[[शङ्कररत्नावली Source: EB]]
[
॥ शंकररत्नावली॥
FOUR EPISODES
FROM THE
MAHÂBHÂRATA
PRESCRIBED BY THE
BOMBAY UNIVERSITY
FOR THE
JUGGONATHSUNKERSETT SANSKRIT SCHOLARSHIPS.
Printed for the Department of Public Instruction.
Bombay :
PRINTED AT THE
HOMBAY EDUCATION SOCIETY’S PRESS, BYCULLA.
<MISSING_FIG href="../books_images/U-IMG-1702553237Screenshot2023-06-15123943.png"/>
1806.
Price 14 Annas.
^() ॥ मत्स्योपाख्यानम् ॥
<MISSING_FIG href="../books_images/U-IMG-1702553295Screenshot2023-07-18110544.png"/>
॥ मार्कण्डेय उवाच ॥
विवस्वतः सुतो राजन्महर्षिः स प्रतापवान् ।
बभूव नरशार्दूलः प्रजापतिसमद्युतिः॥१॥
ओजसा तेजसा लक्ष्म्यातपसा च विशेषतः।
अतिचक्रामपितरं मनुः स्वं च पितामहम् ॥२॥
ऊर्ध्वबाहुर्विशालायांबदर्यां स नराधिपः ।
एकपादस्थितस्तीव्रं चचार स महत्तपः ॥३॥
भवाक् शिरास्तथा चापि नेत्रैरनिमिषैर्दृढम्।
सोतप्यत तपो धीरं वर्षाणामयुतं तदा ॥४॥
तंकदाचित्तपस्यन्तमार्द्रचोरजटाधरम् ।
वीरिणीतीरमागम्य मत्स्यो वचनमब्रवीत् ॥५॥
भगवन्क्षुद्रमत्स्योस्मिबलवद्भ्योभयं मम ।
मत्स्येभ्यो हि ततो मां त्वंत्रातुमर्हसि सुब्रत ॥६॥
दुर्बलंबलवन्तो हि मत्स्या मत्स्यं विशेषतः ।
खादयन्ति तथा वृत्तिर्विहिता नः सनातनो ॥७॥
तस्माद्भयोघान्महतो मज्जन्तं मां विशेषतः।
चातुमर्हसि कर्तास्मि कृते प्रतिकृतं तव ॥ ८॥
॥ मार्कण्डेय उवाच ॥
स मत्स्यवचनं श्रुत्वाकृपयाभिपरिप्लुतः।
मनुर्वैवस्वतोगृह्णात्तं मत्स्यं पाणिना स्वयम् ॥९॥
उदकान्तमुपानीय मत्स्यंवैवस्वतो मनुः।
अलिञ्जरे प्राक्षिपत्सचन्द्रांशुसदृशप्रभे ॥१०॥
स तत्र ववृधे राजन्मत्स्यःपरमसत्कृतः।
पुत्रवच्चाकरोत्तस्मिन्मनुर्भावंविशेषतः ॥११॥
अथ कालेन महता स मत्स्यः सुमहानभूत् ।
भलिञ्जरे यदा चैव नासौसमभवत्किल ॥१२॥
अथ मत्स्यो मनुं दृष्ट्वापुनरेवाभ्यभाषत।
मगवन्साधोमेद्यान्यत्स्थानं सम्प्रतिपादय ॥१३॥
उद्धृत्यालिञ्जरात्तस्मात्ततःस भगवान्मनुः।
तंमत्स्यमनयद्वापीं महतीं स मनुस्तदा ॥१४॥
तत्रतं प्राक्षिपच्चापि मनुः परपुरंजयः।
अथावर्धत मत्स्यः स पुनर्वर्षगणान्बहून् ॥१५॥
त्रियोजनायता वापी विस्तृता चापि योजनम् ।
तस्यां नस्थातुमशकन्मत्स्यो राजीवलोचनः ॥१६॥
विचेष्टितुं वा कौन्तेयमत्स्यो वाप्यां विशांपते \।
मनं मत्स्यस्ततो दृष्ट्वापुनरेवाभ्यभाषत ॥१७॥
नय मां भगवन्साधो समुद्रमहिषीं प्रभो ।
गङ्गां तत्र निवत्स्यामि यथा वा तात मन्यसे ॥१८॥
निदिशे हि मया तुभ्यं स्थातव्यमनसूयता।
वृद्धिर्हि परमा प्राप्ता त्वत्कृतेयं मयानघ ॥१९॥
एवमुक्तो मनुर्मत्स्यमनयद्भगवान्वशी ।
नदीं गङ्गांतत्र चैनं स्वयं प्राक्षिपदच्युतः ॥२०॥
स तत्र ववृधे मत्स्यः कंचित्कालमरिन्दम ।
ततः पुनर्मनुं दृष्ट्वामत्स्योवचनमब्रवीत् ॥२१॥
गङ्गायां हिन शक्रोमि बृहत्त्वाच्चेष्टितुं प्रभो।
समुद्रं नय मामाशु प्रसीद भगवन्मम ॥२२॥
उद्धृत्य गङ्गासलिलात्ततो मत्स्यं मनुः स्वयम्।
समुद्रमनयत्पार्थ तत्रचैनमवासृजत् ॥२३॥
सुमहानपि मत्स्यस्तुस मनोर्नयतस्तदा।
आसीद्यथेष्टहार्यश्चस्पर्शगन्धसुखश्च वै ॥२४॥
यदा समुद्रे प्रक्षिप्तः स मत्स्यो मनुना तदा ।
तत एनमिदं वाक्यं स्मयमान इवाब्रवीत् ॥२५॥
भगवन्हि कृता रक्षा त्वया सर्वा विशेषतः।
प्राप्तकालं तुयत्कार्ये त्वया तच्छ्रूयतां मम॥२६॥
अचिराद्भगवन् भौममिदं स्थावरजङ्गमम्।
सर्वतो हि महाभाग प्रलयं तै गमिष्यति ॥२७॥
संप्रक्षालनकालोयं लोकानां समुपस्थितः।
तस्मात्त्वं बोधयाम्यद्य यत्ते हितमनुत्तमम् ॥२८॥
वसानां स्थावराणां च यच्चेङ्गंयच्चनेङ्गति।
तस्य सर्वस्य संप्राप्तः कालः परमदारुणः ॥२९॥
नौश्च कारयितव्या ते दृढा युक्तवटारका।
तत्र सप्तर्षिभिः सार्धमारुहेथा महामुने॥३०॥
वीजानि चैव सर्वाणि यथोक्तानि द्विजैः पुरा।
तस्यामारोहयेर्नाविसुसंगुप्तानि भागशः॥३१॥
नौस्थश्च मां प्रतीक्षेथास्ततो मुनिजनप्रिय।
आगमिष्याम्यहं शृङ्गी विज्ञेयस्तेन तापस ॥३२॥
एवमेतत्त्वया कार्यमापृष्टोसि गच्छाम्यहम् ।
ता न शक्या महत्यो वा आपस्तर्तु मया विना ॥३३॥
नाभिशङ्क्यमिदं चापि वचनं मे त्वया विभो।
एवं करिष्य इति तंस मत्स्यंप्रत्यभाषत ॥३४॥
जग्मतुश्च यथाकामम॑नुज्ञाप्य परस्परम् ।
ततो मनुर्महाराज यथोक्तं मत्स्यकेन ह ॥३५॥
वीजान्यादाय सर्वाणि सागरंपुप्लुवेतदा ।
नौकया शुभया धीरो महोर्मिणमरिन्दम ॥३६॥
चिन्तयामास स मनुस्तं सत्स्यं पृथिवीपते।
स च तच्चिन्तितं ज्ञात्वा मत्स्यः परपुरंजय।
शृङ्गी तत्र जगामाशु तदा भरतसत्तम ॥३७॥
तं दृष्टा मनुजव्याघ्र मनुर्मतत्स्यं जलार्णवे।
शृङ्गिणंतं यथोक्तेन रूपेणाद्विमिवोच्छ्रितम्॥३८॥
वटारकमयं पाशमथ मत्स्यस्य मूर्धनि।
मनुर्मनुजशार्दूल तस्मिञ्शृङ्गेन्यवेशयत् ॥३९॥
संयतस्तेन पाशेन मत्स्यः परपुरंजय ।
वेगेन महता नावं प्राकर्षलवणाम्भसि ॥४०॥
स ततार तया नावा समुद्रं मनुजेश्वरः।
नृत्यमानमिवोर्भिभिर्गर्जमानमिवाम्भसा ॥४१॥
क्षोभ्यमाना महावातैःसा नोस्तस्मिन्महोदयो।
घू्र्णते चपलेव स्त्री मत्ता परपुरंजय॥४२॥
नैव भूमिर्न च दिशप्रदिशो वाप्रकाशिरे ।
सर्वमाम्भसमेवासीत्खं द्यौश्च नरपुंगव ॥४३॥
एवं भूते तदा लोके सकले भरतर्षभ।
भदृश्यन्तर्षयः सप्त मनुर्मत्स्यस्तथैव ह॥४४॥
एवं बहून्वर्षगणांस्तां नावं सोथ मत्स्यकः ।
चकर्षातन्द्रितो राजंस्तस्मिन्सलिलसंचये॥४५॥
ततो हिमवतः शृङ्गःयत्परं भरतर्षभ।
तत्राकर्षत्ततोनावं स मत्स्यः कुरुनन्दन ॥४६॥
अथाब्रवोत्तदा मत्स्यस्तानृषीन्प्रहसञ्शनैः।
अस्मिन्हिमवतः शृङ्गेनावं बध्नीतमाचिरम्॥४७॥
सा बद्धा तत्र तैस्तूर्णमृषिभिर्भरतर्षभ।
नौर्मत्स्पस्यवचः श्रुत्वा शृङ्गेहिमवतस्तदा ॥४८॥
तच्च नौबन्धनं नामशृङ्गं हिमवतः परम् ।
ख्यातमद्यापि कौन्तेय तद्विद्धि भरतर्षभ ॥४९॥
अथाव्रवीदनिमिषस्तानृपीन्स हितस्तदा ।
अहं प्रजापतिर्ब्रह्मा मत्परं नाधिगम्यते ॥५०॥
मत्स्यरूपेण यूयं च मयास्मान्मोक्षिता भयात् ।
मनुना च प्रजाः सर्वाः सदेवासुरमानुषाः ॥५१॥
स्रष्टव्याःसर्वलोकाश्च यच्चेङ्गंपच्च नेङ्गति।
तपसा चातितीव्रेणप्रतिभाऽस्यभविष्यति॥५२॥
मत्प्रसादात्प्रजासर्गेन च मोहंगमिष्यति।
इत्युक्त्वावचनं मत्स्यः क्षणेनादर्शनं गतः॥५३॥
स्रष्टुकामः प्रजाश्चापि मनुर्वैवस्वतः स्वयम्।
प्रमूढोभूत्प्रजासर्गेतपस्तेपे महत्ततः ॥५४॥
तपसा महता युक्तः सोथ स्रष्टुंप्रचक्रमे।
सर्वाःप्रज्ञामनुः साक्षाद्यथावद्भरतर्षभ॥५५॥
इत्येतंमात्स्यकं नाम पुराणं परिकीर्तितम्।
आख्यानमिदमाख्यातं सर्वपापहरं मया ॥५६॥
य इदं शृणुयान्नित्यं मनोश्चरितमादितः।
स सुखी सर्वपूर्णार्थःस्वर्गलोकमियान्तरः॥५७॥
॥ इत्यारण्यके पर्वणि मत्स्योपाख्यानं समाप्तम् ॥०॥
॥साविच्युपाख्यानम् ॥
<MISSING_FIG href="../books_images/U-IMG-1702619732Screenshot2023-07-18110544.png"/>
॥ मार्कण्डेय उवाच ॥
शृणु राज्ञन्वरस्त्रीणां महाभाग्यं युधिष्ठिर ।
सर्वमेव यथा प्राप्तं सावित्र्याराजकन्यया ॥१॥
आसीन्मद्रेषु धर्मात्मा राजा परमधार्मिकः ।
ब्रह्मण्यश्च शरण्यश्च सत्यसन्धीजितेन्द्रियः॥२॥
यज्वा दानपतिर्दक्षः पौरजानपदप्रियः।
पार्थिवोश्चपतिर्नाम सर्वभूतहिते रतः॥३॥
क्षमावाननपत्यश्च सत्यवान्संयतेन्द्रियः ।
अतिक्रान्तेन वयसा संतापमुपलग्मिवान् ॥४॥
अपत्योत्पादनार्थं च तीव्रंं निययमास्थितः ।
काले परिमिताहारो ब्रम्हचारी जितेन्द्रियः ॥५॥
हुत्वा शतसहस्रशःसावित्र्याराजसत्तमः ।
षष्ठेषष्ठे तदा काले बभूव मितभोजनः ॥६॥
एतेन नियमेनासीद्वर्षाणिदश चाष्ट च ।
पूर्णे त्वष्टादशे वर्षे सावित्री तुष्टिमभ्यगात् ॥७॥
रूपिणी तु तदा राजन्दर्शयामास तं नृपम् ।
अग्निहोत्रात्समुत्थाय हर्षेण महतान्विता ।
उवाच चैनंवरदा वचनं पार्थिवं तदा ॥८॥
व्रह्मचर्येण शुद्धेन नियमेन दमेन च ।
सर्वात्मना च भक्त्या च तुष्टास्मि तव पार्थिव ॥९॥
वरं वृणीष्वाश्वपते मद्राराज यथेप्सितम् ।
न प्रमादश्च धर्मेषु कर्तव्यस्ते कथंचन॥१०॥
॥ अश्वपतिरुवाच ॥
अपत्यार्थेसमारम्भः कृतो धर्मेप्सया मया ।
पुत्रा मे बहवो देवि भवेयुः कुलभावनाः ॥११॥
तुष्टासि यदि मे देवि काममेतं वृणोम्यहम् ।
सन्तानो हि परो धर्मइत्याहुर्मोद्विजातयः ॥१२॥
॥ सावित्र्युवाच ॥
पूर्वेमव मया राजन्नभिप्रायमिमं तव ।
ज्ञात्वापुत्रार्थमुक्तो वै तव हेतोःपितामहः ॥१३॥
प्रसादाच्चैव तस्मात्ते स्वयंभूविहितान्नृपः।
कन्या तेजस्विनी सौम्या क्षिप्रमेव भविष्यति ॥१४॥
उत्तरं च न ते किंचिद्व्याहर्तव्यं कथंचन ।
पितामहनिसर्गेण तुष्टाह्येतदब्रवीमिते ॥१५॥
॥ मार्कण्डेय उवाच ॥
स तथेति प्रतिज्ञाय सावित्र्यावचनं तुपः।
प्रसादयामास पनः क्षिप्रमेतद्भवत्विति ॥१६॥
अन्तर्हितायां सावित्र्यांजगाम स्वगृहं पुनः ।
स्वराज्ये चावसत्प्रीतः प्रज्ञाधर्मेणपालयन् ॥१७॥
कस्मिंश्चित्तुगते काले स राजा नियतव्रतः।
ज्येष्ठायां धर्मचारिण्यां महिष्यां गर्भमादधे॥१८॥
राजपुत्र्यांतुगर्भः स मालव्यां भरतर्षभ ।
व्यवर्धत. यथा.शुक्लेतारापतिरिवाम्बरे ॥१९॥
प्राप्ते काले तु सुपुत्रे कन्यां राजीवलोचनाम् ।
क्रियाश्च तस्या मुदितश्चक्रे स नृपतिस्तदा ॥२०॥
सावित्र्याप्रीतया दत्ता सावित्र्याहुतया ह्यपि।
सावित्रीत्येव नामास्याश्चक्रुर्विप्रास्तथा पिता ॥२१॥
सा विग्रहवतीव श्रीर्व्यवर्धत नृपात्मजा ।
कालेन चापि सा कन्या यौवनस्था बभूव ह ॥२२॥
तनुमध्यां पृथुश्रोणीं प्रतिमांकाञ्चनीमिव।
प्राप्तेयं देवकन्येति दृष्ट्वासम्मेनिरे जनाः ॥२३॥
तां तु पद्मपलाशाक्षीं ज्वलन्तीमिव तेजसा।
न कश्चिद्वरयामास तेजसा प्रतिबाधितः ॥२४॥
अथाप्येषा शिरस्नाता देवतामभिगम्य सा ।
हुत्वाग्निंविधिवद्विप्रान्वाचयामास पर्वणि ॥२५॥
ततःसुमनसः शेषाः प्रतिगृह्य महात्मनः।
पितुः समीपमगमद्देवी श्रीरिव रूपिणी ॥२६॥
साभिवाद्य पितुः पादौ शेषाः पूर्वेनिवेद्य च ।
कृताञ्जलिर्वरारोहा नृपतेः पार्श्वमास्थिता॥२७॥
यौवनस्थां तु तां दृष्ट्वास्वां सुतांदेवरूपिणीम् ।
अयाच्यमानां च वरैर्नृपतिर्दुःखितोभवत् ॥२८॥
॥ राजोवाच ॥
पुत्रि प्रदानकालस्तेन च कश्चिदृणोति त्वाम् ।
स्वयमन्विच्छ भर्तारं गुणैःसदृशमात्मनः ॥२९॥
प्रार्थितः पुरुषो यश्च स निवेद्यस्त्वया मम ।
विमृश्याहंप्रदास्यामि वरय त्वं यथेप्सितम् ॥३०॥
श्रुतंहि धर्मशास्त्रेषु पठ्यमानं द्विजाति
भिः**।**
तथा त्वमपिकल्याणि गदतो मे वचः शृणु॥३१॥
अप्रदाता पिता वाच्यो वाच्यश्चानुपयान्पतिः।
मृते भर्तरि पुत्रश्च वाच्योमातुरराक्षिता ॥३२॥
इदं मे वचनं श्रुत्वाभर्तुरन्वेषणे त्वर।
देवतानां यथा वाच्यो न भवेयं तथा कुरु ॥३३॥
॥ मार्कण्डेय उवाच ॥
एवमुक्ता दुहितरं तथा वृद्धांश्च मन्त्रिणः।
व्यादिदेशानुयात्रंच गम्यतांचेत्य चोदयत्॥३४॥
साभिवाद्य पितुः पादौ व्रीडितेव तपस्विनी।
पितुर्वचनमाज्ञायनिर्जगामाविचारितम् ॥६५॥
सा हैमंरथमास्थाय स्थविरैःसचिवैर्वृता।
तपोवनानि रम्याणि राजर्षीणांजगाम ह॥३६॥
मान्यानां तत्र वृद्धानां कृत्वा पादाभिवादनम्।
वनानि क्रमशस्तानि सर्वाण्येवाभ्यगच्छत॥३७॥
एवं तीर्थेषु सर्वेषु धनोत्सर्गे नृपात्मजा।
कुर्वती द्विजमुख्यानां तं तं देशं जगाम ह ॥३८॥
इति महाभारते सावित्र्युपाख्याने प्रथमः सर्गः॥१॥
<MISSING_FIG href="../books_images/U-IMG-1702621269Screenshot2023-07-21172948.png"/>
॥ मार्कण्डेय उवाच ॥
अथ मद्राधिपोराजा नारदेन समागतः।
उपविष्टः सभामध्ये कथायोगेन भारत ॥ १॥
ततोभिगम्यतीर्थानि सर्वाण्येवाश्रमांस्तथा।
आजगाम पुनर्वेश्मसावित्री सह मन्त्रिभिः॥२॥
नारदेन समासोनं दृष्ट्वासा पितरं शुभा।
उभयारेवे शिरसा चक्रे पादाभिवन्दनम् ॥३॥
॥ नारद उवाच ॥
क्व गताभूत्सुतेयं ते कुतश्चैवागता नृप।
किमर्थे युवतीं भर्ता नचेमां संप्रयच्छत॥४॥
॥ अश्वपतिरुवाच ॥
कार्येण खल्वनेनैव प्रेषिताद्यैव चागता ।
तदस्याः शृणु देवर्षेभर्तावैयोनया वृतः ॥५॥
सा ब्रूहि विस्तरेणेति पित्रा संचोदिता शुभा।
तदेतस्यैव वचनं प्रतिगृह्येदमव्रवीत् ॥६॥
आसीच्छाल्वेषु धर्मात्मा क्षत्रियः पृथिवीपतिः।
द्युमत्सेन इति ख्यातः पश्चादन्धो बभूव ह॥ ७॥
विनष्टचक्षुषस्तस्यबालपुत्रस्य धीमतः।
सामीप्येन हृतं राज्यं छिद्रेस्मिन्पूर्ववैरिणा ॥८॥
स बालवत्सया सार्घं भार्यया प्रस्थितो वनम्।
महारण्यं गतश्चापि तपस्तेपे महाव्रतः ॥९॥
तस्य पुत्रः पुरे जातः संवृद्धश्च तपोवने।
सत्यवाननुरूपो वैभर्तेति मनसा वृतः ॥१०॥
॥ नारद उवाच ॥
अहोवत महत्पापं सावित्र्यानृपते कृतम् ।
अज्ञानन्त्यायदनया गुणवान्सत्यवान्वृतः ॥११॥
सत्यंवदत्पस्य पिता सत्यं माता प्रभाषते ।
ततोस्य ब्राह्मणाश्चक्रुर्नामैतत्सत्यवानिति॥१२॥
बालस्याश्वाः प्रियाश्चास्य करोत्यश्चांश्चमृन्मयान्।
चित्रेपि चालिखत्यश्वांश्वित्राश्चइति चोच्यते ॥१३॥
॥राजोवाच ॥
अपीदानीं स तेजस्वीबुद्धि मान्स नृपात्मजः।
क्षमावानपिवा शूरः सत्यवान्पितृवत्सलः ॥१४॥
॥ नारद उवाच ॥
विवस्वानिव तेजस्वो बृहस्पतिसमो मतो।
महेन्द्र इवं शूरश्च वसुधेव क्षमान्वितः ॥१५॥
॥ अश्वपतिरुवाच ॥
अपि राजात्मजो दाता ब्रह्मण्यश्चापि सत्यवान् ।
रूपवानप्युदारो वा अथवा प्रियदर्शनः ॥१६॥
॥ नारद उवाच ॥
सांकृते रतिदेवस्य स्वशक्त्या दानवःसमः ।
ब्रह्मण्यः सत्यवादी च शिविरौशोनरोयथा ॥१७॥
ययातिरिव चोदारः सोमवत्प्रियदर्शनः
रूपेणाप्रतिमोश्विभ्यां द्युमत्सेनसुतो बलो ॥१८॥
स दान्तः स मूदःशूरः स सत्यः संयतेन्द्रियः
स मैत्रः सोनसूयश्च धृतिमान्द्युतिमांश्चसः॥१९॥
नित्यशश्चार्जवंतस्मिन्स्थितिस्तस्यैव च ध्रुवा।
संक्षेपतस्तपोवृद्धेैःशीलवृद्धैश्च कथ्यते ॥२०॥
॥ अश्वपतिरुवाच ॥
गुणैरुपेतंसर्वैस्तं भगवन्प्रब्रवीषिमे ।
दोषानप्यस्य मेब्रूहि यदि सन्तोह केचन ॥२१॥
॥ नारद उवाच ॥
एक एवास्य दोषो हि गृणानाक्रम्य तिष्ठति ।
स च दोषो प्रयत्नेन न शक्यमतिवर्तितुम् ॥२२॥
एको दोषोस्य नान्योस्ति सोद्यप्रभृति सत्यवान् ।
संवत्सरेण क्षीणायुर्देहन्यासं करिष्यति ॥२३॥
