष्टयं नास्ति" ↩︎

  171. “घ-अर्धत्रयं नास्त्रि” ↩︎

  172. " घ-अर्धद्वयं नास्ति" ↩︎

  173. “ख-ग-घ-ङ-म- श्रुतायोस्तुरगान् रणे” ↩︎

  174. “अ-क-ख-अर्धद्वयं नास्ति” ↩︎

  175. " अ-क-ग–प्रवाहा इव दृश्यन्ते तदा सागरयोरिव । [ अधिकः पाठः]" ↩︎

  176. “म- अर्धचतुष्टयं नास्ति” ↩︎

  177. “अ-क-ग- अर्धद्वयं नास्ति” ↩︎

  178. “ख—अर्धषट्कं नास्ति” ↩︎ ↩︎

  179. “ङ—अर्धद्वयं नास्ति” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  180. “ख-ग-घ-ङ-म—लघुत्वादभि मत्तत्वात्” ↩︎

  181. “ख-ग-घ-ह-म—स्सर्धशब्दगाः” ↩︎

  182. " अ-क-ख-ग—नास्तीदमर्धम्" ↩︎

  183. “अ-क–नास्तीदमर्धम्” ↩︎

  184. " अ-क-ग—नास्तीदमर्धम्" ↩︎

  185. “ख-च हम इदमधं नास्ति” ↩︎

  186. “ख-ग-घ-ङ-म—सोत्सेधानि” ↩︎

  187. “अ-क-आजघान महामनाः” ↩︎

  188. “अ-क—नास्तीदमर्धम्” ↩︎

  189. " ख-ग-घ-ङ-म—भल्लेन हत्वा वक्षसं चानदत्" ↩︎

  190. “ख-घ उ-म—अर्धद्वयं नास्ति” ↩︎

  191. " अ-क–नास्तीदमर्धम्" ↩︎ ↩︎

  192. “ख-घ-ङ-म—विस्मयातदा” ↩︎

  193. " अ-क-ग - दध्यौ राजा सुदीर्घेण कालेन परिमोहितः । [अधिकः पाठः]" ↩︎

  194. “ख-ग-म- इदमर्धं नास्ति” ↩︎

  195. " ख -ग -ड-म -इदमर्धत्रयं नास्ति" ↩︎

  196. “ख-घ-ङ-म अर्धत्रयं नास्ति” ↩︎

  197. “ख-ग-घ-ङ- तत उद्धर्षयन्सर्वान्धृष्टद्युम्नोऽभ्यभाषत [अधिकः पाठः]” ↩︎

  198. “ख-क- म्- नास्तीदमर्धम्” ↩︎

  199. “ख-च-ह-म- इदमर्धं नास्ति” ↩︎

  200. “ख-घ-ड-म इदमर्धद्वयं नास्ति” ↩︎

  201. “ख-ग-करोत्तमः (घ ↩︎

  202. “अ-क- गाण्डीवधनुषा चापि स्वयंभूरिव भानुना ।[पाठान्तरम्]” ↩︎

  203. “ख-ग-घ- विशिखो; ङ-म - विराटद्रुपदौ राजन्” ↩︎

  204. “अ-क-नास्तीदमर्धम्” ↩︎ ↩︎

  205. “अ- सप्तार्थानि न सन्ति” ↩︎

  206. “ख-ग-घ-ङ–म अर्धद्वयं नास्ति” ↩︎

  207. “अ-क– अश्शान्तकैर्विकीर्णैश्च” ↩︎

  208. " ख-ग-घ-म श्चाश्रुता” ↩︎

  209. “ग-ङ-म - पणवाश्च विशां पते घ- आहताश्च विशां पते” ↩︎

  210. " ग-आनकाख-आनर्तकाश्च वाद्यन्त घ-ड-म-आनकाश्चाभ्यवाद्यन्त" ↩︎

  211. " व रु –भेरीमृदङ्गपणवा आनकाश्च विशां पते । म-पाण्डुसैन्येऽभ्यवादन्त सिंहनादरवैस्सह ॥ [अधिकः पाठः]" ↩︎

  212. “ख-ग-व-ड-म-स्थापयन्तः” ↩︎

  213. “अ-क- आसीद्वीरक्षये सति” ↩︎

  214. “अ-क- गजवाहाश्च निहताश्च गजाऽभवन्” ↩︎

  215. " ख - इदमर्धं नास्ति " ↩︎

  216. “घ-ए-म- प्राच्यकेकयमागधैः” ↩︎

  217. “अ-क- प्रावर्तत महायुद्धं राजन्नर्जुनभीष्मयोः । [अधिकः पाठः]” ↩︎

  218. “ख-ग-घ-ङ-म- चित्रं” ↩︎

  219. “अ - द्वादशानि न सम्ति” ↩︎

  220. " ख- इतः अर्धपञ्चकं नास्ति" ↩︎

  221. “ग-घ-ङ-म—प्रेक्षणकरं ख—प्रक्षयकरं” ↩︎

  222. “अ–क–ग—युद्धोन्मुखस्तदा भीमं तव पुत्रेण चोदितः। [अधिकः पाठः]” ↩︎

  223. “अ–क—नवार्धानि न सन्ति” ↩︎

  224. “ग—अर्धत्रयं नास्ति” ↩︎

  225. “अ–क–म—तमासाद्य प्रहृष्टवत्” ↩︎

  226. “अ—भीमसेनाय संयुगे” ↩︎

  227. “अ—षढर्धानि न सन्ति” ↩︎

  228. “ख–घ–ङ–म—अर्धचतुष्टयं नास्ति” ↩︎

  229. “अ–क—नास्तीदमर्धम्” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  230. “अ-क—उत्ततार पुनश्चास्मात्” ↩︎

  231. “अ–क–ख—अर्धद्वयं नास्ति” ↩︎ ↩︎ ↩︎

  232. “ख—इदमर्धं नास्ति” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  233. “ख–घ–ङ–म—अर्धद्वयं नास्ति” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  234. “ख–ग–घ–ङ–म—विशोकस्तु” ↩︎

  235. “ख–घ–ङ–म—नास्तीदमर्धम्” ↩︎ ↩︎ ↩︎ ↩︎

  236. “घ–ङ–म—नास्तीदमर्धम्” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  237. “ख—नोऽभ्यगच्छत। व्याक्रोशन्त स्म तं दृष्ट्वा” ↩︎

  238. “अ–ख—षडर्धानि न सन्ति” ↩︎ ↩︎

  239. " ख–घ–ङ–म—इदमर्धंनास्ति" ↩︎

  240. “अ–क–ग—संपातिता गजाः केचित् हतास्सारथिनोऽपरे। [पाठान्तरम् ]” ↩︎

  241. “अ—अष्टार्धानि न सन्ति” ↩︎

  242. “घ—नास्तीदमर्धम्” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  243. “ख—तथाऽस्य दृश्यते घ—तद्दृश्यते तूग्ररूपं म—ङ— तद्दृश्यते ह्यद्य रूपं” ↩︎

  244. “ख–ग—सप्तार्धानि न सन्ति” ↩︎

  245. “2. घ—अर्धद्वयं नास्त्रि 3. म—नास्तीदमर्धम्” ↩︎

  246. “ख–घ–ङ–म—इदमर्धद्वयं नास्ति” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  247. “अ–क–ग—नास्तीदमर्धम्” ↩︎ ↩︎ ↩︎

