[[संक्षिप्तमहाभारतम् (भीष्मपर्व) Source: EB]]
[
[TABLE]
ओ३म्
संक्षिप्त महाभारत
६ भीष्मपर्व।
<MISSING_FIG href="../books_images/U-IMG-1700820562Screenshot2023-11-24153824.png"/>
१
वै० उ० —अथ गावल्गणिर्विद्वान्संयुगादेत्य भारत।
प्रत्यक्षदर्शी सर्वस्य भूतभव्यभविष्यवित्॥१
ध्यायते धृतराष्ट्राय सहसोत्पत्य दुःखितः।
आचष्ट निहतं भीष्मं भारतानां पितामहम्॥२
सं० उ० —
हतो भीष्मः शांतनवो भरतानां पितामहः।
ककुदं सर्वयोधानां धाम सर्वधनुष्मताम्।
शरतल्पगतः सोऽद्य शेते कुरूपितामहः॥३
यस्य वीर्यंसमाश्रित्य द्यूतं पुत्रस्तवाकरोत्।
स शेते निहतो राजन्संख्ये भीष्मः शिखंडिना॥४
यः स शक्र इवाक्षोभ्यो वर्षन्वाणान्सहस्रशः।
जघान युधि योधानामर्बुदं दशभिर्दिनैः॥५
स शेते निहतो भूमौ वातभग्न इव द्रुमः।
तवदुर्मन्त्रिते राजन्यथा नार्हःस भारत॥६
धृ० उ० —
कथं कुरूणामृषभो हतो भीष्मः शिंखडिना।
कथमासंश्च मे पुत्रा हीना भीष्मेण संजय॥७
आर्तिं परामाविशति मनः संश्रुत्य मे हतम्।
कुरूणामृषभं वीरमकंपं पुरुषर्षभम्॥८
कथं वातिरथस्तेन पांचाल्येन शिखंडिना।
भीष्मो विनिहतो युद्धे देवैरपि दुरासदः॥९
अश्मसारमयं नूनं हृदयं सुदृढं मम।
यच्छ्रुत्वा पुरुषव्याघ्रं हतं भीष्मं न दीर्यते॥१०
तस्मिन्सत्यं च मेधा च नीतिश्च भरतर्षभे।
अप्रमेयाणि दुर्धर्षे कथं स निहतो युधि॥११
धर्मादधर्मो बलवान्संप्राप्त इति मे मतिः।
यत्र वृद्धं गुरुं हत्वा राज्यमिच्छन्ति पांडवाः॥१२
योषेवहतवीरा मे सेना पुत्रस्य संजय।
अगोषमिवयोद्धानंगोकुलं तद्बलं मम॥१३
अगाधसलिले मग्नांनावं दृष्ट्वैवपारगाः।
भीष्मे हते भृशं दुःखान्मन्ये शोचन्ति पुत्रकाः।१४
यद्दत्तं तत्रसंग्रामे मदस्याबुद्धिसंभवम्।
अपनीतं सुनीतं यत्तन्ममाचक्ष्व संजय॥१५
यत्कृतं तत्र संग्रामेभीष्मेण जयमिच्छता।
तेजोयुक्तं कृताश्रिण शंस तच्चाप्यशेषतः॥१६
मे० उ०—
प्रत्यक्षं यन्मया दृष्टं दृष्टं योगबलेन च।
श्रृणु तत्पृथिवीपाल मा च शोके मनः कृथाः ॥१७
दिष्टमेतत्पुरा नूनभिदमेवनराधिप॥१८
नमस्कृत्वा पितुस्तेऽहं पाराशर्याय धीमते।
यस्य प्रसादाद्दिव्यं तत्प्राप्तं ज्ञानमनुत्तमम्॥१९
दृष्टिश्चातींद्रिया राजन् दूराच्छ्रवणमेव च।
परचित्तस्य विज्ञानमतीतानागतस्य च॥२०
शृणु मे विस्तरेणेदं विचित्रं परमाद्भुतम्
भरतानामभृद्युद्धं यथा तल्लोमर्हषणम्॥२१
तेष्वनीकेषु यत्तेषु व्यूढेषु च विधानतः।
दुर्योधनो महाराज दुःशासनमथाब्रवीत्॥२२
दुःशासन रथास्तूर्णं युज्यंतां भीष्मरक्षिणः।
अनीकानि च सर्वाणि शघ्रिं त्वमनुचादेय॥२३
अयं स मामभिप्राप्तो वर्षपूगाभिचिंतितः।
पांडवानां ससैन्यानां कुरूणां च समागमः॥२४
नातः कार्यतमं मन्ये रणे भीष्मस्य रक्षणात्।
हन्याद्गुप्तो ह्यंसोपार्थान् सोमकांश्च ससृंजयान्॥२५
अब्रवीच्च विशुद्धात्मा नाहं हन्यां शिखंडिनम्।
श्रृयते स्त्री ह्यंसोपूर्वं तस्माद्वर्ज्योरणे मम॥२६
तस्माद्भीष्मोरक्षितव्यो विशेषेणेति मे मतिः।
शिखंडिनो वधे यत्ताः सर्वे तिष्ठंतु मामकाः॥२७
ततो रजन्यां व्युष्टायां स शब्दः समभृन्महान्।
क्रोशता भूमिपालानां युज्यतां युज्यतामिति॥२८
शंखदंदभिघोषैश्चसिंहनादैश्चभारत।
हयहेषितनादैश्च रथनेमिस्वनैस्तथा॥२९
गजानां बृहतां चैव योधानां चापि गर्जताम्।
क्ष्वेलितास्फोटितोत्कृष्टैस्तुमुलं सर्वतोऽभवत्॥३०
ततः प्रकाशे सैन्यानि समदृश्यंत भारत।
त्वदीयानां परेषां च शस्त्रवंति महांति च॥३१
मेधाविषयगः सोगस्तार्द्दनं प्रत्यपद्यत।
दीप्यमानाश्च संपेतुर्दिवि सप्त महाग्रहाः॥३२
द्विधाभूत इवादित्य उदये प्रत्यदृश्यत।
ज्वलंत्या शिवया भयो भानुमानुदितो रविः॥३३
सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव।
समानीय महीपालानिंदवचनमब्रवीत्॥३४
इदं वः क्षत्रियाद्वारं स्वर्गायापावृतं महत्।
गच्छध्वं तेन शक्रस्य ब्रह्मणः सहलोकताम्॥३५
एष वः शाश्वतःपंथाः पूर्वैः पूर्वतरैः कृतः।
संभावयध्वमात्मानमव्यग्रमनसो युधि॥३६
अधर्मः क्षत्रियस्यैषयद्व्याधिमरणं गृहे।
यदाजौ निधनं याति सोऽस्य धर्मः सनातनः॥३७
एवमुक्ता महीपाला भीष्मेण भरतर्षभ।
निर्ययुः स्वान्यनीकानि शोभयंतो रथोत्तमैः॥३८
ततो मुहूर्तात्तुमुलः शब्दो हृदयकंपनः।
अश्रूयत महाराज योधानां प्रयुयुत्सताम्॥३९
शंखदुंदुभिघोषैश्च वारणानां च बृंहितैः।
नेमिघोषैरथानां च दीर्यतविवसुंधरा॥४०
हयानां हेषमाणानां योधानां चैवगर्जताम्।
क्षणेनैव नभो भमिः शब्देनापूरितं तदा॥४१
पुत्राणां तव दुर्धर्ष पांडवानां तथैव च।
समकंपत सैन्यानि परस्परसमागमे॥४२
धार्तराष्ट्रान्यनीकानि दृष्ट्वा व्यूढानि पांडवः।
अभ्यभाषत धर्मात्मा धर्मराजो धनंजयम्॥४३
महर्षेर्वचनात्तात वेदयंति बृहस्पतेः।
संहतान्योधयेदल्पान्कामं विस्तारयेद्बहून्॥४४
सूचीमुखमनीकं स्यादल्पानां बहुभिः सह।
अस्माकं च तथा सैन्यमल्पीयः सुतरां परैः॥४५
अर्जु0 उ—एष व्यूहामि ते व्यूहं राजसत्तम दुर्जयम्।
अचलं नाम वज्राख्यं विहितं वज्रपाणिना॥४६
यः स वात इवोद्भूतः समरे दुःसहः परैः।
स नः पुरो योत्स्यते वै भीमः प्रहरतां वरः॥४७
न हि सोऽस्ति पुमाल्ँलोके यः संक्रुद्धं वृकोदरम्।
द्रष्टुमत्युग्रकर्माणं विषहेत नरर्षभम्॥४८
अथ सज्जीयमानेषु सैन्येषु भरतर्षभ।
निष्प्रभोऽभ्युद्ययौ सूर्यः सघोषं भूश्चचाल च।
प्रादुरासीद्रजस्तीव्रं न प्राज्ञायत किंचन॥४९
पश्चान्मुखाःकुरवो धार्तराष्ट्राः स्थिताः पार्थाः प्राङ्मुखा योत्स्यमानाः।
चक्रे वायुः पृष्टतः पांडवानां धार्तराष्ट्रान् श्वापदा व्याहरंति॥५०
भीष्मोऽग्रतःसर्वसैन्यस्य वृद्धः श्वेतच्छत्रः श्वेतधनुः सखङ्गः।
श्वेतोष्णीषः पांडुरेण ध्वजेन श्वेतैरश्वैः श्वेतशैलप्रकाशैः॥५१
सहस्रसूर्यः शतकिंकिणीकः परार्ध्यजांबूनदहेमचित्रः।
ग्योऽर्जुनस्याग्निरिवार्चिमाली विभ्राजते श्वेतहयः सुचक्रः॥५२
तमास्थितः केशवसंगृहीतं कपिध्वजो गांडिवबाणपाणिः।
धनुर्धरो यस्य समः पृथिव्यां न विद्यते नो भविता कदाचित्1॥*1५३
ततो धनंजयं दृष्ट्वाबाणगांडिवधारिणम्।
पुनरेव महानादं व्यसृजंत महारथाः॥५४
पांडवाःसृंजयाश्चैव ये चैषामनुयायिनः।
दध्मुश्च मुदिताः शंखान्वीराः सागरसंभवान्॥५५
ततो युधिष्ठिरो दृष्ट्वा युद्धाय सुसमुद्यते।