॥ राजोवाच ॥
एहि सावित्रि गच्छ त्वमन्यं वरय शोभने ।
तस्य दोषो महानेको गुणानाक्रम्य तिष्ठति ॥२४॥
यथा मां भगवानाह नारदो देवसत्कृतः।
संवत्सरेण सोल्पायुर्देहन्यासं करिष्यति ॥२५॥
॥ सावित्र्युवाच ॥
सकृदंशो निपतति सकृत्कन्या प्रदीयते ।
सकृदाह ददानीति त्रीण्येतानि सकृत्सताम् ॥२६॥
दीर्घायुरथ वाल्पायुः सगणो निर्गुणोपिवा।
सकृद्दृतो मया भर्तान द्वितीयं वृणोम्यहम् ॥२७॥
मनसा निश्चयं कृत्वा ततोवाचाभिधीयते ।
कर्मणा क्रियते पश्चात्प्रमाणंमे मनस्ततः ॥२८॥
॥ नारद उवाच ॥
स्थिरा बुद्धिर्नरश्रेष्ठ सावित्र्यादुहितुस्तव ।
नैषा वारयितुं शक्याधर्मादस्मात्कथंचन ॥२९॥
नान्यस्मिन्पुरुषे सन्ति ये सत्यवति वैगुणाः।
प्रदानमेव तस्मान्मे रोचते दुहितुस्तव ॥३०॥
॥ राजोवाच ॥
अविचाल्पमेतदुक्तं तथ्यं भगवता वचः।
करिष्यामि तदेवं वै गुरुर्हिभगवान्प्रम ॥३१॥
॥ नारद उवाच ॥
अविघ्नमस्तु सावित्र्याःप्रदानंदुहितुस्तव ।
साधयिष्याम्यहं तावत्सर्वेषां भद्रमस्तुवः ॥३२॥
॥ मार्कण्डेय उवाच ॥
एवमुत्क्वासमुत्पत्य नारदस्त्रिदिवं गतः।
राजापि दुहितुः सर्वेवैवाहिकमकारयत् ॥ ३३ ॥
॥इति महाभारते सावित्र्युपाख्याने द्वितीयः सर्गः॥२॥
<MISSING_FIG href="../books_images/U-IMG-1702622258Screenshot2023-08-08170946.png"/>
॥ मार्कण्डेय उवाच ॥
अथ कन्याप्रदानाय वैवाहिकमचिन्तयत् ।
समानिन्ये च तत्सर्वं भाण्डं वैवाहिकं नृपः ॥ १॥
तनो वृद्धान्द्विजान्सर्वानृत्विजः सपुरोहितान्।
समाहृत्य तिथौ पुण्ये प्रययौसह कन्यया ॥२॥
मेध्यारण्यंस गत्वा च द्युमत्सेनाश्रमं नृपः।
पद्भ्यामेव द्विजैःसार्धंराजर्षिस्तमुपागमत् ॥३॥
तत्रापश्यन्महात्मानंसालबृक्षमुपाश्रितम् ।
कौश्यांवृष्यां समासीनं चक्षुर्हीनंनृपं तदा ॥४॥
सराजा तस्य राजर्षेःकृत्वापूजां यथाविधिः ।
वाचा सुनियतो भूत्वाचकारात्मनिवेदनं ॥५॥
तस्यार्धमासनं चैव गांचविद्यस धर्मवित्।
किमागमनमित्येव राजाराजानमव्रवीत् ॥६॥
तस्य सर्वमभिप्रायमितिकर्तव्यतां च ताम् ।
सत्यवन्तं समुद्दिश्यसर्वमेव न्यवेदयत् ॥७॥
॥ अश्वपतिरुवाच ॥
सावित्रीमम राजर्षेकन्येयं मम शोभना।
तां स्वधमेंण धर्मज्ञ स्नुषार्थंत्वंगृहाण मे॥८॥
॥ द्युमत्सेनउवाच ॥
च्युताःस्म राज्याद्वनवासमाश्रिताश्चराम धर्मनियतास्तपस्विनः।
कथं त्वार्हावनवासमाश्रयेसहिष्पते क्लेशमिमं सुतातव ॥९॥
॥ अश्वपतिरुवाच ॥
मुखं दुःखं च भवाभवात्मकं सदाविज्ञानाति सुताहमेव च ।
न मद्विधे युज्यति वाक्यमीदृशं विनिश्चयेनाभिगतोस्मि ते नृप ॥१०॥
आशांनार्हसिमेहन्तुं सौहृदात्प्रणतस्यच ।
अभितश्चागतं प्रेम्णा प्रत्याख्यातुंन मार्हसि ॥११॥
अनरूपो हि युक्तश्च त्वं ममाहं तवापिच ।
स्नुषां प्रतीच्छ मे कन्यां भार्योसत्यवतः सतः ॥१२॥
॥ द्युमत्सेन उवाच ॥
पूर्वमेवाभिलषितः संबन्धो मे त्वया सह ।
भ्रष्टराजस्त्वहमिति तत एतद्विचारितम्॥१३॥
अभिप्रायस्त्वयंयो मे पूर्वमेवाभिकाङ्क्षितः।
स निवृत्तस्त्वयाद्यैव काइ्क्षितोह्यसि मैतिथिः ॥१४॥
॥ मार्कण्डेय उवाच ॥
ततः सर्वान्समानीय द्विज्ञानाश्रमवासिनः।
यथाविधि समुद्वाहंकारयामासतुनृपौ॥१५॥
दत्त्वा सोश्वपतिः कन्यां यथार्हंच परिच्छदम् ।
ययौस्वमेव भवनं युक्तः परमया मुदा ॥१६॥
सत्यवानपि तां भार्योलब्ध्वा सर्वगुणान्विताम् ।
मुमुदे सापि तंलब्ध्वा भर्तारंमनसेप्सितम् ॥१७॥
गते पितरि सर्वाणिसंन्पस्याभरणानि सा ।
जगृहे वल्कलान्येव वस्त्रं काषायमेव च ॥१८॥
परिचारैर्गुणैश्चैवप्रश्रयेण दमेन च ।
सर्वकामक्रियाभिश्च सर्वेषां तुष्टिमावहृत्॥१९॥
श्वश्रूं शरीरसत्कारैःसर्वैराच्छादनादिभिः।
श्वशुरं देवसत्कारैर्वाचः संयमनेन च ॥२०॥
तथैव प्रियवादेन नैपुण्येन शमेन च ।
रहश्चैवोपचारेण भर्तारं पर्यतोषयत् ॥२१॥
एवं तत्राश्रमे तेषां सदा निवसतां सताम् ।
कालस्तपस्यतां कश्चिदतिचक्रामभारत ॥२२॥
सावित्र्याग्लायमानायास्तिष्ठन्त्याश्च दिवानिशम्।
नारदेन यदुक्तं तद्वाक्यं मनसि वर्तते ॥२३॥
॥ इति महाभारते सावित्र्युपाख्याने तृतोयः सर्गः ॥३॥
<MISSING_FIG href="../books_images/U-IMG-1702623339Screenshot2023-07-21172948.png"/>
॥ मार्कण्डेय उवाच ॥
ततः काले बहुतिथे व्यतिक्रान्ते कदाचन ।
प्राप्तः स कालो मर्तव्यं यन्नंसत्यवता नृप ॥१॥
गणयन्त्याश्च सावित्र्यादिवसे दिवसे गते ।
तद्वाक्यंनारदेनोक्तं वर्तते हृदि नित्यशः ॥२॥
चतुर्थेहनि मर्तव्यमिति संचिन्त्य भाविनी ।
व्रतं त्रिरात्रमुद्दिश्यदिवारात्रं स्थिताभवत् ॥३॥
तंश्रुत्वा नियमं तस्या भृशंदुःखान्वितो नृपः ।
उत्थाय सावित्रीं वाक्यमब्रवीत्परिसान्त्वयन् ॥४॥
अतितीव्रोयमारम्भस्त्वयारब्धोनृपात्मजे।
तिसृणां वसतीनां हि स्थानंपरमदुश्चरम् ॥५॥
॥ सावित्र्युवाच ॥
न कार्यस्तात संतापः पारयिष्याम्यहंतपः ।
व्यवसायकृतं हीदंव्यवसायश्चकारणम् ॥६॥
॥ द्युमत्सेन उवाच ॥
व्रतंभिन्द्धोति वक्तुं त्वां नास्मि शक्तः कथंचन ।
पारयस्वेति वचनं युक्तमस्मद्विधोवदेत् ॥ ७ ॥
॥मार्कण्डेय उवाच॥
एवमुक्त्वा द्युमत्सेनो विरराम महामनाः॥
तिष्ठन्ती चापिसावित्री काष्ठभूतेव लक्ष्यते ॥८॥
श्वो भूते भर्तृमरणे सावित्र्याभरतर्षभ।
दुःखान्वितायास्तिष्ठन्त्याःसा रात्रिर्व्यत्यवर्तत ॥९॥
अद्य तद्दिवसं चेति हुत्वा शीघ्रंहुताशनम् ।
युगमात्रोदिते सूर्ये कृत्वा पौर्वाह्णिकीः क्रियाः ॥१०॥
ततः सर्वान्द्विजान्वृद्धाञ्श्चश्रूंश्वशुरमेव च ।
अभिवाद्यानुपू्र्वेण प्राञ्ललिर्नियता स्थिता ॥११॥
अवैधव्याशिषस्ते तु सावित्र्यर्थेहिताः शुभाः।
ऊचुस्तपस्विनःसर्वे तपोवननिवासिनः ॥१२॥
एवमस्त्विति सावित्री ध्यानयोगपरायणा ।
मनसा ता गिरः सर्वाः प्रत्यगृह्णात्तपस्विनाम् ॥१३॥
तंकालं तं मुहूर्तेच प्रतीक्षन्ती नृपात्मजा।
यथोक्तं नारदवचश्चिन्तयन्ती सुदुःखिता ॥१४॥
ततस्तु श्वश्रूश्चशुरावूचतुस्तांनृपात्मजाम् ।
एकान्तस्थामिदं वाक्यं प्रीत्या भरतसत्तम ॥१५॥
व्रतं यथोपदिष्टंवैयथावत्पारितं त्वया ।
आहारकालः संप्राप्तः क्रियतांयदनन्तरम् ॥१६॥
॥ सावित्र्युवाच ॥
अस्तंगते मयादित्ये भोक्तव्यंकृतकाम्यया।
एषमे हृदिसंकल्पः समयश्च कृतोमया ॥१७॥
॥मार्कण्डेय उवाच॥
एवं संभाषमाणायां सावित्र्यांभोजनं प्रति ॥
स्कन्धेपरशुमादाय सत्यवान्प्रस्थितो वनम् ॥१८॥
सावित्री आह भर्तारं नैकस्त्वंगन्तुमर्हसि ।
सह त्वयागमिष्यामि न हि त्वां हातुमुत्सहे ॥१९॥
॥सत्यवानुवाच॥
वनं न गतपूर्वेते दुःखपंन्था भविष्यति \।
व्रतोपवासाक्षमा च कथं पद्भ्यांगमिष्यसि ॥२०॥
॥ सावित्र्युवाच ॥
उपवासान्त्र मे ग्लानिर्नास्तिचापि परिश्रमः।
गमने च कृतोत्साहांप्रतिषेद्धुंन मार्हसि ॥२१॥
॥ सत्यवानुवाच ॥
यदि ते गमनोत्साहः करिष्यामि तव प्रियम् ।
मम त्वामन्त्रय गुरूः न मां दोषः स्पृशेदयम् ॥ २२ ॥
॥ मार्कण्डेय उवाच॥
साभिवाद्याब्रवीच्छ्वश्रूंश्वशुरं च महाव्रता ।
अयं गच्छति भर्तामे फलाहारो महावनम् ॥२३॥
इच्छेयमप्यनुज्ञाता आर्यया श्वशुरेण च ।
अनेन सह निर्गन्तुं न हि मे विरहक्षमः ॥२४॥
गुर्वग्निहोत्रार्थकृते प्रस्थितश्च सुतस्तव ।
न निवार्यो निवार्यः स्यादन्यथा प्रस्थितो वनम् ॥२५॥
संवत्सरः किंचिदूनोन निष्क्रान्ताहमाश्रमात्।
वनं कुसुमितं द्रष्टुंपरं कौतूहलं हि मे ॥ २६॥
॥ द्युमत्सेन उवाच ॥
यतः प्रभृति सावित्री पित्रा दत्ता स्नुषा मम ।
नानयाभ्यर्थनायुक्तमुक्तं पूर्वे रमराम्यहम् ॥२७॥
तदेषा लभतां कामंयथाभिलषितं वधूः।
अप्रमादश्च कर्तव्यः पुत्रि सत्यवता पथि॥२८॥
॥ मार्कण्डेय उवाच ॥
उभाभ्यामभ्यनुज्ञाता सा जगाम यशस्विनी ।
सहभर्त्रा हसन्तीव हृदयेन विधूयता ॥ २९ ॥
सा वनानि विचित्राणि रमणीयानि सर्वशः।
मयूरगण जुष्टानि ददर्श विपुलेक्षणा ॥३०॥
नदीः पुण्यवहाश्चैव पुष्पितांश्च नगोत्तमान् ।
सत्यवानाह पश्येति सावित्रीं मधरं वचः ॥३१॥
निरीक्षमाणा भर्तारं सर्वावस्थमनिन्दिता ।
मृतमेव हि तं मेने काले मुनिवचः स्मरन् ॥ ३२॥
अनुवर्तन्ती भर्तारंजगाम मृदुगामिनी।
द्विधेवहृदयं कृत्वा तं च कालमवेक्षती ॥३३॥
॥ इति महाभारते सावित्र्युपाख्याने चतुर्थः सर्गः ॥४॥
<MISSING_FIG href="../books_images/U-IMG-1702624435Screenshot2023-07-21172948.png"/>
॥ मार्कण्डेय उवाच ॥
अथ भार्यासहायः स फलान्यादाय वीर्यवान् ।
कठिनं पूरयामास ततः काष्ठान्यपाटयत् ॥१॥
तस्य पाटयतः काष्ठंस्वेदो वैसमजायत ।
व्यायामेन च तेन स्म जज्ञेशिरसिवेदना ॥२॥
सोभिगम्य प्रियां भार्यामुवाच श्रमपीडितः
अङ्गानि चैव सावित्रि हृदयं दह्यतीव च ॥३॥
अस्वस्थमिव चात्मानं लक्षये मितभाषिणि ।
तत्स्वप्तुमिच्छे कल्याणि न स्थातुं शक्तिरस्ति मे॥४॥
सा समासाद्यसावित्री भर्तारमुपगम्य च ।
उत्सङ्गेस्य शिरः कृत्वानिषसाद महीतले ॥५॥
ततः सा नारदवचो विस्मरन्ती तपस्विनी ।
तं मुहूर्तेक्षणं वेलांदिवसं च युयोज ह ॥ ६॥
मुहूर्तादेव चापश्यत्युरुषं रक्तवाससम् ।
बद्धमौलिं वपुष्मन्तमादित्यसमतेजसम् ॥७॥
श्यामाददातं रक्ताक्षं पाशहस्तं भयावहम्।
स्थितं सत्यवतः पार्श्वेनिरीक्षन्तं तमेव च ॥८॥
तं दृष्ट्वा सहसोत्थाय भर्तुर्न्यस्यशनैःशिरः ।
कृताञ्जलिरुवाचार्त्ताहृदयेन प्रवेपती ९॥
देव तं त्वाभिजानामि वपुरेतद्ध्यमानुषम्।
कामया ब्रूहि मे देव कस्त्वंकिं च चिकीर्षसि ॥१०॥
॥ यम उवाच ॥
पतिव्रतासि सावित्रितथैव च तपोन्विता।
अतस्त्वामभिभाषामि विद्धि मां त्वं शुभ यमम् ॥ ११॥
अयं ते सत्यवान्भर्ता क्षीणायुः पार्थिवात्मजः ।
नेष्याम्येनमहं बद्ध्वाविद्ध्येतन्मे चिकीर्षितम् ॥१२॥
॥ सावित्र्युवाच ॥
श्रूयते भगवन्दूतास्तव गच्छन्ति मानवान् ।
नेतुं किल भवान्कस्मादागतोसि स्वयं प्रभो॥१३॥
॥ मार्कण्डेय उवाच ॥
इत्युक्तः पितृराजस्तां भगवान्संचिकीर्षितम् ।
यथावत्सर्वमाख्यातुं तत्प्रियार्थे प्रचक्रमे ॥१४॥
अयं हि धर्मसंयुक्तोरूपवान्गुणसागरः ।
नार्होमत्पुरुषैर्नेतृमतोस्मिस्वयमागतः ॥१५॥
ततः सत्यवतः कायात्याशवद्धंवशं गतम ।
अंगुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात् ॥१६॥
ततः समुद्धृतप्राणं गतश्वासं हतप्रभम् ।
निर्विचेष्टं शरीरं तद्वभूवाप्रियदर्शनम् ।
यमस्तु तं तथा बद्ध्वाप्रयातो दक्षिणामुखः ॥ १७॥
सावित्रो चापि दुःखार्त्ता यममेवान्वगच्छत ।
नियमव्रतसंपन्ना महाभागा पतिव्रता ॥१८॥
॥ यम उवाच ॥
निवर्तगच्छ सावित्रि कुरुष्वास्यौर्द्धदेहिकाम् ।
कृतं भर्तुस्त्वयानृण्यं यावद्रम्यंगतं त्ययां ॥१९॥
॥ सावित्र्युवाच॥
यत्र मे नीयते भर्तास्वयं वा यत्र गच्छति ।
मयापि तत्र गन्तव्यमेष धर्मः सनातनः ॥२०॥
तपसा गरुभक्त्या च भर्तृस्रेहाव्रतेन च।
तव चैव प्रसादेन न मेप्रतिहता गतिः॥२१॥
प्राहुः साप्तपदं मैत्रं बुद्धास्तत्त्वार्थदर्शिनः।
मित्रतां च पुरस्कृत्य किंचिद्वक्ष्यामि तच्छृणु ॥२२॥
नानात्मवन्तो हि वने चरन्ति धर्मे च सत्यं च प्रतिश्रयं च।
विज्ञानतोधर्ममुदाहरन्ति तस्मात्सन्तो धर्ममाहुःप्रधानम्॥२३॥
एकस्य धर्मेण सतां मतेन सर्वे स्म तन्मार्गमनुप्रपन्नाः।
मा द्वितीयं मा तृतीयं च वाञ्छे तस्मात्सन्तो धर्ममाहुः प्रधानम्॥२४॥
॥ यम उवाच ॥
निवर्त तुष्टोस्मि तवानया गिरा स्वराक्षरव्यञ्जनहेतुयुक्तया ।
वरं वृणीष्वेह विनास्य जीवितं ददानीति सर्वमनिन्दिते वरम् ॥ २५॥
॥ सावित्र्युवाच ॥
च्युतः स्वराज्यादृनवासमाश्रितो विनष्टचक्षुःश्वशुरो ममाश्रमे।
स लब्धचक्षुर्बलवान्भवेन्नृपस्तव प्रसादाज्ज्वलनार्कसंनिभः ॥२६॥
॥ यम उवाच॥
ददानि ते सर्वमनिन्दिते वरं यथा त्वयोक्तं भविता च तत्तथा ।
तवाध्वनि ग्लानिमिवोपलक्षये निवर्त गच्छस्व न ते श्रमो भवेत् ॥२७॥
॥ सावित्र्युवाच ॥
कुतः श्रमो भर्तृसमीपतोद्य मे यतो हि भर्ता मम सा गतिर्ध्रुवा।
यतः पतिं नेष्यसितत्र मे गतिः सुरेश भूयश्च वचो निबोध मे ॥ २८॥
सतां सकृत्संगतमीप्सितं परं ततः परं मित्रमिति प्रचक्षते ।
न चाफलं सत्पुरुषेण संगतं ततः सतां संनिवसेत्समागमे ॥ २९॥
॥ यम उवाच ॥
मनोनुकूलंबुद्धबुद्धिवर्द्धनंत्वयेदमुक्तं वचनं हिताश्रयम्।
विना पुनः सत्यवतोस्य जीवितं वरं द्वितीयं वरयस्व भाविनि ॥३०॥
॥ सावित्र्युवाच॥
हृतं पुरा मे श्वशुरस्य धीमतः स्वमेव राज्यं लभतां स पार्थिवः ॥
न च स्वधर्म प्रजाहतुमेगुरुर्द्वितीयमेतद्वरयामि ते वरम् ॥३१॥
यम उवाच
स्वमेव राज्यं प्रतिपत्स्यतेचिरान्नच स्वधर्मात्परिहास्यते नृपः।
कृतेन कामेन मया नृपात्मजे निवर्तगच्छस्व न ते श्रमो भवेत् ॥३२॥
॥ सावित्र्युवाच ॥
प्रजास्त्वयैता नियमेन संयुता नियम्य चैता नयसे नकाम्यया॥
अतो यमत्वं तव देव विश्रुतं निबोध चेमां गिरमोरितां मया ॥३३॥
अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा।
अनुग्रहश्च दानं च सतां धर्मः सनातनः ॥३४॥
एवंप्रायश्व लोकोयं मनुष्याः शाक्तिपेशलाः।
सन्तस्त्वेवाप्यमित्रेषु दयां प्राप्तेषु कुर्वते ॥३५॥
॥ यम उवाच ॥
पिपासितस्येव भवेद्यथा पयस्तथात्वया वाक्यमिदं समोरितं ।
विना पुनः सत्यवतोस्य जोवितं वरं वृणीष्वेह शुमे यदिच्छसि ॥३६॥
॥ सावित्र्युवाच ॥
ममानपत्यः पृथिवीपतिः पिता भवेत्पितुः पुत्रशतंतथौरसम्।
कुलस्य संतानकरं च यद्भवेत्तृतीयमेतंवरयामि ते वरम् ॥३७॥
॥ यम उवाच ॥
कुलस्य सतानकरं सुवर्चसं शतं सुतानां वितुरस्तु ते शुभे।
कृतेन कामेन नराधिपात्मजे निवर्त दूरं हि पथस्त्वमागता ॥३८॥
॥ सावित्र्युवाच ॥
न दूरमेतन्मम भर्तृसंनिधौमनो हि मे दूरतरं प्रधावति \।
अथ व्रजन्नेव गिरं समुद्यतां ममोच्यमानां शुणु भूय एव ह ॥३९॥
विवस्वतस्त्वं तनयः प्रतापवांस्ततो हि वैवस्वत उच्यसे बुधैः।
समेन धर्मेण च रञ्जिताः प्रजास्ततस्तवेहेश्वरधर्मराजता ॥४०॥
आत्मन्यपि न विश्वासस्तावान्भवति सत्सु यः
तस्मात्सत्सु विशेषेण सर्वः प्रणयमिच्छति ॥४१॥
सौहदात्सर्वभूतानां विश्वासो नाम जायते ।
तस्मात्सत्सु विशेषेण विश्वासं करुते जनः ॥४२॥
॥ यम उवाच ॥
उदाहृतं ते वचनं यदङ्गने शुमे न तादृक्त्वदृते मया श्रुतम् ।
अनेन तृष्टोस्मि विनास्य जीवितं वरं चतुर्थे वरयस्व गच्छ च॥ ४३॥
॥ सावित्र्युवाच ॥
