अध्यायः 002
स्वर्गे कर्णादिबन्धुजनानपश्यता युधिष्ठिरेण देवान्प्रति यत्र कुत्रापि बन्धुजनैः सहैव स्वस्य निवासेच्छानिवेदनम् ॥ 1 ॥ देवैर्युधिष्ठिराय बन्धुजनप्रदर्शनं चोदितेन देवदूतेन तस्य नरकप्रदेशप्रापणम् ॥ 2 ॥ दुर्दर्शनरकदर्शनासहिष्णुतया सह दूतेन प्रतिनिवर्तमानेन युधिष्ठिरेण श्रुतपूर्वकण्ठध्वनिश्रवणम् ॥ 3 ॥ ततो युधिष्ठिरपृष्टैस्तैस्तं प्रति स्वेषां कर्मभीमादित्वकथनम् ॥ 4 ॥ ततस्तेन दूतं प्रति इन्द्रे स्वस्य तत्समीपं प्रत्यनागमनचोदना ॥ 5 ॥ दूतेनेन्द्रे युधिष्ठिरचिकीर्षितनिवेदनम् ॥ 6 ॥
युधिष्ठिर उवाच । 001
नेह पश्यामि विबुधा राधेयममितौजसम् । 001a
भ्रातरौ च महात्मानौ युधामन्यूत्तमौजसौ ॥ 001c
जुहुवुर्ये शरीराणि रणवह्नौ महारथाः । 002a
राजानो राजपुत्राश्च ये मदर्थे हता रणे ॥ 002c
क्व ते महारथाः सर्वे शार्दूलसमविक्रमाः । 003a
तैरप्ययं जितो लोकः कच्चित्पुरुषसत्तमैः ॥ 003c
यदि लोकानिमान्प्राप्तास्ते च सर्वे महारथाः । 004a
स्थितं वित्त हि मां देवाः सहितं तैर्महात्मभिः ॥ 004c
कच्चिन्न तैरवाप्तोऽयं नृपैर्लोकोऽक्षयः शुभः । 005a
न तैरहं विना वत्स्ये भ्रातृभिर्ज्ञातिभिस्तथा ॥ 005c
मातुर्हि वचनं श्रुत्वा तदा सलिलकर्मणि । 006a
कर्णस्य क्रियतां तोयमिति तप्यामि तेन वै ॥ 006c
इदं च परितप्यामि पुनःपुनरहं सुराः । 007a
यन्मातुः सदृशौ पादौ तस्याहममितात्मनः ॥ 007c
दृष्ट्वैव तं नानुगतः कर्णं परबलार्दनम् । 008a
न ह्यस्मान्कर्णसहिताञ्जयेच्छक्रोऽपि संयुगे ॥ 008c
तमहं यत्रतत्रस्थं द्रष्टुमिच्छामि सूर्यजम् । 009a
अविज्ञातो मया योऽसौ घातितः सव्यसाचिना ॥ 009c
भीमं च भीमविक्रान्तं प्राणेभ्योऽपि प्रियं मम । 010a
अर्जुनं चेन्द्रसङ्काशं यमौ चैव यमोपमौ ॥ 010c
द्रष्टुमिच्छामि तां चाहं पाञ्चालीं धर्मचारिणीम् । 011a
न चेह स्थातुमिच्छामि सत्यमेवं ब्रवीमि वः ॥ 011c
किं मे भ्रातृविहीनस्य स्वर्गेण सुरसत्तमाः । 012a
यत्र ते मम स स्वर्गो नायं स्वर्गो मतो मम ॥ 012c
देवा ऊचुः । 013
यदि वै तत्र ते श्रद्धा गम्यतां तत्र माचिरम् । 013a
प्रिये हि तव वर्तामो देवराजस्य शासनात् ॥ 013c
वैशम्पायन उवाच । 014
इत्युक्त्वा तं ततो देवा देवदूतमुपादिशन् । 014a
युधिष्ठिरस्य सुहृदो दर्शयेतदि परन्तप ॥ 014c
ततः कुन्तीसुतो राजा देवदूतश्च जग्मतुः । 015a
