भारतश्रवणविध्यध्यायः ।
जनमेजय उवाच । 001
भगवन्केन विधिना श्रोतव्यं भारतं बुधैः । 001a
फलं किं के च देवाश्च पूज्या वै पारणेष्विह ॥ 001c
देयं समाप्ते भगवन्किं च पर्वणिपर्वणि । 002a
वाचकः कीदृशश्चात्र एष्टव्यस्तद्ब्रवीहि मे ॥ 002c
वैशम्पायन उवाच । 003
शृणु राजन्विधिमिमं फलं यच्चापि भारतात् । 003a
श्रुताद्भवति राजेन्द्र यत्त्वं मामनुपृच्छसि ॥ 003c
दिवि देवा महीपाल क्रीडार्थमवनिं गताः । 004a
कृत्वा कार्यमिदं चैव ततश्च दिवमागताः ॥ 004c
हन्त यत्ते प्रवक्ष्यामि तच्छृणुष्व समाहितः । 005a
ऋषीणां देवतानां च सम्भवं वसुधातले ॥ 005c
अत्र रुद्रास्तथा साध्या विश्वेदेवाश्च शाश्वताः । 006a
आदित्याश्चाश्विनौ देवौ लोकपाला महर्षयः ॥ 006c
गुह्यकाश्च सगन्धर्वा नागा विद्याधरास्तथा । 007a
सिद्धा धर्मः स्वयम्भूश्च मुनिः कात्यायनो वरः ॥ 007c
गिरयः सागरा नद्यस्तथैवाप्सरसां गणाः । 008a
ग्रहाः संवत्सराश्चैव अयनान्यृतवस्तथा ॥ 008c
स्थावरं जङ्गमं चैव जगत्सर्वं सुरासुरम् । 009a
भातरे भरतश्रेष्ठ एकस्थमिह दृश्यते ॥ 009c
तेषां श्रुत्वा प्रतिष्ठानं नामकर्मानुकीर्तनात् । 010a
कृत्वाऽपि पातकं घोरं सद्यो मुच्येत मानवः ॥ 010c
इतिहासमिमं श्रुत्वा यथावदनुपूर्वशः । 011a
संयतात्मा शुचिर्भूत्वा पारं गत्वा च भारते ॥ 011c
तेषां श्राद्धानि देयानि श्रुत्वा भारत भारतम् । 012a
ब्राह्मणेभ्यो यथाशक्त्या भक्त्या च भरतर्षभ ॥ 012c
महादानानि देयानि रत्नानि विविधानि च । 013a
गावः कांस्योपदोहाश्च कन्याश्चैव स्वलङ्कृताः ॥ 013c
सर्वकामगुणोपेता यानानि विविधानि च । 014a
भवनानि विचित्राणि भूमिर्वासांसि काञ्चनम् ॥ 014c
वाहनानि च देयानि हया मत्ताश्च वारणाः । 015a
शयनं शिबिकाश्चैव स्यन्दनाश्च स्वलङ्कृताः ॥ 015c
यद्यद्गृहे वरं किञ्चिद्यद्यदस्ति महद्वसु । 016a
तत्तद्देयं द्विजातिभ्य आत्मा दाराश्च सूनवः ॥ 016c
श्रद्धया परया युक्तं क्रमशस्तस्य पारगः । 017a
शक्तितः सुमना हृष्टः शुश्रूषुरविकल्पकः ॥ 017c
सत्यार्जवरतो दान्तः शुचिः शौचसमन्वितः । 018a
श्रद्धधानो जितक्रोधो यथा सिद्ध्यति तच्छृणु ॥ 018c
शुचिः शीलान्विताचारः शुक्लवासा जितेन्द्रियः । 019a
संस्कृतः सर्वशास्त्रज्ञः श्रद्दधानोऽनसूयकः ॥ 019c
रूपवान्सुभगो दान्तः सत्यवादी जितेन्द्रियः । 020a
दानमानगृहीतश्च कार्यो भवति वाचकः ॥ 020c
अविलम्बमनायस्तमद्रुतं धीरमूर्जितम् । 021a
असंसक्ताक्षरपदं स्वरभावसमन्वितम् ॥ 021c
त्रिषष्टिवर्णसंयुक्तमष्टस्थानसमीरितम् । 022a
