अध्यायः 003

शुना सह गच्छन्तं युधिष्ठिरं प्रति इन्द्रेण स्वर्गगमनाय निजरथारोहणचोदना ॥ 1 ॥ युधिष्ठिरे शुना विना रथारोहणमरोचयमाने यमेन निजस्वरूपप्रकाशनेन तत्प्रशंसनम् ॥ 2 ॥ ततो यमेन्द्रादिभी रथेन स्वर्गं प्रापितेन युधिष्ठिरेण तत्र भीमाद्यदर्शनादिन्द्रं प्रति भ्रात्रादीन्विना स्वस्य स्वर्गेऽप्यनभिरुचिकथनपूर्वकं तत्समीपगमनेच्छानिवेदनम् ॥ 3 ॥

वैशम्पायन उवाच । 001
ततः सन्नादयञ्शक्रो दिवं भूमिं च सर्वशः । 001a
रथेनोपययौ पार्थमारोहेत्यब्रवीच्च तम् ॥ 001c
स्वभ्रातॄन्पतितान्दृष्ट्वा धर्मराजो युधिष्ठिरः । 002a
अब्रवीच्छोकसन्तप्तः सहस्राक्षमिदं वचः ॥ 002c
भ्रातरः पतिता मेऽत्र गच्छेयुस्ते मया सह । 003a
न विना भ्रातृभिः स्वर्गमिच्छे गन्तुं सुरेश्वर ॥ 003c
सुकुमारी सुखार्हा च राजपुत्री पुरन्दर । 004a
साऽस्माभिः सह गच्छेत तद्भवाननुमन्यताम् ॥ 004c
शक्र उवाच । 005
भ्रातॄन्द्रक्ष्यसि स्वर्गे त्वमग्रतस्त्रिदिवं गतान् । 005a
कृष्णया सहितान्सर्वान्मा शुचो भरतर्षभ ॥ 005c
निक्षिप्य मानुषं देहं गतास्ते भरतर्षभ । 006a
अनेन त्वं शरीरेण स्वर्गं गन्ता न संशयः ॥ 006c
युधिष्ठिर उवाच । 007
अयं श्वा भूतभव्येश भक्तो मां नित्यमेव ह । 007a
स गच्छेत मया सार्धमानृशंस्या हि मे मतिः ॥ 007c
शक्र उवाच । 008
अमर्त्यत्वं मत्समत्वं च राजञ्श्रियं कृत्स्नां महतीं चैव सिद्धिम् । 008a
सम्प्राप्तोऽद्य स्वर्गसुखानि च त्वं त्यज श्वानं नात्र नृशंसमस्ति ॥ 008c
युधिष्ठिर उवाच । 009
अनार्यमार्येण सहस्रनेत्र शक्यं कर्तुं दुष्करमेतदार्य । 009a
मा मे श्रिया सङ्गमनं तयाऽस्तु यस्याः कृते भक्तजनं त्यजेयम् ॥ 009c
इन्द्र उवाच । 010
स्वर्गे लोके श्ववतां नास्ति धिष्ण्यमिष्टापूर्तं क्रोधवशा हरन्ति । 010a
ततो विचार्य क्रियतां धर्मराज त्यज श्वानं नात्र नृशंसमस्ति । 010c
युधिष्ठिर उवाच । 011
भक्तत्यागं प्राहुरत्यन्तपापं तुल्यं लोके ब्रह्मवध्याकृतेन । 011a
तस्मान्नाहं जातु कथञ्चनाद्य त्यक्ष्याम्येनं स्वसुखार्थी महेन्द्रः ॥ 011c
भीतं भक्तं नान्यदस्तीति चार्तं प्राप्तं क्षीणं रक्षणे प्राणलिप्सुम् । 012a
प्राणत्यागादप्यहं नैव मोक्तुं यतेयं वै नित्यमेतद्व्रतं मे ॥ 012c
इन्द्र उवाच । 013
शुना दृष्टं क्रोधवशा हरन्ति यद्दत्तमिष्टं विवृतमथो हुतं च । 013a
तस्माच्छुनस्त्यागमिमं कुरुष्व शुनस्त्यागात्प्राप्स्यसे देवलोकम् ॥ 013c
त्यक्त्वा भ्रातॄन्दयितां चापि कृष्णां प्राप्तो लोकः कर्मणा स्वेन वीर । 014a
श्वानं चैनं न त्यजसे कथं नु त्यागं कृत्स्नं चास्थितो मुह्यसेऽद्य ॥ 014c
युधिष्ठिर उवाच । 015
न विद्यते सन्धिरथापि विग्रहो मृतैर्मर्त्यैरिति लोकेषु निष्ठा । 015a
न ते मया जीवयितुं हि शक्यास्ततस्त्यागस्तेषु कृतो न जीवताम् ॥ 015c
प्रतिप्रदानं शरणागतस्य स्त्रिया वधो ब्राह्मणस्वापहारः । 016a
मित्रद्रोहस्तानि चत्वारि शक्रभक्तत्यागश्चैव समो मतो मे ॥ 016c
वैशम्पायन उवाच । 017
तद्धर्मराजस्य वचो निशम्य धर्मस्वरूपी भगवानुवाच । 017a
युधिष्ठिरं प्रीतियुक्तो नरेन्द्रं श्लक्ष्णैर्वाक्यैः संस्तवसम्प्रयुक्तैः ॥ 017c
अभिजातोऽसि राजेन्द्र पितुर्वृत्तेन मेधया । 018a
अनुक्रोशेन चानेन सर्वभूतेषु भारत ॥ 018c
पुरा द्वैतवने चासि मया पुत्र परीक्षितः । 019a
पानीयार्थे पराक्रान्ता यत्र ते भ्रातरो हताः ॥ 019c
भीमार्जुनौ परित्यज्य यत्र त्वं भ्रातरावुभौ । 020a
मात्रोः साम्यमभीप्सन्वै नकुलं जीवमिच्छसि ॥ 020c
अयं श्वा भक्त इत्येवं त्यक्तो देवरथस्त्वया । 021a
तस्मात्स्वर्गे न ते तुल्यः कश्चिदस्ति नराधिपः ॥ 021c
अतस्तवाक्षया लोकाः स्वशरीरेण भारत । 022a
प्राप्तोऽसि भरतश्रेष्ठ दिव्यां गतिमनुत्तमाम् ॥ 022c
वैशम्पायन उवाच । 023
ततो धर्मश्च शक्रश्च मरुतश्चाश्विनावपि । 023a
देवा देवर्षयश्चैव रथमारोप्य पाण्डवम् ॥ 023c
प्रययुः स्वैर्विमानैस्ते सिद्धाः कामविहारिणः । 024a
सर्वे विरजसः पुण्याः पुण्यवाग्बुद्धिकर्मिणः ॥ 024c
स तं रथं समास्थाय राजा कुरुकुलोद्वहः । 025a
ऊर्ध्वमाचक्रमे शीघ्रं तेजसाऽऽवृत्य रोदसी ॥ 025c
ततो देवनिकाय्यस्थो नारदः सर्वलोकवित् । 026a
उवाचोच्चैस्तदा वाक्यं बृहद्वादी बृहत्तपाः ॥ 026c
येऽपि राजर्षयः पूर्वे ते चापि समुपस्थिताः । 027a
कीर्तिं प्रच्छाद्य तेषां वै कुरुराजोऽधितिष्ठति ॥ 027c
लोकानावृत्य यशसा तेजसा वृत्तसम्पदा । 028a
स्वशरीरेण सम्प्राप्तं नान्यं शुश्रुम पाण्डवात् ॥ 028c
तेजांसि यानि दृष्टानि भूमिष्ठेन त्वया विभो । 029a
वेश्मानि भुवि देवानां पश्यामूनि सहस्रशः ॥ 029c
नारदस्य वचः श्रुत्वा राजा वचनमब्रवीत् । 030a
भ्रातॄनपश्यन्धर्मात्मा स्वपक्षांश्चैव पार्थिवान् ॥ 030c
शुभं वा यदि वा पापं भ्रातॄणां स्थानमद्य मे । 031a
तदेव प्राप्तुमिच्छामि लोकानन्यान्न कामये ॥ 031c
राज्ञस्तु वचनं श्रुत्वा देवराजः पुरन्दरः । 032a
आनृशंस्यसमायुक्तं प्रत्युवाच युधिष्ठिरम् ॥ 032c
स्थानेऽस्मिन्वस राजेन्द्र कर्मभिर्निर्जिते शुभैः । 033a
किं त्वं मानुष्यकं स्नेहमद्यापि परिकर्षसि ॥ 033c
सिद्धिं प्राप्तोऽसि परमां यथा नान्यः पुमान्क्वचित् । 034a
नैव ते भ्रातरः स्थानं सम्प्राप्ताः कुरुनन्दन ॥ 034c
अद्यापि मानुषो भावः स्पृशते त्वां नराधिप । 035a
स्वर्गोऽयं पश्य देवर्षीन्सिद्धांश्च त्रिदिवालयान् ॥ 035c
युधिष्ठिरस्तु देवेन्द्रमेवंवादिनमीश्वरम् । 036a
पुनरेवाब्रवीद्धीमानिदं वचनमर्थवत् ॥ 036c
तैर्विना नोत्सहे वस्तुमिह दैत्यनिबर्हण । 037a
गन्तुमिच्छामि तत्राहं यत्र मे भ्रातरो गताः ॥ 037c
यत्र सा बृहती श्यामा बुद्धिसत्त्वगुणान्विता । 038a
द्रौपदी योषितांश्रेष्ठा यत्र चैव सुता मम ॥ ॥ 038c