  248. “ङ—अर्धत्रयं नास्ति” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  249. “अ–क—सप्तार्धानि न सन्ति” ↩︎

  250. “घ—पञ्चार्धानि न सन्ति” ↩︎ ↩︎

  251. “अ–क–ख–ग–घ—अर्धचतुष्टयं नास्ति” ↩︎

  252. “अ–क—पञ्चार्धानि न सन्ति” ↩︎

  253. “अ–क–ग—अयं पादोऽनन्तरश्च न स्तः” ↩︎

  254. “घ—अर्धत्रयं नास्ति” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  255. “ग—द्रोणस्य यततस्संख्ये गाङ्गेयस्य च धीमतः। जघान विशिखैस्तीक्ष्णैः परानीकं विशां पते ॥ [ अधिकः पाठः ]” ↩︎

  256. “ख–ग–घ–ङ–म—द्रवतस्तान् समालक्ष्य भीष्मद्रोणौमहारथौ। [ पाठान्तरम् ]” ↩︎

  257. “ख—इदमर्ध नास्ति " ↩︎

  258. “ख–घ–ङ—नास्तीदमर्धम्” ↩︎

  259. “ख–ग–घ–ङ–म—आदिश्यादिश्य भारत” ↩︎

  260. “ख–घ–ङ–म—इदमधंचतुष्टयं नास्ति” ↩︎ ↩︎ ↩︎

  261. “अ–क–ग—अर्धद्वयं नास्ति” ↩︎ ↩︎

  262. “अ—सप्तार्धानि न सम्ति” ↩︎

  263. “म—अर्धद्वयं नास्ति” ↩︎

  264. “ख—इदमादि अर्धचतुष्टयं नास्ति” ↩︎ ↩︎ ↩︎

  265. “ख–ग—: समीक्ष्य” ↩︎

  266. “अ–क—अर्धद्वयं नास्ति” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  267. “अ–क–घ–ङ–म—अर्धचतुष्टयं नास्ति” ↩︎

  268. “ख—इदमादि अर्धत्रयं नास्ति” ↩︎

  269. “घ–ङ–म—तच्चक्रपद्मं सुभुजोरुनालम् यथाऽऽदिपद्मं तरुणार्कवर्णम्। [पाठान्तरम् ]” ↩︎

  270. “घ–ङ–म—तत्कृष्णकोपोदितसूर्यबुद्धं क्षुरान्ततीक्ष्णाग्रसुजातपत्रम्। [पाठान्तरम् ]” ↩︎

  271. “अ–क–ग—भूरिश्रवाश्चातियशा महात्मा स सिंहनादं च चकार भूयः। [अधिकः पाठः]” ↩︎

  272. “अ–क—नरान्त्रसज्जां बहुमांसपङ्कम्” ↩︎

  273. “ख–ग–घ–ङ–म—यथा महेन्द्रेण हि मार्गसङ्क्षान् " ↩︎

  274. “ख–ग–घ–म—हत्वा गजानां च शतानि सप्त” ↩︎

  275. “अ–क—ततः परं व्यूहमचिन्त्यरूपं निवेशयामास महाधनुष्मान्। [अधिकः पाठः]” ↩︎

  276. “अ–क—महारथानां प्रवरो महात्मा वधोधतशत्रु वरूथिनीनां। [पाठान्तरम् ]” ↩︎

  277. “ख–ग–घ–ङ–म—नास्तीदमर्धम्” ↩︎ ↩︎

  278. “अ–क–ग—तुरङ्गमश्चापि तुरङ्गमेण हतः पपाताथ नदन् पृथिव्याम्।[अधिकः पाठः]” ↩︎

  279. “अ–क–ग—सैन्यानि सैन्यैर्निहतानि सङ्ख्ये। [अधिकः पाठः]” ↩︎

  280. “अ–क–ग—हृतानि सर्वाणि पदातिसङ्घैः पदातिसङ्घा निहतास्समन्तात्। सुवर्णमाणिक्यविभूषितानि सूर्यप्रभाजालसमद्युतीनि॥ सबाणजालानि तथाऽयुधानि विदार्यमाणानि परश्वथैश्च। निपेतुरुव्यां सहसा हतानि गदासिशक्त्यष्टिपरश्वथानि॥ बाणैश्शिताग्रैर्निहतास्सुपर्वभिः सहाश्वसूता रथिनः प्रपेतुः॥ [अधिकः पाठः पाठभेदश्च]” ↩︎

  281. “अ–क—पदातिनागाश्वरथौवसङ्कुलं हत्वा महत्सैन्यमनेकथाऽर्जुनः। चचार मार्गान् बहुधा प्रदर्शयन् नैपुण्यमार्गं स रणे समस्थितः॥ तं तत्र तालोच्छ्रितकेतुवर्यः सदश्ववेगोत्थितरेणुरूषितः। रथेन बाणासनशस्त्रपाणिः समाससादार्जुनमेकवीरम्॥ [अधिकः पाठः पाठभेदश्च]” ↩︎

  282. “क—अशक्यकर्मा विनिहत्य ख–ग—स उग्रकर्मा वि अ—अशक्यकर्माणि” ↩︎

  283. “अ–क–ग—रणाय चोद्युक्तमनन्तवीर्य बालं हि मत्वाऽऽर्जुनिमप्रमेयम्। तथा समीपे स्थितमर्जुन तं दृष्ट्वा कुरूणां प्रवरस्स भीष्मः। महारथं पार्थमुपेत्य शीघ्रं स योधयामास रणे महात्मा। [अधिकः पाठः]” ↩︎

  284. “अ–क–ग—एवं विधं युद्धमभूतपूर्वं कृतं तु ताभ्यां भुवि विश्रुताभ्याम्। भीमार्जुनाया पुरुषोत्तमाभ्यां सर्वे नृपाः पाण्डव कौरवेयाः॥ गन्धर्वयक्षप्रवरास्सविस्मयास् ससर्वलोका ददृशुस्समन्तात्। [पाठान्तरम् ]” ↩︎

  285. “अ–क–ग—अष्टाविंशद्भिरहनच्छलं चैव महेषुभिः। सौमदत्तिस्तु सङ्क्रुद्धश् शक्तिं कालायसीमथ। प्रेषयामास समरे फल्गुनस्य सुताय वै॥[अधिकः पाठः]” ↩︎

  286. “अ–क–ग—भूरिश्रवसमेवाथ जवानोरसि सायकैः। [अधिकः पाठः]” ↩︎

  287. “अ–क–ग—सौमदत्तिश्शलश्चैव पञ्चैते तु महारथाः। [अधिकः पाठः]” ↩︎

  288. “1. अ–क—नास्तीदमर्धम् 2. अ–क–ग—सर्वे महारथाश्शूरा अयुध्यन्त महारणे। पार्षतेन महाराज शलशल्यकृपादयः। प्रमुखे चार्जुनस्यैव स्थित्वा च युधि पार्षतः॥ [अधिकः पाठः]” ↩︎

  289. “अ–क—स्वरथात्तर्णमभ्यागाद् रथस्थं पुरुषर्षभम्। भल्लेन कृतवर्माणं शलमेकेषुणाऽहनत्॥ [अधिकः पाठः]” ↩︎

  290. “घ–ङ–म—नदन्पृष्ठे च सारथिम्” ↩︎

  291. “अ–क–ग—निजघान महाबाणैस् तीक्ष्णाग्रैरप्यजिह्मगैः। ततः क्रुद्धावयुभ्येतां परस्परजयैषिणौ। युभ्यतोरुभयोश्चापि समं युद्धमवर्तत। [अधिकः पाठः]” ↩︎