सहितौ राजशार्दूल यत्र ते पुरुषर्षभाः ॥ 015c
अग्रतो देवदूतश्च ययौ राजा च पृष्ठतः । 016a
पन्थानमशुभं दुर्गं सेवितं पापकर्मभिः ॥ 016c
तमसा संवृतं घोरं केशशैवलशाद्वलम् । 017a
युक्तं पापकृतां गन्धैर्मांसशोणितकर्दमम् ॥ 017c
दंशोत्पातकभल्लूकमक्षिकामशकावृतम् । 018a
इतश्चेतश्च कुणपैः समन्तात्परिवारितम् ॥ 018c
अस्थिकेशसमाकीर्णं कृमिकीटसमाकुलम् । 019a
ज्वलनेन प्रदीप्तेन समन्तात्परिवेष्टितम् ॥ 019c
अयोमुखैश्च काकाद्यैर्गृध्रैश्च समभिद्रुतम् । 020a
सूचीमुखैस्तथा प्रेतैर्विन्ध्यशैलोपमैर्वृतम् ॥ 020c
मेदोरुधिरयुक्तैश्च च्छिन्नबाहूरुपाणिभिः । 021a
निकृत्तोदरपादैश्च तत्रतत्र प्रवेशितैः ॥ 021c
स तत्कुणपदुर्गन्धमशिवं रोमहर्षणम् । 022a
जगाम राजा धर्मान्मा मध्ये बहु विचिन्तयन् ॥ 022c
ददर्शोष्णोदकैः पूर्णां नदीं चापि सुदुर्गमाम् । 023a
असिपत्रवनं चैव निशितं क्षुरसंवृतम् ॥ 023c
करम्भवालुकास्तप्ता आयसीश्च शिलाः पृथक् । 024a
लोहकुम्भीश्च तैलस्य क्वाथ्यमानाः समन्ततः ॥ 024c
कूटशाल्मलिकं चापि दुःस्पर्शं तीक्ष्णकण्टकम् । 025a
ददर्शान्याश्च कौन्तेयो यातनाः पापकर्मिणाम् ॥ 025c
स तं दुर्गन्धमालक्ष्य देवदूतमुवाच ह । 026a
कियदध्वानमस्माभिर्गन्तव्यमिममीदृशम् ॥ 026c
क्व च ते भ्रातरो मह्यं तन्ममाख्यातुमर्हसि । 027a
देशोऽयं कश्च देवानामेतदिच्छामि वेदितुम् ॥ 027c
स सन्निववृते श्रुत्वा धर्मराजस्य भाषितम् । 028a
देवदूतोऽब्रवीचैनमेतावद्गमनं तव ॥ 028c
निवर्तितव्यो हि मया तथाऽस्म्युक्तो दिवौकसैः । 029a
यदि श्रान्तोऽसि राजेन्द्र त्वमथागन्तुमर्हसि ॥ 029c
युधिष्ठिरस्तु निर्विण्णस्तेन गन्धेन मूर्छितः । 030a
निवर्तने धृतमनाः पर्यावर्तत भारत ॥ 030c
सं सन्निवृत्तो धर्मात्मा दुःखशोकसमाहतः । 031a
शुश्राव तत्र वदतां दीना वाचः समन्ततः ॥ 031c
भोभो धर्मज राजर्षे पुण्याभिजन पाण्डव । 032a
अनुग्रहार्थमस्माकं तिष्ठ तावन्मुहूर्तकम् ॥ 032c
आयाति त्वयि दुर्धर्षे वाति पुण्यः समीरणः । 033a
तव गन्धानुगस्तात येनास्मान्सुखमागमत् ॥ 033c
ते वयं पार्थ दीर्घस्य कालस्य पुरुषर्षभ । 034a
सुखमासादयिष्यामस्त्वां दृष्ट्वा राजसत्तम ॥ 034c
सन्तिष्ठस्व महाबाहो मुहूर्तमिह भारत । 035a
त्वयि तिष्ठति कौरव्य यातनाऽस्मान्न बाधते ॥ 035c
एवं बहुविधा वाचः कृपणा वेदनावताम् । 036a
