अध्यायः 005
वैशम्पायनेन जनमेजयं प्रति भीष्मद्रोणादीनां स्वस्वसुकृतफलत्वेन स्वर्गभोगानन्तरं स्वैस्स्वैरंशिभिः सहैक्यप्राप्तिकथनम् ॥ 1 ॥ जनमेजयेन यज्ञान्ते सबहुमानमास्तिकादिप्रेषणपूर्वकं तक्षशिलातो हास्तिनमेत्य प्रजापालनपूर्वकं सुखनिवासः ॥ 2 ॥ सौतिना शौनकादीन्प्रति जनमेजयाय वैशम्पायनोक्तभारतकथनसमापनपूर्वकं भारतमहिमप्रशंसनम् ॥ 3 ॥
जनमेजय उवाच । 001
भीष्मद्रोणौ महात्मानौ धृतराष्ट्रश्च पार्थिवः । 001a
विराटद्रुपदौ चोभौ शङ्खश्चैवोत्तरस्तथा ॥ 001c
धृष्टकेतुर्जयत्सेनो राजा चैव स सत्यजित् । 002a
दुर्योधनसुताश्चैव शकुनिश्चैव सौबलः ॥ 002c
कर्णपुत्राश्च विक्रान्ता राजा चैव जयद्रथः । 003a
घटोत्कचादयश्चैव ये चान्ये नानुकीर्तिताः ॥ 003c
ये चान्ये कीर्तिता वीरा राजानो दीप्तमूर्तयः । 004a
स्वर्गे कालं कियन्तं ते तस्थुस्तदपि शंस मे ॥ 004c
आहोस्विच्छाश्वतं स्थानं तेषां तत्र द्विजोत्तम । 005a
अन्ते वा कर्मणां कां ते गतिं प्राप्ता नरर्षभाः ॥ 005c
एतदिच्छाम्यहं श्रोतुं प्रोच्यमानं द्विजोत्तम । 006a
तपसा हि प्रदीप्तेन सर्वं त्वमनुपश्यति ॥ 006c
सौतिरुवाच । 007
इत्युक्तः स तु विप्रर्षिरनुज्ञातो महात्मना । 007a
व्यासेन तस्य नृपतेराख्यातुमुपचक्रमे । 007c
वैशम्पायन उवाच । 008
गन्तव्यं कर्मणामन्ते सर्वेषां मनुजाधिप । 008a
शृणु गुह्यमिदं राजन्देवानां भरतर्षभ । 008c
यदुवाच महातेजा दिव्यचक्षुः प्रतापवान् ॥ 008e
मुनिः पुराणः कौरव्य पाराशर्यो महाव्रतः । 009a
अगाधबुद्धिः सर्वज्ञो गतिज्ञः सर्वकर्मणाम् ॥ 009c
तेनोक्तं कर्मणामन्ते प्रविशन्ति स्विकां तनुम् ॥ 010ac
वसूनेव महातेजा भीष्मः प्राप महाद्युतिः । 011a
अष्टावेव हि दृश्यन्ते वसवो भरतर्षभ ॥ 011c
बृहस्पतिं विवेशाथ द्रोणो ह्यङ्गिरसां वरम् । 012a
कृतवर्मा तु हार्दिक्यः प्रविवेश मरुद्गणान् ॥ 012c
सनत्कुमारं प्रद्युम्नः प्रविवेश यथागतम् । 013a
धृतराष्ट्रो धनेशस्य लोकान्प्राप दुरासदान् ॥ 013c
धृतराष्ट्रेण सहिता गान्धारी च यशस्विनी । 014a
पत्नीभ्यां सहितः पाण्डुर्महेन्द्रसदनं ययौ ॥ 014c
विराटद्रुपदौ चोभौ धृष्टकेतुश्च पार्थिवः । 015a
निशठाक्रूरसाम्बाश्च भानुः कण्वो विदूरथः ॥ 015c
भूरिश्रवाः शलश्चैव भूरिश्च पृथिवीपतिः । 016a
कंसश्चैवोग्रसेनश्च वसुदेवस्तथैव च ॥ 016c
उत्तरश्च सह भ्रात्रा शङ्खेन नरपुङ्गवः । 017a
विश्वेषां देवतानां ते विविशुर्नरसत्तमाः ॥ 017c
[वर्चा नाम महातेजाः सोमपुत्रः प्रतापवान् । 018a
सोऽभिमन्युर्नृसिंहस्य फल्गुनस्य सुतोऽभवत् ॥ 018c
स युद्ध्वा क्षत्रधर्मेण यथा नान्यः पुमान्क्वचित् ।] 019a
