अध्यायः 002
मेरुगिरिं प्रति गच्छन्तं युधिष्ठिरं ज्यैष्ठ्यक्रमादनुगच्छत्सु दौपद्यादिषु योगभ्रंशात्क्रमेण भूमौ निपतत्सु भीमप्रश्नात्तं प्रति युधिष्ठिरेण तेषां पतने हेतुकथनम् ॥ 1 ॥ तथा ततः शुना केवलमनुगम्यमानेन सता पुरोगमनम् ॥ 2 ॥
वैशम्पायन उवाच । 001
ततस्ते नियतात्मान उदीचीं दिशमास्थिताः । 001a
ददृशुर्योगयुक्ताश्च हिमवन्तं महागिरिम् ॥ 001c
तं चाप्यतिक्रमन्तस्ते ददृशुर्वालुकार्णवम् । 002a
अवैक्षन्त महाशैलं मेरुं शिखरिणां वरम् ॥ 002c
तेषां तु गच्छतां शीघ्रं सर्वेषां योगधार्मिणाम् । 003a
याज्ञसेनी भ्रष्टयोगा निपपात महीतले ॥ 003c
तां तु प्रपतितां दृष्ट्वा भीमसेनो महाबलः । 004a
उवाच धर्मराजानं याज्ञसेनीमवेक्ष्य ह ॥ 004c
नाधर्मश्चरितः कश्चिद्राजपुत्र्या परन्तप । 005a
कारणं किन्नु तद्ब्रूहि यत्कृष्णा पतिता भुवि ॥ 005c
युधिष्ठिर उवाच । 006
पक्षपातो महानस्या विशेषेण धनञ्जये । 006a
तस्यैतत्फलमद्यैषा भुङ्क्ते पुरुषसत्तम ॥ 006c
वैशम्पायन उवाच । 007
एवमुक्त्वाऽनवेक्ष्यैनां ययौ भरतसत्तमः । 007a
समाधाय मनो धीमान्धर्मात्मा पुरुषर्षभः ॥ 007c
सहदेवस्ततो विद्वान्निपपात महीतले । 008a
तं चापि पतितं दृष्ट्वा भीमो राजानमब्रवीत् ॥ 008c
योऽयमस्मासु सर्वेषु शुश्रूषुरनहङ्कृतः । 009a
सोऽयं माद्रवतीपुत्रः कस्मान्निपतितो भुवि ॥ 009c
युधिष्ठिर उवाच । 010
आत्मनः सदृशं प्राज्ञं नैषोऽमन्यत कञ्चन । 010a
तेन दोषेण पतितो विद्वानेष नृपात्मजः ॥ 010c
वैशम्पायन उवाच । 011
इत्युक्त्वा तं समुत्सृज्य सहदेवं ययौ तदा । 011a
भ्रातृभिः सह कौन्तेयः शुना चैव युधिष्ठिरः ॥ 011c
कृष्णां निपतितां दृष्ट्वा सहदेवं च पाण्डवम् । 012a
आर्तो बन्धुप्रियः शूरो नकुलो निपपात ह ॥ 012c
तस्मिन्निपतिते वीरे नकुले चारुदर्शने । 013a
पुनरेव तदा भीमो राजानमिदमब्रवीत् ॥ 013c
योऽयमक्षतधर्मात्मा भ्राता वचनकारकः । 014a
रूपेणाप्रतिमो लोके नकुलः पतितो भुवि ॥ 014c
इत्युक्तो भीमसेनेन प्रत्युवाच युधिष्ठिरः । 015a
नकुलं प्रति धर्मात्मा सर्वबुद्धिमतांवरः ॥ 015c
रूपेण मत्समो नास्ति कश्चिदित्यस्य दर्शनम् । 016a
अधिकश्चाहमेवैक इत्यस्य मनसि स्थितम् ॥ 016c
नकुलः पतितस्तस्मादागच्छ त्वं वृकोदर । 017a
यस्य यद्विहितं वीर सोऽवश्यं तदुपाश्नुते ॥ 017c
तांस्तु प्रपतितान्दृष्ट्वा पाण्डवः श्वेतवाहनः । 018a
पपात शोकसन्तप्तस्ततोनु परवीरहा ॥ 018c
तस्मिंस्तु पुरुषव्याघ्रे पतिते शक्रतेजसि । 019a
म्रियमाणे दुराधर्षे भीमो राजानमब्रवीत् ॥ 019c
अनृतं न स्मराम्यस्य स्वैरेष्वपि महात्मनः । 020a
अथ कस्य विकारोऽयं येनायं पतितो भुवि ॥ 020c
युधिष्ठिर उवाच । 021
एकोऽहं निर्दहेयं वै शत्रूनित्यर्जुनोऽब्रवीत् । 021a
न च तत्कृतवानेष शूरमानी ततोऽपतत् ॥ 021c
अवमेने धनुर्ग्राहानेष सर्वांश्च फल्गुनः । 022a
तथा चैतन्न तु तथा कर्तव्यं भूतिमिच्छता ॥ 022c
वैशम्पायन उवाच । 023
इत्युक्त्वा प्रस्थितो राजा भीमोऽथ निपपात ह । 023a
पतितश्चाब्रवीद्भीमो धर्मराजं युधिष्ठिरम् ॥ 023c
भोभो राजन्नवेक्षस्व पतितोऽहं प्रियस्तव । 024a
किन्निमित्तं च पतनं ब्रूहि मे यदि वेत्थ ह ॥ 024c
युधिष्ठिर उवाच । 025
अतिभुक्तं च भवता प्राणेन च विकत्थसे । 025a
अनवेक्ष्य परं पार्थ तेनासि पतितः क्षितौ ॥ 025c
इत्युक्त्वा तं महाबाहुर्जगामानवलोकयन् । 026a
श्वाऽप्येकोऽनुययौ यस्ते बहुशः कीर्तितो मया ॥ ॥ 026c
इति श्रीमन्महाभारते महाप्रस्थानिकपर्वणि द्वितीयोऽध्यायः ॥ 2 ॥
17-2-1 ततो दिक्त्रयप्रदक्षिणीकरणानन्तरम् । योगयुक्ताः समाहितमनसः ॥ 17-2-3 भ्रष्टयोगा ध्यानात् स्खलितमानसा ॥ 17-2-7 अनवेक्ष्य स्वर्गान्तरायरूपः स्नेहो माभूदिति भावः ॥