अध्यायः 001
भ्रातृभिर्द्रौपद्या च सह स्वर्गे जिगमिषुणा युधिष्ठिरेण युयुत्सौ राज्यभारनिवेशनपूर्वकं परिक्षितो राज्येऽभिषेचनम् ॥ 1 ॥ तथा कृच्छ्रात्पौरानुमतिसम्पादनेन वल्कलधारणादिपूर्वकं शुना सह गृहात्प्रस्थानम् ॥ 2 ॥ अर्जुनेन मध्येमार्गमग्निवचसा सनिषङ्गस्य गाण्डीवस्य वरुणोद्देशेन समुद्रे प्रक्षेपणम् ॥ 3 ॥
श्रीवेदव्यासाय नमः । 000
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । 000a
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ 000c
जनमेजय उवाच । 001
एवं वृष्ण्यन्धककुले श्रुत्वा मौसलमाहवम् । 001a
पाण्डवाः किमकुर्वन्त तथा कृष्णे दिवं गते ॥ 001c
वैशम्पायन उवाच । 002
श्रुत्वैवं कौरवो राजा वृष्णीनां कदनं महत् । 002a
प्रस्थाने मतिमाधाय वाक्यमर्जुनमब्रवीत् ॥ 002c
कालः पचति भूतानि सर्वाण्येव महामते । 003a
कालपाशमहं मन्ये त्वमपि द्रष्टुमर्हसि ॥ 003c
इत्युक्तः स तु कौन्तेयः कालः काल इति ब्रुवन् । 004a
अन्वपद्यत तद्वाक्यं भ्रातुर्ज्येष्ठस्य धीमतः ॥ 004c
अर्जुनस्य मतं ज्ञात्वा भीमसेनो यमौ तथा । 005a
अन्वपद्यन्त तद्वाक्यं यदुक्तं सव्यसाचिना ॥ 005c
ततो युयुत्सुमानाय्य प्रव्रजन्धर्मकाम्यया । 006a
राज्यं परिददौ सर्वं वैश्यापुत्रे युधिष्ठिरः ॥ 006c
अभिषिच्य स्वराज्ये च राजानं च परिक्षितम् । 007a
दुःखार्तश्चाब्रवीद्राजा सुभद्रां पाण्डवाग्रजः ॥ 007c
एष पुत्रस्य पुत्रस्ते कुरुराजो भविष्यति । 008a
यदूनां परिशेषश्च वज्रो राजा कृतश्च ह ॥ 008c
परिक्षिद्धास्तिनपुरे शक्रप्रस्थे च यादवः । 009a
वज्रो राजा त्वया रक्ष्यो मा चाधर्मे मनः कृथाः ॥ 009c
इत्युक्त्वा धर्मराजः स वासुदेवस्य धीमतः । 010a
मातुलस्य च वृद्धस्य रामादीनां तथैव च ॥ 010c
भ्रातृभिः सह धर्मात्मा कृत्वोदकमतन्द्रितः । 011a
श्राद्धान्युद्दिश्य सर्वेषां चकार विदिवत्तदा ॥ 011c
द्वैपायनं नारदं च मार्कण्डेयं तपोधनम् । 012a
भारद्वाजं याज्ञवल्क्यं हरिमुद्दिश्य यत्नवान् । 012c
अभोजयत्स्वादु भोज्यं कीर्तयित्वा च शार्ङ्गिणं ॥ 012e
ददौ रत्नानि वासांसि ग्रामानश्वान्रथांस्तथा । 013a
स्त्रियश्च द्विजमुख्येभ्यस्तदा शतसहस्रशः ॥ 013c
कृपमभ्यर्च्य च गुरुमथ पौरपुरस्कृतम् । 014a
'आहूय भरतश्रेष्ठ सन्निवेश्यासने तदा ।' 014c
शिष्यं परिक्षितं तस्मै तदौ भरतसत्तमः ॥ 014e
ततस्तु प्रकृतीः सर्वाः समानाय्य युधिष्ठिरः । 015a