ते सेने सागरप्रख्ये मुहुः प्रचलिते नृप॥५६
विमुच्य कवचं वीरो निक्षिप्य च वरायुधम्।
अवरुह्यरथात्तूर्णं पद्भ्यामेव कृतांजलिः॥५७
पितामहमभिप्रेक्ष्य धर्मराजो युधिष्ठिरः।
वाग्यतः प्रययौ येन प्राङ्मुखो रिपुवाहिनीम्॥५८
तं प्रयातमभिप्रेक्ष्य कुंतीपुत्रो धनंजयः।
अवतीर्य रथात्तूर्णं भ्रातृभिः सहितोऽभ्यगात्॥
५९
क्वगमिष्यसि राजेन्द्र निक्षिप्तकवचायुधः।
दंशितेष्वरिसैन्येषु भ्रातृृनुत्सृज्य पार्थिव॥६०
एवमाभाष्यमाणोऽपि भ्रातृभिः कुरुनंदन।
नोवाच वाग्यतः किंचिद्गच्छत्येव युधिष्ठिरः॥६१
दृष्ट्वा युधिष्ठिरं वीरा धार्तराष्ट्रस्य सैनिकाः।
मिथः संकथयांचक्रुरेषो हि कुलपांसनः॥६२
व्यक्तं भीत इवाभ्यति राजासौ भीष्ममंतिकम्।
युधिष्ठिरः ससोदर्यः शरणार्थं प्रयाचकः॥६३
सोऽवगाह्यचमूं शत्रोः शरशक्तिसमाकुलाम्।
भीष्ममेवाभ्ययात्तूर्णं भ्रातृभिः परिवारितः॥६४
तमुवाच ततः पादौ कराभ्यां पीड्य पांडवः।
भीष्मं शांतनवं राजा युद्धाय समुपस्थितम्॥६५
आमंत्रये त्वां दुर्धर्ष त्वया योत्स्यामहे सह।
अनुजानीहि मां तत्र आशिषश्चैव योजय॥६६
भी० उ० – यद्येवं नाधिगच्छेथा युधि मां पृथिवीपते।
शपेयं त्वां महाराज पराभावाय भारत॥६७
प्रीतोऽस्मि पुत्र युद्धयस्व जयमाप्नुहि पांडव।
यत्तेऽभिलषितं चान्यत्तदवाप्नुहि संयुगे॥६८
अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित्।
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः॥६९
ततो युधिष्ठिरो वाक्यं भीष्मस्य कुरुनंदनः।
शिरसा प्रतिजग्राहृ भूयस्तमभिवाद्य च॥७०
प्रागात्पुनर्महाबाहुराचार्यस्य रथं प्रति।
पश्यतां सर्वसैन्यानां मध्येन भ्रातृभिः सह॥७१
स द्रोणमभिवाद्याथ कृत्वा चैव प्रदश्रिणम्।
उवाच वाचा दुर्धर्षमात्मनिःश्रेयसं वचः॥७२
द्रो० उ० –
ध्रुषस्ते विजयो राजन् यस्य मंत्री हरिस्तव।
अहं त्वामभिजानामि रणे शत्रून्विमोक्ष्यसे।
यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः॥७३
अनुमान्य तमाचार्यं प्रायाच्छारद्वतं प्रति।
सोऽभिवाद्यकृपं
यजन्कृत्वा चापि प्रदक्षिणम्।
उवाच दुर्धर्षतरं वाक्यं वाक्यविशारदः॥७४
अनुमानयित्वा योत्स्येऽहं गुरो विगतकल्मषः।
जयेयं च रिपृन्सर्वाननुज्ञातस्त्वयाऽनघ॥७५
अनुमान्याथ कौंतेयो मातुलं मद्रकेश्वरम्।
निर्जगाम महासैन्याद्भातृभिः परिवारितः॥७६
अथ सैन्यस्य मध्ये तु प्राक्रोशत्पांडवाग्रजः।
योऽस्मान्वृणोति तमहं वरये साह्यकारणात्॥
अथ तान्समभिप्रेक्ष्य युयुत्सुरिदमब्रवीत्।
प्रीतात्मा धर्मराजानं कुंतीपुत्रं युधिष्ठिरम्॥७८
अहं योत्स्यामि भवतः संयुगे धृतराष्ट्रजान्।
युष्मदर्थे महाराज यदि मां वृगुषेऽनघ॥७९
ऐह्येहि सर्वे योत्स्यामस्तव भ्रातॄनपंडितान्।
युयुत्सो वासुदेवश्च वयं ब्रूम च सर्वशः॥८०
त्वयि तंतुश्चपिंडश्चधृतराष्ट्रस्य दृश्यते।
भजस्वास्मात्राजपुत्र भजमानान्महाद्युते॥८१
न भविष्यति दुर्बुद्धिर्धार्तराष्ट्रो ह्यमर्षणः॥८२
ततो युयुत्सुः कौरव्यान्परित्यज्य सुतांस्तव।
जगाम पांडुपुत्राणां सेनां विश्राव्य दुंदुभिम्॥८३
ततो युधिष्ठिरो राजा सुसंहृष्टोगहाभुजः।
जग्राह कवचं भूयो दीप्तिमत्कनकोज्ज्वलम्॥८४
प्रत्यपद्यंत ते सर्वे रथान्स्वान्पुरुषर्षभाः।
ततो व्यूहं यथापूर्वंप्रत्यव्यूहंत ते पुनः॥८५
गौरवं पांडुपुत्राणां मान्यान्मानयतां च तान्।
दृष्ट्वामहीक्षितस्तत्र पूजायांचक्रिरे भृशम्॥८६
सौहृदं च कृपां चैव प्राप्तकालं महात्मनाम्।
दयां च ज्ञातिषु परां कथयांचक्रिरे नृपाः॥८७
साधु साध्विति सर्वत्रनिश्रेरुः स्तुतिरांद्दिताः॥८८
म्लेच्छाश्चार्याश्च ये तत्रददृशुः शुश्रुवुस्तदा।
वृत्तं तत्पांडुपुत्राणां रुरुदुस्तेसद्यदूगमः॥८९
पूर्वाह्णेतस्य रौद्रस्य युद्धयज्ञो
विशांषते।
प्रावर्तत महाघोरं राज्ञां देहावकर्तनम्॥९०
कुरूणां सृंजयानां च संग्रामेविजिगीषताम्।
सिंहानामिवसंहादो दिवमुर्वीं च नादयन्।
आसीन्किलाकिलाशब्दस्तलशंखरवैः सह॥९१
जज्ञिरे सिंहनादाश्च नराणां प्रतिगर्जताम्।
तलत्राभिहतश्चैव ज्याशब्दो भरतर्षभ॥९२
पत्तीनां पदशब्दश्च वाजिनां च महास्वनः।
तोत्रांकुशनिपातश्च आयुधानां च निःस्वनः॥९३
घंटाशब्दश्च नागानामन्योन्यमभिधावताम्।
तस्मिन्समुदितः शब्दस्तुमुलो लोमहर्षणः॥९४
बभूव रथनिर्घोषः पर्जन्यनिनदोषमः।
ते मनः क्रूरमास्थाय समभित्यक्तजीविताः॥९५
पांडवानभ्यवर्तंत सर्व एवोच्छ्रितध्वजाः।
स्वयं शांतनवो राजन्नभ्यधावद्धनंजयम्॥९६
सात्यकिस्तु महेष्वासः कृतवर्माणमभ्ययात्।
अभिमन्युर्महेष्वासो बृहद्बलमयोधयत्॥९७
युधिष्ठिरः स्वयं राजा मद्रराजानमभ्ययात्।
धृष्टद्युम्नस्ततो द्रोणमभ्यद्रवत भारत॥९८
राक्षसं क्रूरकर्माणं क्रूरकर्मा घटोत्कचः।
अलंबुषं प्रत्युदियाद्बलं शक्र इवाहवे॥९९
शिखंडी समरे राजन् द्रौणिमभ्युद्ययौ बली।
बृहत्क्षत्रं च कैकेयं कृपः शारद्वतो ययौ॥१००
एवं द्वन्द्वसहस्राणि रथवारणवाजिनाम्।
पदातीनां च समरे तव तेषां च संकुले॥१०१
मुहूर्तमिव तद्युद्धमासीन्मधुरदर्शनम्।
तत उन्मत्तवद्राजन्न प्राज्ञायत किंचन॥१०२
न पुत्रः पितरं जज्ञे न पिता पुत्रमौरसम्।
न भ्राता भ्रातरं तत्र स्वत्रीयो न च मातुलम्॥१०३
रथानीकं नरव्याघ्राः केचिदभ्यपतन्त्रथैः।
अभज्यंत रथैरेव युगानि भरतर्षभ॥१०४
बहुधादारयन् क्रुद्धा विषाणैरितरेतरम्।
सतोरणपताकैश्च वारणा रणवारणैः॥१०५
अभिनीताश्च शिक्षाभिस्तोत्रांकुशसमाहताः।
अप्रभिन्नाःप्रभिन्नानां संमुखाभिमुखा ययुः॥१०६
प्रभिन्नैरपि संयुक्ताः केचित्तत्र महागजाः।
क्रौंचवन्निनदं कृत्वा प्राद्रवंत ततस्ततः॥१०७
विनेदुर्भिन्नमर्माणो निपेतुश्च गतासवः।
प्रधावंति दिशः केचिन्नदंतो भैरवारवान्॥१०८
गजानां पादरक्षाश्चव्यूढोरस्काः प्रहारिणः।
ऋृषिभिश्च धनुर्भिश्च विमलैश्चपरश्वधैः॥
१०९
गदाभिर्मुसलैश्चैव भिंदिपालैः सतोमरैः।
आयसैः परिघैश्चापि निस्त्रिंशैर्विमलैः शितैः॥११०
सुगृहीतैः सुसंरब्धा द्रवमाणास्ततस्ततः।
व्यदृश्यंत महाराज परस्परजिघांसवः॥१११
राजन् शतसहस्राणि ततः क्षत्रियपुंगवाः।
श्वेतं सेनापतिं शूराः पुरस्कृत्य महारथाः॥११२
राज्ञो बलं दर्शयंतस्तव पुत्रस्य भारत।
शिखंडिनं पुरस्कृत्य त्रातुमैच्छन्महारथाः॥११३