वाचयेद्वाचकः स्वस्थः स्वासीनः सुसमाहितः ॥ 022c
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । 023a
देवीं सरस्वतीं(व्यासं) चैव ततो जयमुदीरयेत् ॥ 023c
ईदृशाद्वाचकाद्राजञ्श्रुत्वा भारत भारतम् । 024a
नियमस्थः शुचिः श्रोता शृण्वन्स फलमश्नुते ॥ 024c
पारणं प्रथमं प्राप्य द्विजान्कामैश्च तर्पयन् । 025a
आग्निष्टोमस्य यज्ञस्य फलं वै लभते नरः ॥ 025c
अप्सरोगणसङ्कीर्णं विमानं लभते महत् । 026a
प्रहृष्टः स तु देवैश्च दिवं याति समाहितः ॥ 026c
द्वितीयं पारणं प्राप्य सोऽतिरात्रफलं लभेत् । 027a
सर्वरत्नमयं दिव्यं विमानमधिरोहति ॥ 027c
दिव्यमाल्याम्बरधरो दिव्यगन्धविभूषितः । 028a
दिव्याङ्गदधरो नित्यं देवलोके महीयते ॥ 028c
तृतीयं पारणं प्राप्य द्वादशाहफलं लभेत् । 029a
वसत्यमरसङ्काशो वर्षाण्ययुतशो दिवि ॥ 029c
चतुर्थे वाजपेयस्य पञ्चमे द्विगुणं फलम् । 030a
उदितादित्यसङ्काशं ज्वलन्तमनलोपमम् ॥ 030c
विमानं विबुधैः सार्धमारुह्य दिवि गच्छति । 031a
वर्षायुतानि भवने शक्रस्य दिवि मोदते ॥ 031c
षष्ठे द्विगुणमस्तीति सप्तमे त्रिगुणं फलम् । 032a
कैलासशिखराकारं वैदूर्यमणिवेदिकम् ॥ 032c
परिक्षिप्तं च बहुधा मणिविद्रुमभूषितम् । 033a
विमानं समधिष्ठाय कामगं साप्सरोगणम् ॥ 033c
सर्वाल्ँलोकान्विचरते द्वितीय इव भास्करः । 034a
अष्टमे राजसूयस्य पारणे लभते फलम् ॥ 034c
चन्द्रोदयनिभं रम्यं विमानमधिरोहति । 035a
चन्द्ररश्मिप्रतीकाशैर्हयैर्युक्तं मनोजवैः ॥ 035c
सेव्यमानो वरस्त्रीणां चन्द्रात्कान्ततरैर्मुखैः । 036a
मेखलानां निनादेन नूपुराणां च निःस्वनैः ॥ 036c
अङ्के परमनारीणां सुखसुप्तो विबुध्यते । 037a
नवमे क्रतुराजस्य वाजिमेधस्य भारत ॥ 037c
काञ्चनस्तम्भनिर्यूहवैदूर्यकृतवेदिकम् । 038a
जाम्बूनदमयैर्दिव्यैर्गवाक्षैः सर्वतो वृतम् ॥ 038c
सेवितं चाप्सरःसङ्घैर्गन्धर्वैर्दिविचारिभिः । 039a
विमानं समधिष्ठाय श्रिया परमया ज्वलन् ॥ 039c
दिव्यमाल्याम्बरधरो दिव्यचन्दनरूषितः । 040a
मोदते दैवतैः सार्धं दिवि देव इवापरः ॥ 040c
दशमं पारणं प्राप्य द्विजातीनभिवन्द्य च । 041a
किङ्किणीजालनिर्घोषं पताकाध्वजशोभितम् ॥ 041c
रत्नवेदिकसम्बाधं वैदूर्यमणितोरणम् । 042a
हेमजालपरिक्षिप्तं प्रवालवलभीमुखम् ॥ 042c
गन्धर्वैर्गीतकुशलैरप्सरोभिश्च शोभितम् । 043a
विमानं सुकृतावासं सुखेनैवोपपद्यते ॥ 043c
मुकुटेनाग्निवर्णेन जाम्बूनदविभूषिणा । 044a
दिव्यचन्दनदिग्धाङ्गो दिव्यमाल्यविभूषितः ॥ 044c
दिव्याल्ँलोकान्विचरति दिव्यैर्भोगैः समन्वितः । 045a