ममात्मजं सत्यवतस्तथौरसं भवेदुभाभ्यामिह यत्कुलोदृहम्।
शतं सुतानां बलिनां महात्मनामिमं चतुर्थे वरयामि ते वरम् ॥४४॥
॥ यम उवाच ॥
शतं सुतानां बलवीर्यशालिनां भविष्यति प्रीतिकरं तवाबले ।
परिश्रमस्ते न भवेन्नृपात्मजेनिवर्त दूरं हि पथस्त्वमागता ॥ ४५॥
॥ सावित्र्युवाच ॥
सतांसदा शाश्वती धर्मवृत्तिः सन्तो न सीदन्ति न च व्यथन्ते ।
सतां सद्धिर्नाफलः संगमोस्ति सद्भ्यो भयंनानुवर्तन्ति सन्तः ॥४६॥
सन्तो हि सत्येन नयन्ति सूर्ये सन्तो भूमिं तपसा धारयन्ति ।
सन्तो गतिर्भूतभव्यस्य राजन्सतां मध्ये नावसीदन्ति सन्तः ॥ ४७॥
आर्यदृष्टमिदं वृत्तमिति विज्ञाय शाश्वतम् ।
सन्तः परार्थेकुर्वाणा नावेक्षन्तेप्रतिक्रियाम् ॥४८॥
न च प्रसादः पुरुषेषु मोघोन चाप्यर्थः नश्यति नापि मानः।
यस्मादेतन्नियतं सत्सु नित्यं तस्मात्सन्तोरक्षितारोभवन्ति ॥ ४९॥
॥ यम उवाच ॥
यथा यथाभाषसिधर्मसंमितं मनोनुकूलं सुपदं यदार्थवत् ।
तथा तथा मे त्वयिभक्तिरुत्तमा वरं वृणीष्वाप्रतिमं पतिव्रते ॥५०॥
॥ सावित्र्युवाच ॥
न तेषवर्गः सुकृताद्विना कृतस्तथा यथान्येषु वरेषु मानद ।
वरं वृणे जीवतु सत्यवानयं यथा मृता ह्येवमहं विना पतिम् ॥५१॥
न कामये भर्तृविनाकृता सुखं न कामये भर्तृविनाकृता दिवम्।
न कामये भर्तृविनाकृता प्रियं न भर्तृहोना व्यवसामि जीवितुम ॥५२॥
वरातिसर्गः शातपुत्रता ममत्वयैव मेदत्तो हियते च पतिः।
वरं वृणे लीवतु सत्यवानयं तवैव सत्यं वचनं भविष्यति ॥५३॥
तथेत्युक्वा तु तं पाशंमुक्त्वावैवस्वतो यमः ।
धर्मराजः प्रहृष्टात्मासावित्रोमिदमब्रवीत् ॥५४॥
एषःभर्तामया मुक्तो भद्रं ते कुलनन्दिनि ।
अरोगः स्थवनेयश्च सिद्धार्थश्चभविष्यति ॥५५॥
चतुर्वर्षशतं चायुस्त्वया सार्धमवाप्स्यति ।
दृष्ट्वायज्ञैश्च धर्मेण ख्यातिं लोके गमिष्यति॥५६॥
त्वयि पुत्रशतं चापि सत्यवाञ्जनयिष्यति।
ते चापिसर्वे राजानः क्षत्रियाः पुत्रपौत्रिणः ॥५७॥
ख्यातास्त्वन्नामधेयाश्च भविष्यन्तीह शाश्वताः।
पितुश्च ते पुत्रशतं भविता तव मातरि ॥५८॥
मालव्यां मालवा नाम शाश्वताः पुत्रपौत्रिणः।
भ्रातरस्ते भविष्यन्ति क्षत्रियास्त्रिदशोपमाः ॥५९॥
एवं तस्यैवरान्दत्त्वाधर्मराजःप्रतापवान् ।
निवर्तयित्वा सावित्रीं स्वमेव भवनं ययौ॥६०॥
सावित्र्यपि यमे याते भर्तारं प्रतिलभ्य च ।
जगाम तत्र यत्रास्या भर्तुः शावं कलेवरम् ॥६१॥
सा भूमौ प्रेक्ष्य भर्तारमभिसृत्योपगृह्य च ।
उत्सङ्गेशिरश्चारोप्य भूमावुपविवेश ह ॥६२॥
संज्ञांच सत्यवाँल्लब्ध्वा सावित्रीमभ्यभाषत ।
प्रोष्यागत इव प्रेम्णापुनः पुनरुदीक्ष्य वै ॥६३॥
॥ सत्यवानुवाच ॥
सुचिरं वत सुप्तोस्गि किमर्थेनावबोधितः।
क्व चासौपुरुषः श्यामो योसौ मां संचकर्ष ह ॥६४॥
॥ सावित्र्युवाच ॥
सुचिरं त्वंप्रसुप्तोसि ममाङ्केपुरुषर्षभ ।
गतः स भगवान्देवः प्रज्ञासंयमनो यमः ॥६५॥
विश्रान्तोसि महाभाग विनिद्रश्च नृपात्मज।
यदि शक्यं समुत्तिष्ठ विगाढां पश्यशर्वरीम् ॥६६॥
॥ मार्कण्डेय उवाच ॥
उपलभ्य ततः संज्ञांसुखसुप्त इवोत्थितः।
दिशः सर्वावनान्तांश्च निरोक्ष्योवाच सत्यवान् ॥६७॥
फलाहारोस्मि निष्क्रान्तस्त्वया सहसुमध्यमे ।
ततः पाटयतः काष्ठं शिरसो मे रुजाभवत् ॥६८॥
शिरोभितापसंतप्तः स्थातुंचिरमशक्नुवन् ।
तवोत्संङ्गेप्रसुप्तोहमिति सर्वे स्मरे शुभे॥ ६९ ॥
त्वयोपगूढस्य च मे निद्रयापहृतं मनः।
ततोपश्यंतमो घोर परुषं च महौजसम् ॥७०॥
तद्यादि त्वं विजानासि किं तद्ब्रूहिसुमध्यमे ।
स्वप्नेनु समया दृष्टो यदि षा सत्यमेव तत् ॥७१॥
तमुवाचायसावित्री रजनी व्यवगाहते ।
श्वस्ते सर्वे यथावृत्तमाख्यास्यामि नृपात्मज॥७२॥
उत्तिष्ठोत्तिष्ठ भद्रं ते पितरौपश्यसुब्रत ।
विगाढारजनी चेयं निवृत्तश्च दिवाकरः ॥७३॥
नक्तंचराश्चरन्ते ते हृष्टाः क्रूराभिभाषिणः।
श्रूयते पर्णशष्दश्च मृगाणां चरतां वने ॥७४॥
एता घोरान्शिवा नादान्दिशं दक्षिणपश्चिमाम् ।
आस्थाय विरुवन्त्युग्राः कम्पयन्तो मनो मम ॥७५॥
॥ सत्यवानुवाच ॥
वनं प्रतिभयाकारं घोरेण तमसा वृतम् ।
न विज्ञास्यसि पन्थानं गन्तुं चैव न शक्ष्यसि ॥७६॥
॥ सावित्र्युवाच ॥
अस्मिन्नद्यवनेदग्धे शुष्कवृक्षःस्थितो ज्वलन् ।
वायुना धम्यमानोत्र दृश्यतेग्निःक्वचिक्वचित् ॥७७॥
ततोग्निमानयित्वेह ज्वालयिष्यामि पावकम् ।
काष्ठानोमानि सन्तीह जहि संतापमात्मनः ॥७८॥
यदि नोत्सहसे गन्तं सरूजंत्वां हि लक्षये ।
न च ज्ञास्यसि पन्थानं तमसा संवृते वने॥७९॥
श्वः प्रभातेवने दृश्ये यास्यावोनुमते तव ।
वसावेह क्षपामेतां रुचितं यदि वेनघ ॥८०॥
॥ सत्यवानुवाच ॥
शिरोरुजानिवृत्ता मे स्वस्थान्यङ्गानि लक्षये ।
मातापितृभ्यामिच्छामि संगमं त्वत्प्रसादनात् ॥८१॥
न कदाचिद्विकाले हि गतपूर्वो मयाश्रमः ।
अनागतायां संध्यायां माता मे संरुणद्धि माम् ॥८२॥
दिवापि मयि निष्क्रान्ते संतप्येते गुरू मम ।
विचिनोति हि मे माता सहैवाश्रमवासिभिः॥८३॥
मातापित्रा च सुभृशं दुःखिताभ्यामहं परा ।
उपालब्धःसुबहुशश्चिरेणागच्छसीति ह ॥८४॥
का न्ववस्था तयोरद्यमदर्थमिति चिन्तये।
अदृश्येमयिताभ्यां हि महद्दुःखंभविष्यति ॥८५॥
पुरा मामूचनुश्चैव रात्रावुत्थाय मामकौ।
भृशं सुदुःखितौ वृद्धौबहुशः प्रीतिसंयतौ॥८६॥
त्वया हीनौ न जीवेव मुहूर्तमापिपुत्रक ।
यावद्धरिष्यसे पुत्र तावन्नौ जीवितं ध्रुवम् ॥८७॥
बृद्धयोरन्धयोर्यष्टिस्त्वयिवंशः प्रतिष्ठितः ।
त्वयि पिण्डश्च कीर्तिश्च संतानं चावयोरिति ॥८८॥
माता वृद्धा पिताप्यन्धस्तयोर्यष्टिरहं किल ।
तौरात्रौ मामपश्यन्तौकामवस्थां गमिष्यतः ८९ ॥
निद्रां चेवाभ्यसूयामि यस्या हेतोः पिता मम ।
माता च संशयं प्राप्ता मत्कृतेनपकारिणी ॥९०॥
अहं च संशयं प्राप्तः कृच्छ्रामापदमास्थितः।
मातापितृभ्यां रहितो नाहं जीवितमुत्सहे ॥९१॥
व्यक्तमाकुलया बुद्ध्याप्रज्ञाचक्षुः पिता मम ।
एकैकमस्यां वेलायां पृच्छत्याश्रमवासिनाम् ॥ ९२ ॥
नात्मानमनुशोचामि यथाहं पितरं शुभे।
भर्तरांचाप्यनुगतांमातरं परिदुर्वलाम् ॥ ९३ ॥
मत्कृतेन हि तावद्य संतापं परमेष्यतः ।
जीवन्तावनुजीवामि भर्तव्यौ तौममेति च।
तयोः प्रियं मेकर्तव्यमेतिजानामि चाप्यहम् ॥९४॥
॥ मार्कण्डेय उवाच ॥
एवमुक्त्वास धर्मात्मागुरुभक्तो गुरुप्रियः ।
उच्छ्रित्य बाहू दुःखार्त्तःसुस्वरं प्ररुरोद ह ॥९५॥
ततोव्रवोत्तथादृष्ट्वाभर्त्तारं शोकपीडितम् ।
विमृज्याश्रूणिनेत्राभ्यां सावित्रीधर्मचारिणी ॥९६॥
यदि मेस्ति तपरतप्तं यदि दत्तंहुतं यदि ।
श्वश्रूश्वशुरर्भतृृर्णां मम क्षेमास्तु शर्वरी ॥९७॥
न रमराम्युक्तपू्र्वीवै स्वैरेष्वप्यनृतां गिरम् ।
तेन सत्येन तावद्याध्रियेतांश्वशुरौ मम ॥९८॥
॥ सत्यवानुवाच ॥
कामये दर्शनं पित्रोर्याहि सावित्रि माचिरम् ।
पुरा मातुः पितुर्वापियदि पश्यामि विप्रियम् ।
न जीविष्ये वरारोहे सत्येनात्मानमालभे॥९९॥
यदि धर्मे च ते बुद्धिर्मोच जीवितुमिच्छसि ।
मम प्रियं च कर्तव्यं गच्छावाश्रममुत्तमम् ॥१००॥
॥ मार्कण्डेय उवाच ॥
सावित्री तत उत्थाय केशान्संयम्य भाविनी ।
पतिमुत्थापयामास बाहुभ्यां परिगृह्य वै ॥१०१॥
उत्थाय सत्यवांश्चापि प्रमृज्याङ्गानि पाणिना ।
दिशः सर्वाः समालोक्य कठिने दृष्टिमादधे ॥१०२॥
तमुवाचापि सावित्री श्चः फलानि हरिष्यसि ।
योगक्षेमार्थमेतंते नेष्यामि परशुं त्वहम् ॥१०३॥
कृत्वाकठिनभारं सा बृक्षशाखावलम्बिनम् ।
गृहीत्वा परशुं भर्तुः सकाशं पुनरागमत् ॥१०४॥
वामे स्कन्धे तु वामोरूर्भर्तुर्बाहुंनिवेश्यसा ।
दक्षिणेन परिष्वज्य जगाम मृदुगामिनी॥१०५॥
॥ सत्यवानुवाच ॥
अभ्यासामनाद्भोरु पन्थानो विदिता मम ।
बृक्षान्तरालोकितया ज्योत्स्रया चोपलक्षये ॥१०६॥
आगतौस्वः पथा येन फलान्यवचितानि च ।
यथागतं शुमे गच्छ पन्थानं मा विचारय ॥१०७॥
पलाशखण्डे चेतस्मिन्पन्था व्यावर्तते द्विधा ।
तस्योत्तरेण यः पन्थास्तेन गच्छ त्वरस्व च ॥१०८॥
स्वस्थोस्मि बलवानस्मि दिदृक्षुः पितराबुभौ।
ब्रुवन्नेव त्वरायुक्तः संप्रायादाश्रमं प्रति ॥ १०९॥
॥ इति महाभारते सावित्र्युपाख्याने पञ्चमः सर्गः॥ ५॥
<MISSING_FIG href="../books_images/U-IMG-1702628312Screenshot2023-08-08170946.png"/>
॥ मार्कण्डेय उवाच ॥
एतस्मिन्नेव काले तुद्युमत्सेनो महावलः ।
लब्धचक्षुः प्रसन्नायां दृष्ट्यांसर्वे ददर्शह ॥१॥
स सर्वानाश्रमान्गत्वा शैव्ययासह भार्यया।
पुत्रहेतोः परमार्त्तिजगाम पुरुषर्षभः ॥२॥
तावाश्रमान्नदीश्चैववनानि च सरांसि च ।
तस्यां निशि विचिन्वन्तौदंपती परिजग्मतुः ॥३॥
श्रुत्वाशब्दं तु यंकंचिदुन्मुखौसुतशङ्क्या।
सावित्रीसहितोभ्येति सत्यवानित्यभाषताम् ॥४॥
भिन्नैश्चपुरुषैः पादैःसव्रणैःशोणितोक्षितैः।
कुशकण्टकविद्धाङ्गावुन्मत्ताविव धावतः ॥५॥
ततोमिश्रित्य तैर्विप्रैसर्वैराश्रमवासिभिः।
परिवार्यसमाश्वास्य समानीतौ स्वमाश्रमम् ॥६॥
तत्र भार्यासहायः स वृतो वृद्धैस्तपोधनैः।
आश्वासितो विचित्रार्थैःपूर्वराज्ञांकथाश्रयैः॥७॥
ततस्तौ पुनराश्वस्तौ वृद्धौ पुत्रदिदृक्षया ।
बाल्यवृत्तानि पुत्रस्य स्मरन्तौभृशदुःखितौ ॥८॥
पुनरुक्त्वा च करुणां वाचं च शोककर्षितौ।
हा पुत्र हा साध्वि वधु क्वासि क्वासीत्यवदताम्॥ ९॥
॥ ब्राह्माणः सुवर्चा उवाच॥
यथास्य भार्यासावित्री तपसा च दमेन च ।
आचारेण च संयुक्ता तथा जीवति सत्यवान् ॥१०॥
॥ गौतम उवाच ॥
वेदाः साङ्गा मयाधोतास्तयोमे संचितं महत् ।
कौमारं ब्रह्मचर्येमे गुरवोग्निश्च तोपितः ॥११॥
समाहितेन तोर्णानिसर्वाण्येव व्रतानि च ।
वायुभक्षोपवासश्च कृतो मे विधिवत्सदा ॥१२॥
अनेन तपसा वेद्मिसर्वं परचिकोर्षितम् ।
सत्यमेतन्निबोध त्वंध्रियतेसत्यवानिति ॥१३॥
॥ शिष्य उवाच ॥
उपाध्यायस्य मे वक्वाद्यथा वाक्यं विनिर्गतम् ।
नैव जातु भवेन्मिथ्या तथा जीवति सत्यवान् ॥१४॥
॥ ऋषय ऊचुः ॥
यथास्य भार्यासावित्री सर्वैरेव सुलक्षणैः।
अवैधव्यकरैर्युक्तातथा जीवति सत्यवान् ॥१५॥
॥ भारद्वाज उवाच ॥
यथास्य भार्यासावित्रोतपसा च दमेन च।
आचारेण च संयुक्ता तथा जीवति सत्यवान् ॥१६॥
॥ दाल्भ्यउवाच॥
यथा दृष्टिः प्रवृत्ता ते सावित्र्याश्च यथा व्रतम् ।
यथाहारमकृत्वाच तथा जीवति सत्यवान् ॥१७॥
॥ माण्डव्य उवाच ॥
यथा वदन्ति शान्तायां दिशि वैमृगपक्षिणः ।
पार्थिवी च प्रवृत्तिस्ते तथा जीवति सत्यवान् ॥१८॥
॥ धौम्य उवाच ॥
सर्वैर्गुणैरुपेतस्ते यथा पुत्रो जनप्रियः।
दीर्घायुर्लक्षणोपेतस्तथा जीवति सत्यवान् ॥१९॥
॥ मार्कण्डेय उवाच ॥
एवमाश्वासितस्तस्तु सत्यवाभ्मिस्तपस्विभिः।
तांस्तान्विगणयन्नर्थोस्ततः स्थिर इवाभवत् ॥२०॥
ततो मुहूर्तात्सावित्री भर्त्रासत्यवता सह ।
आजगामाश्रमं रात्रौ प्रहृष्टा प्रविवेशह ॥२१॥
॥ ब्राह्मणा ऊचुः ॥
पुत्रेण संगतं त्वां च चक्षुष्मन्तं निरीक्ष्य च ।
सर्वे वयं वैपृच्छामो वृद्धिं ते पृथिवीपते ॥२२॥
समागमेन पुत्रस्य सावित्र्यादर्शनेन च।
चक्षुषश्चात्मनो लाभात्रिभिर्दिष्ट्याविवर्धसे ॥२३॥
सर्वैरस्माभिरुक्तंयत्तत्तथा नात्र संशयः ।
भूयो भूयश्च वृद्धिस्ते क्षिप्रमेव भविष्यति ॥२४॥
॥ मार्कण्डेय उवाच ॥
ततोग्निंतत्र संज्वाल्य द्विजास्ते सर्व एव हि ।
उपासांचक्रिरे पार्थद्युमत्सेनं महीपतिम् ॥१५॥
शैव्या च सत्यवांश्चैव सावित्री चैकतः स्थिताः ।
सर्वैस्तैरभ्यनुज्ञाता विशोकाः समुपाविशन् ॥२६॥
ततो राज्ञा समासोनाः सर्वे ते वनवासिनः ।
जातकौतूहलाःपार्थ पप्रच्छुर्नृपतेः सुतम् ॥२७॥
प्रागेव नागतं कस्मात्सभार्येणत्वयाविभो ।
विरात्रे चागतं कस्मात्कोनुबन्धश्च तेभवत् ॥२८॥
संतापितः पिता माता वयं चैव तथा नृप ।
कस्मादिति न जानीमस्तत् सर्वेवक्तुमर्हसि ॥२९॥
॥ सत्यवानुवाच ॥
पित्राहमभ्यनुजातः सावित्री सहितो गतः।
अथ मेभूच्छिरोदुःखं वने काष्ठानि भिन्दवः॥३०॥
सुप्तश्चाहंवेदनया चिरमित्युपलक्षये ।
तावत्कालं न च मया सुप्तपूर्वं कदाचन ॥३१॥
सर्वेषामेव भवतां संतापो मा भवेदिति ।
अतो विरात्रागमनं नान्यदस्तीति कारणम्॥३२॥
॥ गौतम् उवाच ॥
अकस्माच्चक्षुषः प्राप्तिर्द्युमत्सेनस्यते पितुः ।
नास्य त्वं कारणं वेत्सिसावित्री वक्तुमर्हति ॥३३॥
श्रोतुमिच्छामि सावित्रि त्वं हि वेत्थ परावरम् ।
त्वां हि जानामि सावित्रि सावित्रीमिव तेजसा ॥३४॥
त्वमत्र हेतुं जानीषे तस्मात्सत्यं निरुच्यताम्।
रहस्यं यदि ते नास्ति किंचिदत्र वदस्व नः ॥३५॥
॥ सावित्र्युवाच ॥
एवमेतद्यथा वेत्थ संकल्पो नान्यथा हि वः।
न हि किंचिद्रहस्य मे श्रूयतां तथ्यमेव यत् ॥३६॥
मृत्युर्मे भर्तुराख्यातो नारदेन महर्षिणा ।
स चाद्यदिवसः प्राप्तस्ततो नैनं जहाम्यहम् ॥३७॥
सुप्तं चैनं यमः साक्षादुपागच्छत्सकिंकरः।
स एनमनयदबद्ध्वादिशं पितृनिषेविताम् ॥३८॥
अस्तौषं तमहं देवं सत्येन वचसा विभुम् ।
पञ्च वैतेन मे दत्तावराः शृणुत तान्मम ॥३९॥
चक्षुषी च स्वराज्यं च द्वौवरौ श्वशुरस्य मे ।
लब्धं पितुःपुत्रशतंपुत्राणामात्मनः शतम् ॥४०॥
चतुर्वर्षशतायुमें लब्धो भर्ता च सत्यवान् ।
भर्तुर्हिजीवनार्थायमया तीर्णेव्रतं स्थिरम् ॥४१॥
एतत्सत्यं मयाख्यातं कारणं विस्तरेण वः ।
यथावृत्तं सुखोदर्कमिदं दुःखं महन्मम ॥४२॥
॥ ऋषय ऊचुः ॥
निमज्जमानं व्यसनैरभिद्रुतं कुलं नरेन्द्रस्य तमोमये हदे।
त्वया सुशीलब्रतदमयुक्तया समुद्धृतं साध्वि पुनः कुलीनया ॥४३॥
॥ मार्कण्डेय उवाच ॥
तथा प्रशस्य ह्यभिपूज्य चैव ते वरस्त्रियं तामृषयः समागताः ।
नरेन्द्रमामन्त्र्यसपुत्रमञ्जसा शिवेन जग्मुर्मुदिताः स्वमालयम् ॥
॥ इति महाभरते सावित्र्युपाख्याने षठः सर्गः ॥ ६॥
<MISSING_FIG href="../books_images/U-IMG-1702636371Screenshot2023-08-08170946.png"/>
॥ मार्कण्डेय उवाच ॥
तस्यां रात्र्यांव्यतोतायामुदिते सूर्यमण्डले ।
कृतपौर्वाह्णिकाः सर्वे समीयुस्ते तपोधनाः ॥१॥
तदेव सर्वेसावित्र्यामहाभाग्यं महर्षयः।
द्युमत्सेनाय नातृप्यन्कथयन्तः पुनः पुनः ॥२॥
ततः प्रकृतयः सर्वाः शाल्वेभ्योभ्यागता नृप ।
आचख्युर्निहतं चैव स्वेनामात्येन तंद्विषम् ॥ ३ ॥
तंमन्त्रिणा हतं श्रुत्वा ससहायं सबान्धवम् ।