  292. “अ–क–ग—प्रावर्तत महायुद्धं परस्परजिगीषया। [अधिकः पाठः]” ↩︎

  293. “ख–घ–म—दशभि” ↩︎

  294. “ख–ग–घ–ङ–म—श्चाग्रणीस्तत्र” ↩︎

  295. “ख–ग–घ–ङ–म—मारुतेश्शूलहस्तस्य पुरेवाभिघ्नतः पशून्। [पाठान्तरम् ]” ↩︎

  296. “अ–क–घ—नास्तीदमर्धम् " ↩︎

  297. “अ–क–ग—युक्ता बभौ युद्धभूमिर् विकीर्णैस्स्यन्दनध्वजैः। अम्तकस्येव च क्रीडा भूमिरासीद्युगक्षये॥ [अधिकः पाठः]” ↩︎

  298. “अ–क–ग—तां प्रगृह्य महावेगाम् आयान्तं भीमनिस्वनम्। भीमसेनं महावीर्यम् अतीवाप्रियदर्शनम्॥ [अधिकः पाठः]” ↩︎

  299. “अ–क–ग—न तत्रकश्चिद्भुवि तस्य विद्यते निवारकस्सोमदत्तस्य पुत्रान्। [पाठान्तरम् ]” ↩︎

  300. “ख–घ–ङ—दृष्ट्वा रथान् स्वानवलोयमानान् ग—व्यपनीयमानान्” ↩︎

  301. “अ–क–ख–ग—अर्धत्रयं नास्ति” ↩︎

  302. “अ—चतुर्दशार्धानि न सन्ति” ↩︎

  303. “क–ग—सारथिं चापि भीमस्य पुनर्विव्याध मागणैः। [अधिकः पाठः]” ↩︎

  304. “क–ग—नास्तीदमर्धम्” ↩︎

  305. “अ–क—क्रुद्ध एव रणे भीमस् सर्वांनेव महारथान्। वधिष्यति यथायोगं द्रवमाणान् नृपान्युधि॥ मा द्रवध्वं नृपश्रेष्ठा घातयध्वं वृकोदरम्। सङ्गतास्समरे शूरा युभ्यध्वमिति मा चिरम्॥ [पाठान्तरम्]” ↩︎

  306. “ङ–म—भीमस्याभिमुखास्तत्र” ↩︎

  307. “अ–क—अर्धचतुष्टयं नास्ति” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  308. “ख–ग–घ–ङ–म—न्यवर्तत महाघोषो भैमसैनिशरार्दितः। [अधिकः पाठः ]” ↩︎

  309. “अ–क–ग—हस्तिनोऽश्वाश्शकृन्मूलं प्रसस्रुर्मंहतो भयात् ।[अधिकः पाठः]” ↩︎

  310. “अ–क–ग—नाद्य मे रोचते युद्धं पाण्डवैर्जितकाशिभिः। प्रवर्तत्वपहारोऽद्य गच्छाव स्वबलेन वै॥ शिबिरं प्रति गच्छामस् सन्ध्या संपरिवर्तते। [ पाठान्तरम् ]” ↩︎

  311. “म—अर्धचतुष्टयं नास्ति” ↩︎

  312. “अ–क–ग—इदानीमपि वक्ष्यामि हितं तव नराधिप। [अधिक पाठः]” ↩︎

  313. “अ–क–ग—नसुरासुरमर्त्येषु यो विन्द्यात् तत्त्वतो हरिम्। [पाठान्तरम्]” ↩︎

  314. “ग—महोरगशयानाद्य हरे शेष विभो जय। ख—महोरगवराभोग शवशेष विभो जय। घ—महोरववरागाद्य हरिकेश विभो जय।” ↩︎

  315. “ग–घ–ङ–म—पादो नभो नाभिर् दिग्बाहू द्यौर्” ↩︎

  316. “अ–क–ग—यो जानाति पुमांल्लोके स धीमान् पुरुषस्स्मृतः। तस्माद्विभुस्सुरश्रेष्ठः परमात्मा सनातनः॥ [अधिकः पाठः]” ↩︎

  317. “ख–घ–म—इदमर्धं नास्ति” ↩︎ ↩︎ ↩︎

  318. “1. अ–क–ग—अशक्यं कर्तुमुद्यक्तस्तच्च मोहान्न बुध्यसे। [ अधिकः पाठः] 2.अ–क–ग–म—अर्जुनश्च तथाऽजेयश् शाश्वतोऽव्ययअच्युतः। कृष्णस्तु परमात्मा च भूतभव्यभवत्प्रभुः। [ अधिकः पाठः ]” ↩︎

  319. “अ–क–ग—न वरं सदृशं भूतं वासुदेवस्य धीमतः। [ अधिकः पाठः ]” ↩︎

  320. “अ–क–ख—नास्तीदमर्धम्” ↩︎ ↩︎ ↩︎

  321. “अ–क–ग—स्तवमेतं च कृष्णस्य ह्यसितो देवलोऽब्रवीत्। [ अधिकः पाठः ]” ↩︎

  322. “अ–क–ग–ङ—महिमा चैव गोविन्द विश्रुतः पृथिवीतले।[ अधिकः पाठः ]” ↩︎

  323. “अ–क–ग—कृष्णेन रक्षिता युद्धे यत्नेनापि हितैषिणा । [अधिकः पाठः]” ↩︎

  324. “घ–ङ–म—कुर्याम भारत” ↩︎

  325. “अ–क–ग—शिरोभिर्दन्तदष्टोघैृरुद्गीर्णनयनैर्मही। व्याप्ता चासीन्महाराज व्याप्ता पद्मोत्करैरिव॥ [ पाठान्तरम् ]” ↩︎

  326. “अ–क–ख–ग—एकादशार्धानि न सन्ति” ↩︎

  327. “अ–क–ग—आयुधैर्विविधैर्वाक्यैस्तथा क्रूरातिनिष्ठुरैः। [अधिकः पाठः]” ↩︎

  328. “अ–क—अन्योन्यं समरे जघ्नुः परस्परवधैषिणः। महारथा महशूरा रथिनो विस्था अपि ॥ [अधिकः पाठः]” ↩︎

  329. “अ–क–ख–ग—अर्धद्वयं नास्ति” ↩︎

  330. “अ–क–ग—योधा दिङ्मोहनादेव दीनवक्त्राः प्रहारिणः। प्रकीर्णकेशवस्त्राश्च हतास्त्रा हतचेतसः॥ [ अधिकः पाठः ]” ↩︎

  331. “अ–क–ग—संपेतुस्सवंयोधाश्च वित्रस्ताश्शरपीडिताः। [ अधिकः पाठः ]” ↩︎

  332. “अ–क— नास्तीदमर्धम्” ↩︎

  333. “ङ—अर्धद्वयंनास्ति” ↩︎

  334. “अ–ङ—अर्धद्वयं नास्ति” ↩︎

  335. “अ–क–ग—निहता रुधिरोत्सिक्तास् सर्वाङ्गविकलीकृताः। [ अधिकः पाठः ]” ↩︎

  336. “अ–क—तथा महाबलं धीरं शूरं बाह्लीकमेव च। [अधिकः पाठः]” ↩︎

  337. “ख—अत्र विरेजुस्समरे भीममिति वर्तते। मध्ये अर्धचतुष्टयं नास्ति” ↩︎

  338. “1.अ–क–ग—सात्यकिः पुनरायत्तो युद्धाय कृतनिश्चयः। तस्यौ रणे महावीरश् चिकीर्षन्कर्म दुष्करम्॥ पश्यतां पाण्डुसैन्यानां सात्यको रणमूर्द्धनि। [अधिकः पाठः] 2. अ–क—नास्तीदमर्धम्” ↩︎

