अध्यायः 009
अर्जुनेन व्यासाश्रमे तद्दर्शनम् ॥ 1 ॥ तस्मिन्द्वारकावृत्तान्तनिवेदनम् ॥ 2 ॥ व्यासेनार्जुनं प्रति युधिष्ठिरादीनामपि स्वर्गगमनसूचनम् ॥ 3 ॥ ततोऽर्जुनेन हास्तिनपुरमेत्य युधिष्ठिरे द्वारकावृत्तान्तादिनिवेदनम् ॥ 4 ॥
वैशम्पायन उवाच । 001
प्रविश्य त्वर्जुनो राजन्नाश्रमं सत्यवादिनः । 001a
ददर्शासीनमेकान्तो मुनिं सत्यवतीसुतम् ॥ 001c
स तमासाद्य धर्मज्ञमुपतस्थे महाव्रतम् । 002a
अर्जुनोऽस्मीति नामास्तै निवेद्याभ्यवदत्ततः ॥ 002c
स्वागतं तेऽस्त्विति प्राह मुनिः सत्यवतीसुतः । 003a
आस्यतामिति होवाच प्रसन्नात्मा महामुनिः ॥ 003c
तमप्रतीतमनसं निःश्वसन्तं पुनःपुनः । 004a
निर्विण्णमनसं दृष्ट्वा पार्थं व्यासोऽब्रवीदिदम् ॥ 004c
नखकेशदशाकुम्भवारिणा किं समुक्षितः । 005a
आवीरजानुगमनं ब्राह्मणो वा हतस्त्वया ॥ 005c
युद्धे पराजितो वाऽसि गतश्रीरिव लक्ष्यसे । 006a
न त्वां प्रभिन्नं जानामि किमिदं भरतर्षभ । 006c
श्रोतव्यं चेन्मया पार्थ क्षिप्रमाख्यातुमर्हसि ॥ 006e
अर्जुन उवाच । 007
यः स मेघवपुः श्रीमान्बृहत्पङ्कजलोचनः । 007a
स कृष्णः सह रामेण त्यक्त्वा देहं दिवं गतः ॥ 007c
'तदनुस्मृत्य सम्मोहं तदा शोकं महामते । 008a
प्रयामि सर्वदा मह्यं मुमूर्षा चोपजायते ॥ 008c
तद्वाक्यस्पर्शनालोकसुखं चामृतसन्निभम् । 009a
संस्मृत्य देवदेवस्य प्रमुह्यत्यमृतात्मनः ॥' 009c
मौसले वृष्णिवीराणां विनाशो ब्रह्मशापजः । 010a
बभूव वीरान्तकरः प्रभासे रोमहर्षणः ॥ 010c
एते शूरा महात्मानः सिंहदर्पा महाबलाः । 011a
भोजवृष्ण्यन्धका ब्रह्मन्नन्योन्यं तैर्हतं युधि ॥ 011c
गदापरिघशक्तीनां सहाः परिघबाहवः । 012a
त एरकाभिर्निहताः पश्य कालस्य पर्ययम् ॥ 012c
हतं पञ्चशतं तेषां सहस्रं बाहुशालिनाम् । 013a
निधनं समनुप्राप्तं समासाद्येतरेतरम् ॥ 013c
पुनःपुनर्न मृष्यामि विनाशममितौजसाम् । 014a
चिन्तयानो यदूनां च कृष्णस्य च यशस्विनः ॥ 014c
शोषणं सागरस्येव मन्दरस्येव चालनम् । 015a
नभसः पतनं चैव शैत्यमग्नेस्तथैव च ॥ 015c
अश्रद्धेयमहं मन्ये विनाशं शार्ङ्गधन्वनः । 016a
न चेह स्थातुमिच्छामि लोके कृष्णविनाकृतः ॥ 016c
इतः कष्टतरं चान्यच्छृणु तद्वै तपोधन । 017a
मनो मे दीर्यते येन चिन्तयानस्य वै मुहुः ॥ 017c
पश्यतो वृष्णिदाराश्च मम ब्रह्मन्सहस्रशः । 018a