न्यवेदयन्यथावृत्तं विद्रुतंच द्विषद्बलम् ॥४॥
ऐकमत्यं च सर्वस्य जनस्यासीन्नृपंप्रति ।
सचक्षुर्वाप्यचक्षुर्वास नोराजाभवत्विति ॥५॥
अनेन निश्चयेनेह वयं प्रस्थापिता नृप ।
प्राप्तानीमानि यानानि चतुरङ्गं च ते बलम् ॥६॥
प्रयाहि राजन्भद्रं ते तुष्टस्तेनगरे जयः ।
अध्यास्स्वचिररात्राय पितृपैतामहं पदम् ॥७॥
चक्षुष्मन्तं तु तं दृष्ट्वाराजानं वपुषान्वितम् ।
मूर्धा निपतिताः सर्वे विस्मयोत्फुललोचनाः ॥८॥
ततोभिवाद्यतान्वृद्धान्द्विजानाश्रमवासिनः ।
वैश्चाभिपूजितः सर्वैःप्रययौनगरं प्रति ॥९॥
शैव्या च सह सावित्र्यास्वास्तीर्णेन सुवर्चसा ।
नरयुक्तेन यानेन प्रययौ सेनया वृतः ॥१०॥
ततोभिषिषिचुःप्रीत्या द्युमत्सेनं पुरोहिताः ।
पुत्रं चास्य महात्मानं यौवराज्येभ्यषेचयन् ॥११॥
ततः कालेन महता सावित्र्याःकीर्तिवर्धनम् ।
तद्वैपुत्रशतंजज्ञेशूराणामविवर्तिनाम् ॥१२॥
भ्रातॄणां सोदराणां च तथैवास्याभवच्छतम्।
मद्राधिपस्याश्वपतेर्मालव्यांसुमहाबलम् ॥१३॥
एवमात्मा पिता माता श्वश्रूःश्वशुर एव च ।
भर्तुः कुलं च सावित्र्या सर्वे कृच्छ्रात्समुद्धृतम्॥१४॥
तथैवैषापि कल्याणी द्रौपदी शीलसंमता।
तारयिष्यति वः सर्वान्सावित्रोव कुलाङ्गना ॥१५॥
॥ वैशंपायन उवाच ॥
एवं स पाण्डवस्तेनानुज्ञातोमहात्मना ।
विशोको विज्वरो राजन्काम्यके न्यवसत्तदा ॥१६॥
यश्चेदं शृणुयाद्भक्त्यासावित्र्याख्यानमुत्तमम् ।
स सुखी सर्वसिद्धार्थोन दुःखं प्राप्नुयान्नरः ॥१७॥
॥ इति महाभारते सावित्र्युपाख्यानं समाप्तम् ॥७॥
<MISSING_FIG href="../books_images/U-IMG-1702636792Screenshot2023-08-08170946.png"/>
॥ द्रौपदीप्रमाथः॥
॥ वैशंपायन उवाच ॥
तस्मिन्बहुमृगेरण्ये अटमाना महारथाः ।
काम्यके भरतश्रेष्ठा विजहुस्ते यथामराः ॥१॥
प्रेक्ष्यमाणा बहुविधान्वनोद्देशान्समन्ततः ।
यथर्तुकालरम्याश्चवनराजोः सुपुष्पिताः ॥२॥
पाण्डवा मृगयाशीलाश्चरन्तस्तन्महद्वनम् ।
विजहुरिन्द्रप्रतिमाः कंचित्कालमरिंदम ॥३॥
ततस्ते यौगपद्येन ययुः सर्वे चतुर्दिशम् ।
मृगयां पुरुषव्याघ्राब्राह्मणार्थे परंतपाः ॥४॥
द्रौपदीमाश्रमे न्यस्य तृणविन्दोरनुज्ञया ।
महर्षेर्दीप्रतपसो धौम्यस्य च पुरोधसः ॥५॥
ततस्तु राजासिन्धूनां वार्द्धक्षत्रिर्महायशाः।
विवाहकामःशाल्वेयान्प्रयातः सोभवत्तदा ॥६॥
महता परिवर्हेण राजयोग्येन संवृतः ।
राजभिर्बहुभिः सार्धमुपायात्काम्यकं च सः ॥७॥
तत्रापश्यत्प्रियां भार्यो पाण्डवानां यशस्विनीम् ।
तिष्ठन्तीमाश्रमद्वारि द्रौपदींनिर्जने वने ॥८॥
विभ्राजमानां वपुषा बिभ्रतीं रूपमुत्तमम् ।
भ्राजयन्तीं वनोद्देशं नीलाभ्रमिव विद्युतम् ॥९॥
अप्सरा देवकन्या वा माया वा देवनिर्मिता।
इति कृत्वाञ्जलिं सर्वे ददृशुस्तामनिन्दिताम् ॥१०॥
ततः स राजासिन्धूनां वार्द्धक्षत्रिर्जयद्रथः ।
विस्मितस्त्वनवद्याङ्गींदृष्ट्वासीद्दुष्टमानसः ॥११॥
स कोटिकाश्यंराजानमब्रवीत्काममोहितः।
कस्य त्वेषानवदयाङ्गी यदि वापि न मानुषी ॥१२॥
विवाहार्थोन मे कश्चिदिमांप्राप्यातिसुन्दरीम् ।
एताप्रेवाहमादाय गमिष्यामि स्वमालयम् ॥१३॥
गच्छ जानीहि सौम्यैनां कस्य वात्र कुतोपि वा ।
किमर्थमागता सुभ्रूरिदं कण्टकितं वनम् ॥१४॥
अपिनाम वरारोहा मामेवालोक्य सुन्दरी ।
भजेदद्यायतापाङ्गीसुदन्ती तनुमध्यमा ॥ १५॥
अप्यहं कृतकामः स्याभिमां प्राप्य वरस्त्रियम् ।
गच्छ जानीहि कोन्वस्या नाथ इत्येव कोटिक ॥१६॥
स कोटिकाश्यस्तच्छ्रुत्वा रथात्प्रस्कन्द्य कुण्डली।
उपेत्य पप्रच्छ तदा क्रोष्टा व्याघवधूमिव ॥१७॥
॥ इति महाभारते द्रौपदीप्रमाथेप्रथमः सर्गः ॥ १॥
<MISSING_FIG href="../books_images/U-IMG-1702637006Screenshot2023-08-08170946.png"/>
॥ कोटिक उवाच ॥
का त्वं कदम्बस्य विनाम्य शाखामेकाश्रमे तिष्ठसि शोभमाना ।
देदीप्यमानाग्निशिखेव नक्तं दोधूयमाना पवनेन सुभ्रु॥१॥
अतीव रूपेण समन्विता त्वं न चाप्यरण्येषु विभेषि किं नु ।
देवीनुयक्षी यदि दानवीवा वराप्सरा दैत्यवराङ्गना वा ॥२॥
वपुष्मती वोरगराजकन्या वनेचरोवा क्षणदाचरस्त्री ।
यद्येव राज्ञोवरुणस्य पत्नी यमस्य सोमस्य धनेश्वरस्य ॥३॥
धातुर्विधातुः सवितुर्विभोर्वा शक्रस्य वात्वं सदनातप्रपन्ना ।
न ह्येव नः पृष्ठसि ये वयं स्म नचापि जानीम तवेह नाथम् ॥४॥
वयं हि मानं तव वर्धयन्तः पृच्छाम भद्रेप्रभवं प्रभुंं च ।
आचक्ष्वबन्धूंश्चपतिं कुलं च तत्त्वेन यच्चेहकरोषिकार्यम् ॥५॥
अहंतु राज्ञःसुरथस्य पुत्रोयं कोटिकाश्येति विदुर्मनुष्याः ।
असौ तुयस्तिष्ठति काञ्चनाङ्गेरथे हुतोप्निश्चयने यथैव॥६॥
त्रिगर्वराजः कमलापताक्षः क्षेमंकरो नाथ स एष वीरः।
अस्मात्परस्त्वेष महाधनुष्मान्पुत्रःकलिंगाधिपतेर्वरिष्ठः ॥७॥
निरीक्षते त्वांविपुलायताक्षः सुविस्मितः पर्वतवासनित्यः ।
असौतु यः पुष्करिणीसमीपे श्यामोयुवा तिष्ठति दर्शनीयः॥८॥
इक्ष्वाकुराज्ञः सुबलस्य पुत्रः स एषःहन्ता द्विषतां सुगात्री ।
यस्यानुयात्रांध्वजिनः प्रयान्ति सौवीरका द्वादशाराजपुत्राः ॥९॥
शोणाश्वयुक्तेषु रथेषु सर्वे मखेषु दीप्ता इव हव्यवाहाः।
अङ्गारकः कुञ्जरोगुप्तकश्च शत्रुंजयः सृञ्जयसुप्रवृद्धौ॥१०॥
भयंकरोथ भ्रमरो रविश्च शूरः प्रतापः कुहणश्च नाम ।
यंषट्सहस्रा रथिनोनुयान्ति नागा हयाश्चैव पदातिनश्च ॥११॥
जयद्रथो नाम यदि श्रुतस्ते सौवीरराजःसुभगे स एषः।
तस्यापरे भ्रातरोदीनसत्त्वाबलाहकानीकविदारणाद्याः ॥१२॥
सौवीरवीराः प्रवरा युवानो राजानमेते बलिनोनयान्ति ।
एतैःसहायैरुपयाति राजा मरुद्गणैरिन्द्र इवाभिगुप्तः॥ १३॥
अजानतां ख्यापय नः सुकेशि कस्यासि भार्या दुहिता च कस्य ॥१४॥
इति महाभारते द्रौपदीप्रमाथे द्वितीयः सर्गः॥२॥
<MISSING_FIG href="../books_images/U-IMG-1702637434Screenshot2023-08-08170946.png"/>
॥ वैशंपायन उवाच ॥
अयाब्रवीद्रौपदी राजपुत्री पृष्टाशिवीनां प्रवरेण तेन ।
अवेक्ष्य मन्दं प्रविमुच्यशाखांसंगृह्णती कौशिकमुत्तरीयम् ॥१॥
बुद्धचाभिजानामि नरेन्द्रपुत्रन मादृशी त्वामभिभाष्टुमर्हति ।
न त्वेव वक्तास्ति तवेह वाक्यमन्यो नरो वाप्यथ वापि नारी॥२॥
एका ह्यहंसंप्रति तेन वाचं ददानि वैभद्र निबोध चेदम्।
अहं ह्यरण्ये कथमेकमेका त्वामालपेयं निरता स्वधर्मे॥ ३॥
जानामि च त्वां सुरथस्य पुत्रं यं कोटिकाश्येतिविदुर्मनुष्याः ।
तस्मादहं शैव्य तथैव तुभ्यमाख्यामि वन्धून्प्रथितं कुलं च ॥ ४॥
अपत्यमस्मि द्रुपदस्य राज्ञःकृष्णेति मां शैव्य विदुर्मनुष्याः।
साहं वृणे पञ्च जनान्यतित्वे ये खाण्डवप्रस्थं गताः श्रुतास्ते ॥५॥
युधिष्ठिरोभीमसेनार्जुनौच माद्र्याश्च पुत्रौ पुरुषप्रवीरौ।
ते मां निवेश्येहदिशश्चतस्रो विभज्य पार्था मृगयां प्रयाताः ॥६॥
प्राचीं राजा दक्षिणांभीमसेनो जयः प्रतीचीं यमजावुदीचीम् ।
मन्ये तुतेषां रथसत्तमानां कालोभितः प्राप्त इहोपयातुम् ॥ ७ ॥
संमानिता यास्यथ तैर्यथेष्टं विमुच्य वाहानवरोहयध्वम् ।
प्रियातिथिर्धर्मसुतो महात्मा प्रीतो भविष्यत्यमिवीक्ष्य युष्मान् ॥ ८ ॥
एतावदुक्त्वा द्रुपदात्मज्ञा सा शैव्यात्मजं चन्द्रमुखी प्रतीता ।
विवेश तां पर्णशालाप्रशस्तां संचिन्त्य तेषामतिधित्वषर्मम्॥ ९॥
इति महाभारते द्रौपदीप्रमाये तृतीयः सर्गः ॥३॥
॥ वैशंपायन उवाच ॥
तथासीनेषु सर्वेषु तेषु राजसु भारत ।
यदुक्तं कृष्णया सार्धेतत्सर्वे प्रत्यवेदयत् ॥१॥
कोटिकाश्यवचः श्रुत्वा शैव्यं सौवीरकोब्रवीत् ।
यदा वाचं व्याहरन्त्यामस्यां मे रमते मनः ॥२॥
सीमन्तिनीनां मुख्यायां विनिर्वृत्तः कथं भवान् ।
एतां दृष्ट्वास्त्रियो मेन्या यथाशाखामृगस्त्रियः ॥३॥
प्रतिभान्ति महाबाहो सत्यमेतदव्रवीमि ते ।
दर्शनादेव हि मनस्तया मेपहृतंभृशम् ॥४॥
तां समाचक्ष्वकल्याणीं यदि स्याच्छैव्य मानुषो ।
॥ कोटिक उवाच ॥
एषा वैद्रौपदी कृष्णा राजपुत्री यशस्विनी ॥५॥
पञ्चानां पाण्डुपुत्राणां महिषी संमता भृशम्।
सर्वेषां चैव पार्थानां प्रिया बहुमता सती ॥६॥
तया समेत्य सौवीर सौवीराभिमुखो व्रज।
॥ वैशंपायन उवाच ॥
एवमुक्तः प्रत्युवाच पश्यामोद्रौपदीमिति ॥ ७ ॥
पतिः सौवीरसिन्धूनां दुष्टभावो जयद्रथः ।
स प्रविश्याश्रमं पुण्यं सिंहगोष्ठंवृको यथा ॥ ८ ॥
आत्मनासप्तमः कृष्णामिदं वचनमब्रवोत् ।
कुशलं ते वरारोहे भर्तारस्तेप्यनामयाः ॥ ९॥
येषांकुशलकामासि तेपि कच्चिदनामयाः।
॥ द्रौपद्युवाच ॥
अपिते कुशलं राजन्राष्ट्रेकोशेबले तथा ॥१०॥
कच्चिदेकः शिवो नाम्यान्सौवोरान्सह सिन्धुभिः।
अनुतिष्ठसि धर्मेण ये चान्ये विदितास्त्वया ॥११॥
कौरव्यः कुशलीराज्ञाकुन्तीपुत्रो युधिष्ठिरः।
अहं च भ्रातरश्चास्य यांश्चान्यान्परिपृच्छसि ॥१२॥
पाद्यंपरिगृहाणेदमासनं च नृपात्मज ।
मृगान्यञ्चशतं चैव प्रातराशं ददानि ते ॥१३॥
ऐणेयान्पुषतान्न्यङकून्हरिणाञ्शरभाञ्शशान् ।
ऋक्षान्रुरूञ्शम्बरांश्च गवयांश्च मृगान्वहुन् ॥१४॥
वराहान्महिषांश्चैव पाश्चान्या मृगजातयः।
प्रदास्यति स्वयं तुभ्यं कुन्तीपुत्रीयुधिष्ठिरः॥१५॥
॥ जयद्रथ उवाच ॥
कुशलं प्रातराशस्य सर्वे मे दित्सितं त्वया ।
एहि मे रथमारोह सुखमाप्नुहि केवलम् ॥१६॥
गतश्रीकान्हृतराज्यान्कृपणान्गतचेतसः।
अरण्यवासिनः पार्थान्नानुरोद्धुंत्वमर्हसि ॥१७॥
न वै प्राज्ञागतश्रोक भर्तारमुपयुञ्जते।
युञ्जानमुपयुञ्ञीत न श्रियः प्रक्षये वसेत् ॥१८॥
श्रिया विहीना राष्ट्राच्चविनष्टाः शास्वतीः समाः ।
अलं ते पाण्डुपुत्राणां भक्त्या क्लोशमुपासितुम् ॥१९॥
भार्यामे भव सुश्रोणि त्यजैनान्सुखमाप्नुहि।
अखिलान्सिन्धुसौवीरानाप्नुहि त्वं मया सह ॥२०॥
॥ वैशंपायन उवाच ॥
इत्युक्त्वा सिन्धुराजेन वाक्यं हृदयकम्पनम् ।
कृष्णा तस्मादपाक्रामद्देशात्स भ्रुकुटीमुखी ॥२१॥
अवमत्यास्य तद्वाक्यमाक्षिप्य च सुमध्यमा ।
मैवमित्यब्रवीत्कृष्णा लज्जस्वेति च सैन्धवम् ॥२२॥
सा काङ्क्षमाणा भर्तृ्ृणामुपायातमनिन्दिता ।
विलोभयामास परं वाक्यैर्वाक्यानि युंजतो ॥२३॥
॥ इति महाभारते द्रौपदीप्रमाथेचतुर्थः सर्गः ॥४॥
<MISSING_FIG href="../books_images/U-IMG-1702637977Screenshot2023-08-08170946.png"/>
॥ वैशंपायन उवाच ॥
सा रोषरागोपहतेन वल्गुना सरागनेत्रेण नतोन्नतभ्रुवा।
मुखेन विस्फूर्यसुवीरराष्ट्रपं ततोब्रवीत्तंद्रुपदात्मजा पुनः॥१॥
यदास्विनस्वीक्ष्णविषान्महारथानतिब्रुवन्मूढ न लज्जसे कथम्।
महेन्द्रकल्पान्निरतान्स्वकर्मसु स्थितान्समूहेष्वपि यक्षरक्षसाम् ॥२॥
न किंचिदीडयं प्रवदंति पाषावनेचरं वा गृहमेधिनं वा ।
तपस्विनं संपरिपूर्णविदयं भाषन्ति हैवं श्वनराः सुवीर॥३॥
अहं तु मन्ये तव नास्ति कश्चिदेतादृशे क्षत्रियन्निवेशे।
यस्त्वद्य पातालमुखे पतन्तं पाणौ गृहीत्वा प्रतिसंहरेत ॥४॥
नागं प्रभिन्नं गिरिकूटकल्पमुपत्यकां हैमवतीं चरन्तम्।
दण्डीव यूथादपसेधसे त्वं यो जेतुमाशंससि धर्मराजम् ॥५॥
बाल्यात्प्रसुप्तस्य महाबलस्यसिंहस्य पक्ष्माणि मुखाल्लुनासि ।
पदा समाहत्य पलायमानः क्रुद्धंयदा द्रक्ष्यसि भीमसेनम् ॥६॥
महाबलं घोरतरं प्रबृद्धं जातंहरिं पर्वतकन्दरेषु ।
प्रसुप्तमुग्रंप्रपदेन हन्सि यः क्रुद्धमायोत्स्यसि जिष्णुमुग्रम् ॥७॥
कृष्णोरगौतीक्ष्णमुखौद्विजिव्हौमत्तःपदाक्रामसि पुच्छदेशे।
यः पाण्डवाभ्यां पुरुषोत्तमाभ्यां जघन्यजाभ्यां प्रयुयुत्ससे त्वम् ॥ ८॥
यथा च वेणुः कदलीनलोवा फलत्यभावाय न भूतयेत्मनः।
तथैव मां तैः परिरक्ष्यमाणामादास्यसे कर्कटकीव गर्भम् ॥ ९॥
॥ जयद्रथ उवाच ॥
जानामि कृष्णे विदितं ममैतद्यथाविधास्ते नरदेवपुत्राः।
न त्वेवमेतेन विभीषणेन शक्या वयं त्रासयितुंत्वयाद्य ॥ १० ॥
वयं पुनः सप्तदशेषु कृष्णे कुलेषु सर्वेनवमेषु जाताः।
षड्भ्यो गुणेभ्योधिकाविहीनान्मन्यामहे द्रौपदि पाण्डुपत्रान् ॥ ११॥
सा क्षिप्रमातिष्ठ गजं रथं वान वाक्यमात्रेण वयं हि शक्याः।
आशंस वा त्वं कृपणं वदन्ती सौवीरराजस्य पुनः प्रसादम् ॥ १२॥
॥ द्रौपद्युवाच ॥
महाबला किं न्विह दुर्बलेव सौवीरराजस्य मताहमस्मि।
नाहं प्रमाथादिह संप्रतीता सौवीरराजकृपणं वदेयम् ॥ १३ ॥
यस्या हि कृष्णौ पदवीं चरेतां समास्थिताविकरथे समेतौ।
इन्द्रोपि तां नापहरेत्कथंचिन्मनुष्यमात्रः कृपणः कुतोन्यः॥ १४॥
यथा किरीटी परवीरधाती निघ्नन्रथस्थो द्विषतां मनांसि ।
मदन्तरे त्वद्ध्वजिनीं प्रवेष्टाकक्षंदहन्नग्निरिवोष्णगेषु ॥ १५ ॥
जनार्दनश्चान्धकवृष्णिवीरो महेष्वासाः कैकयश्चापि सर्वे ।
एते हि सर्वे मम राजपुत्राः प्रहृष्टरूपाः पदवीं चरेयुः॥१६॥
मौर्वीविसृष्टाः स्तनयित्नुघोषाः गाण्डीवमुक्तास्त्वतिवेगवन्तः ।
हस्तं समाहत्य धनंजयस्य भीमाः शारा घोरतरं नदन्ति ॥१७॥
गाण्डीवमुक्तांश्च महाशरौघाधान्यतंगसंघानिव शीघ्रवेगान् ।
यदा द्रष्टास्यर्जुनेन प्रयुक्तांस्तदा स्वबुद्धि प्रतिनिन्दितासि ॥१८॥
सशङ्खघोषः सतलत्रघोषो गाण्डीवधन्वा मुहुरुद्वहंश्च।
यदा शरानर्पयिता तवोरति तदा मनस्ते किमिवाभविष्यत् ॥१९॥
गदाहस्तं भीममभिद्रवन्तं माद्रीपुत्रौ संपतन्तौदिशश्च।
अमर्षजं क्रोधविषं वमन्तौ दृष्ट्वाचिरं तापमुपैप्यसेधम ॥२०॥
यथा चाहं नातिचरे कथंचित्पतीन्महार्दान्मनसापि जातु ।
तेनाद्य सत्येन वशीकृतं त्वंद्रष्टास्मि पार्थैःपरिकृष्यमाणम् ॥२१॥
न संभ्रमं गन्तुमहं हि शक्या त्वयानृशंसेन विकृष्यमाणा ।
समागता हं हि कुरुप्रवीरैःपुनर्वनंकाम्यकमागतास्मि ॥ २२॥
॥ वैशंपायन उवाच ॥
सा ताननुप्रेक्ष्य विशालनेत्रा जिघृक्षमाणानवभर्त्सयन्ती।
प्रोवाच मा मा स्पृशतेति भीता धौम्यं प्रचुक्रोश पुरोहितं सा ॥२३॥
जग्राह तामुत्तरवस्त्रदेशे जयद्रथस्तं समवाक्षिपत्सा ।
तया समाक्षिप्ततनुःस पापः पपात शाखीव निकृत्तमूलः ॥ २४॥
प्रगृह्यमाणां तुमहाजवेन मुहुर्विनिः श्वस्य च राजपुत्री।
सा कृष्यमाणा रथमारुरोह धौम्यस्य पादावभिवाद्य कृष्णा ॥ २५॥
॥ धौम्य उवाच ॥
नेयं शक्या त्वया नेतुमविजित्य महारथान् ।
धर्मं क्षत्रस्य पौराणमवेक्षस्वजयद्रथ ॥२६॥
क्षुद्रं कृत्वा फल पापं त्वं प्राप्स्यसि न संशयः।
आसाद्यपाण्डवान्वोरान् धर्मराजपुरोगमान् ॥ २७ ॥
इत्युक्त्वा हियमाणां तां राजपुत्रीं यदास्विनीम् ।