  339. “अ–क–ग—अकरोत्सुमहत्कर्म युध्यन् गाण्डीवधम्वना। [पाठान्तरम्]” ↩︎

  340. “घ—अर्धत्रयं न दृश्यते” ↩︎

  341. “घ–ङ–म—तत्राद्भुतमपश्याम सौमदत्तेः पराक्रमम्। एको बहूनां चिच्छेद धनूंषि निशितैश्शरैः॥ [अधिकः पाठः]” ↩︎

  342. “ख–घ–ङ–म—इदमर्धचतुष्टयं नास्ति” ↩︎ ↩︎

  343. “अ–क–ख—अर्धचतुष्टयं नास्ति” ↩︎ ↩︎ ↩︎

  344. “ख–ग–ङ–म—इदमर्धं नास्ति” ↩︎

  345. “अ–क–ग—युज्यतां रथमुख्यानां युद्धभाण्डैस्सुशोभनैः । अलङ्कृतार्ना नागानाम् अश्वानां चैव भारत । [पाठान्तरम्]” ↩︎

  346. “ख–घ–ङ–म—इदमर्धंद्वयं नास्ति” ↩︎

  347. “अ–क–ग—शिररस्थानगतौ चोभौ तद्बले समरक्षतुः । [अधिकः पाठः]” ↩︎

  348. “अ–क–ग—संग्रामस्तुमुलश्वास्र युद्धाय कृतनिश्चयाः । [अधिकः पाठः]” ↩︎

  349. “अ–क—न श्रुतं व्यासवचनं पथ्यं हितकरं च तत्। हितं पथ्यं निगदितं येन दृष्टमिदं पुरा। [पाठान्तरम् ]” ↩︎

  350. “ख–ग–घ–ङ–म—सैन्यस्य तेऽपि पाण्डवमाविशन् [पाठान्तरम् ]” ↩︎

  351. “अ–क–ग—निपातितैरुल्बणानां विसृतानां समन्ततः। [अधिकः पाठः]” ↩︎

  352. “ख–ग–घ–ङ–म—निहत्य ताश्चापि [पाठान्तरम् ]” ↩︎

  353. “1. अ–क—आसीत्तदा गतान् दृष्ट्वा ह्यभिमन्युपुरोगमान् 2. ङ—अर्धद्वयं नास्ति [ अधिकः पाठः ]” ↩︎

  354. “अ–क–ग—तानागतान्पाण्डवेयान् अभिमन्युपुरोगमान्। [अधिकः पाठः]” ↩︎

  355. “घ—इदमर्धं नास्ति” ↩︎

  356. “अ–क–ग—प्रादृश्यन्त महाराज शतशोऽथसहस्रशः। [अधिकः पाठः]” ↩︎

  357. “ख–घ–ङ–म—अर्धत्रयं नास्ति” ↩︎

  358. “अर्धषट्रकं–क–कोश एवदृश्यते नान्यत्र” ↩︎

  359. " घ—अर्धद्वयं नास्ति” ↩︎ ↩︎

  360. “ख–घ–ङ–म—अयं पादोऽनन्तरश्च न स्तः” ↩︎ ↩︎ ↩︎

  361. “अ–क—अर्धषट्रकं नास्ति” ↩︎ ↩︎

  362. “अ–क—नास्तीदमर्धं चतुष्टयम्” ↩︎

  363. “अ–क—स्थाग्र्यपादातगजाकुलानि वै महारथक्षितिपतिरक्षितानि। [ पाठान्तरम् ]” ↩︎

  364. “अ–क–ग—करिष्यन्ति महद्युद्धं पाण्डवैस्सह भारत।” ↩︎

  365. “ख–ग–घ–ङ–म—इदमर्धं नास्ति [अधिकः पाठः]” ↩︎

  366. “अ–क–ग–सप्ताश्वाश्चर्मिणस्सप्त नागे नागे तथा भवन्।[अधिकः पाठः]” ↩︎

  367. “ख–घ–ङ–म—गोप्यमानश्च तेन ते [पाठान्तरम्]” ↩︎

  368. “ख–घ–ङ–म—इदमर्धंनास्ति” ↩︎ ↩︎

  369. “ख–ग–घ–ङ–म—चिच्छेद धनुरेकेन पत्रिणा [पाठान्तरम् ]” ↩︎

  370. “ख–ग–घ—तत्राक्रुध्यद्द्विजर्षभः ङ–म—क्रुद्धस्तस्य द्विजर्षभः” ↩︎

  371. “अ—इतस्सप्तार्धानि न सन्ति” ↩︎

  372. " घ—अर्धत्रयं नास्ति” ↩︎

  373. “ख—विव्याध सप्तभिः। स हताश्वादित्यादि वर्तते। मध्ये अर्धचतुष्टयं नास्ति” ↩︎

  374. “ख–घ–ङ–म इदमर्धं नास्ति” ↩︎

  375. “2. अ–क–ग - प्रथमे संयुगे तात प्रनष्टानपि शंससि। [अधिकः पाठः] 3. ख–ग–घ–ङ–म वदसे संयुगे तात दिष्टमेव न” ↩︎

  376. “ख–ग–ब–कु–म—महोदधिसमभ्याशे” ↩︎

  377. “अ–क—अर्धचतुष्टयं न दृश्यते” ↩︎ ↩︎

  378. “ख–घ–ङ–म—इदमर्धत्रयं नास्ति” ↩︎

  379. “ख—ततः प्रसह्य समरे नकुलस्य महारथः। [ अधिकः पाठः ]” ↩︎

  380. “ङ–म—अर्धद्वयं नास्ति” ↩︎

  381. “अ–क—सौमदत्तिर्हृदिस्थैस्तै रश्मिभिस्तपनो यथा। [ मध्ये पादद्वयं गलितम् ]” ↩︎

  382. “अ–क—अर्धद्वयं विच्छिन्नम्” ↩︎

  383. “ङ–म—इत आरभ्य पञ्च पादा न सम्ति–समाययौ शान्तनवं रणाय–इति वर्तते” ↩︎

  384. “ख–घ–ङ–म—समाययौ” ↩︎

  385.  ↩︎
  386. " ख–ह–घ–म—इदं पादद्वयं नास्ति” ↩︎

  387. “ख–घ–ङ–म—अयं पादो नास्ति” ↩︎

  388. “ख–घ–ङ–म—नास्त्ययं पादः” ↩︎

  389. “ख–ग–ङ–म—भयेन भीमस्य स मूढचेताः ससौबलस्तत्र युद्धस्य भीतः” ↩︎

  390. “घ–ङ–म—अर्धमिदं नास्ति [पाठान्तरम् ]” ↩︎

  391. “अ–क—नास्त्ययं पादः” ↩︎ ↩︎

  392. “अ–क—कोशयोः इत आरभ्य ३९॥ तमश्लोकपर्यन्तस्थानेऽयं पाठो दृश्यते सप्रासांश्च सतूणीरान्सशरान् सशरासनान्। साङ्कुशान् सपताकांश्च तत्र तत्रार्जुनो नृणाम्॥ न्यकृन्तत रणे क्रुद्धो बिभ्रद्रौद्रं वपुस्तदा॥ परिघाणां विकीर्णानां मुद्गराणां च भारत। प्रासानां भिण्डिपालानां निस्त्रिंशानां च पार्थिव॥ परश्वथानां तीक्ष्णानां तोमराणां विशां पते। चर्मणां चापविद्धानां कवचानां च संयुगे॥ ध्वजानां च स्थानां च व्यजनानां विशां पते। छत्राणां हेमदण्डानां चामराणां च भारत॥” ↩︎

