अध्यायः 008

अर्जुनेन वसुदेवसमाश्वासनपूर्वकं सकलपौरान्प्रति नातिचिरादेव द्वारकायाः समुद्रेण समाप्लावननिवेदनपूर्वकं सर्वेषामिन्द्रप्रस्थं प्रति प्रयाणसन्नाहसञ्चोदना ॥ 1 ॥ तथा परेद्युर्योगेन शरीरं त्यक्तवतो वसुदेवस्य पत्नीभिः सह संस्करणपूर्वकं रामकृष्णशरीरयोर्दाहनम् ॥ 2 ॥ ततो वज्रार्जुनपुरस्कारेण सकलपौरजने पुरःपुरः प्रयाते समुद्रेण पश्चाद्भागे पौरजनमुक्ततत्तद्भागस्य स्वजलेन समाक्रमणम् ॥ 3 ॥ अर्जुनेन मध्येमार्गं चोरापहृतावशिष्टयादवकलत्रादिभिः सह स्वदेशमेत्य युधिष्ठिराज्ञया वज्रस्येन्द्रप्रस्थराज्येऽभिषेचनम् । तथा सात्यकिसुतादीनां तत्रतत्र राज्येऽभिषेचनम् ॥ 3 ॥ रुक्मिण्यादिभिः काभिश्चिदग्निप्रवेशनम् । सत्यभामादिभिः काभिश्चन तपसे वनगमनम् ॥ 4 ॥

वैशम्पायन उवाच । 001
एवमुक्तः स बीभत्सुर्मातुलेन परन्तप । 001a
दुर्मना दीनवदनो वसुदेवमुवाच ह ॥ 001c
नाहं वृष्णिप्रवीरेण बन्धुभिश्चैव मातुल । 002a
विहीनां पृथिवीं द्रष्टुं शक्तश्चिरमिह प्रभो ॥ 002c
राजा च भीमसेनश्च सहदेवश्च पाण्डवः । 003a
नकुलो याज्ञसेनी च षडेकमनसो वयम् ॥ 003c
राज्ञः सङ्क्रमणे चापि कामोऽयं नित्यमेव हि । 004a
तमिमं विद्धि सम्प्राप्तं कालं कालविदांवर ॥ 004c
सर्वथा वृष्णिदारांस्तु बालं वृद्धं तथैव च । 005a
नयिष्ये परिगृह्याहमिन्द्रप्रस्थमरिन्दम ॥ 005c
इत्युक्त्वा दारुकमिदं वाक्यमाह धनञ्जयः । 006a
अमात्यान्वृष्णिवीराणां द्रष्टुमिच्छामि माचिरम् ॥ 006c
इत्येवमुक्त्वा वचनं सुधर्मां यादवीं सभाम् । 007a
प्रविवेशार्जुनः शूरः शोचमानो महाभुजः ॥ 007c
तमासनगतं तत्र सर्वाः प्रकृतयस्तथा । 008a
ब्राह्मणा नागरास्तत्र परिवार्योपतस्थिरे ॥ 008c
तान्दीनमनसः सर्वान्विमूढान्गतचेतसः । 009a
उवाचेदं वचः काले पार्थो दीनतरस्तथा ॥ 009c
शक्रप्रस्थमहं नेष्ये वृष्ण्यन्धकजनं स्वयम् । 010a
इदं तु नगरं सर्वं समुद्रः प्लावयिष्यति ॥ 010c
सज्जीकुरुत यानानि रत्नानि विविधानि च । 011a
वज्रोऽयं भवतां राजा शक्रप्रस्थे भविष्यति ॥ 011c
सप्तमे दिवसे चैव रवौ विमल उद्गते । 012a
बहिर्वत्स्यामहे सर्वे सज्जीभावत माचिरम् ॥ 012c
इत्युक्तास्तेन ते सर्वे पार्थेनाक्लिष्टकर्मणा । 013a
सज्जमाशु ततश्चक्रुः स्वसिद्ध्यर्थं समुत्सुकाः ॥ 013c
तां रात्रिमवसत्पार्थः केशवस्य निवेशने । 014a
महता शोकमोहेन सहसाऽभिपरिप्लुतः ॥ 014c
श्वोभूतेऽथ ततः शौरिर्वसुदेवः प्रतापवान् । 015a
