अध्यायः 003

तत्रैवावस्थानपरीक्षया परितुष्टेषु यमेन्द्रादिषु युधिष्ठिरसमीपमुपागतेषु तद्दृष्टपूर्वनरकादीनां क्षणेनान्तर्धानम् ॥ 1 ॥ धर्मेण युधिष्ठिरं प्रति सप्रशंसनं तद्दृष्टनरकस्य परीक्षणायेन्द्रमायासृष्टत्वकथनम् । 2 ॥ ततो युधिष्ठिरेण गङ्गायामवागाहनान्मानुषशरीरपरित्यागपूर्वकं दिव्यशरीरपरिग्रहणेन महर्ष्यादिभिः स्तूयमानेन सता सहदेवैर्भ्रात्राद्यधिष्ठितदिव्यस्थानगमनम् ॥ 3 ॥

वैशम्पायन उवाच । 001
स्थिते मुहूर्तं पार्थे तु धर्मराजे युधिष्ठिरे । 001a
आजग्मुस्तत्र कौरव्य देवाः शक्रपुरोगमाः ॥ 001c
स च विग्रहवान्धर्मो राजानं सम्परीक्ष्य तम् । 002a
तत्राजगाम यत्रासौ कुरुराजो युधिष्ठिरः ॥ 002c
तेषु भासुरदेहेषु पुण्याभिजनकर्मसु । 003a
समागतेषु देवेषु व्यगमत्तत्तमो नृप ॥ 003c
नादृश्यन्त च तास्तत्र यातनाः पापकर्मणाम् । 004a
नदी वैतरणी चैव कूटशाल्मलिना सह ॥ 004c
लोहकुम्भ्यः शिलाश्चैव नादृश्यन्त भयानकाः । 005a
विकृतानि शरीराणि यानि तत्र समन्ततः ॥ 005c
ददर्श राजा कौरव्यस्तान्सर्वान्सुमहाप्रभान् ॥ 006ac
ततो वायुः सुखस्पर्शः पुण्यगन्धवहः शुचिः । 007a
ववौ देवसमीपस्थः शीतलोऽतीव भारत ॥ 007c
मरुतः सह शक्रेण वसवश्चाश्विनौ सह । 008a
साध्या रुद्रास्तथाऽऽदित्या ये चान्येऽपि दिवौकसः । 008c
सर्वे तत्र समाजग्मुः सिद्धाश्च परमर्षयः । 009a
यत्र राजा महातेजा धर्मपुत्रः स्थितोऽभवत् ॥ 009c
ततः शक्रः सुरपतिः श्रिया परमया युतः । 010a
युधिष्ठिरमुवाचेदं सान्त्वपूर्वमिदं वचः ॥ 010c
युधिष्ठिर महाबाहो प्रीता देवगणास्त्वया । 011a
एह्येहि पुरुषव्याघ्र कृतमेतावता विभो ॥ 011c
सिद्धिः प्राप्ता महाबाहो लोकाश्चाप्यक्षयास्तव । 012a
भ्रातॄणां सुहृदां चैव गतिर्नित्या सुपूजिता ॥ 012c
न च मन्युस्त्वया कार्यः शृणु चेदं वचो मम । 013a
अवश्यं नरकस्तात द्रष्टव्यः सर्वराजभिः ॥ 013c
शुभानामशुभानां च द्वौ राशी पुरुषर्षभ । 014a
यः पूर्वं सुकृतं भुङ्क्ते पश्चान्निरयमेति सः ॥ 014c
पूर्वं नरकभाग्यस्तु पश्चात्स्वर्गमुपैति सः । 015a
भूयिष्ठं पापकर्मा यः स पूर्वं स्वर्गमश्नुते ॥ 015c
'भूयिष्ठशुभकर्मा त्वमल्पजिह्मतयाऽच्युत ।' 016a
तेन त्वमेवं गमितो मया श्रेयोऽर्थिना नृप ॥ 016c
व्याजेन हि त्वया द्रोण उपचीर्णः सुतं प्रति । 017a
व्याजेनैव ततो राजन्दर्शितो नरकस्तव ॥ 017c
यथैव त्वं तथा भीमस्तथा पार्थो यमौ तथा । 018a
द्रौपदी च तथा कृष्णा व्याजेन नरकं गताः । 018c
आगच्छ नरशार्दूल मुक्तास्ते चैव कल्मषात् ॥ 018e
स्वपक्ष्याश्चैव ये तुभ्यं पार्थिवा निहता रणे । 019a
सर्वे स्वर्गमनुप्राप्तास्तान्पश्य भरतर्षभ ॥ 019c
कर्णश्चैव महेष्वासः सर्वशस्त्रभृतांवरः । 020a
स गतः परमां सिद्धिं यदर्थं परितप्यसे ॥ 020c
तं पश्य पुरुषव्याघ्रमादित्यतनयं विभो । 021a
स्वस्थानस्थं महाबाहो जहि शोकं नरर्षभ ॥ 021c
भ्रातॄन्पुत्रांस्तथा पश्य स्वपक्ष्यांश्चैव पार्थिवान् । 022a
स्वंस्वं स्थानमनुप्राप्तान्व्येतु ते मानसो ज्वरः ॥ 022c
कृच्छ्रं पूर्वं चानुभूय इतःप्रभृति कौरव । 023a