अन्वगच्छत्तदा धौम्यःपदातिगणमध्यमः॥ २८ ॥
॥ इति महाभारते द्रौपदीप्रमाथे पञ्चमः सर्गः ॥ ५ ॥
<MISSING_FIG href="../books_images/U-IMG-1702638464Screenshot2023-08-08170946.png"/>
॥ वैशंपायन उवाच ॥
ततो दिशः संप्रविहृत्य पार्था मृगान्वराहान्महिषांश्च हत्वा।
धनुर्धराः श्रेष्ठतमाः पृथिव्यां पृथक् चरन्तः सहिता बभूवः॥१॥
ततो मृगव्यालगणानुकीर्णे महावनं तद्विहगोपघुष्टम्।
भ्रातॄंश्च तानभ्यवदद्युधिष्ठिरः श्रुत्वा गिरो व्याहरतां मृगाणाम् ॥२॥
आदित्यदीप्तांदिशमभ्युपेत्य मृगा द्विजाः क्रूरमिमे वदन्ति।
आयासमुग्रंप्रतिवेदयन्तो महावनं शत्रुभिर्बध्यमानम्॥३॥
क्षिप्रं निवर्तध्वमलं मृगेण मनो हि मे दूयते दह्यते च।
बुद्धिंसमाच्छाद्य च मे समन्युरुद्भूयतो प्राणपतिः शरीरे ॥४॥
सरः सुपर्णेन हतोरगं यथा राष्ट्रं यथाराजकमात्तलक्ष्मि।
एवंविधं मे प्रतिभाति काम्यकं शौण्डैर्यथा पीतरसश्च कुम्भः ॥५॥
ते सैन्धवैरत्यनिलोग्रवेगैर्महाजवैर्वाजिभिरुह्यमानाः ।
फुक्तैर्बृहद्भिःसुरधैर्नृवीरास्तदाश्रमायाभिमुखा बभूवुः ॥६॥
तेषां तु गोमायुरनल्पघोषो निवर्ततां वाममुपेत्य पार्श्वम् ।
प्रत्याहरत्तत्प्रविमृश्यराजाप्रोवाच भीमं च धनंजयंच ॥७॥
यथा वदत्येष विहीनयोनिः शालावृकोवाममुपेत्य पार्श्वम्।
सुव्यक्तमस्मानवमन्य पापैःकृतोभिमर्दः कुरुभिः प्रसह्य॥८॥
इत्येव ते तद्वनमाविशन्तोमहत्यरण्ये मृगयां चरित्वा।
बालामपश्यन्त तदा रुदन्तीं धात्रेयिकां प्रेष्यवधूं प्रियायाः ॥९॥
तामिन्द्रसेनस्त्वरितोभिसृत्य रथादवप्लुत्य ततोभ्यधावत् ।
प्रोवाच चैनां वचनं नरेन्द्र धात्रेयिकामार्त्ततरस्तदानीम् ॥१०॥
किं रोदिवि चं पतिता धरण्यां किं ते मुखं शुष्यति दोनवर्णम् ।
कच्चिन्न पिः सुनृदोसकृद्धिः प्रमाथिता द्रौपदी राजपुत्री ॥११॥
अचिन्त्यरूपा सुविशालनेत्रा शरीरतुल्या कुरुपुंगवानाम्।
यद्येव देवी पुृथिवीं प्रविष्टा दिवं प्रपन्नाप्यथवा समुद्रम् ॥१२॥
तस्या गमिष्यन्ति पदे हि पार्थास्तथा हि संतप्यति धर्मपुत्रः ।
को हीदृशानामरिमर्दनानां क्लेशक्षमाणामपराजितानाम् ॥१३॥
प्राणैः समाभिष्टतमां जिहोर्षेदनुत्तमं रत्नमिव प्रमूढः।
न बुध्यते नाथवतीमिहाद्यवहिश्चरं हृदयं पाण्डवानाम् ॥१४॥
कस्याद्य कायं प्रतिभिद्यघोरा महीं प्रवेक्ष्यन्ति शिताः शराग्प्याः ।
मा त्वंशुचस्तां प्रति भीरु विद्धि यथाद्य कृष्णा पुनरेष्यतीति ॥१५॥
निहत्य सर्वान्द्रिषतः समग्रान्यार्थाः समेष्यन्त्यथ याज्ञसेन्या ।
अथाब्रवीच्चारूमुखं विमृज्य धात्रेयिका सारथिमिन्द्रसेनम् अधरी॥१६॥
जयद्रथेनापहृता प्रमथ्य पञ्चेन्द्रकल्पान्परिभूय कृष्णा।
तिष्ठन्ति वर्त्मानि नवान्यमूनि बृक्षाश्च लम्बन्ति तथैव भग्नाः॥१७॥
आवर्तयध्वं ह्यनुयात शीघ्रं न दूरयातैव हि राजपुत्री ।
संनह्यध्वंसर्वएवेन्द्रकल्पा महान्ति चारूणि च दंशितानि ॥१८॥
गृह्णीत चापानि महाधनानि दारांश्च शीघ्रंपदवीं चरध्वम् ।
पुरा हि निर्भर्त्सनदण्डमोहिता प्रमोहचित्ता वदनेन शुष्यता ॥१९॥
ददाति कस्मैचिदनर्हते तनुंवराज्यपूर्णामिव भस्मनि स्रुचम्।
पुरा वुपाग्नाविव हूयते हविः पुरा श्मशाने स्रगिवोपविध्यते ॥२०॥
पुरा च सोमोध्वरगोवलिह्यते शुना यथा विप्रजने प्रमोहिते।
महत्यरण्ये मृगयां चरित्वा पुरा शृगालो नलिनीं विगाहते ॥ २१॥
मा वः प्रियायाः सुनसं सुलोचनंचन्द्रप्रभाभं वदनं प्रसन्नम् ।
स्पृश्याच्छुमं कश्चिदकृत्यकारी श्वा वैपुरोडाशभिवाध्वरस्थम् ॥
एतानि वर्त्मान्यनुयात शीघ्रंमा वः कालः क्षिप्रमिहात्यगाद्वै॥ २२॥
॥ युधिष्ठिरउवाच ॥
भद्रेप्रतिक्राम नियच्छ वाचं मास्मत्सकाशेपरुषाण्यवोचः॥
राजानो वा यदि वा राजपत्राबलेन मत्ता वञ्चनां प्राप्नुवन्ति ॥२३॥
॥ वैशंपायन उवाच ॥
एतावदुक्त्वा प्रययुर्हि शीघ्रंतान्येवं वर्त्मान्यनुवर्तमानाः।
मुहुर्मुहुर्व्यालवदुच्छ्वसन्तो ज्यां विक्षिपन्तश्च महाधनुर्भ्यः ॥ २४ ॥
ततोपश्यंस्तस्य सैन्यस्य रेणुमुद्धूतं वैवाजिखुरप्रणुन्नम् ।
पदातीनां मध्यगतं च धौम्यं विक्रोशन्तं भीममभिद्रवेति ॥ २५ ॥
ते शान्त्व्यधौम्यं परिदीनसत्त्वाः सुखं भवानेत्विति राजपुत्राः ।
श्येना यथेवामिषसंप्रयुक्ता जवेन तत्सैन्यमथाभ्यधावन् ॥ २६॥
तेषां महेन्द्रोपमविक्रमाणां संरब्धानां धर्षणाद्याज्ञसेन्याः ।
क्रोधःप्रजज्वाललयद्रथं च दृष्ट्वाप्रियां तस्य रथे स्थितां च ॥२७॥
प्रचुक्रुशुश्चाप्यथसिन्धुराजं वृकोदरश्चैवधनंजयश्च ।
यप्नौ च राजा च महाधनुर्धरास्ततो दिशःसंमुमुहुः परेषां ॥२८॥
॥ इति महाभारते द्रौपदीप्रमाये षष्ठः सर्गः ॥ ६॥
<MISSING_FIG href="../books_images/U-IMG-1702639035Screenshot2023-08-08170946.png"/>
॥ वैशंपायन उवाच ॥
ततो घोरतरः शब्दोवने समभवत्तदा ।
भीमसेनार्जुनौदृष्ट्वा क्षत्रियाणाममर्षिणाम् ॥१॥
तेषां ध्वजाग्राण्यभिवीक्ष्य राजा स्वयंदुरात्मा कुरुपुंगवानां ।
जयद्रथो याज्ञसेनीमुवाच रथे स्थितां भानुमतीं हतौजाः॥२॥
आयान्तीमे पञ्चरथाः महान्तो मन्ये च कृष्णेपतयस्तवैते ।
सा जानती ख्यापय नः सुकेशि परं परं पाण्डवानां रथस्थं ॥३॥
॥ द्रौपद्युवाच ॥
कि ते ज्ञातैर्मूढमहाधनुर्धरैरनायुष्यं कर्म कृत्वातिघोरम्।
एते वीराः पतयो मे समेता न वः शेषः कश्चिदिहास्ति युद्धे ॥४॥
आख्यातव्यं त्वेवसर्वेमुमूर्षोर्मया तुभ्यं पृष्ट्या धर्म एषः ।
न मे व्यथा विद्यते त्वद्भयंवा संपदयन्त्याः सानुजंधर्मराजम् ॥५॥
यस्य ध्वजाग्रे नदतो मृदङ्गौनन्दोपनन्दौ मधुरौ युक्तरूपौ ।
एतं स्वधर्मार्थविनिश्चयज्ञं सदा जनाः कृत्यवन्तोनुयान्ति ॥६॥
य एषःजाम्बूनदशुद्धगौरः प्रचण्डघोणस्तनुरायताक्षः ।
एनं कुरुश्रेष्ठतमं वदन्ति युधिष्ठिरंधर्मसुतं पतिं मे ॥७॥
अप्येष शत्रोः शरणागतस्य दद्यात्प्राणान्धर्मचारी नृवीरः ।
परेह्येनं मूढ जवेन भूतये त्वमात्मनः प्राञ्जलिर्न्यस्तशास्त्रः ॥८॥
अथाप्येनं पश्यसितंरथस्थं महाभुजं शालमिव प्रवृद्धम्।
सन्दंष्टौष्ठं भ्रुकुटीसंहतभ्रुवं वृकोदरोनाम पतिर्ममैषः ॥९॥
आजानेया बलिनः साधुदान्ता महाबलाः शूरमुदावहन्ति ।
एतस्य कर्माण्यतिमानुषाणि भीमेति शब्दोस्य गतः पृथिव्याम् ॥१०॥
नास्यापराधाः शेषमवाप्नुवन्ति नायं वैरं विस्मरते कदाचित् ।
वैरस्यान्तं संविधायोपयाति पश्चाच्छान्तिं न च गच्छत्यतीव ॥११॥
धनुर्धराग्र्योधृतिमान्यशस्वो जितेन्द्रियो वृद्धसेवी नृवीरः।
भ्राताच शिष्यश्च युधिष्ठिरस्य धनंजयो नाम पतिर्ममैषः ॥१२॥
यो वै न कामान्न भयान्न लोभात्त्यजेद्धर्मेन नृशंस्यं च कुर्यात् ।
स रष वैश्वानरतुल्यतेजाः कुन्तोसुतः शत्रुसहः प्रमाथी।
वः सर्वधर्मार्थविनिश्चयज्ञोभयार्त्तानांभयहर्ता मनीषी॥१३॥
यस्योत्तमं रूपमाहुः पृथिव्यां यं पाण्डवाः परिरक्षन्ति सर्वे ।
प्राणैर्गरीयांसमनुव्रतं वै स एष वीरो नकुलः पतिम॥१४॥
यः खड्गयोधी लघुचित्रहस्तो महांश्च धीमान्सहदेवद्वितीयः ।
यस्यादकर्म द्रक्ष्यसेमूढसत्त्व शतक्रतो र्वा दैत्यसेनासु संख्ये ॥१५॥
शूरः कृतास्त्रो मतिमान्मन्स्वीप्रियंकरोधर्मसुतस्य राज्ञः।
य एषचन्द्रार्कसमानतेजा जघन्यजःपाण्डवानां प्रियश्च ॥१६॥
बुद्ध्चासमो यस्य नरो न विदयते वक्ता तथा सत्सु विनिश्चयज्ञः।
स एषः शूरो नित्यममर्षणश्चधीमान्प्राज्ञःसहदेवः पत्तिर्मे॥१७॥
त्यजेत्प्राणान्प्रविशेद्धव्यवाहं न त्वेवैष व्याहरेद्धर्मवाह्यम् ।
सदा मनस्वी क्षत्रधर्मे रतश्च कुन्त्याः प्राणैरिष्टतमोनृवीरः ॥ १८॥
विशीर्यन्तों नावभिवार्णवान्ते रत्नाभिपूर्णोमकरस्य पृष्ठे ।
सेनां तवेमां हतसर्वयोधां विक्षोभितां द्रक्ष्यसि पाण्डुपुत्रैः ॥१९॥
इत्येते वै कथिताः पाण्डुपुत्रा यांस्त्वं मोहादवमन्य प्रवृत्तः ।
यद्येतेभ्यो मुच्यसेरिष्टदेहः पुनर्जन्म प्राप्स्यसे जीव एव ॥२०॥
॥ वैशंपायन उवाच ॥
ततः पार्थाः पञ्चपञ्चेन्द्रकल्यास्त्यक्त्वात्रस्थान्प्राञ्जलों स्तान्पदातीन् ।
रथानीकं शरवर्षान्धकारं चक्रुःक्रुद्धाः सर्वतः संनिगृह्य ॥२१॥
॥ इति महाभारते द्रौपदीप्रमाथेसप्तमः सर्गः ॥७॥
॥ वैशंपायन उवाच ॥
संतिष्ठत प्रहरत तूर्णे विपरिधावत ।
इति स्म सैन्धवो राजा चोदयामास तान्नृपान् ॥१॥
ततो घोरतरः शब्दोरणे समभवत्तदा।
भीमार्जुनयमान्दृष्ट्वासैन्यानां सयुधिष्ठिरान् ॥२॥
शिविसौवीरसिन्धूनां विपादश्चाप्यजायत ।
तान्दृष्ट्वापुरुषव्याघ्रान्व्याघ्रानिव बलोत्कटान् ॥३॥
हेमचित्रसमुत्सेधां सर्वशैक्यायसीं गदाम् ।
प्रगृह्याभ्यद्रवद्भीमः सैन्धवंकालचोदितम् ॥४॥
तदन्तरमथावृत्य कोटिकाश्योभ्यहारयत् ।
महता रथवंशेन परिवार्य वृकोदरम् ॥५॥
शक्तितोमरनाराचैर्वीरबाहुप्रचोदितैः ।
कीर्यमाणोपि बहुभिर्नस्म भीमो व्यकम्पत ॥६॥
गजं तु सगजारोहं पदातींश्च चतुर्दश।
जघान गदया भीमः सैन्धवध्वजिनीमुखे॥७॥
पार्थः पञ्चशताञ्शूरान्पार्वतीयान्महारयान् ।
परीप्समानः सौवीरं जघान ध्वजिनीमुखे ॥८॥
राजा स्वयं सुवीराणां प्रवराणां प्रहारिणाम् ।
निमेषमात्रेण शातं जघान समरे तदा ॥९॥
ददृशेनकुलस्तत्र रथात्प्रस्कन्द्यखड्गधृक्।
शिरांसि पादरक्षाणां वीजवत्प्रवपन्मुहुः ॥१०॥
सहदेवस्तु सन्धाय रथेन गजयोधिनः ।
पातयामास नाराचैर्द्रुमेभ्य इव वर्हिणः ॥११॥
ततस्त्रिगर्तः सधनुरवतीर्य महारथात् ।
गदया चतुरो वाहान् राज्ञस्तस्य तदावधीत् ॥१२॥
तपभ्यासगतं राजापदातिं कुन्तिनन्दनः।
अर्धचन्द्रेण वाणेन विव्याधोरसि धर्मराट् ॥१३॥
स भिन्नहृदयो वोरो वक्त्राच्छोणितमुद्वमन् ।
पपाताभिमुखः पार्थं छिन्नमूल इव द्रुमः ॥१४॥
इन्द्रसेनद्वितीयस्तु रथात्प्रस्कन्द्यधर्मराट् ।
हताश्चसहदेवस्य प्रतिपेदे महारथम् ॥१५॥
नकुलं त्वभिसंप्राप्य क्षेमंकरमहामुखौ।
उभावुभयतस्तीक्ष्णैःशरवर्षैरवर्षताम् ॥१६॥
तोमरैरभिवर्षन्तौजीमूताविव वार्षिकौ।
एकैकेन विपाटेन जघ्रे माद्रवतीसुतः ॥ १७॥
त्रिगर्तराजःसुरथस्तस्याथरथधूर्गतः ।
रथमाक्षेपयामास गजेन गजयानवित् ॥ १८ ॥
नकुलस्त्वपभी स्तस्माद्रथाच्चर्मासिपाणिमान् ।
उदशभ्राम्य स्थानमास्थाय तस्थौ गिरिरिवाचलः ॥१९॥
सुरथस्तं गजवरं वधाय नकुलस्य तु।
प्रेषयामास सक्रोधमभ्युच्छ्रितकरं ततः ॥ २०॥
नकुलस्तस्य नागस्य समीपपरिवर्तिनः ।
सविषाणं भुजंमूले खड्गेन निरकृन्तत॥ २१॥
स विनद्य महानादंगजःकिङ्किणीभूषणः।
पतन्नवाक्शिरो भूमौ हस्त्यारोहानपोथयत्॥ २२ ॥
स तत्कर्म महत्कृत्वाशूरो माद्रवतीसुतः।
भीमसेनरथं प्राप्य शर्म लेभेमहारथः॥२३॥
भीमस्त्वापततो राज्ञःकोटिकाश्यस्य संयुगे।
सूतस्य नुदतो वाहान्क्षुरेणापाहरच्छिरः ॥२४॥
न बुबोध हतं सूतं स राजा बाहुशालिना।
तस्याश्चाव्यद्रवन्संख्ये हतसूता इतस्ततः ॥२५॥
विमुखं हतसूतं तं भीमः प्रहरतां वरः।
जघान तलयुक्तेन प्रासेनाभ्येत्य पाण्डवः ॥२६॥
द्वादशानां तु सर्वेषां सौवीराणां धनंजयः ।
चकर्त निशितैर्भल्लैर्धनूंपि च शिरांसि च ॥२७॥
शिवीनिक्ष्वाकुमुख्यांश्चत्रिगर्तान्सैन्धवानपि ।
जघानातिरथः संख्ये वाणगोचरमागतान् ॥२८॥
सादिताः प्रत्यदृश्यन्त बहवः सव्यसाचिना ।
सपताकाश्च मातङ्गाः सध्वजाश्च महारथाः॥२९॥
प्रच्छाद्य पृथिवीं तस्थुःसर्वमायोधनं प्रति ।
शरीराण्यशिररकानि विदेहानि शिरांसि च ॥३०॥
श्वगृध्रकड्ककाकोलश्येनगोमायुवायसाः ।
अतृप्यंस्तत्र वीराणां हतानां मांसशोणितैः॥३१॥
हतेषु तेषु वीरेषु सिन्धुराजोजयद्रथः।
विमुच्य कृष्णां संत्रस्तः पलायनमनाभवत् ॥ ३२॥
स तस्मिन्संकुले सैन्ये द्रौपदीमवतार्य ताम् ।
प्राणप्रेप्सुरुपाधावद्वनंयेन नराधिषः॥३३॥
द्रौपदीं धर्मराजस्तुदृष्ट्वाधौम्यपुरस्कृताम् ।
माद्रीपुत्रेण वीरेण रथमारोपयत्तदा ॥३४॥
ततस्तद्विद्रुतं सैन्यमपयाते जयद्रथे।
आदिश्यादिश्यनाराचैराजघान वृकोदरः ॥३५॥
सव्यसाची तु तं दृष्ट्वापलायन्तं जयद्रथम् ।
वारयामास निघ्रन्तं भीमंसैन्धवसैनिकान् ॥३६॥
॥ अर्जुनउवाच ॥
यस्यापराधात्प्राप्तोयमस्मान्क्लेशोदुरासदः।
तमस्मिन्समरोद्देशे न पश्यामि जयद्रथम् ॥३७॥
तमेवान्विषभद्रं ते किं ते योधैर्निपातितैः।
अनामिषमिदं कर्म कथंवा मन्यते भवान् ॥३८॥
॥ वैशंपायन उवाच ॥
इत्युक्तो भोमसेनस्तु गुडाकेशेन धीमता ।
युधिष्ठिरमभिप्रेक्ष्य वाग्मी वचनमव्रवीत् ॥३९॥
हतप्रवीरारिपवो भूयिष्ठं विद्रुता दिशः।
गृहीत्वा द्रौपदीं राजन्निवर्ततु भवानितः ॥४०॥
यमाभ्यां सह रजेन्द्र धौम्येन च महात्मना ।
प्राप्याश्रमपदं राजन्द्रौपदीं परिशान्त्वय ॥४१॥
न हि मे मोक्ष्यते जीवन्मूढः सैन्धवर्को नृपः।
पातालतलसंस्थोपि यदि शक्रोस्य सारथिः ॥४२॥
॥ युधिष्ठिर उवाच॥
न हन्तव्यो महावाहो दुरात्मापि स सैन्धवः।
दुःशलामभिसंस्मृत्य गान्धारीं च यशस्विनीम् ॥४३॥
॥ वैशंपायन उवाच ॥
तच्छ्रुत्वाद्रौपदी भीममुवाच व्याकुलेन्द्रिया ।
कुपिता हीमती प्राज्ञापती भीमार्जुनावुभौ॥ ४४॥
कर्तव्यं चेत्प्रियं मद्यं वध्यः स पुरुषाधमः ।
सैन्धवापसदः पापोदुर्मतिः कुलपांसनः ॥४५॥
भार्याविहर्ता वैरीयो यश्च राज्यहरो रिपुः ।
याचमनोपि संग्रामे न मोक्तव्यः कथंचन ॥४६॥
इत्युक्तौतौनरव्याघ्रौययतुर्यत्र सैन्धवः ।
राजानिवतृते कृष्णामादाय सपुरोहितः ॥४७॥
स प्रविश्याश्रमपदं व्यपविद्धवृषीमठम्।
मार्कण्डेयादिभिर्विप्रैरनुकीर्णे ददर्श ह ॥ ४८ ॥
द्रौपदीमनुशोचद्भिर्बाह्मणैस्तैः समाहितैः।
समिपाय महाप्राज्ञः सभार्यो भ्रातृमध्यगः॥४९॥
ते स्म तं मुदिता दृष्ट्वा पुनः प्रत्यागतं नृपम्।
जित्वा तान्सिन्धुसौवीरान्द्रौपदीं चाहृतां पुनः॥५०॥
स तैः परिवृतो राजा तत्रैवोपविवेश ह।
प्रविवेशाश्रमं कृष्णा यमाभ्यां सह भाविनी॥५१॥
भीमसेनार्जुनौ चापि श्रुत्वा क्रोशगतं रिपुम्।
स्वयमश्वांस्तुदन्तौतौ जवेनैवाभ्यधावताम् ॥५२॥
इदमत्यद्भुतं चात्र चकार पुरुषोर्जुनः ।
क्रोशमात्रगतानश्वान्सैन्धवस्य जघान यत् ॥५३॥
स हि दिव्यास्त्रसंपन्नःकृच्छ्रकालेप्यसंभ्रमः ।
अकरोद्दुष्करं कर्म शरैरस्त्राभिमन्त्रितैः॥५४॥
ततोभ्यधावतां वीरावुभौभीमधनंजयौ।
हताश्चसैन्धवं भीतमेकं व्याकुलचेतसम् ॥५५॥
सैन्धबस्तु हतान्दृष्ट्वातथाश्वान्स्वान्सुदुःखितः ।
अतिविक्रमकर्माणिकुर्वाणं च धनंजयम्।
पलायनकृतोत्साहः प्राद्रवद्येन वै वनम् ॥५६॥