विबुधानां प्रसादेन श्रिया परमया युतः ॥ 045c
अथ वर्षगणानेवं स्वर्गलोके महीयते । 046a
ततो गन्धर्वसहितः सहस्राण्येकविंशतिम् ॥ 046c
पुरन्दरपुरे रम्ये शक्रेण सह मोदते । 047a
दिव्ययानविमानेषु लोकेषु विविधेषु च ॥ 047c
दिव्यनारीगणाकीर्णो निवसत्यमरो यथा । 048a
ततः सूर्यस्य भवने चन्द्रस्य भवने तथा ॥ 048c
शिवस्य भवने राजन्विष्णोर्याति सलोकताम् । 049a
एवमेतन्महाराज नात्र कार्या विचारणा । 049c
श्रद्दधानेन वै भाव्यमेवमाह गुरुर्मम । 050a
वाचकस्य तु दातव्यं मनसा यद्यदिच्छति ॥ 050c
हस्त्यश्वरथयानानि वाहनानि विशेषतः । 051a
कटके कुण्डले चैव ब्रह्मसूत्रं तथा परम् ॥ 051c
वस्त्रं चैव विचित्रं च गन्धं चैव विशेषतः । 052a
देववत्पूजयेत्तं तु विष्णुलोकमवाप्नुयात् ॥ 052c
अतः परं प्रवक्ष्यामि यानि देयानि भारते । 053a
वाच्यमाने तु विप्रेभ्यो राजन्पर्वणिपर्वणि ॥ 053c
जातिं देशं च सत्यं च माहात्म्यं भरतर्षभ । 054a
धर्मं वृत्तिं च विज्ञाय क्षत्रियाणां नराधिप ॥ 054c
स्वस्ति वाच्य द्विजानादौ ततः कार्ये प्रवर्तिते । 055a
समाप्ते पर्वणि ततः स्वशक्त्या पूजयेद्द्विजान् ॥ 055c
आदौ तु वाचकं चैव वस्त्रगन्धसमन्वितम् । 056a
विधिवद्भोजयेद्राजन्मधुपायसमुत्तमम् ॥ 056c
ततो मूलफलप्रायं पायसं मधुसर्पिषा । 057a
आस्तीके भोजयेद्राजन्दद्याच्चैव गुडौदनम् ॥ 057c
अपूपैश्चैव पूपैश्च मोदकैश्च समन्वितम् । 058a
सभापर्वणि राजेन्द्र हविष्यं भोजयेद्द्विजान् ॥ 058c
आरण्यके मूलफलैस्तर्पयेत्तु द्विजोत्तमान् । 059a
अरणीपर्व चासाद्य जलकुम्भान्प्रदापयेत् ॥ 059c
तर्पणानि च मुख्यानि वन्यमूलफलानि च । 060a
सर्वकामगुणोपेतं विप्रेभ्योऽन्नं प्रदापयेत् ॥ 060c
विराटपर्वणि तथा वासांसि विविधानि च । 061a
उद्योगे भरतश्रेष्ठ सर्वकामगुणान्वितम् ॥ 061c
भोजनं भोजयेद्विप्रान्गन्धमाल्यैरलङ्कृतान् । 062a
भीष्मपर्वणि राजेन्द्र दत्त्वा यानमनुत्तमम् ॥ 062c
ततः सर्वगुणोपेतमन्नं दद्यात्सुसंस्कृतम् । 063a
द्रोणपर्वणि विप्रेभ्यो भोजनं परमार्चितम् ॥ 063c
शराश्च देया राजेन्द्र चापान्यसिवरास्तथा । 064a
कर्णपर्वण्यपि तथा भोजनं सार्वकामिकम् ॥ 064c
विप्रेभ्यः संस्कृतं सम्यग्दद्यात्संयतमानसः । 065a
शल्यपर्वणि राजेन्द्र मोदकैः सगुडौदनैः ॥ 065c
अपूपैस्तर्पणैश्चैव सर्वमन्नं प्रदापयेत् । 066a
गदापर्वण्यपि तथा मुद्गमिश्रं प्रदापयेत् ॥ 066c
स्त्रीपर्वणि तथा रत्नैस्तर्पयेत्तु द्विजोत्तमान् । 067a
घृतौदनं पुरस्ताच्च ऐषीके दापयेत्पुनः ॥ 067c