विहरस्व मया सार्धं गतशोको निरामयः ॥ 023c
कर्मणां तात पुण्यानां ज्ञानानां तपसां स्वयम् । 024a
दानानां च महाबाहो फलं प्राप्नुहि पार्थिवः ॥ 024c
अद्य त्वां देवगन्दर्वा दिव्याश्चाप्सरसो दिवि । 025a
उपसेवन्तु कल्याणं विरजोम्बरभूषणाः ॥ 025c
राजसूयजिताल्ँलोकानश्वमेधाभिनिर्मितान् । 026a
प्राप्नुहि त्वं महाबाहो तपसश्च महाफलम् ॥ 026c
उपर्युपरि राज्ञां हि तव लोका युधिष्टिर । 027a
हरिश्चन्द्रमसः पार्थ येषु त्वं विहरिष्यसि ॥ 027c
मान्धाता यत्र राजर्षिर्यत्र राजा भगीरथः । 028a
दौष्यन्तिर्यत्र भरतस्तत्र त्वं विहरिष्यसि ॥ 028c
एषा देवनदी पुण्या पार्थ त्रैलोक्यपावनी । 029a
आकाशगङ्गा राजेन्द्र तत्राप्लुत्य गमिष्यसि ॥ 029c
अत्र स्नातस्य भावस्ते मानुषो विगमिष्यति । 030a
गतशोको निरायासो मुक्तवैरो भविष्यसि ॥ 030c
एवं ब्रुवति देवेन्द्रे कौरवेन्द्रं युधिष्ठिरम् । 031a
धर्मो विग्रहवान्साक्षादुवाच सुतमात्मनः ॥ 031c
भोभो राजन्महाप्राज्ञ प्रीतोऽस्मि तव पुत्रक । 032a
मद्भक्त्या सत्यवाक्यैश्च क्षमया च दमेन च ॥ 032c
एषा तृतीया जिज्ञासा तव राजन्कृता मया । 033a
न शक्यसे चालयितुं स्वभावात्पार्थ हेतुतः ॥ 033c
पूर्वं परीक्षितो हि त्वं प्रश्नाद्द्वैतवने मया । 034a
अरणीसहितस्यार्थे तच्च निस्तीर्णवानसि ॥ 034c
सोदर्येषु विनष्टेषु द्रौपद्या तत्र भारत । 035a
श्वरूपधारिणा तत्र पुनस्त्वं मे परीक्षितः ॥ 035c
इदं तृतीयं भ्रातॄणामर्थे यत्स्थातुमिच्छसि । 036a
विशुद्धोऽसि महाभाग सुखी विगतकल्मषः ॥ 036c
न च ते भ्रातरः पार्थ नरकार्हा विशाम्पते । 037a
मायैषा देवराजेन महेन्द्रेण प्रयोजिता ॥ 037c
अवश्यं नरकास्तात द्रष्टव्याः सर्वराजभिः । 038a
ततस्त्वया प्राप्तमिदं मुहूर्तं दुःखमुत्तमम् ॥ 038c
न सव्यसाची भीमो वा यमौ वा पुरुषर्षभौ । 039a
कर्णो वा सत्यवाक् शूरो नरकार्हाश्चिरं नृप ॥ 039c
न कृष्णा राजपुत्री च नरकार्हा कथञ्चन । 040a
एह्येहि भरतश्रेष्ठ पश्य चेमांस्त्रिलोकगान् ॥ 040c
वैशम्पायन उवाच । 041
एवमुक्तः स राजर्षिस्तव पूर्वपितामहः । 041a
जगाम सह धर्मेण सर्वैश्च त्रिदिवालयैः ॥ 041c
गङ्गां देवनदीं पुण्यां पावनीमृषिसंस्तुताम् । 042a
अवगाह्य ततो राजा तनुं तत्याज मानुषीम् ॥ 042c
ततो दिव्यवपुर्भूत्वा धर्मराजो युधिष्ठिरः । 043a
निर्वैरो गतसन्तापो जले तस्मिन्समाप्लुतः ॥ 043c
ततो ययौ वृतो देवैः कुरुराजो युधिष्ठिरः । 044a
धर्मेण सहितो धीमांस्तूयमानो महर्षिभिः ॥ 044c
यत्र ते पुरुषव्याघ्राः शूरा विगतमन्यवः । 045a
पाण्डवा धार्तराष्ट्राश्च स्वानि स्थानानि भेजिरे ॥ ॥ 045c

इति श्रीमन्महाभारते स्वर्गारोहणपर्वणि तृतीयोऽध्यायः ॥ 3 ॥

18-3-17 हतः कुञ्जर इति अश्वत्थामवधे द्रोण उपचीर्णो वञ्चितः गजवाचीशब्दो मनुष्यपरत्वेन ज्ञापित इत्युपचारच्छलेनेत्यर्थः ॥ 18-3-19 तुभ्यं तव ॥ 18-3-33 जिज्ञासा परीक्षा ॥ 18-3-35 स्वर्गाधिरोहणे द्रौपद्या सह सोदर्येषु विनष्टेयु सत्सु । श्वरूपधारिणा शुनकरूपिणा ॥ 18-3-44 यत्र ते पाण्डवास्तत्र देवैः सह ययाविति द्वयोः सम्बन्धः ॥