अध्यायः 001
स्वर्गं गतेन युधिष्ठिरेण तत्र महासमुच्छ्रयेण शोभमानदुर्योधनदर्शनम् ॥ 1 ॥ तथा तदुत्कर्षासहिष्णुतया तदीयदोषोद्घाटनेन तेन सह स्वेन स्वर्गवासानभिरोचननिवेदनपूर्वकं नारदं प्रति स्वस्य भ्रात्रादिदिदृक्षानिवेदनम् ॥ 2 ॥
श्रीवेदव्यासाय नमः । 000
नारायणं नस्कृत्य नरं चैव नरोत्तमम् । 000a
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ 000c
जनमेजय उवाच । 001
स्वर्गं त्रिविष्टपं प्राप्य मम पूर्वपितामहाः । 001a
पाण्डवा धार्तराष्ट्राश्च कानि स्थानानि भेजिरे ॥ 001c
एतदिच्छाम्यहं श्रोतुं सर्वविच्चासि मे मतः । 002a
महर्षिणाऽभ्यनुज्ञातो व्यासेनाद्भुतकर्मणा ॥ 002c
वैशम्पायन उवाच । 003
स्वर्गं त्रिविष्टपं प्राप्य तव पूर्वपितामहाः । 003a
युधिष्ठिरप्रभृतयो यदकुर्वत तच्छृणु ॥ 003c
स्वर्गं त्रिविष्टपं प्राप्य धर्मराजो युधिष्ठिरः । 004a
दुर्योधनं श्रिया जुष्टं ददर्शाऽऽसीनमासने ॥ 004c
भ्राजमानमिवादित्यं वीरलक्ष्म्याऽभिसंवृतम् । 005a
देवैर्भ्राजिष्णुभिः साध्यैः सहितं पुण्यकर्मभिः ॥ 005c
ततो युधिष्ठिरो राजा दुर्योधनममर्षितः । 006a
सहसा सन्निवृत्तोऽभूच्छ्रियं दृष्ट्वा सुयोधने ॥ 006c
ब्रुवन्नुच्चैर्वचस्तान्वै नाहं दुर्योधनेन वै । 007a
सहितः कामये लोकाल्ँलब्धेनादीर्घदर्शिना ॥ 007c
यत्कृते पृथिवी सर्वा सुहृदो बान्धवास्तथा । 008a
हतास्माभिः प्रसह्याजौ किल्ष्टैः पूर्वं महावने ॥ 008c
द्रौपदी च सभामध्ये पाञ्चाली धर्मचारिणी । 009a
पर्याकृष्टाऽनवद्याङ्गी पत्नी नो गुरुसन्निधौ ॥ 009c
अस्ति देवा न मे कामः सुयोधनमुदीक्षितुम् । 010a
तत्राहं गन्तुमिच्छामि यत्र ते भ्रातरो मम ॥ 010c
नैवमित्यब्रवीत्तं तु नारदः प्रहसन्निव । 011a
स्वर्गे निवासे राजेन्द्र विरुद्धं चापि नश्यति ॥ 011c
युधिष्ठिर महाबाहो मैवं वोचः कथञ्चन । 012a
दुर्योधनं प्रति नृपं शृणु चेदं वचो मम ॥ 012c
एष दुर्योधनो राजा पूज्यते त्रिदशैः सह । 013a
सद्भिश्च राजप्रवरैर्य इमे स्वर्गवासिनः । 013c
वीरलोकगतिं प्राप्ता युद्धे हुत्वाऽऽत्मनस्तनुम् । 014a
यूयं सर्वे सुरसमा येन युद्धेन बाधिताः ॥ 014c
स एष क्षत्रधर्मेण स्थानमेतदवाप्तवान् । 015a
भये महति योऽभीतो बभूव पृथिवीपतिः ॥ 015c
न तन्मनसि कर्तव्यं पुत्र यद्द्यूतकारितम् । 016a
द्रौपद्याश्च परिक्लेशं न चिन्तयितुमर्हसि ॥ 016c
ये चान्येऽपि परिक्लेशा युष्माकं ज्ञातिकारिताः । 017a
सङ्ग्रामेष्वथवाऽन्यत्र न तान्संस्मर्तुमर्हसि ॥ 017c
समागच्छ यथान्यायं राज्ञा दुर्योधनेन वै । 018a
स्वर्गोऽयं नेह वैराणि भवन्ति मनुजाधिप ॥ 018c
नारदेनैवमुक्तस्तु कुरुराजो युधिष्ठिरः । 019a
भ्रातॄन्पप्रच्छ मेधावी वाक्यमेतदुवाच ह ॥ 019c
यदि दुर्योधनस्यैते वीरलोकाः सनातनाः । 020a
अधर्मज्ञस्य पापस्य पृथिवीसुहृदद्रुहः ॥ 020c
यत्कृते पृथिवी नष्टा सहसा सनरद्विपा । 021a
वयं च मन्युना दग्धा वैरं प्रतिचिकीर्षवः ॥ 021c
ये ते वीरा महात्मानो भ्रातरो मे महाव्रताः । 022a
सत्यप्रतिज्ञा लोकस्य शूरा वै सत्यवादिनः । 022c
तेषामिदानीं के लोका द्रष्टुमिच्छामि तानहम् ॥ 022e
कर्णं चैव महात्मानं कौन्तेयं सत्यसङ्गरम् । 023a
धृष्टद्युम्नं सात्यकिं च धृष्टद्युम्नस्य चात्मजान् ॥ 023c
ये च शस्त्रैर्वधं प्राप्ताः क्षत्रधर्मेण पार्थिवाः । 024a
क्वनु ते पार्थिवान्ब्रह्मन्नैतान्पश्यामि नारद ॥ 024c
विराटद्रुपदौ चैव धृष्टकेतुमुखांश्च तान् । 025a
शिखण्डिनं च पाञ्चाल्यं द्रौपदेयांश्च सर्वशः । 025c
अभिमन्युं च दुर्धर्षं द्रष्टुमिच्छामि नारद ॥ ॥ 025e
इति श्रीमन्महाभारते स्वर्गारोहणपर्वणि प्रथमोऽध्यायः ॥ 1 ॥
18-1-1 त्रीणि विष्टपानि भुवनानि फलोत्कर्षवशाद्यत्रान्तर्भवन्ति तादृशं स्वर्गं प्राप्य ॥ 18-1-6 तत इति । स्वर्गेऽप्यमर्षो दुस्त्यज इति संस्काराणां प्राबल्यमुक्तम् ॥ 18-1-9 हताः अस्माभिः सन्धिरार्षः ॥ 18-1-11 विरुद्धं वैरादिकं नश्यति अन्तर्धीयते ॥ 18-1-20 सुहृद इत्यदन्तः शब्दः ॥