युक्त्वाऽऽत्मानं महातेजा जगाम गतिमुत्तमाम् ॥ 015c
ततः शब्दो महानासीद्वसुदेवनिवेशने । 016a
दारुणः क्रोशतीनां च रुदतीनां च योषिताम् ॥ 016c
प्रकीर्णमूर्धजाः सर्वा विमुक्ताभरणस्रजः । 017a
उरांसि पाणिभिर्घ्नन्त्यो व्यलपन्करुणं स्त्रियः । 017c
तं देवकी च भद्रा च रोहिणी मदिरा तथा । 018a
अन्वारोढुं व्यवसिता भर्तारं योषितां वराः ॥ 018c
ततः शौरिं नृयुक्तेन बहुमूल्येन भारत । 019a
यानेन महता पार्थो बहिर्निष्क्रामयत्तदा ॥ 019c
तमन्वयुस्तत्रतत्र दुःखशोकसमन्विताः । 020a
द्वारकावासिनः सर्वे पौरजानपदा हिताः ॥ 020c
तस्याश्वमेधिकं छत्रं दीप्यमानाश्च पावकाः । 021a
पुरस्तात्तस्य यानस्य याजकाश्च ततो ययुः ॥ 021c
अनुजग्मुश्च तं वीरं देव्यस्ता वै स्वलङ्कृताः ॥ 022a
स्त्रीसहस्रैः परिवृता वधूभिश्च सहस्रशः ॥ 022c
यस्तु देशः प्रियस्तस्य जीवतोऽभून्महात्मनः । 023a
तत्रैनमुपसङ्कल्प्य पितृमेधं प्रचक्रिरे ॥ 023c
तं चिताग्निगतं वीरं शूरपुत्रं वराङ्गनाः । 024a
ततोऽन्वारुरुहुः पत्न्यश्चतस्रः पतिलोकगाः ॥ 024c
तं वै चतसृभिः स्त्रीभिरन्वितं पाण्डुनन्दनः । 025a
अदाहयच्चन्दनैश्च गन्धैरुच्चावचैरपि ॥ 025c
ततः प्रादुरभूच्छब्दः समिद्धस्य विभावसोः । 026a
सामगानां च निर्घोषो नराणां रुदतामपि ॥ 026c
ततो वज्रप्रधानास्ते वृष्ण्यन्धककुमारकाः । 027a
सर्वे चैवोदकं चक्रुः स्त्रियश्चैव महात्मनः । 027c
अलुप्तधर्मस्तं धर्मं कारयित्वा स फल्गुनः । 028a
जगाम वृष्णयो यत्र विनष्टा भरतर्षभ ॥ 028c
स तान्दृष्ट्वा निपतितान्कदने भृशदुःखितः । 029a
बभूवातीव कौरव्यः प्राप्तकालं चकार ह ॥ 029c
यथाप्रधानतश्चैव चक्रे सर्वास्तथा क्रियाः । 030a
ये हता ब्रह्मशापेन मुसलैरेरकोद्भवैः ॥ 030c
'ततो भगवतो देहं दृष्ट्वा शिष्यः प्रलप्य च । 031a
स्मृत्वा तद्वचनं सर्वं मोहशोकोपबृंहितः ॥' 031c
ततः शरीरे रामस्य वासुदेवस्य चोभयोः । 032a
अन्वीक्ष्य दाहयामास पुरुषैराप्तकारिभिः ॥ 032c
स तेषां विधिवत्कृत्वा प्रेतकार्याणि पाण्डवः । 033a
सप्तमे दिवसे प्रायाद्रथमारुह्य सत्वरः ॥ 033c
अश्वयुक्तै रथैश्चापि गोखरोष्ट्रयुतैरपि । 034a
स्त्रियस्ता वृष्णिवीराणां रुदन्त्यः शोककर्शिताः ॥ 034c
अनुजग्मुर्महात्मानं पाण्डुपुत्रं धनञ्जयम् । 035a
भृत्याश्चान्धकवृष्णीनां सादिनो रथिनश्च ये ॥ 035c
वीरहीना वृद्धबालाः पौरजानपदास्तथा । 036a
ययुस्ते परिवार्याथ कलत्रं पार्थशासनात् ॥ 036c