अभ्यवर्तंत
भीष्मस्य रथं हेमपरिष्कृतम्।
जिघांसंतो युधां श्रेष्ठं तदासीत्तुमुलं महत्॥११४
अहतःकोऽपि नैवासीद्भीष्मे निघ्नति शात्रवान्॥११५
एकाह्नानिर्दहेद्भीष्मः पांडवानामनीकिनीम्।
शरैः परमसंक्रुद्धः श्वेतो यदि न पालयेत्॥११६
निगृह्य कार्मुकं श्वेतो भीष्मं विव्याध सप्तभिः।
तं प्रत्यविध्यद्दशभिर्भीष्मः शांतनवस्तथा॥११७
स विद्धस्तेन बलवान्नाकंपत यथाचलः।
विव्याध पंचविंशत्या तदद्भुतमिवाभवत्॥११८
धनुश्चिच्छेद भीष्मस्य दशभिर्दशधा शरैः।
संधाय विशिखं चैव शरं लोमप्रवाहिनम्।
उन्ममाथ ततस्तालं ध्वजशीर्षं महात्मनः॥११९
केतुं निपतितं दृष्ट्वा भीष्मस्य तनयास्तव।
इतं भीष्मममन्यंत श्वेतस्य वशमागतम्॥१२०
उत्सृज्य कार्मुकं राजन् गागेयः क्रोधमूर्छितः।
अन्यत्कार्मुकमादाय विपुलं बलवत्तरम्॥१२१
तत्र संधाय विपुलान् भल्लान् सप्त शिलाशितान्।
चतुर्भिश्चतुरश्चाश्वान् श्वेतस्य पृतनापतेः॥१२२
ध्वजं द्वाभ्यां च चिच्छेद सप्तमेन च सारथेः।
शिरश्चिच्छेद भल्लेन संक्रुद्धो लघुविक्रमः॥१२३
हताश्वसृतात्स रथादवप्लुत्य महारथः।
अमर्पवशमापन्ने व्याकुलः समपद्यत॥१२४
विरर्थंरथिनां श्रेष्ठं श्वेतं दृष्ट्वापितामहः।
ताडयामास निशितैः शरसंघैःसमंततः॥१२५
तनाशरं मृत्युसमं भारसाधनमुत्तमम्।
निष्कृष्य बलवान् भीष्मः समधत्त दुरासदम्॥१२६
ब्रह्मास्त्रेण सुसंयुक्तं तं शरं लोमवाहिनम्।
ददृशुर्देवगन्धर्वाः पिशाचोग्गराक्षसाः॥१२७
स तस्य कवचं भित्त्वाज्वलदग्निसमौजसः।
जगाम धरणिं वाणो महाशनिरिवज्वलन्॥१२८
अस्तं गच्छन्यथादित्यः प्रभामादाय सत्वरः।
एवं जीवितमादाय श्वेतदेहाज्जगाम सः॥१२९
ततो दुःशासनो राजन् श्वेतं दृष्ट्वा निपातितम्।
वादित्रनिनदैर्घोरैर्नृत्यति स्म समंततः॥१३०
तस्मिन्हते महेष्वासे भीष्मेणाहवशोभिना।
प्रावेपंत महेष्वासाः शिखंडिप्रमुखा रथाः॥१३१
ततोभीष्मरथात्तूर्णमुत्पतंति पतंत्रिणः।
यैरंतरिक्षं भूमिश्र सर्वतः समवस्तृता॥१३२
पांचालानथ मत्स्यांश्चकेरलांश्चप्रभद्रकान्।
जन्मःप्रहरतां श्रेष्ठः पातयामास मार्गणैः॥१३३
शरैरेकायनीकुर्वन् दिशः सर्वा यतव्रतः।
जघान पांडवरथानादिश्यादिश्य भारत॥१३४
ततः सैन्येषु भग्नेषु मथितेषु च भारत।
प्राप्ते चास्तं दिनकरे न प्राज्ञायत किंचन॥१३५
भीष्मं च समुदीर्यंतं दृष्ट्वा पार्थामहाहवे।
भवहारमकुर्वंत सैन्यानां भरतर्षभ॥१३६
भ० उ०—व्यूहः क्रौंचारुणो नाम सर्वशत्रुनिषूदनः।
यं बृहस्पतिरिंद्रीय तदा देवासुरेऽब्रवीत्॥१३७
तं यथावत्प्रतिव्यूहं परानीकविनाशनम्।
अदृष्टपूर्वं राजानः पश्यन्तु कुरुभिः सह॥१३८
तथोक्तः स नृदेवेन विष्णुर्वज्रभृता इव।
प्रभाते सर्वसैन्यानामग्रे चक्रे धनंजयम्॥१३९
शिरोऽभूह्रुपदो राजा महत्या सेनया वृतः।
कुंतिभोजश्र चैद्यश्चचक्षुरास्तां नरेश्वर॥१४०
दाशार्णकाः प्रभद्राश्च दासेरकगणैः सह।
अनूपकाः किराताश्च ग्रीवायां भरतर्षभ॥१४१
पटञ्चरैश्च हूणैश्च राजा पौरवकैस्तथा।
निपादैः सहितश्चापि पृष्ठमासीद्युधिष्ठिरः॥१४२
पक्षौ तु भीमसेनश्च धृष्टद्युम्नश्च पार्षतः।
द्रौपदेयाभिमन्युश्च सात्यकिश्च महारथः॥१४३
पिशाचा दारदाश्चैव पौंड्रैः कुंडीवृषैः सह।
यवना धेनुकाश्चैव तंगणाः परतंगणाः॥१४४
बाह्लीकास्तित्तिगश्चैव चोलाः पांड्याश्च भारत।
एते जनपदा राजन् दक्षिणं पक्षमाश्रिताः॥१४५
अग्निवेश्या गजतुंडा मलदा दाशकारवः।
शवराः कुंभसाश्चैव वत्साश्च
सह सालुकैः
नकुलः सहदेवश्च वागंपक्षंसमाश्रिताः॥१४६
जघनं पालयामास विराटः सह कैकयैः।
काशिराजश्च शैव्यश्च रथानामयुतैस्त्रिभिः॥१४७
एवमेते महाव्यूहंव्यूह्यभारतसत्तमाः।
सूर्योदयनमिच्छंतः स्थिता युद्धाय दंशिताः॥१४८
ततो भीष्मश्च द्रोणश्च तव पुत्राश्च मारिष।
अव्यूहंत महाव्यूहं पार्थानां प्रतिबाधने॥१४९
ततो युद्धं समभवत्तुमुलं लोमहर्षणम्।
तावकानां परेषां च व्यतिषक्तरथद्विपम्॥१५०
सौभद्रे भीमसेने च अर्जुने च महारथे।
कैकेये च विराटे च धृष्टद्युम्ने च पार्षते॥१५१
एतेषु नरवीरेषु चेदिमत्स्येषु वा विभुः।
ववर्ष शरवर्षाणि वृद्धः कुरुपितामहः॥१५२
प्राकंपत महाव्यूहस्तस्मिन्वीरसमागमे।
सर्वेषामेव सैन्यानामासीद्व्यतिकरो महान्॥१५३
ततो दुर्योधनो राजा कालिंगं समचोदयत्।
सैन्येन महता युक्तं भारद्वाजस्य गोपने॥१५४
ततः सा महती सेना कलिंगानां नरेश्वर ।
भीममभ्याययौभीमा तव पुत्रस्य शासनात्॥१५५
ततो भीमो महाबाहुर्गदां त्यक्त्वा महाबलः।
उद्वबर्हस निस्त्रिंशं चिकीर्षुः कर्म दारुणम्॥१५६
चर्म चाप्रतिमं राजन्नार्षभं पुरुषर्षभ॥१५७
ततः स्वरेण महता विननाद महास्वनः।
तेन शब्देन वित्रस्ता कलिंगानां वरूथिनी॥१५८
सासिर्वेगवदाप्लुत्य दंताभ्यां वारणोत्तमम्।
आरुरोह ततो मध्यंनामराजस्य मारिष॥१५९
खड्गेन पृथुना मध्ये भानुमंतमथाच्छिनत्।
सोंऽतरा युधि तं हत्वा राजपुत्रमरिंदमः।
गुरुभारसहं स्कंन्धे नागस्यासिमपातयत्॥१६०
छिन्नस्कंधः स विनदन्पपात गजयूथपः।
आरुग्णः सिंहवेगेन सानुमानिव पर्वतः॥१६१
पततश्चाप्यवप्लुत्य गजाद्भारत भारतः।
खड्गपाणिरदीनात्मा तस्थौ भुवि स दंशितः॥१६२
स चचार बहून्मार्गानभीतः पातयन् गजान्।
अग्निचक्रमिवाविद्धं सर्वतः प्रत्यदृश्यत॥१६३
अश्ववृंदेषु नागेषु स्थानीकेषु वा विभुः।
पदातीनां च संघेषु विनिघ्नन्प्रत्यदृश्यत॥१६४
केचिदग्रासिना छिन्नाः पांडवेन महात्मना।
विनेदुर्भिन्नमर्माणो निपेतुश्च गतासवः॥१६५
छिन्नदंताग्रहस्ताश्चछिन्नकुम्भास्तथापरे।
वियोधाः स्वान्यनीकानि जघ्नुर्भारत वारणाः॥१६६
आसीत्तस्मिन्रणे भूमिः पर्वतैः पतितैरिव।
विमृद्यैवं महानागान्ममर्दाश्वान्नरर्षभः॥१६७
खलीनानि विचित्राणि कक्षाश्च कनकोज्ज्वलाः।
परिस्तोमाश्च प्रासाश्च रिष्टयश्च महाधनाः॥१६८
कवचान्यथ चर्माणि चित्राण्यास्तरणानि च।
तत्र तत्रापविद्धानि व्यदृश्यंत महाहवे॥१६९
आप्लुत्य रथिनः कांश्चिन्परामृश्य महावलः।
पातयामास खङ्गेन सध्वजानपि पांडवः॥१७०
एवं स तान्यनीकानि कलिंगानां पुनः पुनः।
विभेद सप्तरे वीरो भीमो भीमपराक्रमः॥१७१
संप्रहृष्टो महाघोरं शंखं प्रध्मापयन्वली।
सर्वकालिंगसैन्यानां मनांसि समकंपयत्॥१७२
ततोऽवहारः सैन्यानां तव तेषां च मारिष।
अस्तं गच्छति सूर्येऽभूत्संध्या च समवर्तत॥१७३
४.