ततः सर्वगुणोपेतमन्नं दद्यात्सुसंस्कृतम् । 068a
शान्तिपर्वण्यपि तथा हविष्यं भोजयेद्द्विजान् ॥ 068c
आश्वमेधिकमासाद्य भोजनं सार्वकामिकम् । 069a
तथाऽऽश्रमनिवासे तु हविष्यं भोजयेद्द्विजान् ॥ 069c
मौसले सार्वगुणिकं गन्धमाल्यानुलेपनम् । 070a
महाप्रास्थानिके तद्वत्सर्वकामगुणान्वितम् ॥ 070c
स्वर्गपर्वण्यपि तथा हविष्यं भोजयेद्द्विजान् । 071a
हरिवंशसमाप्तौ तु सहस्रं भोजयेद्द्विजान् ॥ 071c
गामेकां निष्कसंयुक्तां ब्राह्मणाय निवेदयेत् । 072a
तदर्धेनापि दातव्या दरिद्रेणापि पार्थिव ॥ 072c
प्रतिपर्वसमाप्तौ तु पुस्तकं वै विचक्षणः । 073a
सुवर्णेन च संयुक्तं वाचकाय निवेदयेत् ॥ 073c
हरिवंशे पर्वणि च पायसं तत्र भोजयेत् । 074a
पारणेपारणे राजन्यथावद्भरतर्षभ ॥ 074c
समाप्य सर्वाः प्रयतः संहिताः शास्त्रकोविदः । 075a
शुभे देशे निवेश्याथ क्षौमवस्त्राभिसंवृताः ॥ 075c
शुक्लाम्बरधरः स्रग्वी सुचिर्भूत्वा स्वलङ्कृतः । 076a
अर्चयेत् यथान्यायं गन्धमाल्यैः पृथक्पृथक् । 076c
संहितापुस्तकान्राजन्प्रयतः सुसमाहितः । 077a
भक्ष्यैर्माल्यैस्च पेयैश्च कामैश्च विविधैः शुभैः ॥ 077c
हिरण्यं च सुवर्णं च दक्षिणामथ दापयेत् । 078a
सर्वत्र त्रिपलं स्वर्णं दातव्यं प्रयतात्मना ॥ 078c
तदर्धं पादशेषं वा वित्तशाठ्यविवर्जितम् । 079a
यद्यदेवात्मनोऽभीष्टं तत्तद्देयं द्विजातये ॥ 079c
सर्वथा तोषयेद्भक्त्या वाचकं गुरुमात्मनः । 080a
देवताः कीर्तयेत्सर्वा नरनारायणौ तथा ॥ 080c
ततो गन्धैश्च माल्यैश्च स्वलङ्कृत्य द्विजोत्तमान् । 081a
तर्पयेद्विविधैः कानैर्दानैश्चोच्चावचैस्तथा ॥ 081c
अतिरात्रस्य यज्ञस्य फलं प्राप्नोति मानवः । 082a
प्राप्नुयाच्च क्रतुफलं तथा पर्वणिपर्वणि ॥ 082c
वाचको भरतश्रेष्ठ व्यक्ताक्षरपदस्वरः । 083a
भविष्यं श्रावयेद्विद्वाञ्भारतं भरतर्षभ ॥ 083c
भुक्तवत्सु द्विजेन्द्रेषु यथावत्सम्प्रदापयेत् । 084a
वाचकं भरतश्रेष्ठ भोजयित्वा स्वलङ्कृतम् ॥ 084c
वाचके परितुष्टे तु शुभा प्रीतिरनुत्तमा । 085a
ब्राह्मणेषु तु तुष्टेषु प्रसन्नाः सर्वदेवताः ॥ 085c
ततो हि वरणं कार्यं द्विजानां भरतर्षभ । 086a
सर्वकामैर्यथान्यायं साधुभिश्च पृथग्विधैः ॥ 086c
इत्येष विधिरुद्दिष्टो मया ते द्विपदांवर । 087a
श्रद्दधानेन वै भाव्यं यन्मां त्वं परिपृच्छसि ॥ 087c
भारतश्रवणे राजन्पारणे च नृपोत्तम । 088a
सदा यत्नवता भाव्यं श्रेयस्तु परमिच्छता ॥ 088c
भारतं शृणुयान्नित्यं भारतं परिकीर्तयेत् । 089a