सैन्धवं त्वभिसंप्रेक्ष्यपराक्रान्तं पलायनम् ।
अनुपाय महावाहुः फाल्गुनोवाक्यमव्रवोत् ॥५७॥
अनेन वीर्येण कथं स्त्रियं प्रार्थयसे बलात् ।
राजपुत्र निवर्तस्वन ते युक्तंपलायनम् ॥५८॥
कथं ह्यनुचरान्हित्वा शत्रुमध्ये पलायसे ।
इत्युच्यमानः पार्थेन सैन्धवो न न्यवर्तत ॥५९॥
तिष्ठ तिष्ठेति तंभीमः सहसाभ्यद्रवद्बली ।
मा वधीरिति पार्थस्तं दयावान्प्रत्यभाषत ॥६०॥
॥ इति महाभारते द्रौपदीप्रमाधेष्टमः सर्गः ॥ ८॥
<MISSING_FIG href="../books_images/U-IMG-1702641176Screenshot2023-08-08170946.png"/>
॥ वैशंपायन उवाच ॥
जयद्रथस्तु संप्रेक्ष्य भ्रातरावुद्यतायुधौ।
प्राधावत्तूर्णमव्यग्रोजीवितेप्सुः सुदुःखितः ॥१॥
तंभीमसेनं धावन्तमवतीर्यरथाद्बली ।
अभिद्रुत्य निजग्राह केशपक्षे ह्यमर्षणः ॥२॥
समुद्यम्यच तं भीमो निष्पिपेष महीतले ।
शिरोगृहीत्वा राजानं ताडयामास चैव ह ॥३॥
पुनः संजीवमानस्य तस्योत्पतितुमिच्छतः।
पदा मूर्ध्निमहाबाहुः प्राहरद्विलपिष्यतः ॥४॥
तस्य जानु ददौ भीमो जघ्नेचैवमरत्निना।
स मोहमगमद्राजाप्रहारवरपीडितः ॥५॥
विरोषं भीमसेनं तु वारयामास फाल्गुनः ।
दुःशलायाः कृते राजायत्तदाहेति कौरव ॥६॥
॥ भीम उवाच ॥
नायंपापसमाचारो मत्तो जीवितुमर्हति ।
कृष्णायास्तदनर्हायाःपरिक्लेष्टानराधमः ॥७॥
किं तु शक्यं मया कर्तुंयद्राजा सततं घृणी ।
त्वंच बालिशया वुद्ध्यासदैवास्मान्प्रबाधसे ॥८॥
एवमुक्त्वा सटास्तस्य पञ्च चक्रे वृकोदरः।
अर्थचन्द्रेण वाणेन किंचिदव्रवतस्तदा ॥९॥
विकत्थयित्वाराजानं ततः प्राहवृकोदरः।
जीवितुं चेच्छसे मूढ हेतुं मे गदतः शृणु ॥१०॥
दासोस्मीति त्वया वाच्यं संसत्सु च सभासु च।
एवं ते जीवितं दद्यामेष युद्धजितो विधिः ॥ ११ ॥
एवमस्त्विति स राजाकृष्णमाणोजयद्रथः।
प्रोवाच पुरुषव्याघ्रंभीममाहवशोभनम् ॥१२॥
तत एनं विचेष्टन्तं बद्ध्वापार्थोवृकोदरः।
रथमारोपयागास विसंज्ञं पांसुगुण्ठितम् ॥१३॥
ततस्तंरथमास्थाय भीमः पार्थानुगस्तदा ।
अभ्येत्याश्रममध्यस्थमभ्यगच्छद्युधिष्ठिरम् ॥१४॥
दर्शयामास भीमस्तु तदवस्थं जयद्रथम् ।
तंराजाप्राहसदृष्ट्वामुच्यतामिति चाब्रवीत् ॥१५॥
राजानं चाब्रवीद्धीमो द्रौपद्याःकथ्यतामिति ।
दासभावं गतो ह्येष पाण्डूनां पापचेतनः ॥१६॥
तमुवाच ततो ज्येष्ठो भ्राता सप्रणयं वचः।
मुञ्चेममधमाचारं प्रमाणा यदि ते वयम् ॥१७॥
द्रौपदी चाब्रवीद्भीममभिप्रेक्ष्ययुधिष्ठिरम् ।
दासोयं मुच्यतां राज्ञस्त्वया पंचसटः कृतः ॥१८॥
स मुक्तोभ्येत्य राजानमभिवाद्य युधिष्ठिरम् ।
बन्दे विह्वलो राजंस्तांश्चदृष्टः मुनींस्तदा ॥१९॥
तमुवाच घृणी राजा धर्मपुत्रो युधिष्ठिरः।
तथा जयद्रथं दृष्ट्वागृहीतं सव्यसाचिना ॥२०॥
अदास गच्छ मुक्तोसि मैवं कार्षीः पुनः क्वचित् ।
स्त्रोकामं वा धिगस्तु त्वांक्षुद्र क्षुद्रसहायवान् ।
एवंविधं हि कः कुयौत्वदन्यः पुरुषाधम ॥२१॥
गतसत्त्वमिव ज्ञात्वा कर्तारमशुभस्य तम् ।
संप्रेक्ष्य भरतश्रेष्ठः कृपां चक्रे नराधिपः ॥२२॥
धर्मे ते वर्धतां बुद्धिर्मा चाधर्मेमनः कृथाः ।
साश्वः सरथपादातिः स्वस्ति गच्छ जयद्रथ ॥२३॥
एवमुक्तस्तु सब्रोडंतूष्णीं किंचिदवाङ्मुखः।
जगाम राजन्दुःखार्त्तोगङ्गाद्वाराय भारत ॥२४॥
<MISSING_FIG href="../books_images/U-IMG-1702734128Screenshot2023-08-08170946.png"/>
॥ शकुन्तलोपाख्यानम् ॥
॥ वैशंपायन उवाच ॥
पौरवाणां वंशकरो दुष्यन्तो नाम वीर्यवान् ।
पृथिव्याश्चतुरन्ताया गोप्ता भरतसत्तम ॥१॥
चतुर्भागं भुवः कृत्स्नंयो भुङ्क्तेमनुजेश्वरः।
समुद्रावरणांश्चापि देशान्स समितिंजयः॥ २॥
आम्लेछावधिकान्सर्वान्सभुङ्क्तेरिपुमर्दनः ।
रत्नाकरसमुद्रान्तांश्चातुर्वर्ण्यजनावृतान् ॥३॥
न वर्णसंकरकरो न कृष्याकरकृज्जनः ।
न पापकृत्कश्चिदासीत्तस्मिन्रीजनि शासति ॥४॥
धर्मे रतिं सेवमाना धर्मार्थावभिपेदिरे।
तदा नरानरव्याघ्रतस्मिञ्जनपदेश्वरे ॥५॥
नासीचौरभयं तात न क्षुधाभयमण्वपि ।
नासीद्व्याधिभयं चापि तस्मिञ्जनपदेश्वरे ॥६॥
स्वधर्मैरेमिरे वर्णा दैवे कर्मणि निस्पृहाः ।
तमाश्रित्य महीपालमांसश्चैवाकुतोभयाः ॥७॥
कालवर्षी च पर्जन्यः सस्यानि रसवन्ति च ।
सर्वरत्नसमृद्धा च मही पशुमती तथा ॥८॥
स्वकर्मानिरता विप्रा नानृतंतेषु विद्यते ।
स चाद्भुतमहावीर्योवज्रसंहननो युवा ॥९॥
उद्यम्य मन्दरं दोर्भ्योवहेत्सवनकाननम् ।
चतुष्पथगदायुद्धे सर्वप्रहरणेषु च ॥१०॥
नागपृष्ठेश्वपृष्ठे च बभूव परिनिष्ठितः।
बले विष्णुसमश्चासीत्तेजसा भास्करोपमः ॥११॥
अक्षोभ्यत्वेर्णवसमः सहिष्णुत्वे धरासमः।
संमतः स महीपालः प्रसन्नपुरराष्ट्रवान् ॥१२॥
इत्यादिपर्वसंभवपर्वशकुन्तलोपाख्याने प्रथमोध्यायः॥१॥
॥ जनमेजय उवाच ॥
संभवं भरतस्याहंचरितं च महामतेः ।
शकुन्तलायाश्चोत्पत्तिं श्रोतुमिच्छामितच्वतः ॥१॥
दुष्यन्तेन च वोरेण यथा प्राप्ता शकुन्तला ।
तं वै पुरुषसिंहस्य भगवन्विस्तरं त्वहम् ॥२॥
श्रोतुमिच्छामि तत्त्वज्ञ सर्वेमतिमतां वर ।
॥ वैशंपायन उवाच ॥
स कदाचिन्महाबाहुः प्रभूतबलवाहनः ॥३॥
वनं जगाम गहन हयनागशतैर्वृतः।
बलेन चतुरङ्गेण वृतः परमवल्गुना ॥४॥
खङ्गशक्तिधैवीरैर्गदामुसलपाणिभिः ।
प्रासतोमरहस्तैश्च ययौयोधशतैर्वृतः ॥५॥
सिंहनादैश्चयोधानां शङ्खदुन्दुभिनिः स्वनैः।
रथनेमिस्वनैश्चैव सनागवरबृंहितैः।
नानायुधधरैश्चापि नानावेषधरैस्तथा ॥६॥
हेषितस्वनभिश्रैश्च क्ष्वेडितास्फोटितस्वनैः।
आसीत्किलकिलाशब्दस्तस्मिन्गछति पार्थिवे ॥७॥
प्रासादवरशृङ्गुस्थाः परया नृपशोभया ।
ददृशुस्तं स्त्रिपस्तत्र शूरयात्मयशस्करम्॥ ८ ॥
शक्रोपममभित्रघ्नंपरवारणवारणम् ।
पह्यन्तः स्त्रोगणास्तत्र वज्रपाणिं स्ममेनिरे ॥९॥
अयं स पुरुषव्याघ्रोरणे वसुपराक्रमः ।
यस्यबाहुवलं प्राप्यन भवन्त्यसुहृद्गणाः ॥ १० ॥
इति वाचो ब्रुबन्त्यस्तास्त्रियः प्रेम्णा नराधिपम् ।
तुष्टुवुः पुष्यबृष्टीश्च ससृजुस्तस्य मूर्धनि ॥ ११॥
तजतत्र च विप्रेन्द्रैःस्तूयमानः समन्ततः ।
निर्ययौ परमप्रीत्या वनं मृगजिघांसया ॥१२॥
तं देवराजप्रतिमं मत्तवारणधूर्गतम् ।
द्विजक्षत्रियविद्शूद्रानिर्यान्तमनुजग्मिरे ॥१३॥
ददृशुर्वर्धमानास्ते आशीर्भिश्चजयेन च ।
सुदूरमनुजग्गुस्तं पौरजानपदास्तथा॥१४॥
न्यवर्त्तन्त ततः पश्चादनुज्ञाता नृपेण ह।
सुवर्णप्रतिमेनाथ रथेन बसुधाधिपः ॥१५॥
महीमापूरयामास घोषेग त्रिदिवंतथा ।
स गच्छन्ददृशे धीमान्नन्दनप्रतिमं वनम् ॥१६॥
विल्वार्कखदिराकीर्णे कपित्थधवसंकुलम् ।
विषमं पर्वतस्रस्तैरश्मभिश्च समावृतम् ॥१७॥
निर्जलं निर्मनुष्यंच बहुयोजनमायतम् ।
मृगसिंहैर्वृतं घोररैन्यैश्चापि वनेचरैः ॥१८॥
तद्वनंमनुजव्याघ्रःसभृत्यबलवाहनः ।
लोडयामास दुष्यन्तः सूदयन्विविधान्मृगान् ॥१९॥
वाणगोचरसंप्राप्तांस्तत्र व्याधगणान्वहून् ।
पातयामास दुष्यन्तो निर्विभिेद च सायकेः ॥२०॥
दूरस्थान्सायकैः कांश्चिदभिनत्स नराधिपः ।
अभ्यासमागतांश्चान्यान् खड्गेन निरकृन्तत ॥२१॥
कांश्चिदेणान्समाजघ्नेशक्त्या शक्तिमतांवरः ।
गदामण्डलतत्त्वज्ञश्चचारामितविक्रमः ॥२२॥
तोमरैरसिभिश्चापि गदामुसलकम्पनैः ।
चचार सविनिघ्नन्वैवन्यांस्तत्र मृगद्विजान् ॥२३॥
राज्ञाचाद्भुतवीर्येण योधैश्च समरप्रियैः।
लोड्यमानंमहारण्यं तत्यजुःस्ममृगाधिपाः ॥२४॥
तत्र विद्रुतयूथानि हतयूथपतीनिच ॥२५॥
मृगयूथान्यथौत्सुक्याच्छब्दं चक्रुस्ततस्ततः ।
शुष्काश्चापि नदोर्गत्वा जलनैराश्यकर्षिताः॥२६॥
व्यायामक्लान्तहृदयाः पतन्तिस्म विचेतसः।
क्षुत्पिपासापरीताश्चश्रान्ताश्चपतिता भुवि ॥ २७॥
केचित्तत्र नरव्याघ्रैरभक्ष्यन्त बुभुक्षितैः ।
केचिदग्रिमथोत्पाद्यसंसाध्य च वनेचराः ॥२८॥
भक्षयन्तिस्ममांसानि प्रकुट्य विधिवत्तदा ।
तत्र केचिद्गजामत्तावलिनः शस्त्रविक्षताः ॥२९॥
संकोच्याग्रकरान्भीताः प्राद्भवन्ति स्म वेगिताः।
शकृन्मूत्रं सृजन्तश्च क्षरन्तः शोणितं बहु ॥३०॥
वन्या गजवरास्तत्रममृदुर्मनुजान्वहून् ।
तद्वनंबलमेघेन शरधारेण संवृतम् ॥३१॥
व्यरोचत मृगाकीर्णे राज्ञा हतमृगाधिपम् ॥ ३२॥
इत्यादिपर्वणि शकुन्तलोपाख्याने द्वितीयोध्यायः।
॥ वैशंपायन उवाच ॥
ततो मृगसहस्राणिहत्वास बलवाहनः।
राजामृगप्रसङ्गेन वनमन्यद्विवेश ह ॥१॥
एक एवोत्तमबलः क्षुत्पिपासाश्रमान्वितः ।
स वनस्यान्तमासाद्य महच्छून्यं समासदत्॥२॥
तच्चाप्यतीत्य नृपतिरुत्तमाश्रमसंयुतम् ।
मनः प्रल्हादजननं दृष्टिकान्तमतीव च ॥३॥
शीतमारुतसंयुक्तं जगामान्यन्महद्वनम् ।
पुष्पितैःपादपैः कीर्णमतीवसुखशाद्वलम ॥४॥
विपुलं मधुरारवैर्नादितं विहगैस्तथा ।
पुंस्कोकिलनिनादैश्चझिल्लोकगणनादितम् ॥५॥
प्रवृद्धविटपैर्बृक्षैःसुखच्छायैःसमावृतम् ।
षटपदाघूर्णिततलं लक्ष्म्या परमया युतम् ॥६॥
नापुष्पः पादपः कश्चिन्नाफलोनापि कण्टको ।
षट्पदैर्नाप्यपाकीर्णस्तस्मिन्वैकाननेभवत् ॥७॥
विहगैर्नादितं पुष्परैलंकृतमतीव च ।
सर्वर्तुकुसुमैर्वृक्षैःसुखच्छायैःसमावृतम् ॥८॥
मनोरमं महेष्वासो विवेशवनमुत्तमम् ।
मारुताकलितास्तत्र द्रुमाःकुसुमशाखिनः ॥९॥
पुष्पवृष्टिंविचित्रां तु व्यसृजंस्ते पुनः पुनः ।
दिवस्पृशोथ संघुष्टाः पक्षिभिर्मधुरस्वनैः ॥१०॥
विरेजुः पादपास्तत्र विचित्रकुसुमाम्बराः ।
तेषां तत्रप्रवालेषु पुष्पभारावनामिषु ॥११॥
रुवन्ति रावान्मधुरान्षट्पदामधुलिप्सवः।
तत्र प्रदेशांश्च बहून्कुसुमोत्करमण्डितान् ॥१२॥
लतागृहपरिक्षिप्तान्मनसः प्रीतिवर्धनान् ।
संपश्यन्सुमहातेजाबभूव मुदितस्तदा ॥१३॥
परस्पराश्लिष्टशाखैःपादपैः कुसुमान्वितेः ।
अशोभत वनं तत्तु महेन्द्रध्वजसंनिमैः ॥१४॥
सिद्धचारणसंघैश्चगन्धर्वाप्सरसां गणैः ।
सैवितं वनमत्यर्थं मत्तवानरकिंनरम् ॥ १५॥
सुखः शीतः सुगन्धी च पुष्परेणुवहोनिलः ।
परिक्रामन्वने बृक्षानुपैतीव रिरंसया ॥१६॥
एवं गुणसमायुक्तं ददर्शस वनं कृपः ।
नदीकच्छोद्भवंकान्तमुच्छ्रितध्वजसंनिभम् ॥१७॥
प्रेक्षमाणो वनं तत्तुसुप्रह्रष्टविहंगमम् ।
आश्रमप्रवरं रम्यं ददर्शच मनोरमम् ॥१८॥
नानाबृक्षसमाकीर्णेसंप्रज्वलितपावकम् ।
तं तदाप्रतिमं श्रीमानाश्रमं प्रत्यपूजयत् ॥१९॥
यतिभिर्वालखिल्यैश्च वृतं मृनिगणान्वितम् ।
अप्यगारैश्च बहुभिः पुष्पसंस्तरसंस्तृतम् ॥२०॥
महाकच्छैरवृहद्धिश्च विभ्राजितमतीव च ।
मालिनीमभितो राजन्नदीं पुण्यां सुखोदकाम् ॥२१॥
नैकपक्षिगणाकीर्णी तपोवनमनोरमाम् ।
तत्रव्यालमृगान्सौम्यान्यश्यन्प्रीतिमवाप सः ॥२२॥
तंचाप्रतिरथः श्रीमानाश्रमं प्रत्यपद्यत ।
देवलोकप्रतीकाशं सर्वतः सुमनोहरम् ॥२३॥
नदीं चाश्रमसंश्लिष्टांपुण्यतोयां ददर्श सः।
सर्वप्राणभूनां तत्र जननीमिवाधिष्ठिताम् ॥२४॥
सचक्रवाकपुलिनां पुष्पफेन प्रवाहिनीम्।
सकिन्नरगणावासां वानरर्क्षनिषेविताम् ॥२५॥
पुण्यस्वाध्यायसंघुष्टांपुलिनैरुपशोभिताम् ।
मत्तवारणशार्दूलभुजगेन्द्रनिषेविताम् ॥२६॥
तस्यास्तीरे भगवतः काश्यपस्य महात्मनः ।
आश्रमप्रवरं रम्यंमहर्षिगणसेवितम् ॥२७॥
नदीमाश्रमसंबद्धां दृष्ट्वाश्रमपदं तथा ।
चकाराभिप्रवेशाय मतिं स नृपतिस्तदा ॥२८॥
अलंकृतं दीपवत्या मालिन्या रम्यतीरया ।
नरनारायणस्थानं गंगयेवोपशोभितम् ॥२९॥
मत्तबर्हिणसंघुष्टंप्रविवेश महद्वनम् ।
तत्स चैत्ररथप्रख्यं समुपेत्य नरर्षभः ॥३०॥
अतीवगृणसंपन्नमनिर्देश्यं च वर्चसा ।
महर्षिकाश्यपं द्रष्टुमथ कण्वं तपोधनम् ॥३१॥
ध्वजिनीमश्वसंबाधां पदातिगजसंकुलाम् ।
अवस्थाप्य वनद्वारि सेनामिदमुवाच सः॥३२॥
मुनिं विरजसं द्रष्टुं गमिष्यामि तपोधनम।
काश्यपं स्थोयतामत्रयावदागमनं मम ॥३३॥
तद्वनंनन्दनप्रख्यमासाद्य मनुजेश्वरः ।
क्षुत्पिपासेजहौराजामुदं चावाप पुष्कलाम् ॥३४॥
सामान्योराजलिड्गानि सोपनीय नराधिपः।
पुरोहितसहायश्चजगामाश्रममुत्तमम् ॥३५॥
दिदृक्षुस्तत्र तमृर्षितपोराशिमथाव्ययम् ।
ब्रह्मलोकप्रतीकाशमाश्रमंसोभिवीक्ष्यह ॥३६॥
षट्पदोद्रीवसंघुष्टंनानाद्विजगणायुतम् ।
ऋचो बह्वृचमुख्यैश्चप्रेर्यमाणाःपदक्रमैः॥३७॥
शुश्राव मनुजव्याघ्रोविततेष्विह कर्मसु ।
यज्ञविद्यादद्धिश्च युिद्धिश्च शोभितम् ॥३८॥
मधुरैः सामगीतैश्चऋषिभिर्नियतव्रतैः।
मारुण्डतामगीताभिरथर्वशिरसोद्गतैः ॥३९॥
यतात्मभिः सुनियतैः शुशुभे स तदाश्रमः।
अथर्ववेदप्रवराः पूगयज्ञियसागमाः ॥४०॥
संहितामोरयन्ति स्म पदक्रमयुतां तु ते ।
शब्दसंस्कारसंयक्तैर्बुद्धिश्चपरैर्द्विजैः॥४१॥
नादितः स बभौ श्रीमान्ब्रह्मलोक इवापरः ।
यज्ञसंस्तरविद्भिश्च क्रमशिक्षाविशारदैः॥४२॥
न्यायतत्त्वात्मविज्ञानसंपन्नैर्वेदपारगैः ।
नानावाक्यसमाहारसमवायविशारदैः॥४३॥
विशेषकार्यविद्भिश्चमोक्षधर्मपरायणैः।
स्थापनाक्षेपसिद्धान्तपरमार्थज्ञतां गतैः ॥४४॥
शब्दच्छन्दोनिरुक्तज्ञैःकालज्ञानविशारदैः।
द्रव्यकर्मगुणज्ञैश्चकार्यकारणवेदिभिः ॥४५॥
पक्षिवानररूतज्ञैश्च व्यासग्रन्थसमाश्रितैः।
नानाशास्त्रेषु मुख्यैश्चशुश्राव स्वनमीरितम् ॥४६॥
लोकायतिकमुख्यैश्च समन्तादनुनादितम् ।
तत्र तत्र च विप्रन्द्रान्नियतान्संशितव्रतान् ॥४७॥
जपहोमपरान्विप्रान्ददर्श परवीरहा ।
आसनानि विचित्राणि रुचिराणि महीपतिः ॥४८॥
प्रयत्नोपहितानि स्म दृष्ट्वाविस्मयमागमत् ।
देवतायतनानां च प्रेक्ष्य पूजांकृतां द्विजैः।
ब्रह्मलोकस्थमात्मानं मेने स नृपसत्तमः ॥४९॥
स काश्पपतपोगुप्तमाश्रमप्रवरं शुभम् ।
नातृष्यप्रेक्षमाणोवैतपोवनगुणैर्युतम्॥५०॥
स काश्यपस्यायतनं महाव्रतैर्त्वृतंसमन्तादृषिभिस्तपोधनैः।
विवेश सामात्यपुरोहितोरिहा विविक्तमत्यर्थमनोहरं शुभम् ॥५१॥
॥ इति श्रीमहाभारते आदिपर्वणि संभवपर्वणि शकुन्तलोपाख्याने
तृतीयोध्यायः ॥ ३ ॥
॥ वैशंपायन उवाच ॥
ततोगच्छन्महाबाहुरेकोमात्यान्विसृज्य तान् ।
नापश्यच्चाश्रमे तस्मिंस्तमृषिंसंशितव्रतम् ॥१॥
सोपश्यमानस्तमृषिंशून्यं दृष्ट्वातथाश्रमम् ।
उवाच क इहेत्युच्चैर्वनंसंनादयन्निव ॥२॥
श्रुत्वाथ तस्य तं शब्दं कन्याश्रीरिव रूपिणी ।
निश्चकामाश्रमात्तस्मात्तापसीवेषधारिणी ॥३॥
सा तं दृष्ट्वेवराजानं दुष्यन्तमसितेक्षणा ।
स्वागतं त इति क्षिप्रमुवाच प्रतिपूज्य च ॥४॥
आसनेनार्चयित्वा च पाद्येनार्ध्येण चैव हि ।