प्रभातायां तु शर्वर्यां भीष्मः शांतनवस्ततः।
आनीकान्यथ संयाने व्यादिदेश परंतपः॥१७४
गारुडं च महाव्यूहं चक्रे शांतनवस्तदा।
पुत्राणां ते जयाकांक्षी वृद्धः कुरुपितामहः॥१७५
तावकानां तु तं व्यूहं प्रत्यव्यूहंत पांडवाः।
अर्धचंद्रेण व्यूहेन व्यूहं तमतिदारुणम्॥१७६
ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम्।
तावकानां परेषां च निघ्नतामितरेतरम्॥१७७
उदतिष्ठद्रजो भौमं छादयानं दिवाकरम्।
न दिशः प्रदिशश्चापि तत्र जज्ञुःकथंचन॥१७८
अनुमानेन संज्ञाभिर्नामगोत्रैश्च संयुगे।
वर्तते स्म तदा युद्धं तत्र तत्र विशांपते॥१७९
न व्यूहो भिद्यते तत्र कौरवाणां विशांपते।
रक्षितः स यथा तेन भारद्वाजेन मारिष।
तथैव पांडवेयानां रक्षितः सव्यसाचिना॥१८०
सेनाग्रादभिनेप्पत्य प्रायुध्यंस्तत्र मानवाः।
उभयोः सेनयो राजन् व्यतिषक्तरथद्विपाः॥१८१
ततस्ते पार्थिवाः क्रुद्धाः फाल्गुनं वीक्ष्य संयुगे।
रथैरनेकसाहस्त्रैः समंतात्पर्यवारयन्॥१८२
अस्त्राणामथ तां वृष्टिं शलभानामिवायतिम्।
रुरोध सर्वतः पार्थः शरैः कनकभूपणैः॥१८३
सात्यकिश्चाभिमन्युश्च महत्या सेनया सह।
गांधारान्समरे शूरान् रुरुधुः सह सौ
वलान्॥१८४
ततो धर्मसुतो राजा माद्रीपुत्रो च पांडवौ।
मिषतां सर्वसैन्यानां द्रोणानीकमुपाद्रवन्॥१८५
कुर्वाणौ तु महत्कर्म भीमसेनघटोत्कचौ।
दुर्योधनस्ततोऽभ्येत्य तावुभाव
ष्यवारयत्॥१८६
भीमसेनस्तु संक्रुद्धो दुर्योधनममर्षणः।
हृद्यविद्ध्यत्पृ
पत्केन प्रहसन्निव पांडवः॥१८७
ततो दुर्योधनो राजा प्रहारवरपीडितः।
नि
पसाद रथोपस्थे कश्मलं च जगाम ह॥१८८
तं विसंज्ञमथो दृष्ट्वा त्वरमाणोऽस्य सारथिः।
अपोवाहरणाद्राजंस्ततः सैन्यमभज्यत॥१८९
ततस्तां कौरवीं सेनां द्रवमाणां ततस्ततः।
निघ्नन् भीमः शरैस्तीक्ष्णैरनुवव्राज पृष्ठतः॥१९०
नाशक्नुतां वारयितुं भीष्मद्रोणौ महारथौ॥१९१
ततो दुर्योधनो राजा समाश्वस्य विशांपते।
न्यवर्तयत तत्सैन्यं द्रवमाणं समंततः॥१९२
तत्र तत्र न्यवर्तंत क्षत्रियाणां महारथाः।
अन्योन्यस्पर्धया राजल्ँलज्जया चावतस्थिरे॥१९३
सन्निवृत्तांस्ततस्तांस्तु दृष्ट्वा राजा सुयोधनः।
अब्रवीत्त्वरितो गत्वा भीष्मं शांतनवं वचः॥१९४
अनुग्राह्याः पांडुसुता नूनं तव पितामह।
यथेमां क्षमसे वीर वध्यमानां वरूथिनीम्॥१९५
सोऽस्मि वाच्यस्त्वया राजन् पूर्वमेव समागमे।
न योत्स्ये पांडवान्संख्ये नापि सात्यकिपार्पतौ॥१९६
श्रुत्वाहं वचनं तुभ्यमाचार्यस्य च भारत।
कर्णेन सहितः कृत्यं चिंतयानस्तदैव हि॥१९७
यदि नाहं परित्याज्यो युवाभ्यामिह संयुगे।
विक्रमेणानुरूपेण युध्यतां पुरुषर्षभौ॥१९८
एतच्छ्रुत्वा वचो भीष्मः प्रहसन्वै मुहुर्मुहुः।
अब्रवीत्तनयं तुभ्यं क्रोधाज्ञावृत्वंचक्षुषी॥१९९
बहुशोऽसि मया राजन्पथ्यमुक्तो हितं वचः।
अजेयाः पांडवा युद्धे देवैरपि सवासवैः॥२००
यत्तु शक्यं मया कर्तृं वृद्धेनात्र नृपोत्तम।
करिष्यामि यथाशक्ति प्रेक्षेदानीं सबांधवः॥२०१
एवमुक्तम्तु भीष्मेण पुत्रस्तव नरेश्वरः।
दर्ध्मोशंखं मुदा युक्तो भेरीश्चसमताडयत्॥२०२
प्रावर्तत ततो युद्धं तुमुलं लोमहर्षणम्।
अस्माकं पांडवैः सार्धमनयात्तव भारत॥२०३
कांचनेषु तनुत्रेषु किरीटेषु ध्वजेषु च।
शिलानामिव शैलेषु पतंतीनामभूत्स्वनः॥२०४
पतितान्युत्तमांगानि बाहवश्च विभूषिताः।
व्यचेष्टंत महीं प्राप्य शतशोऽथ सहस्रशः॥२०५
प्रावर्तत महावेगा नदी रुधिरवाहिनी।
मातंगांगशिला घोरा मांसशोणितकर्दमा॥२०६
न दृष्टं न श्रुतं चापि युद्धमेतादृशं नृप।
यथा तव सुतानां च पांडवानां च भारत॥२०७
तत्र भीष्मः शांतनवो नित्यं मंडलकार्मुकः।
मुमोच बाणान्दीप्ताग्रानहीनाशीबिषानिव॥२०८
तमेकं समरे शूरं पांडवाः सृंजयैःसह।
अनेकशतसाहस्रं समपश्यंत लाघवात्॥२०९
न चैनं पांडवेयानां कश्चिच्छक्नोति वीक्षितुम्।
विशिखानेव पश्यंति भीष्मचापच्युतान्बहून्॥२१०
अमानुषेण रूपेण
चरेतं पितरं तव।
शलभा इव राजानः पतंति स्म प्रमोहिताः॥२११
न हि मोघः शरः कश्चिदासीद्भीष्मस्य संयुगे।
नरनागाश्वकायेषु बहुत्वाल्लघुयोधिनः॥२१२
एवं सा धर्मराजस्य वध्यमाना महाचमूः।
भीष्मेणातुलवीर्येण व्यशीर्यत सहस्रधा॥२१३
प्रभज्यमानं सैन्यं च दृष्ट्वा यादवनंदनः।
उचाव पार्थं कृष्णस्तु निगृह्य रथसत्तमम्॥२१४
अयं स कालः संप्राप्तः पार्थ यः कांक्षितस्तव।
प्रहरास्मै नरव्याघ्र न चेन्मोहाद्विमुह्यसे॥२१५
एवमुक्तः प्रत्युवाच वासुदेवं धनंजयः।
चोदयाश्वान्यतो भीष्मो विगाह्यैतद्बलार्णवम्॥२१६
ततो भीष्मः कुरुश्रेष्ठः सिंहवद्विनदनमुहुः।
धनंजयरथं तूर्णं शरवर्षैरवाकिरत्॥२१७
क्षणेन स रथस्तस्य सध्वजः सहसारथिः।
शरवर्षेण महता संछन्नो न प्रदृश्यते॥२१८
वासुदेवस्त्वसंभ्रांतो धैर्यमास्थाय सत्ववान्।
चोदयामास तानश्वान्विनुन्नान्भीष्मसायकैः॥२१९
अदर्शयद्वासुदेवो हयमाने परं बलम्।
मोघान्कुर्वंच्छरांस्तस्य मंडलान्यचरल्लघु॥२२०
ततस्तु भीष्मः सुदृढं वासुदेवधनंजयौ।
विव्याध निशितैर्बाणैः सर्वगात्रेषु मारिष॥२२१
शुशुभाते नरव्याघ्रौ तौ भीष्मशरविक्षतौ।
गोवृषाविव नर्दंन्तौ विषाणोल्लिखिताङ्कितौ॥२२२
ततः कृष्णस्तु समरे दृष्ट्वा भीष्मपराक्रमम्।
संप्रेक्ष्य च महाबाहुः पार्थस्य मृदुयुद्धताम्॥२२३
अचिंतयदमेयात्मा नास्ति यौधिष्ठिरं बलम्।
एकाह्नाहि रणे भीष्मो नाशयेद्दैत्यदानवान्।
किमु पांडुसुतान्युद्धे सबलान्सपदानुगान्॥२२४
मोऽहं भीष्मं निहन्म्यद्य पांडवार्थाय दंशितः।
भारमेनं विनेष्यामि पांडवानां महात्मनाम्॥२२५
निहत्य सर्वान् धृतराष्ट्रपुत्रांस्तत्पाक्षिका ये च नरेन्द्रमुख्याः।
राज्येन राजानगजातशत्रुंसंपादयिष्याम्यहमद्य हृष्टः॥२२६
ततः सुनाभं वसुदेवपुत्रः सूर्यप्रभंवज्रसहस्रतुल्यम्।
क्षुरांतमुद्धाम्यभुजेन चक्रं रथादवप्लुत्य विसृज्य वाहान्।
संकंपयन्गां चरणैर्नहात्मा वेगेन कृष्णः प्रससार भीष्मम्॥२२७
तमापतन्तं प्रगृहीतचक्रं समीक्ष्य देवं द्विपदां वरिष्ठम्।
असंभ्रमात्कार्पुकयाणपाणी रथे स्थितः शांतनवोऽभ्युवाच॥२२८
एह्येहि देवेश जगान्निवास नमोऽस्तु ते शार्ङ्गगदासिपाणे।
प्रसह्य मां पातय लोकनाथ रथोत्तमाद्भूतशरण्य संख्ये॥२२९
त्वया हतस्येह ममाद्यकृष्ण श्रेयः परस्मिन्निहचैव लोके॥२३०