विवेश सोमं धर्मात्मा कर्मणोऽन्ते महारथः ॥ 019c
आविवेश रविं कर्णो निहतः पुरुषर्षभ । 020a
द्वापरं शकुनिः प्राप धृष्टद्युम्नस्तु पावकम् ॥ 020c
धृतराष्ट्रात्मजाः सर्वे यातुधानान्प्रपेदिरे । 021a
धर्ममेवाविशत्क्षत्ता राजा चैव युधिष्ठिरः ॥ 021c
अनन्तो भगवान्देवः प्रविवेश रसातलम् । 022a
पितामहनियोगाद्वै यो योगाद्गामधारयत् ॥ 022c
यः स नारायणो नाम देवदेवः सनातनः । 023a
तस्यांशो वासुदेवस्तु कर्मणोऽन्ते विवेश ह ॥ 023c
षोडशस्त्रीसहस्राणि वासुदेवपरिग्रहाः । 024a
अमज्जंस्ताः सरस्वत्यां कालेन जनमेजय ॥ 024c
तत्र त्यक्त्वा शरीराणि दिवमारुरुहुः पुनः । 025a
ताश्चैवाप्सरसो भूत्वा वासुदेवमुपाविशन् ॥ 025c
हतास्तस्मिन्महायुद्धे ये वीरास्तु महारथाः । 026a
घटोत्कचादयश्चैव देवान्यक्षांश्च भेजिरे ॥ 026c
दुर्योधनसहायाश्च राक्षसा येऽनुकीर्तिताः । 027a
प्राप्तास्ते क्रमशो राजन्सर्वलोकाननुत्तमान् ॥ 027c
भवनं च महेन्द्रस्य कुबेरस्य च धीमतः । 028a
वरुणस्य तथा लोकान्विविशुः पुरुषर्षभाः ॥ 028c
एतत्ते सर्वमाख्यातं विस्तरेण महाद्युते । 029a
कुरूणां चरितं कृत्स्नं पाण्डवानां च भारत ॥ 029c
सौतिरुवाच । 030
एतच्छ्रुत्वा द्विजश्रेष्ठात्स राजा जनमेजयः । 030a
विस्मितोऽभवदत्यर्थं यज्ञकर्मान्तरेष्वथ ॥ 030c
ततः समापयामासुः कर्म तत्तस्य याजकाः । 031a
आस्तिकश्चाभवत्प्रीतः परिमोक्ष्य भुजङ्गमान् ॥ 031c
ततो द्विजातीन्सर्वांस्तान्दक्षिणाभिरतोषयत् । 032a
पूजिताश्चापि ते राज्ञा ततो जग्मुर्यथागतम् ॥ 032c
विसर्जयित्वा विप्रांस्तान्राजाऽपि जनमेजयः । 033a
हृष्टस्तक्षशिलायाः स पुनरायाद्गजाह्वयम् ॥ 033c
एतत्ते सर्वमाख्यातं वैशम्पायनकीर्तितम् । 034a
व्यासाज्ञया समाज्ञातं सर्पसत्रे नृपस्य हि ॥ 034c
पुण्योऽयमितिहासाख्यः पवित्रं चेदमुत्तमम् । 035a
कृष्णेन मुनिना विप्र निर्मितं सत्यवादिना ॥ 035c
सर्वज्ञेन विधिज्ञेन धर्मज्ञानवता सता । 036a
अतीन्द्रियेण शुचिना तपसा भावितात्मना ॥ 036c
ऐश्वर्ये वर्तता चैव साङ्ख्ययोगवता तथा । 037a
नैकतन्त्रविबुद्धेन दृष्ट्वा दिव्येन चक्षुषा ॥ 037c
कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम् । 038a
अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम् ॥ 038c
'क्रीडां च वासुदेवस्य देवदेवस्य शाङ्गिणः । 039a
विश्वेषां देवभागानां जन्मसायुज्यमेव च ॥ ' 039c
य इदं शृणुयाद्विद्वान्पर्वसु द्विजसत्तमः । 040a
धूतपाप्मा जितस्वर्गो ब्रह्मभूयाय गच्छति ॥ 040c
कार्ष्णं वेदमिमं सर्वं शृणुयाद्यः समाहितः । 041a
ब्रह्महत्याकृतं पापं तत्क्षणादेव नश्यति ॥ 041c
यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः । 042a
अक्षय्यमन्नपानं वै पितॄंस्तस्योपतिष्ठते ॥ 042c
अह्ना यदेनः कुरुते इन्द्रियैर्मनसाऽपि वा । 043a
महाभारतमाख्याय सर्पपापैः प्रमुच्यते ॥ 043c
[यद्रात्रौ कुरुते पापं ब्राह्मणः स्त्रीगणैर्वृतः । 044a
महाभारतमाख्याय पूर्वां सन्ध्यां प्रमुच्यते ॥ 044c
महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते । 045a
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ॥ 045c
अष्टादशपुराणानि धर्मशास्त्राणि सर्वशः । 046a
वेदाः साङ्गास्तथैकत्र भारतं चैकतः स्थितम् ॥ 046c
श्रूयतां सिंहनादोऽयमृषेस्तस्य महात्मनः । 047a
अष्टादशपुराणानां कर्तुर्वेदमहोदधेः ॥] 047c
त्रिभिर्वर्षैर्महत्पुण्यं कृष्णद्वैपायनः प्रभुः । 048a
अखिलं भारतं चेदं चकार भगवान्मुनिः ॥ 048c
[आकर्ण्य भक्त्या सततं जयाख्यं भारतं महत् । 049a
श्रीश्च कीर्तिस्तथा विद्या भवन्ति सहिताः सदा ॥] 049c
धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ । 050a
यदिहास्ति तदन्यत्र यन्नेहास्ति न कुत्रचित् ॥ 050c
“वाच्यते यत्र सततं जयाख्यं भारतं महत् । 051a
श्रीश्च कीर्तिश्च विद्या च भवन्ति मुदिताः सदा ॥ 051c
भारतस्य तु वक्तारं ब्रह्मर्षिं च महागुरुम् ॥ 052a
वैशम्पायनमारोप्य स्वर्णभद्रासनं तदा ॥ 052c
जनमेजयादिराजान आस्तिकाद्या द्विजातयः । 053a
धर्मदत्तादिवैश्याश्च सोम्यवंश्यादिशूद्रकाः ॥ 053c
प्रयुतं चायुतं चेति सहस्रं शतमित्यपि । 054a
दशकं चेति निष्काणामानर्चुस्तं महागुरुम् ॥ 054c
निष्काणां दशकं दत्त्वा मृतपुत्रोऽमृतप्रजः । 055a
ऊष्मादिव्याधियुक्तश्च शतं दत्त्वा निरामयः ॥ 055c
सहस्रदानात्सन्तानहीनः सन्तानपुत्रवान् । 056a
आयुरारोग्यमैश्वर्यं भेजुस्तेऽन्नं च पुत्रकान् ॥ 056c
सुवर्णं रजतं रत्नं सर्वाण्याभरणानि च । 057a
सर्वोपकरणैर्युक्तं निधिनिक्षेपसंयुतम् ॥ 057c
इष्टकाभित्तिसंयुक्तमग्निबाधादिवर्जितम् । 058a
देवपूजाग्निहोत्रादिपाठार्थगृहसंयुतम् । 058c
सान्तर्बहिस्संवरणं सप्रासादं सगोगृहम् ॥ 058e
व्यष्ट्या समष्ट्या वा दद्यात्स्वर्गारोहणपर्वणि । 059a
निवृत्तिकामो दद्याच्चेत्पुनर्जन्म न विद्यते ॥ 059c
सकामश्चेद्ब्रह्मकल्पं सुखं ब्रह्मगृहे वसेत् ॥ 060ac
पुराणमुखतो यस्माद्वेदान्तज्ञानमाप्यते । 061a
स तेन गुरुराख्यातस्तत्पूजा हीशपूजनम् ॥ 061c
भारतस्य तु वक्तारं श्रोतारं लेखकांस्तदा । 062a
प्रपूजयन्ति संहृष्टाः सिद्धाश्च परमर्षयः ॥ 062c
महाभारतवक्तारं नार्चयन्तीह ये नराः । 063a
तेषां सर्वक्रियाहानिर्भवेद्देवाः शपन्ति च ॥” 063c