इति श्रीमन्महाभारते महाप्रस्थानिकपर्वणि तृतीयोऽध्यायः ॥ 3 ॥ महाप्रस्थानिकं पर्वं समाप्तम् ॥ 17 ॥ अतः परं स्वर्गारोहणपर्वः तस्यायमाद्यः श्लोकः । जनमेजय उवाच । स्वर्गं त्रिविष्टपं प्राप्य मम पूर्वपितामहाः । पाण्डवा धार्तराष्ट्राश्च कानि स्थानानि भेजिरे ॥ 1 ॥ इदं महाप्रस्थानिकं पर्व कुम्भघोणस्थेन टी.आर्. कृष्णाचार्येण टी.आर्. व्यासाचार्येण च मुम्बय्यां निर्णयसागरमुद्रायन्त्रे मुद्रापितम् । शकाब्दाः 1832 सन 1910.

17-3-8 अस्पृश्यस्य सन्त्यागे नृशंसं निर्दयत्वं नास्ति ॥ 17-3-10 श्ववतामशुचित्वाद्धिष्ण्यं स्थानं स्वर्गे नास्ति । क्रोधवशा नाम देवगणा अशुचेरिष्टापूर्तफलं घ्नन्ति ॥ 17-3-18 अभिजातोऽसि कुलीनोऽसि । पितुः पाण्डोः ॥ 17-3-26 निकाय्यस्थो निवासस्थः ॥ 17-3-27 समुपस्थिताः स्मृतिविषयाः सन्ति ॥ 17-3-31 यदेव भ्रातॄणां स्थानं प्राप्तुमिच्छामि ॥