श्रुत्वा वाचःशांतनवस्य कृष्णो वेगेन धावंस्तमयाभ्युवाच।
त्वं मूलमस्येह भुवि क्षयस्य दुर्योधनं चाद्य समुद्धरिष्यसि॥२३१
दुर्द्यूतदेवी नृपतिर्निवार्यः सन्मंत्रिणा धर्मपथि स्थितेन।
त्याज्योऽथवा कालपरीतबुद्धिर्धर्मातिगो यः कुलपांसनः स्यात्॥२३२
भीष्मस्तदाकर्ण्य यदुप्रवीरं राजा परं दैवतमित्युवाच॥२३३
वा० उ०—त्यक्तस्तु कंसो यदुभिर्हितार्थे सम्बोध्यमानो न वुवोध राजा।
क्लेशाय दैवाद्विपरीतबुद्धिः श्रोता हितं यस्य न कश्चिदस्ति॥२३४
रथादवप्लुत्य ततस्त्वरावान्पार्थः पदा द्रुत्य यदुवीरम्।
जग्राह पनिोन्नतलम्बबाहुं वाह्वोर्हरिं व्यायतपीनबाहुः॥२३५
अवस्थितं च प्रणिपत्य कृष्णं प्रीतोऽजुर्नः काञ्चनचित्रमाली।
उवाच कोपं प्रतिसंहरेति गतिर्भवान्केशव पांडवानाम्॥२३६
न हास्यसे कर्म यथाप्रतिज्ञं पुत्रैः शपे केशव सोदरैश्च।
अन्तं गमिष्यामि यथा कुरूणां त्वयाहमिंद्रानुज संप्रयुक्तः॥२३७
ततः प्रतिज्ञां समयं च तस्य जनार्दनः प्रीतमना निशम्य।
स तानभीषन्पुनराददानः प्रगृह्यशंङ्खद्विषतां निहन्ता।
निनादयामास दिशो नभश्च स पांचजन्यस्य रवेण शौरिः॥२३८
ततो भुजाभ्यां वलयद्विकृप्यचित्रं धनुर्गांडिवमप्रमेयम्।
माहेन्द्रमस्त्रं विधिवत्मुघोरं प्रादुश्चकाराद्भुतमन्तरिक्षे॥२३९
तेनोत्तमास्त्रेण ततो महात्मा सर्वाण्यनीकानि महाधनुष्णान्।
शरौघजालैर्विमलाग्निवर्णैर्निवाग्यामास किरीटमाली॥२४०
शिलीमुखाः पार्थधनुर्विसृष्टा रथान् ध्वजाग्राणि धनूंषि बाहृन्।
निकृत्य देहान्तिविशुःपरेषां नरेन्द्रनागेन्द्रतुरङ्गमाणाम्॥२४१
ततो दिशः सोऽतुदिशश्च पार्थः शरैः सुधारैर्निशितैर्वितत्य।
गाण्डीवशब्देन मनांसि तेषां किरीटमाली व्यथयांचकार॥२४२
तस्मिंस्तथा घोग्तमास्त्रयुद्धे शङ्खम्वना दुन्दुभिनिस्वनाश्च।
अन्तर्हिता गाण्डिवनिस्वनेन बभूवुरुग्राश्च रणप्रणादाः॥२४३
इतप्रवीराणि बलानि दृष्ट्वा किरीटिना शत्रुभयावहेन।
वित्रास्य सेनां ध्वजिनीपतीनां सिंहो मृगाणामिव यूथसंघान्॥२४४
विनेदतुस्तावितहर्षयुक्तौगांडीवधन्वा च जनार्दनश्च।
तदैन्द्रमस्त्रं विततं च घोरमसह्यमुद्वीक्ष्य युगांतकल्पम्॥२४५
अथापयानं कुरवः सभीष्माः सद्रोणदुर्योधनवाह्णिकाश्च।
चक्रुर्निशां संधिगतां समीक्ष्य विभावसोर्लोहितरागयुक्ताम्॥२४६
अवाप्य कीर्ति च यशश्च लोके विमृद्य शत्रूंश्च धनंजयोऽपि।
ययौ नरेन्द्रः सहसोदरैश्च समाप्तकर्मा शिबिरं निशायाम्॥२४७
**रणे रथानामयुतं निहत्य गजा हताः सप्तशतार्जुनेन।
प्राच्याश्च सौवीरगणाश्च सर्वे निपातिताः क्षुद्रकमालवाश्च॥२४८
______
**
** ५.**
परिणाम्य निशां तां तु सुखसुप्ता जनेश्वराः।
कुरवः पांडवाश्चैव पुनर्युद्धाय निर्ययुः॥२४९
ततः प्रववृते युद्धं घोररूपं भयानकम्।
तावकानां परेषां च निघ्नतामितरेतरम्॥२४०
भीष्मं तु समरे क्रुद्धं प्रतपन्तं समन्ततः।
न शेकुः पाण्डवा द्रष्टुं तपन्तमिव भास्करम्॥
अन्यत्र रथितां श्रेष्ठाद्भीमसेनान्महाबलात्॥२४१
ततो दुर्योधनो राजा सोदर्य्यैःपरिवारितः।
भीष्मं जुगोषसमरे वर्तमाने महाक्षय॥२४२
भीमस्तु सारथिं हत्वा भीष्मास्यरथिनां वरः।
प्रद्रुताश्वे रथे तस्मिन्प्लवमाने समन्ततः ॥२५३
सुनाभस्य क्षुरेणाणु शिरश्चिच्छेद भारत।
पूर्णायतपितृष्टेन स हतो न्यपतद्भुवि॥२५४
हते तस्मिन्महाराज तव पुत्रे महारथे।
नामृप्यंत रणे शूराः सोदराः सप्त संयुगे॥२५५
आदित्यकेतुर्बब्दाशी कुण्डधारी महोदरः।
अपराजितः पण्डितको विशालाक्षश्चदुर्जयः॥२५६
पाण्डवं चित्रसन्नाहा विचित्रकवचायुधाः।
अभ्यद्रवंत संग्रामेयोद्धुकामारिमर्दनाः॥२५७
स तन्न ममृषेवीरःशत्रुभिर्वधमाहवे
धनुः प्रपीड्य वामेन करेणामित्रकर्शनः॥२५८
शिरश्चिच्छेद समरे शरेणानतपर्वणा।
अपराजितस्य सुनसं तव पुत्रस्य संयुगे॥२५९
अथापरेण भल्लेन कुण्डधारं महारथम्।
प्राहिणोन्मृत्युलोकाय सर्वसैन्यस्य पश्यतः॥२६०
विशालाक्षशिरच्छित्त्वा पातयामास भूतले।
त्रिभिः शरैरदीनात्मा स्मरन् क्लेशं पुरातनम्॥२६१
महोदरं महेष्वासं नारचिन स्तनान्तरे।
विव्याध समरे राजन्स हतो न्यपतद्भुवि॥२६२
आदित्यकेतोश्छत्रं च च्छित्त्वा बाणेन संयुगे।
भल्लेन भृशतीक्ष्णेन शिरश्चिच्छेद भारत॥२६३
प्रदुद्रुवुस्ततस्तेऽन्ये पुत्रास्तव विशांपते।
मन्यमाना हि तत्सत्यं सभायां तस्य भाषितम्॥२६४
ततो दुर्योधनो राजा भीष्ममासाद्य मारिष।
दुःखेन महताविष्टो विललापातिदुःखितः॥२६५
निहता भ्रातरः शूरा भीमसेनेन मे युधि।
यतमानास्तथान्येपि हन्यंते सर्वसैनिकाः॥२६६
भवान्मध्यस्थिततया नित्यमस्मानुपेक्षते।
सोऽहं कापथमारूढः पश्य दैवमिदं गम॥२६७
एतच्छ्रुत्वा वचः क्रूरं पिता देवव्रतस्तव ।
दुर्योधनमिदं वाक्यमब्रवीत्साश्रुलोचनम्॥२६८
उक्तमेतन्मया पूर्वं द्रोणेन विदुरेण च।
गांधार्या च यशस्विन्या तत् त्वं तात न बुद्धवान्॥२६९
समयश्च मया पूर्वंकृतो वः शत्रुसूदन।
नाहं युधि नियोक्तव्यो नाप्याचार्यःकथंचन॥२७०
यं यं हि धार्तराष्ट्राणां भीमो द्रक्ष्यति संयुगे।
हनिष्यति रणे तं तं सत्यमेतद्रवीमिते॥२७१
स त्वं राजन् स्थिरोभूत्वा दृढां कृत्वा रणे मतिम्।
योधयस्व रणेपार्थान् स्वर्गं कृत्वा परायणम्॥२७२
स्वसैन्यं निहतं दृष्ट्वा राजा दुर्योधनः स्वयम्।
अभ्यधावत संक्रुद्धो भीमसेनमरिंदमम्॥२७३
अर्धचन्द्रं च संधाय सुतीक्ष्णं लोमवाहिनम्।
भीमसेनस्य चिच्छेद चापं क्रोधसमन्वितः॥२७४
तदन्तरं च संप्रेक्ष्य त्वरमाणो महारथः।
प्रसंदधे शितं वाणं गिरीणामपिदारणम्॥२७५
तेनोरसि महाराज भीमसेनमताडयत्॥२७६
स गाढविद्धोव्यथितः सृक्किणी परिसंलिहन्।
समाललम्बे तेजस्वी ध्वजं हेमपरिष्कृतम्॥२७७
तथा विमनसं दृष्ट्वाभीमसेनं घटोत्कचः।
क्रोधेनाभिप्रजज्वाल दिधक्षन्निव पावकः॥२७८
अभिमन्युमुखाश्चापि पांडवानां महारथाः।
समभ्यधावन् क्रोशंतो राजानं जातसंभ्रमाः॥२७९
संप्रेक्ष्यैतान्संपततः संक्रुद्धान् जातसंभ्रमान्।
भारद्वाजोऽब्रवीद्वाक्यं तावकानां महारथान्।
क्षिप्रं गच्छत भद्रं वो राजानं परिरक्षत॥२८०
तदाचार्यवचः श्रुत्वा सोमदत्तपुरोगमाः।
तावकाः समवर्तत मांडवानामनीकिनीम्॥२८१
एवमुक्त्वा महाबाहुर्महाद्विस्फार्य कार्मुकम्।