आभीरैरभिभूयाजौ हृताः पञ्चनदालयैः ॥ 018c
धनुरादाय तत्राहं नाशकं तस्य पूरणे । 019a
यथापुरा च मे वीर्यं भुजयोर्न तथाऽभवत् ॥ 019c
अस्त्राणि मे प्रनष्टानि विविधानि महामुने । 020a
शराश्च क्षयमापन्नाः क्षणेनैव समन्ततः ॥ 020c
पुरुषश्चाप्रमेयात्मा शङ्खचक्रगदाधरः । 021a
चतुर्भुजः पीतवासाः श्यामः पद्मदलेक्षणः ॥ 021c
यश्च याति पुरस्तान्मे रथस्य सुमहाद्युतिः । 022a
प्रदहन्रिपुसैन्यानि न पश्याम्यहमद्य तम् ॥ 022c
येन पूर्वं प्रदग्धानि शत्रुसैन्यानि तेजसा । 023a
शरैर्गाण्डीवनिर्मुक्तैरहं पश्चादशातयम् ॥ 023c
तमपश्यन्विषीदामि घूर्णामीव च सत्तम । 024a
परिनिर्विण्णचेताश्च शान्तिं नोपलभेऽपि च ॥ 024c
'देवकीनन्दनं देवं वासुदेवमजं प्रभुम् ।' 025a
विना जनार्दनं वीरं नाहं जीवितुमुत्सहे ॥ 025c
श्रुत्वैव हि गतं विष्णुं ममापि मुमुहुर्दिशः । 026a
प्रनष्टज्ञातिवीर्यस्य शून्यस्य परिधावतः ॥ 026c
उपदेष्टुं मम श्रेयो भवानर्हति सत्तम ॥ 027ac
व्यास उवाच । 028
'देवांशा देवभूतेन सम्भूतास्ते गतास्सह । 028a
धर्मव्यवस्थारक्षार्थं देवेन समुपेक्षिताः' ॥ 028c
ब्रह्मशापविनिर्दग्धा वृष्ण्यन्धकसमहारथाः । 029a
विनष्टाः कुरुशार्दूल न ताञ्शोचितुमर्हसि ॥ 029c
भवितव्यं तथा तच्च दिष्टमेतन्महात्मनाम् । 030a
उपेक्षितं च कृष्णेन शक्तेनापि व्यपोहितुम् ॥ 030c
त्रैलोक्यमपि गोविन्दः कृत्स्नं स्थावरजङ्गमम् । 031a
प्रसहेदन्यथा कर्तुं कुतः शापं महात्मनाम् ॥ 031c
'स्त्रियश्च ताः पुरा शप्ताः प्रभासे कुपितेन वै । 032a
अष्टावक्रेण मुनिना तदर्थं त्वद्बलक्षयम् ॥' 032c
रथस्य पुरतो याति यः स चक्रगदाधरः । 033a
तव स्नेहात्पुराणर्षिर्वासुदेवश्चतुर्भुजः ॥ 033c
कृत्वा भारावतरणं पृथिव्याः पृथुलोचनः । 034a
मोक्षयित्वा तनुं प्राप्तः कृष्णः स्वस्थानमुत्तमम् ॥ 034c
त्वयाऽपीह महत्कर्म देवानां पुरुषर्षभ । 035a
कृतं भीमसहायेन यमाभ्यां च महाभुज ॥ 035c
कृतकृत्यांश्च वो मन्ये संसिद्धान्कुरुपुङ्गव । 036a
गमनं प्राप्तकालं व इदं श्रेयस्करं विभो ॥ 036c
बलं बुद्धिश्च तेजश्च प्रतिपत्तिश्च भारत । 037a
भवन्ति भवकालेषु विपद्यन्ते विपर्यये ॥ 037c
कालमूलमिदं सर्वं जगद्बीजं धनञ्जय । 038a
काल एव समादत्ते पुनरेव यदृच्छया ॥ 038c