भारतं भवने यस्य तस्य हस्तगतो जयः ॥ 089c
भारतं परमं पुण्यं भारते विविधाः कथाः । 090a
भारतं सेव्यते देवैर्भारतं परमं पदम् ॥ 090c
भारतं सर्वशास्त्राणामुत्तमं भरतर्षभ । 091a
भारतात्प्राप्यते मोक्षस्तत्त्वमेतद्ब्रवीमि तत् ॥ 091c
महाभारतमाख्यानं क्षितिं गां च सरस्वतीम् । 092a
ब्राह्मणान्केशवं चैव कीर्तयन्नावसीदति ॥ 092c
वेदे रामायणे पुण्ये भारते भरतर्षभ । 093a
आदौ चान्ते च मध्ये च हरिः सर्वत्र गीयते ॥ 093c
यत्र विष्णुकथा दिव्याः श्रुतयश्च सनातनाः । 094a
तच्छ्रोतव्यं मनुष्येण परं पदमिहेच्छता ॥ 094c
एतत्पवित्रं परममेतद्धर्मनिदर्शनम् । 095a
एतत्सर्वगुणोपेतं श्रोतव्यं भूतिमिच्छता ॥ 095c
कायिकं वाचिकं चैव मनसा समुपार्जितम् । 096a
तत्सर्वं नाशमायाति तमः सूर्योदये यथा ॥ 096c
अष्टादशपुराणानां श्रवणाद्यत्फलं भवेत् । 097a
तत्फलं समवाप्नोति वैष्णवो नात्र संशयः ॥ 097c
स्त्रियश्च पुरुषाश्चैव वैष्णवं पदमाप्नुयुः । 098a
स्त्रीभिश्च पुत्रकामाभिः श्रोतव्यं वैष्णवं यशः ॥ 098c
दक्षिणा चात्र देया वै निष्कपञ्चसुवर्णकम् । 099a
वाचकाय यथाशक्त्या यथोक्तं फलमिच्छता ॥ 099c
स्वर्णशृङ्गीं च कपिलां सवत्सां वस्त्रसंवृताम् । 100a
वाचकाय च दद्याद्धि आत्मनः श्रेय इच्छता ॥ 100c
अलङ्कारं प्रदद्याच्च पाण्योर्वै भरतर्षभ । 101a
कर्णस्याभरणं दद्याद्धनं चैव विशेषतः ॥ 101c
भूमिदानं समादद्याद्वाचकाय नराधिप । 102a
भूमिदानसमं दानं न भूतं भविष्यति ॥ 102c
शृणोति श्रावयेद्वाऽपि सततं चैव यो नरः । 103a
सर्वपापविनिर्मुक्तो वैष्णवं पदमाप्नुयात् ॥ 103c
पितॄनुद्धरते सर्वानेकादशसमुद्भवान् । 104a
आत्मानं ससुतं चैव स्त्रियं च भरतर्षभ ॥ 104c
दशांशश्चैव होमोऽपि कर्तव्योऽत्र नराधिप । 105a
इदं मया तवाग्रे च प्रोक्तं सर्वं नरर्षभ ॥ ॥ 105c
इति श्रीमन्महाभारते शतसाहस्र्यां संहितायां वैयासिक्यां हरिवंशोक्तभारतश्रवणविधावध्यायः ॥ स्वर्गारोहणपर्व सम्पूर्णम् ॥ 18 ॥ श्रीमन्महाभारतं सम्पूर्णम् ॥ इदं स्वर्गारोहणपर्व कुम्भघोणस्थेन टी.आर्.कृष्णाचार्येण टी.आर्.व्यासाचार्येण च मुम्बय्यां निर्णयसागरमुद्रायन्त्रे मुद्रापितम् । शकाब्दाः 1832 सन 1910. अनेन मुद्रणेन श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवः प्रीयताम् ।
18-6-* यद्यप्ययध्यायो दाक्षिणात्यकोशेषु क्वापि न दृश्यते तथापि “भगवन्नित्यादिः फलाध्यायो व्यासेन हरिवंशान्ते उक्तः अत्र श्रोतृप्ररोचनार्थमुक्त” इति नीलकण्ठीयव्याख्यानोक्तप्रयोजनायैवास्माभिरपीह स्थापितः ॥