जयो नामेतिहासोऽयं श्रोतव्यो जयमिच्छता । 064a
राज्ञा राजसुतैश्चैव गर्भिण्या चैव योषिता ॥ 064c
[स्वर्गकामो लभेत्स्वर्गं जयकामो लभेज्जयम् । 065a
गर्भिणी लभते पुत्रं कन्यां वा बहुभागिनीम् ॥ 065c
अनागतश्च मोक्षश्च कृष्णद्वैपायनः प्रभुः । 066a
सन्दर्भं भारतस्यास्य कृतवान्धर्मकाम्यया ॥ 066c
षष्टिं शतसहस्राणि चकारान्यां स संहिताम् । 067a
त्रिंशच्छतसहस्राणि देवलोके प्रतिष्ठितम् ॥ 067c
पित्र्ये पञ्चदशं ज्ञेयं यक्षलोके चतुर्दश । 068a
एकं शतसहस्रं तु मानुषेषु प्रभाषितम् ॥ 068c
नारदोऽश्रावयद्देवानसितो देवलः पितॄन् । 069a
रक्षोयक्षाञ्शुको मर्त्यान्वैशम्पायन एव तु ॥ 069c
इतिहासमिमं पुण्यं महार्थं वेदसम्मितम् । 070a
व्यासोक्तं श्रूयते येन कृत्वा ब्राह्मणमग्रतः ॥ 070c
स नरः सर्वकामांश्च कीर्तिं प्राप्येह शौनक । 071a
गच्छेत्परमिकां सिद्धिमत्र मे नास्ति संशयः ॥ 071c
भारताध्ययनात्पुण्यादपि पादमधीयतः । 072a
श्रद्धया परया भक्त्या श्राव्यते चापि येन तु । 072c
य इमां संहितां पुण्यां पुत्रमध्यापयच्छुकम् ॥ 072e
मातापितृसहस्राणि पुत्रदारशतानि च । 073a
संसारेष्वनुभूतानि यान्ति यास्यन्ति चापरे ॥ 073c
हर्षस्थानसहस्राणि भयस्थानशतानि च । 074a
दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥ 074c
ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मे । 075a
धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते ॥ 075c
न जातु कामान्न भयान्न लोभाद्धर्मं त्यजेज्जीवितस्यापि हेतोः । 076a
नित्यो धर्मः सुखदुःखे त्वनित्ये जीवो नित्यो हेतुरस्य त्वनित्यः ॥ 076c
इमां भारतसावित्रीं प्रातरुत्थायः यः पठेत् । 077a
स भारतफलं प्राप्य परं ब्रह्माधिगच्छति ॥ 077c
यथा समुद्रो भगवान्यथा हि हिमवान्गिरिः । 078a
ख्यातावुभौ रत्ननिधी तथा भारतमुच्यते ॥ 078c
कार्ष्णं देवमिमं विद्वाञ्श्रावयित्वाऽर्थमश्नुते । 079a
इदं भारतमाख्यानं यः पठेत्सुसमाहितः । 079c
स गच्छेत्परमां सिद्धिमिति मे नास्ति संशयः ॥ 079e
द्वैपायनोष्ठपुटनिस्सृतमप्रमेयं पुण्यं पवित्रमथ पापहरं शिवं च । 080a
यो भारतं समधिगच्छति वाच्यमानं किं तस्य पुष्करजलैरभिषेचनेन ॥ 080c
यो गोशतं कनकशृङ्गमयं ददाति विप्राय वेदविदुषे सुबहुश्रुताय । 081a
पुण्यां च भारतकथां सततं शृणोति तुल्यं फलं भवति तस्य च तस्य चैव ॥] 081c
“यद्यदिष्टतमं कामं लभते श्रद्धयाऽन्वितः । 082a
शृणुयान्मुदितो भूत्वा आस्तिको बुद्धिसंयुतः ॥ 082c
वासुदेवं स्मरन्विद्वान्पुण्डरीकायतेक्षणम् । 083a
इतिहासमिमं पुण्यं महार्थं वेदसम्मितम् ॥ 083c