  393. “अ–क—अर्धषट्कं नास्ति” ↩︎ ↩︎

  394. “ख–ग घ–ङ–म—इदमर्धद्वयं नास्ति” ↩︎

  395. “ख–ग–घ–ङ–म—मुहूर्तमिव तत् सर्वमभवत् स्वर्गसन्निभम्। न हि युद्धकथाः केचित्तत्र चक्रुर्महारथाः। ते प्रसुप्ते बले राजन् परिश्रान्ते जने निशि। [पाठान्तरम्]” ↩︎

  396. “ख–ग–घ–ङ–म—अङ्गदान्यथ शुभ्राणि [ पाठान्तरम्]” ↩︎

  397. “अ–क—अर्धद्वयस्थाने—प्रतिव्यूहं महेष्वास कुरु क्षिप्रं महारथ। इति वर्तते” ↩︎

  398. “ग–घ–ङ–म—सादिनस्तत्र सङ्कशः” ↩︎

  399. “ख–घ–ङ–म—इदमर्धपञ्चकं नास्ति” ↩︎

  400. “ख–ग–घ–ङ–म—संयुगे ह्यपराजितः अपराजितस्य भीमेन कृर्त्तंगामपतच्छिरः॥ [ अधिकः पाठः ]” ↩︎

  401. “ख–ग–घ–ङ–म—प्रदुद्रुवुस्ततस्सैन्ये पुत्रास्तव विशां पते। मन्यमाना हि तत् सत्यं सभायां तस्य भाषितम्॥ [पाठान्तरम् ]” ↩︎

  402. “अ–क—पादद्वयं नास्ति” ↩︎

  403. “ख–ग–घ–ङ–म—इदमर्धं नास्ति” ↩︎

  404. “अ–क–ग—प्रावर्तत कथं युद्धं मम पुत्रक्षयावहम्। [पाठान्तरम्]” ↩︎

  405. “अ—एकादशार्धानि न सन्ति” ↩︎

  406. “अ–क—अर्धपञ्चकं नास्ति” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  407. “ख–ग–घ–ङ–म—अयं पादोऽनन्तरच न स्तः” ↩︎

  408. “ङ–म—नास्तीदमर्धम्” ↩︎ ↩︎

  409. “अ–क—साह्यकृद्भरतर्षभ” ↩︎

  410. “अ–क—धैर्येण समरे कश्चिन्न प्राणान् परिरक्षति।” ↩︎

  411. “अ–क—सङ्ग्रामस्सुमहानासीत् तदा देवासुरोपमः। [पाठान्तरम् ]” ↩︎

  412. “ङ—अर्धद्वयं न दृश्यते” ↩︎

  413. “अ–क—तस्मिंस्तदा वर्तमाने सङ्ग्रामे रोमहर्षणे। भीष्मश्शान्तनवस्तूर्णम् आजगाम महाबलः॥ तदा दुर्योधनं दृष्ट्वा राक्षसेन पराजितम्। अब्रवीन्नृपसङ्घस्तान् समस्तस्तावकान् रणे॥ यूयं गच्छत भद्रं वो राजानं परिरक्षितुम्। अभिभूतो महाघोरो राक्षसेन सुधीमता। राज्ञाप्रयुक्तो बाणो वै यज्ञेन महता युधि॥ [ पाठान्तरम् ]” ↩︎

  414. “ग—प्राविशन् भूतलं राजन् वल्मीकमिव पन्नगाः। [ अधिकः पाठः]” ↩︎

  415. “अ–क—अयं पादोऽनतरश्च न स्तः” ↩︎

  416. “ख–घ—इदमर्धं नास्ति” ↩︎ ↩︎

  417. “ख—अन्योन्यमभिधावन्तरसम्प्रहारं प्रचक्रिरे। [अधिकः पाठः]” ↩︎

  418. “ख–घ–ङ–म—इदमादि अर्धचतुष्टयं नास्ति” ↩︎

  419. “ख–ग–घ–ङ–म—उरोनिघर्षणेऽन्योन्यं समाश्लिष्य” ↩︎

  420. “ङ—इतोऽर्धद्वयं नास्ति” ↩︎

  421. “ख–ग–घ–ङ–म—अयं पादोऽनन्तरश्च न स्तः” ↩︎ ↩︎

  422. “अ–क—इदमर्धंनास्ति” ↩︎

  423. “ख–म—इदमर्धं नास्ति” ↩︎

  424. “ख–ग–घ—पाण्डवानां महारथाः” ↩︎

  425. “ख–ग–घ–म—अभ्यधावन्त वेगेन भीमसेनपुरोगमाः।” ↩︎

  426. " ख–घ–ङ–म—इदमर्धं नास्ति [पाठान्तरम्]" ↩︎

  427. “ख–ग–घ–ङ–म—विदार्य प्राविशन क्षिप्रं वल्मीकमिव पन्नगाः। [पाठान्तरम्]” ↩︎

  428. “ख–घ–ङ–म—अर्धनवकं नास्ति” ↩︎

  429. “ख–ग–घ–ङ–म—राक्षसेन बलीयसा” ↩︎

  430. “ख–ग–घ–ङ–म—विशोको” ↩︎

  431. “घ—नास्त्यर्धत्रयम्” ↩︎

  432. “ख–ग–घ–ङ–म—ततस्सुनिशितान् बाणान् भीमसेनश्शिलाशितान्। स सप्त सन्दधे हन्तुं पुतांस्ते भरतर्षभ॥ [अर्धत्रयस्थाने पाठान्तरमिदम् ]” ↩︎

  433. “ख–ग–घ–ङ–म—वसन्ते पुष्पशबला किंशुकाः पतिता इव।” ↩︎

  434. “घ–ङ–म—नास्त्यर्धंद्वयम्” ↩︎

  435. “म—नास्तीदमर्धम्” ↩︎

  436. “ङ–म—इतोऽधंद्वयं नास्ति” ↩︎

  437. “ख–ग–घ–म—हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्त्रिनाम्। [ अधिकः पाठः ]” ↩︎

  438. “ख—इदमर्धत्रयं नास्ति” ↩︎ ↩︎

  439. “घ—नास्तीदमर्धद्वयम्” ↩︎

  440. “ग–घ–म—नास्तीदमर्धम्” ↩︎

  441. “ख–ग–घ–ङ–म—विपाटितविचित्राभिः कुथाभिश्च महाधनैः।[ अधिकः पाठः ]” ↩︎

  442. “अ–क–ख–ग–घ—नास्तीदमर्धम्” ↩︎

  443. " ख–ग–ङ–म—तेषु सम्भ्रान्तभन्नेषु मृदितेषु च संयुगे। घ—कोशे नास्तीदमर्धम् [ अधिकः पाठः ]" ↩︎