कुञ्जरैश्च गजारोहा ययुः शैलनिभैस्तथा । 037a
सपादरक्षैः संयुक्ताः सोत्तरायुधिका ययुः ॥ 037c
पुत्राश्चान्धकवृष्णीनां सर्वे पार्थमनुव्रताः । 038a
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव महाधनाः ॥ 038c
दश षट् च सहस्राणि वासुदेवावरोधनम् । 039a
पुरस्कृत्य ययुर्वज्रं पौत्रं कृष्णस्य धीमतः ॥ 039c
बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च । 040a
भोजवृष्ण्यन्धकस्त्रीणां हतनाथानि निर्ययुः ॥ 040c
तत्सागरसमप्रख्यं वृष्णिचक्रं महर्द्धिमत् । 041a
उवाह रथिनांश्रेष्ठः पार्थः परपुरञ्जयः ॥ 041c
निर्याते तु जने तस्मिन्सागरो मकरालयः । 042a
द्वारकां रत्नसम्पूर्णां जलेनाप्लावयत्तदा ॥ 042c
यद्यद्धि पुरुषव्याघ्रो भूमेस्तस्या व्यमुञ्चत । 043a
तत्तत्सम्प्लावयामास सलिलेन स सागरः ॥ 043c
तदद्भुतमभिप्रेक्ष्य द्वारकावासिनो जनाः । 044a
तूर्णात्तूर्णतरं जग्मुरहो दैवमिति ब्रुवन् ॥ 044c
काननेषु च रम्येषु पर्वतेषु नदीषु च । 045a
निवसन्नानयामास वृष्णिदारान्धनञ्जयः ॥ 045c
स पञ्चनदमासाद्य धीमानतिसमृद्धिमत् । 046a
देशे गोपशुधान्याढ्ये निवासमकरोत्प्रभुः ॥ 046c
ततो लोभः समभवद्दस्यूनां निहतेश्वराः । 047a
दृष्ट्वा स्त्रियो नीयमानाः पार्थेनैकेन भारत ॥ 047c
ततस्ते पापकर्माणो लोभोपहतचेतसः । 048a
आभीरा मन्त्रयामासुः समेत्याशुभदर्शनाः ॥ 048c
अयमेकोऽर्जुनो धन्वी वृद्धबालं हतेश्वरम् । 049a
नयत्यस्मानतिक्रम्य योधाश्चेमे हतौजसः ॥ 049c
ततो यष्टिप्रहरणा दस्यवस्ते सहस्रशः । 050a
अभ्यधावन्त वृष्णीनां तं जनं लोप्त्रहारिणः ॥ 050c
महता सिंहनादेन त्रासयन्तः पृथग्जनम् । 051a
अभिपेतुर्धनार्थं ते कालपर्यायचोदिताः ॥ 051c
ततो निवृत्तः कौन्तेयः सहसा सपदानुगः । 052a
उवाच तान्महाबाहुरर्जुनः प्रहसन्निव ॥ 052c
निवर्तध्वमधर्मज्ञा यदि जीवितुमिच्छथ । 053a
इदानीं शरनिर्भिन्नाः शोचध्वं निहता मया ॥ 053c
तथोक्तास्तेन वीरेण कदर्थीकृत्य तद्वचः । 054a
अभिपेतुर्जनं मूढा वार्यमाणाः पुनःपुनः ॥ 054c
ततोऽर्जुनो धनुर्दिव्यं गाण्डीवमजरं महत् । 055a
आरोपयितुमारेभे यत्नादिव कथञ्चन ॥ 055c
चकार सज्यं कृच्छ्रेण सम्भ्रमे तुमुले सति । 056a
चिन्तयामास शस्त्राणि न च सस्मार तान्यपि ॥ 056c
वैकृतं तन्महद्दृष्ट्वा भुजवीर्यं तथा युधि । 057a
दिव्यानां च महास्त्राणां विनाशाद्व्रीडितोऽभवत् ॥ 057c
वृष्णियोधाश्च ते सर्वे गजाश्वरथयोधिनः । 058a