स एव बलवान्भूत्वा पुनर्भवति दुर्बलः । 039a
स एवेशश्च भूत्वेह परैराज्ञाप्यते पुनः ॥ 039c
कृतकृत्यानि चास्त्राणि गतान्यद्य यथागतम् । 040a
पुनरेष्यन्ति ते हस्तं यदा कालो भविष्यति ॥ 040c
कालो गन्तुं गतिं मुख्यां भवतामपि भारत । 041a
एतच्छ्रेयो हि वो मन्ये परमं भरतर्षभ ॥ 041c
वैशम्पायन उवाच । 042
एतद्वचनमाज्ञाय व्यासस्यामिततेजसः । 042a
अनुज्ञातो ययौ पार्थो नगरं नागसाह्वयम् ॥ 042c
प्रविश्य च पुरीं वीरः समासाद्य युधिष्ठिरम् । 043a
आचष्ट तद्यथावृत्तं वृष्ण्यन्धककुलं प्रति ॥ ॥ 043c
इति श्रीमन्महाभारते शतसाहस्र्यां संहितायां वैयासिक्यां मौसलपर्वणि नवमोऽध्यायः ॥ 9 ॥ ॥ मौसलपर्व समाप्तम् ॥ अस्यानन्तरं महाप्रस्थानिकं पर्व भविष्यति तस्यायमाद्यः श्लोकः । जनमेजय उवाच । एवं वृष्ण्यन्धककुले श्रुत्वा मौसलमाहवम् । पाण्डवाः किमकुर्वन्त तथा कृष्णे दिवं गते ॥ 1 ॥ इदं मौसलपर्व कुम्भघोणस्थेन टी.आर्. कृष्णाचार्येण टी. आर्. व्यासाचार्येण च मुम्बय्यां निर्णयसागरमुद्रायन्त्रे मुद्रापितम् । शकाब्दाः 1832 सन 1910.
16-9-5 नखोदकं केशोदकं वस्त्रप्रान्तो दशा तदुदकं कुम्भमुखोदकं च । आवीरजा नारी रजस्वला तस्या रजःप्रस्रवकाले दिनत्रयादर्वाक् अनुगमनं तस्यां मैथुनं ब्राह्मणस्य वधो युद्धे पराजयश्चेति सप्तभिर्निमित्तैः पुरुषो भ्रष्टश्रीर्भवति । अपि राजोपघातस्ते ब्राह्मणो वेति क.ट.पाठः ॥ 16-9-6 प्रभिन्नं पराजितं त्वां कदाचिदपि न जानामि ॥ 16-9-11 हतं मृतम् । मारितवन्त इत्यर्थः ॥ 16-9-13 पञ्चशतं सहस्रं सहस्रगुणितं पञ्चलक्षाणीत्यर्थः ॥ 16-9-13 न केवलं हतं ताडितमपि तु निधनं प्राप्तमित्यर्थः ॥ 16-9-18 पश्यतः अनादरे षष्ठी । मां पश्यन्तमनादृत्येत्यर्थः ॥ 16-9-37 वुद्धिरुपस्थितकार्यावधारणम् । तेजः प्रागल्भ्यम् । प्रतिपत्तिरनागतावेक्षणम् । भवन्ति उत्पद्यन्ते । भवकालेषु ऐश्वर्यावाप्तिसमयेषु । विपर्यये विनाशकाले । विपद्यन्ते विनश्यन्ति ॥ 16-9-38 कालः ईश्वरः । जगद्बीजं वियदादिपञ्चकम् । समादत्ते संहरति यदा भूतानामपि संहारो भवति कियांस्तत्र भौतिकानां नाश इति तदर्थं शोकोऽनुचित इति भावः । य एव बलवान्स एव दुर्बलो भवत्येव विपर्ययोऽपि कालमूलो ज्ञेयः ॥ 16-9-40 पुनर्युगान्तरे ॥ 16-9-41 मुख्यां गतिं स्वर्गं गन्तुम् एतत्प्रस्थानं श्रेयः ॥