भारद्वाजस्ततो भीमं षड्विंशत्या समार्दयत्॥२८२
भूयश्चैनं महाबाहुः शरैः शीघ्रमवाकिरत्।
पर्वतं वारिधाराभिःप्रावृषीवबलाहकः॥२८३
तं प्रत्यविद्वयदशभिर्भीमसेनः शिलीमुखैः।
त्वरगाणो महेष्वासः सव्ये पार्श्वेमहाबलः।२८४
स गाढविद्धो व्यथितोवयोवृद्धश्च भारत।
प्रनष्टसंज्ञः सहसा रथोपस्थ उपाविशत्॥२८५
गुरुं प्रव्यथितं दृष्ट्वा राजा दुर्योधनः स्वयम्।
द्रोणायनिश्च संक्रुद्वौ
भामसेनमभिद्रुतौ॥२८६
तावापतन्तौ संप्रेक्ष्य कालान्तकयमोपमौ।
भीमसेनो महाबाहुर्गदामादाय सत्वरम्॥२८७
अवप्लुत्य रथात्तूर्णं तस्थौ गिरिरिवाचलः।
समुद्यम्य गदामुर्वींयमदण्डोपमां रणे।२८८
तत्राक्रन्दो महानासीत्तपतेषां च भारत।
निघ्नतां दृढमन्योन्यं कुर्वतां कर्म दुष्करम्॥२८९
रणे चारूणि चापानि हेमपृष्ठानि मारिप।
जातरूपमयैः पङ्खै राजतैर्निशिताः शराः।
तैलधौता व्यराजन्त निर्मुक्तभुजगोपमाः॥२९१
हस्तिदन्तत्सरून्खड्गान् जातरूपपरिष्कृतान्।
चर्माणि चापविद्धानि रुक्मचित्राणि धन्विनाम्।
सुवर्णविकृतप्रासान् पट्टिशान्हेमभूषितान्॥२९२
जातरूपमयाश्चर्ष्टीःशक्तीश्च कनकोज्ज्वलाः।
नानाविधानिशस्त्राणि प्रगृह्य पतिता नराः॥२९३
गदाविमथितैर्गात्रैर्मुसलैर्भिन्नमस्तकाः।
गजवाजिरथक्षुण्णाः शेरते नृपते क्षितौ॥२९४
विशब्दैरल्पशब्दैश्च शोणितौघपरिप्लुतैः।
गतासुभिरमित्रघ्न विबभौ निचिता मही॥२९५
रथैश्च सर्वतोभग्नैःकिंकिणीजालभूषितैः।
वाजिभिश्चहतैर्बाणैः स्रस्तजिह्वैःसुशोणितैः॥२९६
नानारागैःकम्बलैश्च परिस्तोमैश्चदन्तिनाम्।
वैडूर्यमणिदण्डैश्च पतितैरङ्कुशैः शुभैः॥२९७
पद्मेन्दुद्युतिभिश्चैव वदनैश्चारुकुण्डलैः।
क्लृप्तश्मश्रुभिरत्यर्थं वीराणां समलङ्कृतैः॥२९८
एवमेते महासेने मृदिते तत्र भारत।
परस्परं समासाद्य तव तेषां च संयुगे॥२९९
तेषु श्रान्तेषु भग्नेषु मृदितेषु च भारत॥३००
रात्रिः समभवत्तत्रनापश्याम ततोऽनुगान्।
ततोऽवहारं सैन्यानां प्रचक्रुः कुरुपांडवाः॥३०१
६
ततो दुर्योधनो राजा शकुनिश्चापि सौबलः।
दुःशासनश्च पुत्रस्ते सूतपुत्रश्च दुर्जयः॥३०२
समागम्य महाराज मंत्रं चक्रुर्विवक्षितम्।
कथं पांडुसुताः संख्ये जेतव्याः सगणा इति॥३०३
दु० उ०—द्रोणो भीष्मः कृपः शल्यः सौमदत्तिश्च संयुगे।
न पार्थान् प्रतिबाधन्ते न जाने तस्य कारणम्॥३०४
अवध्यमानास्ते चापि क्षपयंति बलं मम।
सोहं संशयमापन्नः महरिष्ये कथं रणे॥३०५
क० उ०—मा शुचो भरतश्रेष्ठ करिष्येऽहं प्रियं तव।
भीष्मःशांतनवस्तूर्णमपयातु महारणात्॥३०६
निवृत्ते युधि गांगेये न्यस्तशस्त्रे च भारत।
अहं पार्थान्हनिष्यामि सहितान्सर्वसोमकैः॥३०७
पाण्डवेषु दया नित्यं स हि भीष्मः करोति वै।
अशक्तश्च रणे भीष्मो जेतुमेतान्महारथान्॥३०८
अब्रवीद्वातरं तत्र दुःशासनमिदं वचः।
अनुमात्रं यथा सर्वं सज्जं भवतु सर्वशः॥३०९
निष्पपातततस्तूर्णं पुत्रस्तव विशांपते।
सहितो भ्रातृभिस्तैस्तु देवैरिव शतक्रतुः॥३१०
ततम्तं नृपशार्दूलं शार्दूलसमविक्रमम्।
आराहयद्धयं तूर्णं भ्राता दुःशासनस्तथा॥३११
अनुलिप्तः परार्धेन चन्दनेन सुगंधिना।
अरजोम्बरसंवीतः सिंहखेलगातेर्नृपः॥३१२
तं प्रयांतंनरव्याघ्रं भीष्मस्य शिबिरं प्रति।
अनुजग्मुर्महेष्वासाः सर्वलोकस्य धन्विनः॥३१३
हयानन्ये समारुह्यगजानन्ये च भारत।
रथानन्ये नरश्रेष्ठाः परिवव्रुः समन्ततः॥३१४
अन्वीयमानः सततं सोदरैःपरिवारितः।
दक्षिणं दक्षिणः काले संवृत्य स्वभुजं तदा॥३१५
हास्तहस्तोपमं पीनं सर्वशत्रुनिर्वहणम्।
प्रगृह्णन्नेजलान्वृणामुद्यतान्सर्वता दिशः॥३१६
प्रदीपैःकाञ्चनस्तत्र गन्धतैलावसेचितैः।
परिवत्रुर्गहाराजं प्रज्वलद्भिः समंततः॥३१७
काञ्चनोष्णीपिणस्तत्र वेत्रझर्झरपाणयः।
प्रोत्साहयन्तः शनकैस्तं जनं सर्वतोदिशम्॥३१८
सम्प्राप्य तु ततो राजा भीष्मस्य सदनं शुभम्।
अभिवाद्य ततोभीष्मं निषण्णः परमासने॥३१९
काञ्चने सर्वतोभद्रे स्पर्द्ध्यास्तरणसंवृते।
उवाच प्रांजलिर्भीष्मं बाष्पकंठोऽश्रुलोचनः॥३२०
त्वां वयं हि समाश्रित्य संयुगे शत्रुसूदन।
उत्सहेम रणे जेतुं सेन्द्रानपि सुरासुरान्॥३२१
तस्मादर्हसि गांगेय कृपां कर्तुं मयि प्रभो।
जहि पांडुसुतान्वीरान् महेन्द्र इव दानवान्॥३२२
दयया यदि वा राजन्द्वेष्यभावान्मम प्रभो।
मन्दभाग्यतया वापि मम रक्षसि पांडवान्॥३२३
अनुजानीहि समरे कर्णमाहवशोभिनम्।
स जेष्यति रणे पार्थान् समुहृद्गणबांधवान्॥३२४
श्वसयानो यथा नागः प्रणुन्नो वाक्शलाकया।
स ध्यात्वा सुचिरं कालं दुःखरोपसमन्वितः॥३२५
उद्धृत्य चक्षुषीकोपान्निर्दहन्निव भारत।
अब्रवीचव पुत्रं स सामपूर्वमिदं वचः॥३२६
किं त्वं दुर्योधनैवं मां वाक्शत्यैरपकृंतसि।
घटगानं यथाशक्ति कुर्वाणं च तव प्रियम्॥३२७
यदा तु पाण्डव शूरः खांडवेऽग्निमतर्पयत्।
पराजित्य रणे शक्रं पर्याप्तं तन्निदर्शनम्॥३२८
यदा च त्वां महाबाहो गंधर्वैर्हृतगोजसा।
अमोचयत्पांडुसुतः पर्याप्तं तन्निदर्शनम्॥३२८
द्रवमाणेषु शूरेषु सोदरेषु तवनभो।
सूतपुत्रे च राधेये पर्याप्तं तन्निदर्शनम्॥३२९
यच्च नः सहितान्सर्वान्विराटनगरे तदा।
एक एव समुद्यातः पर्याप्तं तन्निदर्शनम्॥३३०
विजित्य च यदाकर्णं सदा पुरुषमानिनम्।
उत्तरायै ददौ वस्त्रं पर्याप्तं तन्निदर्शनम्॥३३१
को हि शक्तो रणे जेतुं पाण्डवं रभसं तदा।
यस्य गोप्ता जगद्गोप्ता शङ्खचक्रगदाधरः॥३३२
उक्तोसि बहुशो राजन्नारदाद्यैर्महर्षिभिः।
त्वं तु मोहान्न जानीषे वाच्यावाच्यं सुयोधन॥३३४
मुमूर्बुहि नरः सर्वान्वृक्षान्पश्यति काञ्चनान्।
तथा त्वमपि गांधारे विपरीतानि पश्यसि॥३३५
स्वयं वैरं महत् कृत्वा पांडवैः सह सृंजयैः।
युद्ध्यस्व तानद्य रणे पश्यामः पुरुषो भव ॥३३६
तैर्वाऽहं निहतः संख्ये गमिष्येयमराादनम्।
तान्वा निहत्य समरे प्रीतिं दास्याम्यहं तव॥३३७
पूर्वं हि स्त्री समुत्पन्ना शिखंडी राजवेश्मनि।
तगहं न हनिष्यामि प्राणत्यागेऽपि भारत॥३३८
सुत्वं स्वपिहि गांधारे श्वोऽस्मि कर्ता गहारणम्।
यं जनाः कथयिष्यन्ति यावत्स्थास्यति मेदिनी॥३३९
एवमुक्तस्तव सुतो निर्जगाय जनेश्वर।
अभिवाद्य गुरुं मर्ध्नाप्रययौ स्वंनिवेशनम्॥३४०
प्रभातायां च शर्वर्यां प्रातरुत्थाय तान्नृपः।
राज्ञः समाज्ञापयत सेनां योजयतेति ह।