  444. “ख–ङ–घ–म—इदमर्धं नास्ति” ↩︎

  445. “ख–घ–ङ–म—एतदर्धं नास्ति” ↩︎

  446. “ख—अयं पादः अनन्तरश्च न स्तः” ↩︎

  447. “ख—एतदर्धं नास्ति” ↩︎

  448. “घ–ङ–म—अर्धद्वयं नास्ति” ↩︎ ↩︎

  449. “1. अ–क—लयोदशार्धानि न सन्ति-तत्स्थाने इमानि चत्वार्यधनि वर्तन्ते तथा गोग्रहणे राजन्नर्जुनः परवीरहा। द्रोणं च युधि संरब्धो बाह्रीकं कृपमेव च। मां चैव सोमदत्तं च द्रौणिं त्वां कर्णमेव च। सर्वाश्च जितवानन्यान् पर्याप्तं तश्चिदर्शनम्॥ [ पाठान्तरम् ] 2.ङ—अर्धद्वयं नास्ति” ↩︎

  450. “ख–ग–घ–ङ–म—वयं प्रतिनदन्तस्तान्प्रत्यगृह्णीम सत्वराः। सहसैवाभिसकद्धास् तदासीत् तुमुलं महत्॥ [पाठान्तरम्]” ↩︎

  451. “ख–ग–घ–ङ–म—शस्त्रौघिणं गाहमानं सेनासागरमक्षयम्। निवारयितुमप्याज त्वदीयाः कुरुपुङ्गवाः॥ [पाठान्तरम् ]” ↩︎

  452. “ख—इदमादि अर्धषट्कं नास्ति” ↩︎

  453. “अ–क—ततः पुनस्तु सौभद्रः सोऽश्वश्रृङ्गिमहाबलः। आसाद्याभिमुखे स्थित्वा शरैस्सन्नतपर्वभिः॥ चकार विमुख रक्षो यमं शक्र इवाहवे। अश्वस्तिो राजन् वध्यमानो रणेऽरिणा॥ प्रादुश्चक्रे महामार्या तामसीं परितापिनीम्। ततस्तु तमसा सर्व वृतमासीजगप्तदा॥ अभिमन्युं प्रपश्यामि तमसा संवृतं तदा। [पाठान्तरम् ]” ↩︎

  454. “ख–ग–घ–ङ–म—शैनेयः परवीरहा” ↩︎

  455. “ख—इदमधं नास्ति” ↩︎

  456. “ख–घ–म—इदमधंद्वयं नास्ति” ↩︎

  457. " घ–ङ–म—विमुक्तो मेघजालेन यथैव तपनस्तथा। [पाठान्तरम् ]" ↩︎

  458. “ख–ग–घ–ङ–म—न द्रोण” ↩︎

  459. “ख–ग–घ–ङ–म—पार्थो वा गुरुमाहवे” ↩︎

  460. “अ–क—छाद्यमानश्शरैश्चापि तव पुत्रेण भारत। प्रजज्वाल रणे द्रोणश् शरैस्सन्नतपर्वभिः॥ तापयामास राजेन्द्र न चिरादिव भारत। [अधिकः पाठः]” ↩︎

  461. “घ—इतोऽर्धत्रयं नास्ति” ↩︎

  462. “ख–ग–ङ–म—अयं पादः अनन्तरश्च न स्तः” ↩︎

  463. “ख–ग–घ–ङ–म—तथेतरान् समासाद्य नरनागाश्वसादिनः। प्रेषयन् परलोकाय शरैस्संनतपर्वभिः॥ शस्त्रैश्च विविधैर्घोरस् तल तल विशां पते। [ अर्धपञ्चकस्थाने पाठान्तरम् ]” ↩︎

  464. “अ—अर्धचतुष्टयं नास्ति क—विपद्यन्ते च बहुधा नराश्च गजयोधिनः। कोपेन महता युक्तास् तव तस महाबलाः॥ [अधिकः पाठः]” ↩︎

  465. “ङ–म—अर्धत्रयं नास्ति” ↩︎ ↩︎

  466. “ख—इदमादि अर्धपञ्चकं नास्ति” ↩︎

  467. “ख–घ–ङ–म—अनयत् प्रेतराजस्य भवनं सायकैश्शितैः । [पाठान्तरम्]” ↩︎

  468. “ख–ग–घ–ङ–म—एकीभूतास्ततस्सर्वे कौरवाः पाण्डवैस्सह। अयुध्यन्त महाराज मध्ये प्राप्ते दिवाकरे॥ [अधिकः पाठः]” ↩︎

  469. “अ—अर्धत्रयं नास्ति” ↩︎

  470. “घ–ङ–म—अर्धमिदं नास्ति” ↩︎

  471. “ख—नास्तीदमर्धम्” ↩︎ ↩︎ ↩︎

  472. “ख–घ–ङ—इदमर्धद्वयं नास्ति” ↩︎

  473. “ख–ग–घ–ङ–म—अन्तर्दधे महाञ्शब्दस्तेन शब्देन मोहितः। [पाठान्तरम्]” ↩︎

  474. “घ–ङ–म—अर्धत्रयं नास्ति” ↩︎

  475. “ख–ग–घ–ङ–म—असृजन्नुत्तमाङ्गानि फलानीव महाद्रुमाः। [अधिकः पाठः]” ↩︎

  476. “2. ख–ग—ततो भीष्मं च द्रोणं च सैन्येन महता वृत्तौ। [अधिकः पाठः] 3. ख–ग–घ–ङ–म—सहदेवश्च” ↩︎

  477. “अ–क–ग—रथिनोऽपि महावीरा द्रवमाणान् महारथान्। [ अधिकः पाठः ]” ↩︎

  478. “अ—अनास्त्यर्धचतुष्टयम्” ↩︎

  479. “ख–घ–ङ–म—अदर्शयद्वासुदेवो हयज्ञाने परं बलम्। [पाठान्तरम्]” ↩︎

  480. “ख–घ–ङ–म—अर्धषट्रकं नास्ति” ↩︎

  481. “ख–घ–ङ–म—शुशुभाते नरव्याघ्रौभीष्मस्य शरविक्षतौ। गोवृषाविव नर्दन्तौ विषाणोल्लेखनाङ्कितौ॥ [पाठान्तरम्]” ↩︎

  482. “अ–क—गृहीतचक्रो भीष्मं तम अभिदद्भाव वै बली। [पाठान्तरम् ]” ↩︎

  483. “अ–क—मामैष कृतसङ्कल्पो” ↩︎

  484. “अ–क—यथा हनिष्ये शहूर्णा शत्रुकशन लालसः। [पाठान्तरम् ]” ↩︎

  485. “अ–क–ग—ममैष भारस्सर्वो हि हनिष्यामि महाव्रतम्। [अधिकः पाठः]” ↩︎

  486. “ख–ग–घ–ङ–म—इदं पादनवकं नास्ति” ↩︎

  487. “ख–ग–घ–ङ–म—चिन्तयित्वा चिरं राज्ञाम् अपहारमकारयत्। [पाठान्तरम् ]” ↩︎

  488. “अ–क—नास्त्रीदमर्धम्” ↩︎

  489. " ख–ग–घ–ङ–म—लेलिह्यमानं सैन्येषु विवृद्धमिव पावकम्। [पाठान्तरम् ]" ↩︎

  490. “अ–क–घ—नास्तीदमर्धम्” ↩︎ ↩︎

  491. “अ–क–ग–घ–ङ–म—नास्तीदमर्धम्” ↩︎

  492. “अ–क–ग—निहत्य त्वां महीं कृत्स्नां लभेम युधि कौरव। कथं जयेम त्वा वीर दण्डहस्तमिवान्तकम्॥ [अधिकः पाठः]” ↩︎