श्रावयेद्यस्तु वर्णादीन्कृत्वा ब्राह्मणमग्रतः । 084a
सर्वपापविशुद्धात्मा शुचिस्तद्गतमानसः ॥ 084c
इह कीर्तिं महत्प्राप्य भोगवान्सुखमश्नुते । 085a
व्यासप्रसादेन पुनः स्वर्गलोकं स गच्छति ॥ 085c
एतद्विदित्वा सर्वं तु सर्ववेदार्थविद्भवेत् । 086a
पूजनीयश्च सततं माननीयो भवेद्द्विजः ॥” ॥ 086c
इति श्रीमन्महाभारते शतसाहस्र्यां संहितायां वैयासिक्यां स्वर्गारोहणपर्वणि पञ्चमोऽध्यायः ॥ 5 ॥ ॥ समाप्तं स्वर्गारोहणपर्व ॥ 18 ॥ इति श्रीमन्महाभारतं समाप्तम् ॥
18-5-8 न शक्यं कर्मणामन्ते सर्वेण मनुजाधिप । प्रकृतिं किन्नु सम्यक्ते पृच्छैषा सम्प्रयोजितेति ज्ञ.पाठः ॥ 18-5-36 विधिज्ञेन दैवज्ञेन । अतीन्द्रियेणेन्द्रियाण्यतिक्रान्तेन ॥ 18-5-38 सर्वेषां तृतीयान्तानां निर्मितमित्यनेनान्वयः । अन्येषामपि कीर्तिं वासुदेवस्य क्रीडां च प्रथयतेति सम्बन्धः ॥ 18-5-40 यश्चेदं श्रावयेद्विद्वान्सदा पर्वणिपर्वणि । ब्रह्मभूयाय कल्पते । इति झ.पाठः ॥ 18-5-41 ब्रह्महत्यादिपापानां कोटिस्तस्य विनश्यति इति झ.पाठः ॥ 18-5-42 अन्ततो निकटे ॥ 18-5-43 आख्याय पश्चात्सन्ध्यां प्रमुच्यत इति झ.पाठः । तत्र महाभारतस्याल्पमपि पश्चिमायां सन्ध्यायां पठ्यते चेद्दिनकृतं पापं नश्यति । एवं प्रातः सन्ध्यायां रात्रिकृतमित्यर्थः ॥ 18-5-45 निरुक्तं नामनिर्वचनं ॥ 18-5-48 त्रिभिर्वर्षैरिदं पूर्णमिति झ.पाठः ॥ 18-5-50 चकार चतुष्टयादधर्मादिचतुष्टयमप्यत्रोक्तं हानार्थमिति बोध्यम् ॥ 18-5-64 श्रोतव्यो मोक्षमिच्छता । ब्राह्मणेन च राज्ञा च गर्भिण्या इति पाठः ॥ 18-5-66 अनागतोऽनागन्तुको नित्यसिद्ध इतियावत् । एवंविधो यो मोक्षः कैवल्यं तदेव स्वरूपं यस्य स मोक्षः । यद्वा मोक्तुमिच्छन् । मुचोऽकर्मकस्य गुणो वेति सनि गुणोऽभ्यासलोपश्च । मुमुक्षुरित्यर्थः । लोकहित इति भावः ॥ 18-5-67 अन्यां वेदचतुष्टयसंहिताभ्यः पृथग्भूतां तदर्थवतीम् ॥ 18-5-70 श्रूयते येन यः शृणोतीत्यर्थः । उभयत्र विभक्तिव्यत्यय आर्षः ॥ 18-5-72 भारताध्ययनादिति सार्धश्लोकः । यः व्यासः इमां संहितां शुकं पुत्रम् अध्यापयत् । तस्य अधीयतो भारताख्यमितिहासं स्मरतः । स्मृत्वा च ग्रन्थरूपेण प्रणयतः । भक्त्या परया श्रद्धया च व्यास एव पूज्यस्तस्य वाक्यं प्रमाणमेवेत्यास्तिक्यबुद्द्या येन पुंसा इदं श्राव्यते स पुण्यात् पुण्यकरात् अपि पादं श्लोकपादं ग्रन्थपादं वा भारतस्याध्ययनात्परमिकां सिद्धिं गच्छेदिति पूर्वेणान्वयः । व्यासे श्रद्धां बद्ध्वा भारतमध्येव्यभित्यर्थः ॥ 18-5-73 सन्ध्यायां भारतं पठनीयमित्युक्तं तत्र पठनयोग्यं भारतसारसङ्ग्रहं चतुःश्लोकीरूपमाह मातेति ॥