पप्रच्छानामयं राजन्कुशलं च नराधिपम् ॥५॥
यथावदर्चयित्वाथ पृष्ट्वाचानामयं तदा ।
उवाच स्मयमानेव किं कार्ये क्रियतामिति ॥६॥
तामव्रवीत्ततो राजाकन्यां मधुरभाषिणीम्।
दृष्ट्वाचैवानवद्याङ्गींयथावत्प्रतिपूजितः ॥७॥
आगतोहं महाभागमृषिं कण्वमुपासितुम् ।
क्वगतो भगवान्भद्रे तन्ममाचक्ष्व शोभने ॥८॥
॥ शकुन्तलोवाच ॥
गतः पिता मे भगवान्फलान्याहर्तुमाश्रमात् ।
मुहूर्ते सप्रतीक्षस्व द्रष्टास्येनमुपागतम् ॥९॥
॥ वैशंपायन उवाच ॥
अपश्यमानस्तमृषिंतथा चोक्तस्तया च सः।
तां दृष्ट्वाच वरारोहां श्रीमतीं चारुहासिनीं ॥१०॥
विभ्राजमानां वपुषा तपसा च दमेन च ।
रूपयौवनसंपन्नाभित्युवाच महीपतिः ॥११॥
का त्वं कस्यासि सुश्रोणि किमर्थं चागता वनम् ।
एवं रूपगुणोपेता कृतस्त्वमसि शोभने ॥१२॥
दर्शनादेव हि शुभे त्वया मेषहृतंमनः।
इच्छामि त्वामहं ज्ञातुं तन्ममाचक्ष्यशोभने ॥१३॥
एवमुक्ता तु सा कन्या तेन राज्ञातमाश्रमे ।
उवाच हसतो वाक्यमिदं सुमधुराक्षरम् ॥१४॥
कण्वस्याहं भगवतो दुष्यन्त दुहितामता ।
तपस्विनो धृतिमतो धर्मज्ञस्य महात्मनः ॥१५॥
॥ दुष्यन्त उवाच ॥
ऊर्ध्वरेता महाभागे भगवाँल्लोकपूजितः ।
चलेद्धि वृत्ताद्धर्मोपि न चलेत्संशितब्रतः ॥१६॥
कथं त्वंतस्य दुहिता संभूता वरवर्णिनी ।
संशायो मे महानत्र तन्मे छेत्तुमिहार्हसि ॥१७॥
॥ शकुंतलोवाच ॥
यथायमागमो मह्यंयथा चेदमभूत्पुरा ।
शृणु राजन्यथातत्त्वंयथास्मि दुहिता मुनेः ॥१८॥
ऋषिःकश्चिदिहागम्य मम जन्माभ्यचोदयत् ।
तस्मै प्रोवाच भगवान्यथा तच्छृणु पार्थिव ॥ १९॥
॥ कण्व उवाच ॥
तप्यमानः किल पुरा विश्वामित्रोमहत्तपः ।
भुभृशं तापयामास शक्रं सुरगणेश्वरम् ॥२०॥
तपसा दीप्तवीर्योयं स्थानान्मां च्यावयेदिति ।
भीतः पुरंदरस्तस्मान्मेनकामिदमव्रवीत् ॥२१॥
गुणैरप्सरसां दिव्यैर्मेनके त्वं विशिष्यसे ।
श्रेयो मे कुरू कल्याणि यत्वां वक्ष्यामि तच्छृणु ॥२२॥
असावादित्यसंकाशोविश्वामित्रो महातपाः ।
तच्यमानस्तपोघोरं मम कम्पयते मनः ॥२३॥
मेनके तव भारोयं विश्वामित्रः सुमभ्यमे ।
शंसितात्मा सुदुर्धर्षउग्रे तपसि वर्तते ॥२४॥
स मां न च्यावयेत्स्थानात्तं वै गत्वा प्रलोभय ।
चर तस्य तपोविध्न कुरु मेविघ्नमुत्तमम् ॥२५॥
रूपयौवनमाधुर्यचेष्टितस्मितभाषणैः।
लोभयित्वा वरारोहे तपसस्तं निवर्तय॥२६॥
॥ मेनकोवाच ॥
महातेजाः स भगवांस्तथैव च महातपाः ।
कोपनश्च तथा ह्येनं जानाति भगवानपि॥२७॥
तेजसस्तपसश्वैव कोपस्य च महात्मनः।
त्वमप्युद्विजसे यस्य नोद्विजेयमहं कथम् ॥२८॥
महाभागं वसिष्ठंयः पुत्रैरिष्टैर्व्ययोजयत् ।
क्षत्रजातश्चयः पूर्वमभवद्बाह्मणोबलात्॥२९॥
शौचार्थे यो नदीं चक्रे दुर्गमां बहुभिर्जलैः।
यां तां पुण्यतमां लोके कौशिकोति विदुर्जनाः ॥३०॥
बभार यत्रास्यपुरा काले दुर्गे महात्मनः ।
दारान्मतंगो धर्मात्माराजर्षिर्व्पधतां गतः ॥३१॥
अतीतकालेदुर्भिक्षेअभ्येत्य पुनराश्रमम् ।
मुनिः पारेति नदा वै नाम चक्रे तदा प्रभुः ॥३२॥
मतंगंयाज्ञयांचक्रे यत्र प्रीतमनाः स्वयम् ।
त्वं च सोमं भयाद्यस्य गतः पातुं सुरेश्वर ॥३३॥
चकारान्यं च लोकं वैकुद्धो नक्षत्रसंपदा ।
प्रतिश्रवणपूर्वाणि नक्षत्राणि चकार यः ॥३४॥
गुरुशापहतस्यापि त्रिशङ्कोः शरणं ददौ ।
एतानि यस्य कर्माणि तस्याहं भृशमुद्विजे ॥३५॥
यथासौन दहेत्क्रुद्धस्तथाज्ञापय मां विभो ।
तेजसा निर्दहेल्लोकान्कम्पयेद्धरणीं पदा ॥३६॥
संक्षिपेच्चमहामेरुं तूर्णमावर्तयेद्दिशः।
तादृशं तपसा युक्तं प्रदीप्तमिवपावकम् ॥३७॥
कथमस्मद्विधा नारी जितेन्द्रियमभिस्पृशेत् ।
हुताशनमुखं दीप्तंसूर्यचन्द्राक्षितारकम् ॥३८॥
कालजिह्वंसुरश्रेष्ठ कथमस्मद्विधा स्पृशेत्।
यमश्च सोमश्च महर्षयश्च साध्या विश्वे वालखिल्याश्च सर्वे ।
एतेपि यस्योद्विजन्ते प्रभावात्तस्मात्कस्मान्मादृशीनोद्विजेत॥ ३९ ॥
त्वयैवमुक्ता च कथं समीपमृषेर्नगच्छेयमहं सुरेन्द्र ।
रक्षां तु मे चिन्तय देवराज्ञ यथा त्वदर्थैरक्षिता चरेयम् ॥४०॥
कामंतु मे मारुतस्तत्र वासः प्रक्रीडिताया विवृणोतु देव।
भवेच मे मन्प्रथस्तत्र कार्ये सहायमूतस्तु तव प्रसादात् ॥४१॥
वनाच्च वायुःसुरभिः प्रवायात्तस्मिन्काले तमृषिं लोभयन्त्याः ।
तथेत्युक्त्वाविहिनेचैव तस्मिंस्ततो यषौसाश्रमंकौशिकस्य ॥४२॥
॥ इति श्रीमहाभारत आदिपर्वणि संभवपर्वणिशकुन्तलोपाख्याने चतुर्थोध्यायः ॥४॥
॥ कण्व उवाच ॥
एवमुक्तस्तया शक्रः संदिदेश सदागतिम् ।
प्रातिष्ठत तदा कालेमेनका वायुना सह ॥१॥
अथापश्यद्वरारोहा तपसा दग्धकिल्विषम् ।
विश्वामित्रंतप्यमानं मेनका भीरुराश्रमे ॥२॥
अभिवाद्यततः सा तं प्राक्रीडदृषिसंनिधौ।
अपोवाह च वासोस्यामारुतः शशिसंनिभम् ॥३॥
सागच्छत्त्वरिताभूमिं वासस्तदभिलिप्सतो ।
स्मयमानेव सव्रीडं मारुतं वरवर्णिनी ॥४॥
पश्यततस्तत्रतत्रर्षेरप्यग्रिसमतेजसः।
विश्वामित्रस्ततस्तां तु विषमस्थामनिन्दिताम् ॥५॥
गृद्धां वाससि संभ्रान्तां मेनकां मुनिसत्तमः ।
अनिर्देश्यवयोरूपामपश्यद्विवृतांतदा ॥६॥
तस्या रूपगुणान्दृष्ट्वास तु विप्रर्षभस्तदा।
चकार भावं संसर्गात्तया कामवशं गतः ॥७॥
न्यमन्त्रयत चाप्येनां साचाप्यैच्छदनिन्दिता ।
तौतत्र सुचिरं कालमुभौ व्यहरतां तदा ॥८॥
रममाणौ यथाकामं यथैकदिवसं तथा ।
जनयामास स मुनिर्मेनकायां शकुन्तलाम् ॥९॥
प्रस्थेहिमवतो रम्ये मालिनीमभितो नदीम् ।
जातमुत्सृज्य तं गर्भे मेनका मालिनीमनु ॥१०॥
कृतकार्याततसुर्णमगच्छच्छक्रसंसदम् ।
तं वने विजने गर्भे सिंहव्याघ्रसमाकुले ॥११॥
दृष्ट्वाशयानं शकुनाः समन्तात्यर्यवारयन् ।
नेमां हिंस्युर्वने बालां क्रव्यादा मांसगृद्धिनः ॥१२॥
पर्यरक्षन्त तां तत्र शकुन्तलामेनकात्मजाम् ।
उपस्प्रष्टुंगतश्चाहमपश्यंशयिताभिमाम् ॥१३॥
निर्जने विपिने रम्ये शकुन्तलैःपरिवारिताम् ।
आनयित्वा ततश्चैनां दुहितृत्वे न्यवेशयम् ॥१४॥
शरीरकृत्प्राणदाता यस्य चान्नानि भुञ्जेत ।
क्रमेणैते त्रयोप्युक्ताः पितरोधर्मशासने ॥१५॥
निर्जने तु वने यस्माच्छकुन्तैःपरिवारिता ।
शकुंतलेति नामास्याः कृतं चावि ततो मया ॥१६॥
एवं दुहितरं विद्धि मम विप्र शकुन्तलाम् ।
शकुन्तला च पितरं मन्यते मामनिन्दिता ॥१७॥
॥ शकुन्तलोवाच ॥
एतदाचष्टपृष्टसन्मम जन्म महर्षये ।
सुतां कण्वस्य मामेवं विद्धि त्वंमनुजाधिप ॥१८॥
कण्वं हि पितरं मन्ये पितरं स्वमजानती ।
इति ते कथितं राजन्यथावृत्तंश्रुतंमया ॥१९॥
॥ इति श्रीमहाभारत आदिपर्वणि शकुन्तलोपाख्याने पञ्चमोध्यायः ॥ ५ ॥
॥ दुष्यन्त उवाच ॥
सुव्यक्तं राजपुत्री त्वंयथा कल्याणि भाषसे ।
भार्या मे भव सुश्रोणि व्रूहि किं करवाणि ते ॥१॥
सुवर्णमालांवासांसि कुण्डले परिहाटके ।
नानापत्तनजेशुभ्रे मणिरत्नेच शोभने ॥२॥
आहरामितवाद्याहं निष्कादोन्यजिनानि च ।
सर्वे राज्यं तवाद्यास्तु भार्या मे भवशोभने ॥३॥
गान्धर्वेणच मां भीरुं विवाहेनैहि सुन्दरि।
विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते ॥४॥
॥ शकुन्तलोवाच ॥
फलाहारो गतो राजन्पिता मे इत आश्रमात् ।
मुहूर्तै संप्रतीक्षस्व स मां तुभ्यं प्रदास्यति ॥५॥
॥ दुष्यन्त उवाच ॥
इच्छामि त्वां वरारोहे भजमानामनिन्दिते ।
तदर्थेमां स्थितं विद्धि त्वद्गतंहि मनो मम ॥६॥
आत्मनो बन्धरात्मव गतिरात्मैव चात्मनः ।
आत्मनैवात्मनो दानं कर्तुमर्हसि धर्मतः ॥७॥
अष्टावेव समासेन विवाहा धर्मतः स्मृताः ।
ब्राह्मो दैवस्तथवार्षः प्राजापत्यस्तथासुरः ॥८॥
गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमः स्मृतः ।
तेषां धर्मान्यथापूर्वेमनुः स्वायंभुवोब्रवीत् ॥९॥
प्रशस्तांश्चतुरः पूर्वान्द्राह्मणस्योपधारय ।
पडानुपूर्व्या क्षत्रस्य विद्धि धर्माननिन्दिते ॥१०॥
राज्ञांतु राक्षसोप्युक्तो विद्शूद्रेष्वासुरः स्मृतः॥
पञ्चानां तुत्रयो धर्म्याअधर्म्योद्वौस्मृताविह ॥११॥
पैशाच आसुरश्चैव न कर्तव्यौकदाचन ।
अनेन विधिना कार्यो धर्मस्यैषा गतिः स्मृता ॥१२॥
गान्धर्वराक्षसौक्षत्रे धर्म्यौ तौमाविशंङ्किथाः ।
पृथग्वा यदि वा मिश्रौकर्तव्यौनात्र संशयः ॥१३॥
सा त्वं मम सकामस्य सकामा वरवर्णिनी ।
गान्धर्वेण विवाहेन भार्याभवितुमर्हसि ॥१४॥
॥ शकुन्तलोवाच ॥
यदि धर्मपथस्त्वेष यदि चात्मा प्रभुर्मम ।
प्रदाने पौरवश्रेष्ठशृणु मे समयंप्रभो ॥१५॥
सत्यं मे प्रतिजानीहि यथा वक्ष्याम्यहं रहः।
मयि जाते ततः पुत्रः स भवेत्त्वदनन्तरः ॥१६॥
युवराजो महाराज सत्यमेतदब्रवीमिते।
यद्येतदेवं दुष्यन्त अस्तु मे संगमस्त्वया ॥१७॥
॥ वैशंपायन उवाच ॥
एवमस्त्विति तां राजाप्रत्युवाचाविचारयन् ।
अपि च त्वां हि नेष्यामि नगरं स्वं शुचिस्मिते ॥१८॥
यथा त्वमर्हा सुश्रोणी सत्यमेतद्ब्रवीमिते ।
एवमुक्त्वा स राजर्षिस्तामनिन्दितगामिनीम् ॥१९॥
जग्राह विधिवत्पाणाबुवास च तयासह ।
विश्वास्य चैनां स प्रायादब्रवीच्चपुनः पुनः ॥२०॥
प्रेषयिष्येतवार्थाय वाहिनीं चतुरङ्गिणीम् ।
तया त्वा नाययिष्यामि निवासं स्वं शुचिस्मिते ॥२१॥
॥ वैशंपायन उवाच ॥
इति तस्याः प्रतिश्रुत्य स नृपो जनमेजय ।
मनसा चिन्तयन्प्रायात्काश्यपं प्रति पार्थिवः॥२२॥
भगवांस्तपसा युक्तः श्रुत्वा किं नुकरिप्यति।
एवं स चिन्तयन्नेव प्रविवेश स्वकं पुरम् ॥ २३॥
मुहूर्तयाते तस्मिंस्तु कण्वोप्याश्रममागमत् ।
शकुन्तला च पितरं हिया नोपजगाम तम् ॥२४॥
विज्ञायाथ च तां कण्वो दिव्यज्ञानो महातयाः।
उवाच भगवान्प्रीतः पश्यन्दिव्येन चक्षुषा ॥२५॥
त्वयाद्यभद्रेरहसिमामनादृत्य यः कृतः ।
पुंसासह समायोगो न स धर्मोपघातकः ॥२६॥
क्षत्रियस्य हि गान्धर्वो विवाहःश्रेष्ठ उच्यते ।
सकामायाः सकामेन निर्मन्त्रो रहसि स्मृतः ॥२७॥
धर्मात्माच महात्मा च दुष्यन्तः पुरुषोत्तमः।
अभ्यागच्छ पतिं यत्त्वं भजमानं शकुन्तले ॥२८॥
महात्मा जनिता लोके पुत्रस्तव महाबलः ।
य इमां सागरापाङ्गीं कृत्स्नां भोक्ष्यति मेदिनीम्॥२९॥
परंचाभिप्रयातस्य चक्रं तस्य महात्मनः ।
भविष्यत्यप्रतिहतं सततं चक्रवर्तिनः॥३०॥
ततः प्रक्षाल्य पादौसा विश्रान्तं मुनिमब्रवीत् ।
विनिधाय ततो भारं संनिधाय फलानि च ॥३१॥
॥ शकुन्तलोवाच ॥
मया पतिर्वृतो राजा दुष्यन्तः पुरुषोत्तमः ।
तस्मै स सचिवाय त्वं प्रसादं कर्तुमर्हसि ॥३२॥
॥ कण्व उवाच ॥
प्रसन्न एव तस्याहं त्वत्कृते वरवर्णिनि ।
गृहाण च वरं मत्तस्त्वं शुभे यदभीप्सितम् ॥३३॥
॥ वैशंपायन उवाच ॥
ततो धर्मिष्ठतां वव्रेराज्याच्चास्खलनं तथा ।
शकुन्तला पौरवाणां दुष्यन्तहितकाम्यया ॥३४॥
इति श्रीमहाभारत आदिपर्वाणि संभवपर्वणि शकुन्तलोपाख्याने षष्ठोध्यायः॥६॥
॥ वैशंपायन उवाच ॥
प्रतिज्ञाय तुदुष्यन्ते प्रतियाते शकुन्तलाम् ।
गर्भेसुषाववामोरूः कुमारममितौजसम् ॥१॥
त्रिषु वर्षेषु पूर्णेषु दीप्तानलसमद्युतिम् ।
रूपौदार्यगुणोपेतं दौप्यन्तिं जनमेजय ॥२॥
जातकर्मादिसंस्कारं कण्वः पुण्यकृतां वरः ।
विधिवत्कारयामाप्त वर्धमानस्य धीमतः॥३॥
दन्तैः शुक्लैःशिखरिभिः सिंहसंहननोमहान् ।
चक्राङ्कितकरः श्रीमान्महामूर्धामहाबलः ॥४॥
कुमारोदेवगर्भाभः स तत्राशुव्यवर्धत ।
षड्वर्षएवबालः स कण्वाश्रमपदं प्रति ॥५॥
सिंहव्याध्रान्वराहांश्चमहिषांश्च गतांस्तथा ।
बवन्ध बृक्षे बलवानाश्रमस्य समीपतः ॥६॥
आरोहन्दमयंश्चैवक्रीडंश्चपरिधावति ।
ततोस्य नाम चक्रुस्ते कण्वाश्रमनिवासिनः॥७॥
अस्त्वयं सर्वदमनः सर्वेहि दमयत्यसौ ।
स सर्वदमनो नाम कुमारः समपद्यत ॥८॥
विक्रमेणौजसाचैव बलेन च समन्वितः ।
तंकुमारमृषिर्दृष्ट्वाकर्म चास्यातिमानुषम् ॥९॥
समयो यौवराज्यायेत्यब्रवीच्च शकुन्तलाम् ।
तस्य तद्बलमाज्ञाय कण्वः शिष्यानुवाच ह ॥१०॥
शकुन्तलाभिमां शीघ्रंसहपुत्रामितोगुहात् ।
भर्तुःप्रापयतागारं सर्वलक्षणपूजिताम् ॥११॥
नारीणां चिरवासोहि वान्धवेषु न रोचते ।
कीर्तिचारित्रधर्मघ्नस्तस्मान्नयत माचिरम् ॥१२॥
तथेत्युक्ता तु ते सर्वे प्रातिष्ठन्त महौजसः ।
शाकुन्तलां पुरस्कृत्य सपुत्रां गजसाव्हयम् ॥१३॥
गृहीत्वामरगर्भाभंपुत्रं कमललोचनम् ।
आजगाम ततः सुभ्रूर्दुष्यन्तं विदिताद्वनात्॥१४॥
अभिसृत्य च राजानंविदिता च प्रवेशिता ।
सह तेनैवपुत्रेणबालार्कसमतेजसा ॥१५॥
निवेदयित्वा ते सर्वआश्रमं पुनरागताः ।
पूजयित्वायथान्यायमब्रवीच्च शकुन्तला ॥१६॥
अयं पुत्रस्त्वया राजन्यौवराज्येभिषिच्यताम् ।
त्वया ह्ययं सुतोराजन्मय्युत्पत्नः सुरोपमः ॥१७॥
यथासमयमेतस्मिन्वर्तस्व पुरुषोत्तम ।
यथा मत्संगमे पूर्वे यः कृतःसमयस्तथा ॥१८॥
तंस्मरस्व महाभाग कण्वाश्रमपदं प्रति ।
सोय श्रुत्वैव तद्वाक्यं तस्या राजा स्मरन्नपि ॥१९॥
अब्रवीन्न स्मरामीति कस्य त्वं दुष्टतायसि ।
धर्मकामार्यसंबन्धं न स्मरामि त्वया सह ॥२०॥
गच्छ वा तिष्ठ वा कामंयद्वापीच्छसि तत्कुरु।
सैवमुक्त्वावरारोहा ब्रोडितेव तपस्विनी ॥२१॥
निसंज्ञेयच दुःखेन तस्थौ स्थूणेव निश्चला ।
संरम्भामर्षतास्राक्षी स्फूरमाणौष्ठसंपुटा ॥२२॥
कटाक्षैर्निर्दहन्तीव तिर्यग्राजानमैक्षत ।
आकारं गूहमाना च मन्युना च समोरिता ॥२३॥
तपसा संभृतं तेजो धारयामास वै तदा ।
सा मुहूर्तमिव ध्यात्वा दुःखामर्षसमन्विता ॥२४॥
भर्तारमभिसंप्रेक्ष्य क्रुद्धा वचनमब्रवीत् ।
ज्ञानन्नपि महाराज कस्मादेवं प्रभाषसे ॥२५॥
न जानामोति निःशङ्कंयथान्यः प्रकृतो जनः ।
अत्र ते हृदयं वेद सत्यस्यैवानृतस्य च ॥२६॥
कल्याणं वद साक्षेण मात्मानमवमन्यथाः ।
योन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते ॥२७॥
किं तेन न कृतं पापं चौरेणात्मापहारिणा ॥
एकोहमस्मीति च मन्यसे त्वंन इच्छयं वेत्सि मुनिंपुराणम् ॥
यो वेदिता कर्मणः पापकस्य तस्यान्तिके त्वं वृजिनं करोषि ॥ २८॥
मन्यते पापकं कृत्वान कश्चिद्वेत्ति मामिति ।
विदन्ति चैनंदेवाश्च यश्चैवान्तरपूरुषः॥२९॥
आदित्यचन्द्रावनिलानलौच द्यौर्भूभिरापो हदयं यमश्च ॥
अहश्च रात्रिश्च उमे च संध्ये घर्मश्च जानाति नरस्य वृत्तम् ॥३०॥
यमो वैवस्वतस्तस्य निर्यातयति दुष्कृतम् ।
हृदि स्थितः कर्मसाक्षी क्षेत्रज्ञोयस्य तृष्यति ॥३१॥
न तु तुष्यति यस्यैषपुरुषस्य दुरात्मनः ।
तंयमः पापकर्माणं वियातयति दुष्कृतम् ॥३२॥ .