अद्यभीष्मो रणे क्रुद्धो निहनिष्यतिसोयकान्॥३४१
दुर्योधनस्य तच्छ्रुत्वा रात्रौ विलपितं बहु।
मन्यमानः स त राजन् प्रत्यदिशमिवात्मनः॥३४२
निर्वेदं परमं गत्वा विनिंद्य परवाच्यताम्।
दीर्घं दध्यौ शान्तनवो योद्धुकामोऽर्जुनं रणे॥३४३
दुर्योधनो महाराज दुःशासनमचोदयत्।
दुःशासन रथास्तूर्णंयुज्यंतां भीष्मरक्षिणः॥३४५
अयं हि समनुप्राप्तो वर्षपूगाभिचिंतितः।
पाण्डवानां ससैन्यानां वधो राज्यस्यचागमः॥३४५
अब्रवीद्धि विशुद्धात्मा नाहं हन्यां शिखंडिनम्।
स्त्रीपूर्वको ह्यसौ राजंस्तस्माद्वर्ज्यो मया रणे॥३४६
तत्र सर्वात्मना मन्ये गांगेयस्यैव पालनम्।
अरक्ष्यमाणं हि वृको हन्यात्सिंहंमहाहवे॥३४७
एतच्छ्रुत्वा तु ते सर्वे दुर्योधनवचस्तदा।
सर्वतो रथवंशेन गांगेयं पर्यवारयन्॥३४८
पुत्राश्च तव गांगेयं परिवार्य ययुर्मुदा।
कम्पयन्तो भुवं द्यां च क्षोभयन्तञ्च पाण्डवान्॥३४९
भीष्मं तु रथवंशेन दृष्ट्वा समभिसंवृतम्।
अर्जुनो रथिनां श्रेष्ठोधृष्टद्युम्नमुवाच ह॥३५०
शिखंडिनं नरव्याघ्रं भीष्यस्य प्रमुखे नृप।
स्थापयस्वाद्य पांचाल्यं तस्य गोप्ताहमित्युत॥३५१
ततः शब्देन महता प्रचकम्पे वसुंधरा।
पक्षिणश्च महाघोरं व्याहरन्तो विबभ्रमुः॥३५२
सप्रभश्चोदितः सूर्यो निष्प्रभः समपद्यत।
बबुश्च वातास्तुमुलाः शंसंतः सुमहद्भयम्॥३५३
तत्रासीत्सुमहद्युद्धं तव तेषां च संकुलम्।
नराश्वरथनागानां यमराष्ट्रविवर्धनम्॥३५४
रथी रथिनमासाद्य प्राहिणोद्यमसादनम्।
तथेतरान्समासाद्य नरनागाश्वसादिनः॥३५५
रथास्तु रथिभिर्हीना हतसारथयस्तथा।
विप्रद्रुताश्च समरे दिशो जग्मुः समन्ततः॥३५६
दन्तिनश्च नरश्रेष्ट हीनाः परमसादिभिः।
मृदन्तः स्वान्यनीकानि निपेतुः सर्वशब्दगाः॥३५७
अश्वारोहान्हतैरश्वैर्गृहीतासीन्समन्ततः।
द्रवमाणानपश्याम द्राव्यमाणांश्च संयुगे॥३५८
गजो गजं समासाद्य द्रवमाणं महाहवे।
ययौ प्रमृद्य तरसा पादातान्वाजिनस्तथा॥३५९
तस्मिन्रौद्रे तथायुद्धे वर्तमाने महाभये।
प्रावर्तत नदी घोरा शोणितान्त्रतरङ्गिणी॥३६०
असिसङ्घातसंबाधा केशशैवलशाद्बला।
रथह्रदा शरावर्ता हयमीना दुरासदा॥३६१
शीर्षोपलसमाकीर्णा हस्तिग्राहसताकुला।
कवचोष्णीषफेनौघा धनुर्वेगासिकच्छपा॥३६२
सेनापतिस्तु समरे प्राह सेनां महारथः।
अभिद्रवत गांगेयं सोमकाः सृंजयेःसह॥३६३
सेनापतिवचः श्रुत्वा सोमकाः सृंजयाश्चते।
अभ्यद्रवंत गांगेयं शस्त्रवृष्ट्या समाहिताः॥३६४
वध्यमानस्ततो राजन्पिता शांतनवस्तव।
अमर्षवशमापन्नोयोधयामास सृंजयान्॥३६५
तस्य कीर्तिमतस्तात पुरा रामेण धीमता।
संप्रदत्तास्त्रशिक्षा वैपारानीकविनाशिनी॥३६६
स तां शिक्षामधिष्ठाय कुर्वन्परबलक्षयम्।
अहन्यहनि पार्थानां वृद्धः कुरुपितामहः॥३६७
भीष्मोदशसहस्राणि जघान परवीरहा।
गजानामयुतं हत्वाहताः सप्त महारथाः॥३६८
हत्वा पंचसहस्राणि रथानां प्रपितामहः।
नराणां च महायुद्धे सहस्राणि चतुर्दश॥३६९
दंतिनां च सहस्राणि हयानामयुतं पुनः।
शिक्षाबलेन विहतं पित्रा तव विशांपते॥३७०
ततः सर्वमहीपानां क्षपयित्वा वरूथिनीम्।
विराटस्य प्रियो भ्राता शतानीको निपातितः॥३७१
शतानीकं च समरे हत्वा भीष्मः प्रतापवान्।
सहस्राणि महाराज राज्ञां भल्लैरपायत्॥३७२
ये च केचन पार्थानामभियाता धनंजयम्।
राजानो भीष्ममासाद्य गतास्ते यमसादनम्॥३७३
एवं दश दिशो भीष्मः शरजालैः समंततः।
अतीत्य सेनां पार्थानामवतस्थे चमूमुखे॥३७४
स कृत्वा सुमहत्कर्म तस्मिन्वै दशमेऽहनि।
सेनयोरंतरेऽतिष्ठत् प्रगृहीतशरासनः।
न चैनं पार्थिवाः केचिद्रणे शक्ता निरीक्षितुम्॥३७५
तथा चैनं पराक्रान्तमालोक्य मधुसूदनः।
उवाच देवकीपुत्रः प्रीयमाणं धनंजयम्॥३७६
एषशांतनवो भीष्मः सेनयोरंतरे स्थितः।
सन्निहत्य बलादेनं विजयस्ते भविष्यति॥३७७
बलात्संस्तंभयस्वैनं यत्रैषा भिद्यते चमूः।
न हि भीष्मशरानन्यः सोढुमुत्सहते विभो॥३७८
ततस्तस्मिन्क्षणे राजंश्चोदितो वानरध्वजः।
सध्वजं सरथं साश्वेभीष्ममन्तर्दधे शरैः॥३७९
स चापि कुरुमुख्यानामृषभः पांडवेरितान्।
शरव्रातैः शरव्रातान्बहुधा विददार तान्॥३८०
ततः शिखंडी वेगेन प्रगृह्य परमायुधम्।
भीष्ममेवाभिदुद्राव रक्ष्यमाणः किरीटिना॥३८१
सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः।
विराटो द्रुपदश्चैव माद्रीपुत्रौ च पांडवौ॥३८२
दुद्रुवुर्भीष्ममेवाजौ रक्षिता दृढधन्विना।
अभिमन्युश्च समरे द्रौपद्याः पंच चात्मजाः॥३८३
ते सर्वे दृढधन्वानः संयुगेष्वपलायिनः।
बहुधा भीष्ममानर्च्छुर्मार्गणैःक्षतमार्गणैः॥३८४
नाभिसंधत्त पांचाल्ये स्मयमानो मुहुर्मुर्हुः।
स्त्रीत्वं तस्य तु सस्मृत्य भीष्मो बाणांशिच्छखण्डिनि॥३८५
अताडयन्रणे भीष्मं सहिताः सर्वसृंजयाः॥३८६
स विशीर्णतनुत्राणः पीडितो बहुभिस्तदा।
न विव्यथेतथा भीष्मो भिद्यमानेषु मर्मसु॥३८७
संदीप्तशरचापाग्निरस्त्रप्रसृतमारुतः।
विवृत्त्य रथसङ्घानामन्तरेण विनिःसृतः॥
दृश्यते स्मनरेन्द्राणां पुनर्मध्यगतश्चरन्॥३८८
ततः किरीटी संरब्धो भीष्ममेवाभ्यधावत।
शिखंडिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत्॥३८९
शिखंडी तु रणे श्रेष्ठो रक्ष्यमाणः किरीटिना।
अविध्यद्दशभिर्भीष्मं छिन्नधन्वानमाहवे॥३९०
सारथिं दशभिश्चास्य ध्वजं चैकेन चिच्छिदे॥३९१
सोऽन्यत्कार्मुकमादाय गांगेयो वेगवत्तरम्।
तदप्यस्य शितैर्बाणैस्त्रिभिश्चिच्छेद फाल्गुनः॥३९२
एवं स पाण्डवः क्रुद्ध आत्तमात्तं पुनः पुनः।
धनुश्चिच्छेद भीष्मस्य सव्यसाची परन्तपः॥३९३
शिखंडी तु महाराज भारतानां पितामहम्।
आजघानोरसि क्रुद्धो नवाभिर्निशितैः शरैः॥३९४
स तेनाभिहतः संख्ये भीष्मः कुरुपितामहः।
नाकम्पत महाराज क्षितिकम्पे यथाचलः॥३९५
ततः प्रहस्य बीभत्सुर्व्याक्षिपन् गांडिवं धनुः।
गांगेयं पंचविंशत्या क्षुद्रकाणां समापयत्॥३९६
शिखंडी तु रणे बाणान् यान्मुमोच महारथः।
न चक्रुस्ते रुजं तस्य रुक्मपुङ्खाः शिलाशिताः॥३९७
सोऽतिविद्धोमहेष्वासो दुःशासनमभापत॥३९८
एषपार्थो रणे क्रुद्धः पांडवानां महारथः।
शरैरनेकसाहस्रैमामेवाभ्यहनद्रणे।
न चैषसमरे शक्यो जेतुं वज्रभृता अपि॥३९९
वज्राशनिसमस्पर्शा अर्जुनेन शरा युवि।
मुक्ताः सर्वे व्यवच्छिन्ना नेमे बाणाः शिखंडिनः॥४००