सर्वमाचष्ट राजर्षिश्चिकीर्षितमथात्मनः ॥ 015c
ते श्रुत्वैव वचस्तस्य पौरजानपदा जनाः । 016a
भृशमुद्विग्नमनसो नाभ्यनन्दन्त तद्वचः ॥ 016c
नैवं कर्तव्यमिति ते तदोचुस्तं जनाधिपम् । 017a
न च राजा तथाऽकार्षीत्कालपर्यायधर्मवित् ॥ 017c
ततोऽनुमान्य धर्मात्मा पौरजानपदं जनम् । 018a
गमनाय मतिं चक्रे कृष्णस्य गमनादपि ॥ 018c
'वर्तमाने विवादे तु वास्तुविक्रयिणं प्रति । 019a
धनेच्छा युगपत्प्राप्ता क्षेत्रतस्वामिभूभृताम् ॥ 019c
प्राप्तं कलियुगं ज्ञात्वा सहदेवो हसन्निव । 020a
राज्ञस्तु कथयामास धर्मो नष्टस्तु सङ्करः ॥ 020c
श्रुत्वा तु दुर्मना राजा पर्याप्तं जीवनं मम ।' 021a
इति स्म राजा कौरव्यो धर्मपुत्रो युधिष्ठिरः । 021c
उत्सृज्याभरणान्यङ्गाज्जगृहे वल्कलान्युत ॥ 021e
भीमार्जुनयमाश्चैव द्रौपदी च यशस्विनी । 022a
तथैव जगृहुः सर्वे वल्कलानि नराधिप ॥ 022c
विधिवत्कारयित्वेष्टिं नैष्ठिकीं भरतर्षभ । 023a
समुत्सृज्याप्सु सर्वेऽग्नीन्प्रतस्थुर्नरपुङ्गवाः ॥ 023c
ततः प्ररुरुदुः सर्वाः स्त्रियो दृष्ट्वा नरोत्तमान् । 024a
प्रस्थितान्द्रौपदीषष्ठान्पुरा द्यूतजितान्यथा ॥ 024c
हर्षोऽभवच्च सर्वेषां भ्रातॄणां गमनं प्रति । 025a
युधिष्ठिरमतं ज्ञात्वा वृष्णिक्षयमवेक्ष्य च । 025c
भ्रातरः पञ्च कृष्णा च षष्ठी श्वा चैव सप्तमः । 026a
आत्मना सप्तमो राजा निर्ययौ गजसाह्वयात् । 026c
पौरैरनुगतो दूरं सर्वैरन्तःपुरैस्तथा ॥ 026e
न चैनमशकत्कश्चिन्निवर्तस्वेति भाषितुम् । 027a
न्यवर्तन्त ततः सर्वे नरा नगरवासिनः ॥ 027c
कृपप्रभृतयश्चैव युयुत्सुं पर्यवारयन् । 028a
विवेश गङ्गां कौरव्य उलूपी भुजगात्मजा ॥ 028c
चित्राङ्गदा ययौ चापि मणलूरपुरं प्रति । 029a
शिष्टाः परिक्षितं त्वन्या मातरः पर्यवारयन् ॥ 029c
पाण्डवाश्च महात्मानो द्रौपदी च यशस्विनी । 030a
कृतोपवासाः कौरव्य प्रययुः प्राङ्मुखास्ततः ॥ 030c
योगयुक्ता महात्मानस्त्यागधर्ममुपेयुषः । 031a
अभिजग्मुर्बहून्देशान्सरितः सागरांस्तथा ॥ 031c
युधिष्ठिरो ययावग्रे भीमस्तु तदनन्तरम् । 032a
अर्जुनस्तस्य चान्वेव यमौ चापि यथाक्रमम् ॥ 032c
पृष्ठतस्तु वरारोहा श्यामा पद्मदलेक्षणा । 033a
द्रौपदी योषितांश्रेष्ठा ययौ भरतसत्तम । 033c
श्वा चैवानुययावेकः प्रस्थितान्पाण्डवान्वनम् । 034a
क्रमेण ते ययुर्वीरा लौहित्यं सलिलार्णवम् ॥ 034c
गाण्डीवं तु धनुर्दिव्यं न मुमोच धनञ्जयः । 035a
रत्नलोभान्महाराज ते चाक्षय्ये महेषुधी ॥ 035c