योवमन्यात्मनात्मानमन्यथा प्रतिपद्यते ।
न तस्यदेवाः श्रेयांसो यस्यात्मापिन कारणम् ॥३३॥
स्वयंप्राप्तेति मामेवं मावमंस्थाः पतिव्रताम् ।
अर्चार्हीनार्चयसि मां स्वयं भार्यामुपस्थिताम् ॥३४॥
किमर्थे मां प्राकृतवदुपप्रेक्षसि संसदि ।
न खल्वहमिदं शून्ये रौमि किं न शृणोपि मे ॥ ३५॥
यदि मेयाचमानाया वचनं न करिष्यसि ।
दुष्यन्त शतधा मूर्धाततस्तेद्य स्फुटिप्यति॥ ३६॥
भार्योपतिः संप्रविश्यस यस्माज्जायते पुनः ।
जायायास्तद्धि जायात्वंपौराणाः कवयो विदुः ॥३७॥
यदागमवतः पुंसस्तदपत्यंप्रजायते ।
तत्तारयति संतत्या पूर्वप्रेतान्पितामहान् ॥३८॥
पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः ।
तस्मात्पुत्रइति प्रोक्तः स्वयमेव स्वयंभुवा ॥३९॥
सा भार्या या गृहे दक्षा सा भार्याया प्रजावती ।
सा भार्या या पतिप्राणा सा भार्या या पतिव्रता ॥४०॥
अर्धेभार्या मनुष्यस्य भार्याश्रेष्ठतमः सखा ।
भार्यामूलं त्रिवर्गस्य भार्या मूलं तरिष्यतः ॥४१॥
भार्यावन्तः क्रियावन्तः सभार्यागृहमेधिनः ।
भार्यावन्तः प्रमोदन्ते भार्यावन्तः श्रियान्विताः ॥४२॥
सखायः प्रविविक्तेषु भवन्त्येताः प्रियंवदाः ।
पितरो धर्मकार्येषु भवन्त्यार्त्तस्यमातरः ॥४३॥
कान्तारेष्वपि विश्रामो जनस्याध्वनिकस्य वै।
यः सदारः स विश्वास्यस्तस्माद्दारपिरा गतिः ॥ ४४॥
संसरन्तमपि प्रेतं विषमेष्वेकपातिनम् ।
भार्यैवान्वेति भर्तारं सततं या पतिब्रता ॥ ४५ ॥
प्रथम संस्थिता भार्यापतिं प्रेत्य प्रतीक्षते ।
पूर्वे मृतं च भर्तारं पश्चात्साध्व्यनुगच्छति॥४६॥
एतस्मात्कारणाद्राजन्याणिग्रहणमिष्यते ।
यदाप्नोति पतिर्भार्यामिहलोके परत्र च ॥४७॥
आत्मात्मनैव जनितः पुत्र इत्युच्यते वुधैः।
तस्माद्धार्यांनरः पश्येन्मातृवत्पुत्रमातरम् ॥४८॥
भार्यायां जनितं पुत्रमादर्शोप्विव चाननम् ।
ह्लादते जनिता प्रेक्ष्यस्वर्गंप्राप्येव पुण्यकृत् ॥४९॥
दह्यमाना मनोदुःखैर्व्याधिभिश्चातुरा नराः ।
ह्लादन्ते स्वेषु दारेषु धर्मार्त्ताःसलिलोष्वि॥५०॥
सुसंरब्धोषि रामाणां न कुर्यादप्रियं नरः।
रतिं प्रीतिं च धर्म च तास्वायत्तमविक्ष्य हि ॥ ५१॥
आत्मनो जम्पनः क्षेत्रं पुण्ये रामाः सनातनम् \।
ऋषीणामपि का शक्तिः स्रष्टुंरामामृते प्रज्ञाम् ॥५२॥
प्रतिपद्य यदा सूनु्र्धरणीरेणगृण्ठितः ।
पितुराद्ष्यितेङ्गानि कियस्त्यभ्यधिकं ततः ॥५३॥
स त्वंस्वयमभिप्राप्रं साभिन्षयिमं सुतम् ।
प्रेक्षमाणंकटाक्षेण किमर्थमवमन्यसे ॥५४॥
अण्डानि विभ्रति स्वानि. न भिन्दन्ति पिपीलिकाः ।
न भरेथाः कथंनु त्वंधममन्नःसन्स्वघमात्मतम्॥५५॥
नवाससांन रामाणां नायां स्पर्शास्तथाविधः ।
शिशोरालिंङ्ग्यमानस्य स्पर्शःसूनोर्यथा सुखः ॥५६॥
ब्राह्मणो द्विपदां श्रेष्ठोगौर्वरिष्ठाचनुणदाम् ।
गुरुर्गरोयसां श्रेष्ठः पुत्रः आर्यावतांवरः ॥५७॥
स्पृशतु त्वांसमाश्लिष्य पुत्रोयंप्रियदर्शनः ।
पुत्रस्पर्शात्सुखतरः स्पर्शो लोके न विद्यते ॥५८॥
त्रिषुवर्षेषुपूर्णेषुप्रजाताहमरिंदम ।
इमं कुमारं राजेन्द्र तव शोकविनाशनम् ॥५९॥
आहर्तावाजिमेधस्य शतसंख्यस्य पौरव ।
इति वागन्तरिक्षे मां सूतकेभ्यवदत्पुरा ॥६०॥
ननु नामाङ्कमारोप्य स्रेहाद्ग्रामान्तरं गताः ।
मूर्ध्निपुत्रानुपाघ्नाय प्रतिनन्दन्ति मानवाः ॥६१॥
वेदेष्वपि वदन्तीमं मन्त्रग्रामं द्विजातयः।
जातकर्मणि पुत्राणां तवापि विदितं तथा ॥६२॥
अङ्गादङ्गात्संभवसि हृदयादधिजायसे।
आत्मा वै पुत्रनामासि स जीव शरदः शतम् ॥६३॥
जीवितं त्वदधीनं मेसंतानमपि चाक्षयम् ।
तस्मात्त्वं जीव मे पुत्र सुसुखी शरदां शतम् ॥६४॥
त्वदङ्गेभ्यः प्रसूतोयं पुरुषात्पुरुषोपरः ।
सरसीवामलेत्मानं द्वितीयं पश्यवै सुतम् ॥६५॥
यथा ह्याहवनीयोग्रिर्गार्हपत्यात्प्रणीयते ।
तथा त्वत्तःप्रसूतोयं त्वमेकः सम्द्विधा क़ृतः ॥६६॥
मुगावकृष्टेन पुरा मृगयां परिधावता ।
अहमासादिता राजन्कुमारीपितुराश्रमे ॥६७॥
उर्वशी पूर्वचित्तिश्च सहजन्या च मेनका ।
विश्वाची च धृताची च षडेवाप्सरसां वराः ॥६८॥
तासां सा मेनका नाम व्रह्मयोनिर्वराप्सराः ।
दिवः संप्राप्य जगनींविश्वाभित्रादजीजनत् ॥६९॥
सा मां हिमवतः प्रस्थे सुषुवे मेनकाप्सराः ।
अवकीर्य च मां याता परात्मजमिवासतो॥७०॥
किं नु कर्माशुभं पूर्वे कृतवत्यन्यजन्मनि ।
यदहं बान्धवैस्त्यक्ता बाल्येसंप्रति च त्वया॥७१॥
कामं त्वयापरित्यक्ता गमिष्यामिस्वमाश्रमम् ।
इमं तु बालं संत्यक्तुंनार्हस्यात्मजमात्मनः ॥७२॥
॥ दुष्यन्त उवाच ॥
न पुत्रमभिजानामि त्वयिजातंशकुन्तले ।
असत्यवचनानार्यः कस्ते श्रद्धास्यते वचः ॥७३॥
मेनका निरनुक्रोशाबन्धकी जननी तव ।
यया हिमवतः पृष्ठेनिर्माल्यमिव चोज्झिता ॥७४॥
स चापि निरनुक्रोशः क्षत्रयोनिः पिता तव ॥
विश्वामित्रो ब्राह्मणत्वेलुब्धः कामवशंगतः ॥७५॥
मेनकाप्सरसां श्रेष्ठा महर्षीणां पिता च ते ।
तयोरपत्यं कस्मात्त्वंपुंश्चलीव प्रभाषसे ॥७६॥
अश्रद्धेयमिदं वाक्यं कथयन्ती न लज्जसे।
विशेषतोमत्सकाशेदुष्टतापसि गम्यताम् ॥७७॥
क्व महर्षिःस चैवाग्र्यः साप्सराः क्वच मेनका ।
क्वच त्वमेवं कृपणा तापसीवेषधारिणी ॥७८॥
अतिकायश्च ते पुत्रो बालोतिबलवानयम् ।
कथमल्पेन कालेन शालस्तम्भ इवोद्रतः ॥७९॥
मुनिकृष्टा च ते योनिः पुंश्चलोवप्रभाषसे ।
यदृच्छया कामरागाज्जाता मेनकया ह्यसि ॥८०॥
सर्वमेतत्परोक्षंमे यत्त्वं वदसितायसि ।
नाहं त्वामभिजानामियथेष्टंगम्यतां त्वया ॥८१॥
॥ शकुन्तलोवाच ॥
राजन्सर्पपमात्राणि परच्छिद्राणि पश्यसि।
आत्मनो विल्वमात्राणि पश्यन्नपि न पश्यसि ॥८२॥
मेनका त्रिदशेष्वेव त्रिदशाश्चानु मेनकाम् ।
ममैवोद्रिच्यते जन्म दुष्यन्त तव जन्मनः ॥८३॥
क्षितावटसि राजेन्द्र अन्तरिक्षे चराम्यहम् ।
आवयोरन्तरं पश्यमेरुसर्पपयोरिव ॥ ८४ ॥
महेन्द्रस्य कुवेरस्य यमस्य वरुणस्य च।
भवनान्यनुसंयामि प्रभावंपश्यमे नृप ॥८५॥
सत्यश्चापि प्रवादोषंयं प्रवक्ष्यामि तेनघ।
निदर्शनार्थे न द्वेपाच्छ्रुत्वा तं क्षन्तुमर्हसि ॥८६॥
विरूपो यावदादर्शे नात्मनः पश्यते मुखम् ।
मन्यते तावदात्मानमन्येभ्यो रूपवत्तरम् ॥८७॥
यदा स्वमुखमादर्शेविकृतंसोभिवीक्षते ।
तदान्तरं विजानीते आत्मानं चेतरं जनम् ॥८८॥
अतीव रूपसंपन्नो न कंचिदवमन्यते ।
अतीव जल्पन्दुर्वाचो मवतीहविहेठकः॥८९॥
मूर्खोहि जल्पतां पुंसांश्रुत्वावाचः शुभाशुभः।
अशुभं वाक्यमादत्तेपुरीपमिव सूकरः ॥९०॥
प्राज्ञस्तु जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः ।
गुणवद्वाक्यभादत्तेहंसः क्षीरमिवांभसः ॥९१॥
अन्यान्परिवदन्साधूर्यथाहि परितप्यते ।
तथा परिवदन्नन्यास्तुष्टों भवति दुर्जनः ॥९२॥
अभिवाद्य यथावृद्धान्सन्तो गच्छन्ति निर्वृतिम्।
एवं सज्जनमाक्रुश्यमूर्खोमवति निर्वृतः ॥९३॥
सुखं जीवन्त्यदोषज्ञामूर्खादोषानुदर्शिनः ।
यत्र वाच्याः परेः सन्तः परानाहुस्तथाविधान् ॥९४॥
अतो हास्यतरं लोके किचिदन्यत्र विद्यते।
यत्र दुर्जनभित्याह दुर्जनःसज्जनंस्वयम् ॥९५॥
सत्यधर्मच्युतात्पुंसः क्रुद्धादाशीविषादिव ।
अनास्तिकोप्युद्विजते जनः किं पुनरास्तिकः ॥९६॥
स्वयमुत्पाद्यवैपुत्रं सदृशं यो नमन्यते।
तस्य देवाःश्रियं घ्रान्ति न च लोकानुपाश्रुते ॥९७॥
कुलवंशप्रतिष्ठां हि पितरः पुत्रमव्रुवन् ।
उत्तमं सर्वधर्माणां तस्मात्पुत्रंन संत्यजेत् ॥९८॥
स्वपत्नीप्रभवान्यञ्च लब्धान्क्रोतान्विवर्धितान् ।
कृतानन्यासु चोत्पन्नान्पुत्रान्वैमनुरव्रवीत् ॥९९॥
धर्मकीर्त्यावहा नॄणांमनसः प्रीतिवर्धनाः।
जायन्तेनरकाज्जाताःपुत्रा धर्मप्लवाःपितॄन् ॥१००॥
स त्वंनृपतिशार्दूल पुत्रंन त्यक्त्तुमर्हसि।
आत्मानं सत्यधर्मौ च पालयन्पृथिवीपते ॥१॥
नरेन्द्रसिंह कपटं न वोढुंत्वमिहार्हसि ।
वरं क्रूपशताद्वाषी वरं वापीशतात्क्रतुः॥२॥
वरं क्रतुशतात्पुत्रः सत्यंपुत्रशताद्वरम् ।
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ॥३॥
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ।
सर्ववेदाधिगमनं सर्वतीर्थावगाहनम् ॥ ४॥
सत्यं च वचनं राजन्समंवा स्यान्न वा समम् ।
नास्ति सत्यसमो धर्मो न सत्याद्विद्यते परम् ॥५॥
नहि तीव्रतरं किञ्चिदनृतादिह विद्यते ।
राजन्सत्यं परं वह्मसत्यंच समयःपरः॥६॥
मा त्याक्षीः समयंराजन्सत्यं संगतमस्तु ते ।
अनृतेचेत्प्रसङ्गस्ते श्रद्दधासि न चेत्स्वयम् ॥७॥
आत्मना हन्त गच्छामित्वादृशे नास्ति संगतम् ।
त्वामृतेपिहि दुष्यन्त शैलराजावतंसकाम् ॥८॥
चतुरन्ताभिमामुर्वोपुत्रो मे पालयिष्यति ।
॥ वैशंपायन उवाच ॥
एताव्रदुक्त्वाराजानं प्रातिष्ठत शकुन्तला ॥९॥
अथान्तरिक्षाद्दुष्यन्तं वागुवाचादशरीरिणी ।
ऋत्विक्पुरोहिताचार्यैर्मन्त्राभिश्व वृतं तदा ॥१०॥
भस्त्रा माता पितुः पुत्रो येन ज्ञातः स एव सः।
भरस्वपुत्रं दुष्यन्त मवमेस्थाः शकुन्तला॥११॥
रेतोधाः पुत्रं नयति नरदेव यमक्षयात् ।
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥१२॥
जाया जनयते पृत्रमात्मनोङ्गंद्विधाकृतम् ।
तस्माद्भरस्व दुष्यन्त पुत्रं शाकुन्तलं नृप ॥१३॥
अभूतिरेषा यत्त्यक्त्वा जीवेज्जोवन्तमात्मजम्।
शाकुन्तलंमहात्मानं दौष्यन्ति भर पौरव ॥१४॥
भर्तव्योयं त्वयायस्मादस्माकं वचनादपि ।
तस्माद्भवत्वयं नाम्ना भरतो नाम ते सुतः ॥१५॥
तच्छ्रुत्वा पौरवो राजा व्याहृतं त्रिदिवौकसाम्।
पुरोहितममात्यांश्च संप्रहृष्टोब्रवीदिदम्॥१६॥
शृण्वन्त्वेवद्भवन्तोस्य देवदूतस्य भाषणम्
अहंचाप्येवमेवैनं जानामि स्वयमात्मजम् ॥१७॥
यद्यहं वचनादेव गृह्णीयाभिस्वमात्मजम् ।
भवेद्धिशङ्क्यो लोकस्य नैव शुद्धो भवेदयम् ॥१८॥
॥ वैशंपायन उवाच ॥
तं विशोध्य तदा राजादेवदूतेन भारत ।
दुष्टः प्रमुदितश्चापि प्रतिजग्राह तंसुतम् ॥१९॥
ततस्तस्य तदा राजा पितृकर्माणि सर्वशः।
कारयामास मुदितः प्रीतिमानात्मजस्य ह ॥२०॥
मूर्ध्निचैनमुपाधाय सस्नेहं परिषरवजे।
स भाज्यमानो विप्रैश्च स्तूयमानश्च वन्दिभिः ॥२१॥
स मुदं परमांलेभेपुत्र संस्पर्शजांनृपः ।
तां चैवभार्योदुष्यन्तः पूजयामास धर्मतः ॥२२॥
अव्रवीचचैव तां राज्ञा श्त्वपर्वभिदं वचः ।
कृतो लोकपरोक्षोयं संबन्धोयं त्वया सह ॥२३॥
तस्मादितन्मया देवि त्वच्छुद्धचर्थ विचारितम् । .
मन्यते चैव लोकस्ते स्त्रीभावान्मयि संगतम् ॥२४॥
पुत्रश्चायं वृतो राज्ये मया तस्माद्धिचारितम् ।
यच्चकोपि तयात्यर्थे त्वयोक्तोस्म्यप्रियं प्रिये ॥२५॥
प्रणयिन्या विशालाक्षि तत्क्षान्तं ते मया शुभे ।
तामेव मुक्त्वाराजर्षिर्दुष्यन्तो महिषीं प्रियाम् ॥२६॥
बार्क्षेभिरन्नपानैश्च पूजयामास भारत ।
दुष्यन्तस्तु तदा राजा पुत्रंशाकुन्तलं तदा ॥२७॥
भरतं नामतः कृत्वा यौवराज्येभ्यवेचयत् ।
तस्य तत्प्रथितं चक्रं प्रावर्तत महात्मनः ॥२८॥
भास्वरं दिव्यमजितं लोकसंनादनं महत्।
स विजित्य महीपालांश्चकार वशवर्तिनः ॥२९॥
चचार च सतां धर्मं प्राप चानुत्तमं यशः।
स राजा चक्रवर्त्यासीत्सार्वभौमः प्रतापवान् ॥३०॥
ईजेच बहुभिर्यज्ञैर्यथा शक्रो मरुत्पतिः ।
याजयामास तं कण्वो विधिवद्भूरिदक्षिणाम् ॥३१॥
श्रोमान्गोविततं नाम वाजिमेधमवाप सः।
यस्मिन्सहस्रं पद्मानां कण्वाय भरतो ददौ ॥३२॥
भरताद्भारती कीर्तिर्येनेदं भारतं कुलम् ।
अपरे ये च पूर्वेवै भारता हति विश्रुताः ॥३३॥
भरतस्यान्ववायेहि देवकल्पा महौजसः।
बभूवुर्ब्रह्मकल्पाश्च बहवो राजसत्तमाः॥३४॥
येषामपरिमेयानि नामधेयानि सर्वशः।
तेषां तु ते यथा मुख्यं कीर्तयिष्यामि भारत ॥३५॥
महाभागान्देवकल्पान्सत्यार्जवपरायणान् ।
॥ इति श्रीमहाभारते आदिपर्वणि संभवपर्वणि शकुन्तलोपाख्याने सप्तमोध्यायः ॥७॥
॥ समाप्तेयं शंकररत्नावली ॥
]