ब्रह्मदण्डसमस्पर्शा वज्रवेगदुरासदाः।
मम प्राणानारुजन्ति नेमे बाणाः शिखंडिनः॥४०१
अर्जुनस्य इमे बाणा नेमे बाणाः शिखंडिनः।
कृन्तन्ति मम गात्राणि माघमासे गवा इव॥४०२
सर्वे ह्यपि न मे दुःखं कुर्युरन्ये नराधिपाः।
वीरं गांडीवधन्वानमृते जिष्णुंकपिध्वजम्॥४०३
इति ब्रुवंश्च्छान्तनवो दिधक्षुरिव पांडवान्।
शक्तिं भीष्मःस पार्थाय ततश्चिक्षेप भारत॥४०४
तामस्य विशिखैश्छित्वा त्रिधा त्रिभिरपातयत्।
पश्यतां कुरुवीराणां सर्वेषां तव भारत॥४०५
चर्माथादत्त गांगेयो जातरूपपरिष्कृतम्।
खड्गं चान्यतरंप्रेष्मुर्मृत्योरग्रे जयाय वा॥४०६
तस्य तच्छतधा चर्म व्यदधात्सायकैस्तथा।
रथादनवरूढस्य तदद्भूतमिवाभवत्॥४०७
ततस्तमेकं बहवः परिवार्य समन्ततः।
परिकाल्य कुरून्सर्वांश्च्छरवर्षैरवाकिरन् ॥४०८
न तस्यासीदनिर्भिन्नंगात्रे द्व्यंगुलमंतरम्।
एवंभूतस्तव पिता शरैर्विशकलीकृतः ॥४०९
शिताग्रैःफाल्गुनेनाजौ प्राक्शिराः प्रापतद्रथात्।
किंचिच्छेषेदिनकरे पुत्राणां तव पश्यताम्॥४१०
हाहेति दिवि देवानां पार्थिवानां च भारत।
पतमाने रथाद्भीष्मबभूव सुमहास्वनः॥४११
सम्पतन्तमभिप्रेक्ष्य महात्मानं पितामहम्।
सह भीष्मेणसर्वेषां प्रापतन् हृदयानि नः॥४१२
स पपात सहावाहुर्वसुधामनुनादयन्।
इन्द्रध्वज इवोत्सृष्टः केतुः सर्वधनुष्मताम्॥४१३
धरणीं न स पस्पर्श शरसंघैःसमावृतः।
रथात्प्रपतितंचैनं दिव्यो भावः समाविशत्॥४१४
अभ्यवर्षञ्चपर्जन्यः प्राकम्पत च मादनी॥४१५
पतन्स ददृशे चापि दक्षिणेन दिवाकरम्।
संज्ञां चोपालभद्वीरः कालं संचित्य भारत॥४१६
धारयामास च प्राणान्पतितोऽपि महीतले।
उत्तरायणमन्विच्छन्भीष्मः कुरुपितामहः॥४१७
एवं शृङ्गेकरुणां पतिते भीष्मे महौजसि।
पाण्डवाः सृंजयाश्चैव सिंहनादं प्रचक्रिरे॥४१८
संमोहश्चैव लुलुलः कुरुणामभवत्तदा।
कृपदुर्योधनमुखा निश्वस्य रुरुदुस्तदा॥४१९
सीमावृक्षे निपतिते कुरूणां समितिंजये।
सेनयोरुभयो राजन्क्षत्रियान्भयमाविशत्॥४२०
दृष्ट्वाच पतितं भीष्मं पुत्रो दुःशासनस्तव।
उत्तमं जवमास्थाय द्रोणानीकमुपाद्रवत्॥४२१
ततो द्रोणाय निहतं भीष्ममाचष्ट कौरवः।
द्रोणस्तथाऽप्रियं श्रुत्वा मुमोह भरतर्षभ॥४२२
स संज्ञामुपलभ्याशु भारद्वाजः प्रतापवान्।
निवारयामास तदा स्वान्यनीकानिमारिष॥४२३
निवृत्तेषु च सैन्येषु पारंपर्येण सर्वशः।
निर्मुक्तकवचाः सर्वे भीष्ममीयुर्नराधिपाः॥४२४
व्युपरम्य ततो युद्धाद्योधाः शतसहस्रशः।
उपतस्थुर्पहात्मानं प्रजापतिनिवामराः॥४२५
ते तु भीष्मं समासाद्य शयानं भरतर्षभ।
अभिवाद्यावतिष्ठन्त पाण्डवाः कुरुभिः सह॥४२६
अथ पांडुन्कुन्तिश्चैवप्रणिपत्याप्रतः स्थितान्।
अभ्यभाषत धर्मात्मा भीष्मः शातनवस्तदा॥४२७
स्वागतं वो महाभागाः स्वागतं वो महारथाः।
तुष्यामि दर्शनाद्याहं युष्माकममरोपमाः॥४२८
अभिमंत्र्याथ तानेवं शिरसा लम्बताऽब्रवीत्।
शिरो मे लम्बतेऽत्यर्थमुपधानं प्रदीयताम्॥४२९
ततो नुनाःसमाजहृुस्तनूनि च मृदृनिच।
उपधानानि मुख्यानिनैच्छत्तानिपितामहः॥४३०
अथाब्रवीन्नरव्याघ्रः प्रहसन्निव तान्नृपान्।
नैतानि वीरशय्यासु युक्तरूपाणि पार्थिवाः॥४३१
फाल्गुनोपि तथेत्युक्त्वा व्यवसायमरोचयत्।
गृह्यानुमंत्र्य गांडीवंशरान्सन्नतपर्वणः॥४३२
अनुमान्य महात्मानं भारतानां महारथम्।
त्रिभिस्तीक्ष्णैर्महावेगैरन्वगृह्णाच्छिरः शरैः॥४३३
भीष्म उ० —पश्यध्वमुपधानं मे पांडवेनाभिसंधितम्।
शेष्येहमस्यां शय्यायां यावदावर्तनं रवेः॥४३४
दिशं वैश्रवणाक्रान्तां यदा गंता दिवाकरः।
विमोक्ष्येहं तदा प्राणान्सुहृदः सुनियानपि॥४३५
परिखा खन्यतामत्र समावसदने नृपाः।
उपासिष्ये विवस्वन्तमेवं शरशताचितः॥४३६
उपातिष्ठन्नथो वैद्याः शल्योद्धरगकोविदाः।
सर्वोपकरणैर्युक्ताः कुशलैः साधु शिक्षिताः॥४३७
तान्दृष्ट्वा जाह्नवीपुत्रः प्रोवाच तनयं तव।
धनं दत्वा विसृज्यंतांपूजयित्वा चिकित्सकाः॥४३८
एवं गते मयीदानीं वैद्यैः कार्यमिहास्ति किम्।
क्षत्रधर्मे प्रशस्तां हि प्राप्तोऽस्मि परमां गतिम्॥४३९
तच्छ्रुत्वा वचनं तस्य पुत्रो दुर्योधनस्तव।
वैद्यान्विसर्जयामास पूजयित्वा यथार्हतः॥४४०
विधाय रक्षां भीष्मस्य सर्व एव समंततः।
वीराः स्वशिबिराण्येव ययुस्ते परमातुराः।
निवेशायाभ्युपागच्छन् सायाह्ने रुधिरोक्षिताः॥४४१
व्युष्टायां तु महाराज शर्वर्यां सर्वपार्थिवाः।
पांडवा धार्तराष्ट्राश्चउपातिष्ठन् पितामहम्॥४४२
तं वीरशयने वीरं शयानं कुरुसत्तप्रम्।
अभिवाद्योपतस्थुर्षैक्षत्रियाः क्षत्रियर्षभम्॥४४३
तृप्तः शांतनवश्चापि राजन् वभित्सुगब्रवीत्।
सर्वपार्थिववीराणां संन्निधौ पूजयन्निव॥४४४
धनुर्धराणामेकस्त्वं पृथिव्यां प्रवरोनृषु॥४४५
मनुष्या जगति श्रेष्ठाः पक्षिणां पतगेश्वरः।
जातीनां ब्राह्मणः श्रेष्ठः श्रेष्ठस्त्वमसि धन्विनाम्॥४४६
दृष्टं दुर्योधनैतत्तेयथा पार्थेन धीमता।
जलस्य धारा जनिता शीतस्यामृतगन्धिनः।
एतस्य कर्ता लोकेऽस्मिन्नान्यः कश्चन विद्यते॥४४७
आग्नेयं वारुणं सौम्यं वायव्यमथ वैष्णवम्।
ऐन्द्रं पाशुपतं चैव पारमेष्ठ्यं प्रजापतेः॥४४८
सर्वस्मिन्मानुषे लोके वेत्त्येको हि धनंजयः।
कृष्णो वा देवकीपुत्रो नान्यो वेद ह कञ्चन॥४४९
अशक्यः पाण्ढवस्तात युद्धे जेतुं सुरासुरैः।
अमानुषाणि कर्माणि यस्यैतानि महात्मनः॥४५०
तेन सत्ववता संख्ये शुरेणाहवशोभिना।
कृतिना समरे राजन् संधिर्भवतु मा चिरम्॥४५१
यावन्तते चमूः सर्वा शरैः सन्नतपर्वभिः।
नाशयत्यर्जुनस्तावत्संधिस्ते तात युज्यताम्॥४५२
त्यक्त्वा मन्युमुपशाम्यम्व पार्थेःपर्याप्तमेतद्यत्कृतं फाल्गुनेन।
भीष्मस्यांतादस्तु वः सौहृदं च जीवन्तुशेषाः साधु राजन् प्रसीद॥४५३
राज्यस्यार्धं दीयतां पांडवानामिंद्रप्रस्थं धर्मराजोऽभियातु।
ममावसानाच्छांतिरस्तु प्रजानां संगच्छंतां पार्थिवाः प्रीतिमंतः॥४५४
एतद्वाक्यं सौहृदादापगेयो मध्ये राज्ञां भारतं श्रावयित्वा।
तृष्णीमासीच्छल्यसंतप्तमर्मा योज्यात्मानं वेदनां सन्नियम्य॥४५५
धर्मार्थ सहितं वाक्यं श्रुत्वा हितमनामयम्।
नारोचयत पुत्रस्ते मुमूर्षुरिव भेषजम्॥४५६
ततस्तं पार्थिवाः सर्वे जग्मुः स्वानालयान् पुनः।
तूष्णींभूते महाराज भीष्मे शंतनुनंदने॥४५७
]