न शेकुरावर्तयितुं ह्रियमाणं स्वकं धनम् ॥ 058c
कलत्रस्य बहुत्वाद्धि सम्पतत्सु ततस्ततः । 059a
प्रयत्नमकरोत्पार्थो जनस्य परिरक्षणे ॥ 059c
मिषतां सर्वयोधानां ततस्ताः प्रमदोत्तमाः । 060a
समन्ततोऽवकृष्यन्त कामाच्चान्याः प्रवव्रजुः ॥ 060c
ततो गाण्डीवनिर्मुक्तैः शरैः पार्थो धनञ्जयः । 061a
जघान दस्यून्सोद्वेगो वृष्णिभृत्यैः सहस्रशः ॥ 061c
क्षणेन तस्य ते राजन्क्षयं जग्मुरजिह्मगाः । 062a
अक्षया हि पुरा भूत्वा क्षीणाः क्षतजभोजनाः ॥ 062c
स शरक्षयमासाद्य दुःखशोकसमाहतः । 063a
धनुष्कोट्या तदा दस्यूनवधीत्पाकशासनिः ॥ 063c
[प्रेक्षतस्त्वेव पार्थस्य वृष्ण्यन्धकवरस्त्रियः । 064a
जग्मुरादाय ते म्लेच्छाः समन्ताज्जनमेजय ॥] 064c
धनञ्जयस्तु दैवं तन्मनसाऽचिन्तयत्प्रभुः । 065a
दुःखसोकसमाविष्टो निःश्वासपरमोऽभवत् ॥ 065c
अस्त्राणां च प्रणाशेन बाहुवीर्यस्य च क्षयात् । 066a
धनुषश्चाविधेयत्वाच्छराणां सङ्क्षयेण च ॥ 066c
बभूव विमनाः पार्थो दैवमित्युनुचिन्तयन् । 067a
न्यवर्तत ततो राजन्नेदमस्तीति चिन्तयन् ॥ 067c
ततः शेषं समादाय कलत्रस्य महामतिः । 068a
हृतभूयिष्ठरत्नस्य कुरुक्षेत्रमवातरत् ॥ 068c
युधिष्ठिरस्यानुमते वंशकर्तॄन्कुमारकान् । 069a
न्यवेशयत कौरव्यस्तत्रतत्र धनञ्जयः ॥ 069c
हार्दिक्यतनयं पार्थो नगरे मृत्तिकावते । 070a
अश्वपतिं खाण्डवारण्ये राज्ये तत्र न्येवशयत् । 070c
भोजराजकलत्रं च हृतशेषं नरोत्तमः ॥ 070e
तथा वृद्धांश्च बालांश्च स्त्रियश्चादाय पाण्डवः । 071a
वीरैर्विहीनान्सर्वांस्ताञ्शक्रप्रस्थे न्यवेशयत् ॥ 071c
यौयुधानिं सरस्वत्याः पुत्रं सात्यकिनः प्रियम् । 072a
न्यवेशयत धर्मात्मा वृद्धबालपुरस्कृतम् ॥ 072c
इन्द्रप्रस्थे ददौ राज्यं वज्राय परवीरहा । 073a
वज्रेणाक्रूरदारास्तु वार्यमाणाः प्रवव्रजुः ॥ 073c
रुक्मिणी त्वथ गान्धारी शैब्या हैमवतीत्यपि । 074a
देवी जाम्बवती चैव विविशुर्जातवेदसम् ॥ 074c
सत्यभामा तथैवान्या देव्यः कृष्णस्य सम्मताः । 075a
वनं प्रविविशू राजंस्तापस्ये कृतनिश्चयाः ॥ 075c
द्वारकावासिनो ये तु पुरुषाः पार्थमभ्ययुः । 076a
यथार्हं संविभज्यैनान्वज्रे पर्यददज्जयः ॥ 076c
स तत्कृत्वा प्राप्तकालं बाष्णेणापिहितोऽर्जुनः । 077a
कृष्णद्वैपायनं व्यासं ददर्शाऽऽसीनमाश्रमे ॥ ॥ 077c

इति श्रीमन्महाभारते मौसलपर्वणि अष्टमोऽध्यायः ॥ 8 ॥

16-8-32 अन्विष्य दाहयामासेति झ.पाठः ॥ 16-8-44 ब्रुवन् अब्रुवन् ॥