अध्यायः 004
युधिष्ठिरेण स्वर्गे निवसतां कृष्णकर्णादीनां दर्शनम् ॥ 1 ॥ इन्द्रेण युधिष्ठिराय द्रौपदेयादीनां तत्तत्स्थानगतानां पृथक्पृथक्प्रदरशनम् ॥ 2 ॥
वैशम्पायन उवाच 001
ततो युधिष्ठिरो राजा देवैः सर्षिमरुद्गणैः । 001a
स्तूयमानो ययौ तत्र यत्र ते कुरुपुङ्गवाः ॥ 001c
ददर्श तत्र गोविन्दं ब्राह्मेण वपुषाऽन्वितम् । 002a
तेनैव दृष्टपूर्वेण सादृश्येनैव सूचितम् ॥ 002c
दीप्यमानं स्ववपुषा दिव्यैरस्त्रैरुपस्थितम् । 003a
चक्रप्रभृतिभिर्घोरैर्दिव्यैः पुरुषविग्रहैः ॥ 003c
उपास्यमानं वीरेण फल्गुनेन सुवर्चसा । 004a
तथास्वरूपं कौन्तेयो ददर्श मधुसूदनम् ॥ 004c
तावुभौ पुरुषव्याघ्रौ समुद्वीक्ष्य युधिष्ठिरम् । 005a
यथावत्प्रतिपेदाते पूजया देवपूजितौ ॥ 005c
अपरस्मिन्नथोद्देशे कर्णं शस्त्रभृतां वरम् । 006a
द्वादशादित्यसहितं ददर्श कुरुनन्दनः ॥ 006c
अथापरस्मिन्नुद्देशे मरुद्गणवृतं विभुम् । 007a
भीमसेनमथापश्यत्तेनैव वपुषाऽन्वितम् ॥ 007c
वायोर्मूर्तिमतः पार्श्वे दिव्यमूर्तिसमन्वितम् । 008a
श्रिया परमया युक्तं सिद्धिं परमिकां गतम् ॥ 008c
अश्विनोस्तु तथा स्थाने दीप्यमानौ स्वतेजसा । 009a
नकुलं सहदेवं च ददर्श कुरुनन्दनः ॥ 009c
तथा ददर्श पाञ्चालीं कमलोत्पलमालिनीम् । 010a
वपुषा स्वर्गमाक्रम्य तिष्ठन्तीमर्कवर्चसम् ॥ 010c
तत्रैनां सहसा राजा स्प्रष्टुमैच्छद्युधिष्ठिरः । 011a
ततोऽस्य भगवानिन्द्रः कथयामास देवराट् ॥ 011c
श्रीरेषा द्रौपदीरूपा त्वदर्थे मानुषं गता । 012a
अयोनिजा लोककान्ता पुण्यगन्धा युधिष्ठिर ॥ 012c
रत्यर्थं भवतां ह्येषा निर्मिता शूलपाणिना । 013a
द्रुपदस्य कुले जाता भवद्भिश्चोपजीविता ॥ 013c
एते पञ्च महाभागा गन्धर्वाः पावकप्रभाः । 014a
द्रौपद्यास्तनया राजन्युष्माकममितौजसः ॥ 014c
पश्य गन्धर्वराजानं धृतराष्ट्रं मनीषिणम् । 015a
एनं च त्वं विजानीहि भ्रातरं पूर्वजं पितुः ॥ 015c
अयं ते पूर्वजो भ्राता कौन्तेयः पावकद्युतिः । 016a
सूर्यपुत्रो रथिश्रेष्ठो राधेय इति विश्रुतः । 016c
आदित्यसहितो भाति पश्यैनं पुरुषर्षभम् ॥ 016e
साध्यानामथ देवानां विश्वेषां मरुतामपि । 017a
गणेषु पश्य राजेन्द्र वृष्ण्यन्धकमहारथान् । 017c
सात्यकिप्रमुखान्वीरान्भोजांश्चैव महाबलान् ॥ 017e
सोमेन सहितं पश्य सौभद्रमपराजितम् । 018a
अभिमन्युं महेष्वासं निशाकरसमद्युतिम् ॥ 018c
एष पाण्डुर्महेष्वासः कुन्त्या माद्र्या च सङ्गतः । 019a
विमानेन सदाऽभ्येति पिता तव ममान्तिकम् ॥ 019c
वसुभिः सहितं पश्य भीष्मं शान्तनवं नृपम् । 020a
द्रोणं बृहस्पतेः पार्श्वे गुरुमेनं निशामय ॥ 020c
एते चान्ये महीपाला योधास्तव च पाण्डव । 021a
गन्धर्वसहिता यान्ति यक्षपुण्यजनैस्तथा ॥ 021c
गुह्यकानां गतिं चापि केचित्प्राप्ता नराधिपाः । 022a
त्यक्त्वा देहं जितः स्वर्गः पुण्यवाग्बुद्धिकर्मभिः ॥ ॥ 022c
इति श्रीमन्महाभारते स्वार्गारोहणपर्वणि चतुर्थोऽध्यायः ॥ 4 ॥
18-4-2 ब्राह्मेण ब्रह्मणा आराध्येन ॥ 18-4-3 उपस्थितं सेवितम् अस्त्रैः ॥ 18-4-12 मानुषं मानुषभावम् ॥