तस्मिन्देशे स शुश्राव समन्ताद्वदतां नृप ॥ 036c
तेषां तु वचनं श्रुत्वा दयावान्दीनभाषिणाम् । 037a
अहो कृच्छ्रमिति प्राह तस्थौ स च युधिष्ठिरः ॥ 037c
स ता गिरः पुरस्ताद्वै श्रुतपूर्वाः पुनःपुनः । 038a
ग्लानानां दुःखितानां च नाभ्यजानत पाण्डवः ॥ 038c
अबुध्यमानस्ता वाचो धर्मपुत्रो युधिष्ठिरः । 039a
उवाच के भवन्तो वै किमर्थमिह तिष्ठथ ॥ 039c
इत्युक्तास्ते ततः सर्वे समन्तादवभाषिरे । 040a
कर्णोऽहं भीमसेनोऽहमर्जुनोऽहमिति प्रभो ॥ 040c
नकुलः सहदेवोऽहं धृष्टद्युम्नोऽहमित्युत । 041a
द्रौपदी द्रौपदेयाश्च इत्येवं ते विचुक्रुशुः ॥ 041c
ता वाचः स तदा श्रुत्वा तद्देशसदृशीर्नृप । 042a
ततो विममृशे राजा किन्त्विदं दैवकारितम् ॥ 042c
किन्तु तत्कलुषं कर्म कृतमेभिर्महात्मभिः । 043a
कर्णेन द्रौपदेयैर्वा पाञ्चाल्या वा सुमध्यया ॥ 043c
य इमे पापगन्धेऽस्मिन्देशे सन्ति सुदारुणे । 044a
नाहं जानामि सर्वेषां दुष्कृतं पुण्यकर्मणाम् ॥ 044c
किं कृत्वा धृतराष्ट्रस्य पुत्रो राजा सुयोधनः । 045a
तथा श्रिया युतः पापैः सह सर्वैः पदानुगैः ॥ 045c
महेन्द्र इव लक्ष्मीवानास्ते परमपूजितः । 046a
कस्येदानीं विकारोऽयं य इमे नरकं गताः ॥ 046c
सर्वे धर्मविदः शूराः सत्यागमपरायणाः । 047a
क्षत्रधर्मरताः सन्तो यज्वानो भूरिदक्षिणाः ॥ 047c
किन्नु सुप्तोऽस्मि जागर्मि चेतयामि न चेतये । 048a
अहो चित्तविकारोऽयं स्याद्वा मे चित्तविभ्रमः ॥ 048c
एवं बहुविधं राजा विममर्श युधिष्ठिरः । 049a
दुःखशोकसमाविष्टश्चिन्ताव्याकुलितेन्द्रियः ॥ 049c
क्रोधमाहारयच्चैव तीव्रं धर्मसुतो नृपः । 050a
देवांश्च गर्हयामास धर्मं चैव युधिष्ठिरः ॥ 050c
स तीव्रशोकसन्तप्तो देवदूतमुवाच ह । 051a
गम्यतां तत्र येषां त्वं दूतस्तेषामुपान्तिकम् ॥ 051c
न ह्यहं तत्र यास्यामि स्थितोऽस्मीति निवेद्यताम् । 052a
मत्संश्रयादिमे दूनाः सुखिनो भ्रातरो हि मे ॥ 052c
इत्युक्तः स तदा दूतः पाण्डुपुत्रेण धीमता । 053a
जगामि तत्र यत्राऽऽस्ते देवराजः शतक्रतुः ॥ 053c
निवेदयामास च तद्धर्मराजचिकीर्षितम् । 054a
यथोक्तं धर्मपुत्रेण सर्वमेव जनाधिप ॥ ॥ 054c
इति श्रीमन्महाभारते स्वर्गारोहणपर्वणि द्वितीयोऽध्यायः ॥ 2 ॥
18-2-24 करम्भवालुकाः श्वेतसूक्ष्मवालुका भ्राष्ट्रवालुका इत्यर्थः ॥ 18-2-49 विममर्श विचारं कृतवान् ॥ 18-2-52 दूनाः खिन्नाः ॥