  493. “ख–घ—स्त्रीजिते स्त्रीप्रधाने च स्त्रीप्रधायिनि धर्मज। [अधिकः पाठः]” ↩︎

  494. “अ–क—नचैनं पुयुषव्याघ्रं समरेष्वनिवर्तिनम्। [पाठान्तरम्]” ↩︎

  495. “ख–घ–ङ–म—भीष्मं प्रति महाबाहो” ↩︎

  496. “अ–क—नवमापहारः इति वर्तते” ↩︎

  497. “ङ–म—अर्धचतुष्टयं नास्ति” ↩︎

  498. “अ–क–ग–आसुरं च महाव्यूहं चकार सुमहाबलः। यमाह नरकादींश्च युशना राक्षसान् प्रति॥[अधिकः पाठः]” ↩︎

  499. “ख—इत आरभ्य पञ्चार्धानि न सन्ति” ↩︎

  500. “ङ—अर्धचतुष्टयं नास्ति” ↩︎ ↩︎

  501. “ख–ग—युध्यन्तं परवाहिनीम् घ–ङ–म—तताप रिपुवाहिनीम्” ↩︎

  502. “घ—क्षत्रियाणां महात्मनाम्—मध्ये पञ्चार्धानि न सन्ति” ↩︎

  503. “ख–ग–घ–ङ–म—श्शेष्ये हनिष्ये वाऽद्य” ↩︎

  504. “अ–क—हिंसिष्येऽद्य त्वया साकं भीष्ममेव कथञ्चन। अहमन्याञ् शरैस्तीक्ष्णैर् वारयिष्ये रथोत्तमान्॥” ↩︎

  505. “घ—षडर्धानि न सन्ति [पाठान्तरम्]” ↩︎

  506. “अ—इतो द्वादशाधनि न सन्ति” ↩︎

  507. “अ–क—तावकानि समन्ततः” ↩︎

  508. “अ–क–ग–ङ–म—विद्गाव्य बहुशस्सङ्ख्ये विश्रान्तश्च पुनः पुनः। [अधिकः पाठः]” ↩︎

  509. “3. अ–क—नास्तीदमर्धम् 4. अ–क–ग—अभ्यद्भवत सङ्क्रुद्धोवधप्रेप्सुररिन्दमः। अभिद्रवन्तं बीभत्सुं दृष्ट्वा भीष्मो महाबलः॥ नाशक्नोत् प्रतियातुं तं युधि घोरपराक्रमम्। कर्तव्यमात्मनः कर्म भीष्मो न प्रत्यपद्यत॥ [अधिकः पाठः]” ↩︎

  510. “अ–क—यथैव गङ्गां राजन् वै गोगणास्तृषिता यथा। [पाठान्तरम् ]” ↩︎

  511. “ख–ङ–म—इदमर्धद्वयं नास्ति” ↩︎

  512. “ख—तुमुलं रोमहर्षणम्॥ ततो द्रोणसुतं योधान् द्रवमाणं महारणे। विसृजन्तं शरान् दृष्ट्वा द्रौणिमाहवशोभिनम्॥ [इति पाठान्तरम् ]” ↩︎

  513. “घ—विराटद्रुपदौ ऋडौ जघ्नतुस्समरे भृशम्। अश्वत्थामा ततस्तौं तु विव्याथ निशितैश्शरैः। महात्मनोर्महाराज वृद्धयोश्चरितं महत्। [इति पाठक्रमः]” ↩︎

  514. “अ–क—अन्योन्यं समरे शूरौ जघ्नतुश्च परन्तपौ। [पाठान्तरम् ]” ↩︎

  515. “घ–म—अर्धद्वयं नास्ति” ↩︎

  516. “घ–ङ–म—चत्वार्यधीनि न सन्ति” ↩︎

  517. “अ–क–म—नास्तीदमर्धम्” ↩︎

  518. “अ–क—स्रवच्छोणितगात्राणि आजन्ते दंशितान्यपि। [पाठान्तरम् ]” ↩︎

  519. “ख–इदमादि अर्धचतुष्टयं नास्ति” ↩︎

  520. “अ–क—योद्धुमिच्छति धर्मात्मा संयुगेष्वपराजितः। [अधिकः पाठः]” ↩︎

  521. “ख–घ–ङ–म—इदमादिपादद्वयं नास्ति” ↩︎

  522. “अ–क–ग—इच्छन् न प्रतिशक्नोति प्रतियोद्धुं वृकोदरम्। . [ अधिकः पाठः ]” ↩︎

  523. “ग—नास्तीदमर्धम्” ↩︎ ↩︎

  524. “अ–क–ग—चित्रसेनविकर्णौच युध्यपीडयतां शरैः। निशितैबेहुभिर्भीम सैन्धवश्चाप्यपीडयत्॥ भगदत्तः कृपश्चैव पृथक् पृथगरिन्दमौ। समपीडयता बाणैर भीमसेन महाबलम्॥ भीमोऽपि ताडितः क्रुद्धम् समरे बहुभिर्नृपैः। स तैस्सर्वैर्नृपतिभिः पृथक् पृथगयोधयत्॥ [ अधिकः पाठः]” ↩︎

  525. “अ–क–ग—स तु तानू प्रतिविष्याध पञ्चभिः पञ्चभिशरैः। अविष्यत् कृतवर्माण सप्तभिर्निशितैश्शरैः॥ भगदत्तं तथा बाणैर दशभिर्मर्मभेदिभिः। निर्बिभेद विशोकं वै तीक्ष्णायैश्च शिलीमुखैः॥ [ अधिकः पाठः ]” ↩︎

  526. “अ—पञ्चार्धानि न सन्ति” ↩︎

  527. “अ–क–ग—भगदत्तप्रयुक्तां च शक्तिं छित्त्वा महारथः। पातयामास विशिखैस् सा शक्तिरपतद्गणे॥ [ अधिकः पाठः]” ↩︎

  528. “अ–क—नास्तीदमर्धम् " ↩︎ ↩︎

  529. “अ–क—आमिषार्थे गवां मध्ये सिंहाविव बलोत्कटौ। [पाठान्तरम् ] घ—अर्धचतुष्टयं नास्ति” ↩︎

  530. “अ–क—नवाधीनि न सन्ति” ↩︎

  531. “ङ—अर्धचतुष्टयं नास्ति म—अर्धद्वयं नास्ति” ↩︎

  532. “अ–क—अष्टार्धानि न सन्ति” ↩︎

  533. “अ–क–ख–ग—उभौ चातिबलौ वीरौ सङ्क्रुद्धौ चाभ्यवर्ततास्। [अधिकः पाठः]” ↩︎

  534. “अ–क–ग—परस्परं युयुधिरे त्यक्तदेहाभिमानिनः॥ [अधिकः पाठः]” ↩︎

  535. “अ–क—पाञ्चाल्यं च पुरस्कृत्य पाण्डवं च धनञ्जयम्। [अधिकः पाठः]” ↩︎

  536. “अ–क—नास्तोदमर्धम्” ↩︎

  537. “अ–क—नास्तीदमर्धद्वयम्” ↩︎

  538. “1. अ–क–ग—ये च तत्र नरेन्द्राश्च ह्यन्योन्यं धीरचेतसः। निजगुस्समरे शूरास् तव तेषां महाबलाः॥ रथिनो रथिनो जघ्नुस् तुरगानश्वसादिनः॥ 2. अ–क—नास्तीदमर्धम् [अधिकः पाठः]” ↩︎