अग्निं ते ददृशुस्तत्र स्थितं शैलमिवाग्रतः । 036a
मार्गमावृत्य तिष्ठन्तं साक्षात्पुरुषविग्रहम् ॥ 036c
ततो देवः स सप्तार्चिः पाण्डवानिदमब्रवीत् । 037a
भोभो पाण्डुसुता वीराः पावकं मां निबोधत ॥ 037c
युधिष्ठिर महाबाहो भीमसेन परन्तप । 038a
अर्जुनाश्विसुतौ वीरौ निबोधत वचो मम ॥ 038c
अहमग्निः कुरुश्रेष्ठा मया दग्धं च खाण्डवम् । 039a
अर्जुनस्य प्रभावेन तथा नारायणस्य च ॥ 039c
अयं वः फल्गुनो भ्राता गाण्डीवं परमायुधम् । 040a
परित्यज्य वने यातु नानेनार्थोऽस्ति कश्चन ॥ 040c
चक्ररत्नं तु यत्कृष्णे स्थितमासीन्महात्मनि । 041a
गतं तच्च पुनर्हस्ते कालेनैष्यति तस्य ह ॥ 041c
वरुणादाहृतं पूर्वं मयैतत्पार्थकारणात् । 042a
गाण्डीवं धनुषां श्रेष्ठं वरुणायैव दीयताम् ॥ 042c
ततस्ते भ्रातरः सर्वे धनञ्जयमचोदयन् । 043a
स जले प्राक्षिपच्चैतत्तथाऽक्षय्ये महेषुधी ॥ 043c
ततोऽग्निर्भरतश्रेष्ठ तत्रैवान्तरधीयत । 044a
ययुश्च पाण्डवा वीरास्ततस्ते दक्षिणामुखाः ॥ 044c
ततस्ते तूत्तरेणैव तीरेण लवणाम्भसः । 045a
जग्मुर्भरतशार्दूल दिशं दक्षिणपश्चिमाम् ॥ 045c
ततः पुनः समावृत्ताः पश्चिमां दिशमेव ते । 046a
ददृशुर्द्वारकां चापि सागरेण परिप्लुताम् ॥ 046c
उदीचीं पुनरावृत्त्य ययुर्भरतसत्तमाः । 047a
प्रादक्षिण्यं चिकीर्षन्तः पृथिव्या योगधर्मिणः ॥ ॥ 047c
इति श्रीमन्महाभारते महाप्रस्थानिकपर्वणि प्रथमोऽध्यायः ॥ 1 ॥
17-1-2 प्रस्थाने स्वर्गं गन्तुं गृहान्निःसरणे ॥ 17-1-3 पाशं तत्कृतमाकर्षं मरणमिति यावत् । तदहं मन्ये अङ्गीकरोमि । त्वमप्येतद्द्रष्टुमालोचितुम् ॥ 17-1-5 कालः काल इति नित्यार्थे द्वित्वम् । अपरिहार्यः कालो मृत्युः सोऽद्यैवास्तु किं चिरेणेत्याशयः ॥ 17-1-6 धर्मकाम्यया प्रवजन्नतूद्वेगेन । परिददौ तदधीनं कृतवान् । तस्याभिषेकेऽनधिकारात् ॥ 17-1-7 स्वराज्ये हास्तिनपुरे ॥ 17-1-9 अधर्मे परिक्षिद्वज्रयोर्बालयोररक्षणजे । महाप्रस्थानमियं मा कुर्यादिति भावः ॥ 17-1-13 स्त्रियो दासीः ॥ 17-1-18 अनुमान्यानुमतिप्रदं कृत्वा ॥ 17-1-23 नैष्ठिकीं पार्यन्तिकीं उत्सर्गेष्टिमित्यर्थः । आत्मन्यग्नीन्समारोप्याप्स्वग्नीनुत्सृज्येति ज्ञेयम् ॥ 17-1-29 अन्या युधिष्ठिरादीनां भार्याः श्रुतसोमादीनां मातरः ॥ 17-1-34 लौहित्यं उदयाचलप्रान्तस्थं समुद्रम् ॥ 17-1-40 अनेन गाण्डीवेन । अर्थः प्रयोजनम् ॥ 17-1-41 कालेन अवतारान्तरे ॥