  539. “ख—तयोस्समागमो घोरो बभूव युधि भारत। [अधिकः पाठः]” ↩︎

  540. “अ–क–ग—दुर्योधनस्य साह्यार्थम् अश्वत्थामाऽऽगमत्तदा।[अधिकः पाठः]” ↩︎

  541. “2. अ–क–ग—सुपुङ्खैर्निशितैबणैर् विव्याध सुमहौजसम्। पौरवस्तु धनुश्छित्वा धृष्टकेतोर्मंहारथः॥ [अधिकः पाठः] 3. अ–क–इतः—सार्धंसप्तसप्ततितमलोकपर्यन्ताः ग्रन्थान सन्ति” ↩︎

  542. “ख–म—ताडयामास सङ्क्रुद्धस् तिष्ठ तिष्ठेति चाब्रवीत्। चेदिराजोऽपि समरे पौरवं पुरुषर्षभ। आजवान शिताग्रेण जनुदेशे वरासिना॥ [अधिकः पाठः]” ↩︎

  543. “ख—कौसलश्च पुनश्चापि धनुश्चिच्छेद फालगुनेः। [अधिकः पाठः]” ↩︎

  544. “ख–ग–घ–ङ—त्रिंशद्भिर्” ↩︎

  545. “अ–क—जगाम पाण्डवं संख्ये” ↩︎

  546. “ख–घ–ङ–म—आसाद्य भरतर्षभ” ↩︎

  547. “ख–ग–ङ–म—इदमर्धद्वयं नास्ति” ↩︎

  548. " घ—नास्तीदमर्धम्” ↩︎

  549. “अ—नास्तीदमर्धत्रयम्” ↩︎

  550. “क—नाभ्यवर्तन्त राजानस् सहिता वानरध्वजम्। रथिनस्स्वरथेभ्यश्च निपेतुर्धरणीतले॥ निकृत्ताश्चार्जुनेनाजौ विमुक्तकवचध्वजाः॥ [ अधिकः पाठः ]” ↩︎

  551. “अ–क–ग—दुर्योधनो दुष्प्रसहः कृपश्शल्यश्च भारत। [अधिकः पाठः]” ↩︎

  552. “व—अर्धाष्टकं नास्ति” ↩︎

  553. “ख–म—इदमर्धं नास्ति " ↩︎

  554. “ख–घ–ङ–म—इतः पादत्रयं नास्ति” ↩︎

  555. “ख–क–ग—मर्यादामपि र्ता हित्वा युयुधे न च सङ्कुलम्। [अधिकः पाठः]” ↩︎

  556. “अ–क–ख–ग—इदर्धद्वयं नास्ति” ↩︎

  557. “घ—अर्धद्वयमिदं नास्ति” ↩︎

  558. “अ–क–घ—पञ्चार्धानि न सन्ति” ↩︎

  559. “ग–घ–रु - म - यावायवाभ्यां शुचिशुक्रयोगे धातानतप्ता इव यावसङ्घाः। भीष्मस्य चापच्युतबा णवर्षैः पार्थस्य सेना कृशतामवाप॥ [अधिकः पाठः]” ↩︎

  560. “अ–क–ग—अभवद्दारुणं राजन् रोमहर्षणमद्भुतम्। [अधिकः पाठः]” ↩︎

  561. “अ—षडर्धानि न सन्ति” ↩︎

  562. “घ—इतस्सप्तदशार्धानि न सन्ति” ↩︎

  563. “ख–ङ–म—इदमर्धं नास्ति” ↩︎

  564. “अ–क–ग—तदद्य र्मा वरं चापि यथा चोक्तं तथाऽगमत्। [अधिकः पाठः]” ↩︎

  565. “अ–क—न विव्यधे महाराज भीष्मो बुद्धिमतां वरः। [पाठान्तरम् ]” ↩︎

  566. “ख–घ—इदमर्धंनास्ति” ↩︎

  567. “अ–क—एते कृन्तम्ति गात्राणि दृढावरणभेदिनः। अर्जुनस्य इमे बाणा नेमे बाणाश्शिखण्डिनः॥ छिन्दन्ति मम गात्राणि माघमासे गवामिव। मुसला इव मे घ्नन्ति मर्मणि सुभृशं शिताः॥” ↩︎

  568. “ख–घ—हृदमर्धंद्वयं नास्ति” ↩︎

  569. “1. अ–क—षडर्धानि न सन्ति 2. ख–घ—सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः। [अधिकः पाठः]” ↩︎

  570. “ख–घ–ङ–म—द्वादशैते जनपदाश् शरार्ताव्रणपीडिताः। [ पाठान्तरम् ]” ↩︎

  571. “ख–घ—इदमर्धद्वयं नास्ति” ↩︎

  572. “ख–घ–ङ–म—इति वचोऽब्रवीत्” ↩︎

  573. “अ—सप्तार्धानि न सन्ति” ↩︎

  574. “क–ङ–म—नास्तीदमर्धम्” ↩︎

  575. “ख–घ–ङ—म इदमर्धं नास्ति” ↩︎

  576. “ख–घ—नांस्तीदमधम्” ↩︎

  577. “अ–क—अर्धद्वयमिदं नास्ति” ↩︎

  578. “घ—स गत्वा त्वरित दूतो कौन्तेयाय न्यवेदयत्। [अधिकः पाठः]” ↩︎

  579. “अ–क–ख—अर्धत्रयं नास्ति” ↩︎

  580. “अ–क— ममावसाने शान्तिरस्तु प्रजानाम् अद्यालभन्तां पाण्डवाः प्रीतिमग्र्याम्। पिता पुत्रंमा वधीद्भागिनेयो नावध्येतां मातुलस्तौ समेतौ॥ भ्राता योद्धुं युधि बुद्धिं न कुर्याद् भ्राता त्वन्ये स्नेहयुक्ता भवेयुः। [ पाठान्तरम् ]” ↩︎

  581. “अ–क—निमील्य नेते मनसा संनिगृहा स्थितस्तूष्णीमिन्द्रियाण्यच राजन्॥ [अधिकः पाठः]” ↩︎

  582. “अ–क—अयं पादोऽनन्तरश्च न स्तः” ↩︎

  583. “अ–क—यत् पुरा विकृतं चाद्य निवृत्तं वैरमात्मनः। [अधिकः पाठः]” ↩︎

  584. “अ–क—अर्धाष्टकं नास्ति” ↩︎

  585. “अ–क—भीष्मपर्वणि राजेन्द्र कथान्ते कुरुनन्दन । ब्राह्मणान् भोजयेन्द्रक्त्या वस्त्रालङ्कारभोजनैः ॥ वकारं पूजयेद्भक्त्या वस्त्रालकरणादिभिः । सफलं स्यात् तच्छ्रवणं भगवान् मोदते भृशम् ॥ [ अधिकः पाठः ]” ↩︎

  586. “ख—कोश एकस्मिन्नेव इदमर्धद्वयं वर्तते” ↩︎

  587. “घ—वैशम्पायनः— सञ्जयोऽपि महाराज द्रष्टुं द्रोणस्य वैशसम्। [अधिकः पाठः]” ↩︎