अध्यायः 007

वसुदेवेन स्वगृहमागतेऽर्जुने यादवक्षयनिदाननिवेदनपूर्वकं कृष्णाद्यनुस्मरणेन परिशोचनम् ॥ 1 ॥ तथा तं प्रति कृष्णवचननिवेदनेन राज्यस्त्रीधनादिसमर्पणपूर्वकं स्वेन स्वप्राणत्यजनप्रतिज्ञानम् ॥ 2 ॥

वैशम्पायन उवाच । 001
तं प्रविष्टं महात्मानं वीरमानकदुन्दुभिः । 001a
पुत्रशोकेन सन्तप्तो ददर्श कुरुपुङ्गवम् ॥ 001c
तस्याश्रुपरिपूर्णाक्षो व्यूढोरस्को महाभुजः । 002a
आर्तस्यार्ततरः पार्थः पादौ जग्राह भारत ॥ 002c
तस्य मूर्धानमाघ्रातुमियेषानकदुन्दुभिः । 003a
स्वस्रीयस्य महाबाहुर्न शशाक च शत्रुहन् ॥ 003c
समालिङ्ग्यार्जुनं वृद्धः स भुजाभ्यां महाभुजः । 004a
रुरोदाथ स्मरञ्शौरिं विललाप सुविह्वलः । 004c
भ्रातॄन्पुत्रांश्च पौत्रांश्च दौहित्रान्स सखीनपि ॥ 004e
वसुदेव उवाच । 005
यैर्जिता भूमिपालाश्च दैत्याश्च शतशोऽर्जुन । 005a
तान्सर्वान्नेह पश्यामि जीवाम्यर्जुन दुर्मरः ॥ 005c
यो तावर्जुनशिष्यौ ते प्रियौ बहुमतौ सदा । 006a
तयोरपनयात्पार्थ वृष्णयो निधनं गताः ॥ 006c
यौ तौ वृष्णिप्रवीराणां द्वावेवातिरथौ मतौ । 007a
प्रद्युम्नो युयुधानश्च कथनन्कत्थसे च यौ ॥ 007c
तौ सदा कुरुशार्दूल कृष्णस्य प्रियभाजनौ । 008a
तावुभौ वृष्णिनाशस्य मुखमास्तां धनञ्जय ॥ 008c
न तु गर्हामि शैनेयं हार्दिक्यं चाहमर्जुन । 009a
अक्रूरं रौक्मिणेयं च शापो ह्येवात्र कारणम् ॥ 009c
केशिनं यस्तु कंसं च विक्रम्य हतवान्प्रभुः । 010a
विदेहमकरोत्पार्थ चैद्यं च बलगर्वितम् ॥ 010c
नैषादिमेकलव्यं च चक्रे कालिङ्गमागधान् । 011a
गान्धारान्काशिराजं च मरुभूमौ च पार्थिवान् ॥ 011c
प्राच्यांश्च दाक्षिणात्यांश्च पार्वतीयांस्तथा नृपान् । 012a
सोऽभ्युपेक्षितवानेवमनयान्मधुसूदनः ॥ 012c
त्वं हि तं नारदश्चैव मुनयश्च सनातनम् । 013a
गोविन्दमनघं देवमभिजानीध्वमच्युतम् ॥ 013c
प्रत्यपश्यच्च स विभुर्ज्ञातिक्षयमधोक्षजः । 014a
समुपेक्षितवान्नित्यं स्वयं स मम पुत्रकः ॥ 014c
गान्धार्या वचनं यत्तदृषीणां च परन्तप । 015a
तन्नूनमन्यथा कर्तुं नैच्छत्स जगतः प्रभुः ॥ 015c
प्रत्यक्षं भवतश्चापि तव पौत्रः परन्तप । 016a
अश्वत्थाम्ना हतश्चापि जीवितस्तस्य तेजसा । 016c
इमांस्तु नैच्छत्स्वान्ज्ञातीन्रक्षितुं च सखा तव ॥ 016e
ततः पुत्रांश्च पौत्रांश्च भ्रातॄनथ सखींस्तथा । 017a
शयानान्निहतान्दृष्ट्वा कृष्णो मामब्रवीदिदम् ॥ 017c
सम्प्राप्तोऽद्यायमस्यान्तः कुलस्य भरतर्षभ । 018a
आगमिष्यति बीभत्सुरिमां द्वारवतीं पुरीम् । 018c
आख्येयं तस्य यद्वृत्तं वृष्णीनां वैशसं महत् ॥ 018e
स तु श्रुत्वा महातेजा यदूनां निधनं प्रभो । 019a
आगन्ता क्षिप्रमेवेह न मेऽत्रास्ति विचारणा ॥ 019c
योऽहं तमर्जुनं विद्धि योऽर्जुनः सोऽहमेव तु । 020a
यद्ब्रूयात्तत्तथा कार्यमिति बुद्ध्यस्व भारत ॥ 020c
स स्त्रीषु प्राप्तकालासु पाण्डवो बालकेषु च । 021a
प्रतिपत्स्यति बीभत्सुर्भवतश्चौर्ध्वदेहिकम् ॥ 021c
इमां च नगरीं सद्यः प्रतियाते धनञ्जये । 022a
प्राकाराट्टालकोपेतां समुद्रः प्लावयिष्यति ॥ 022c
अहं देशे तु कस्मिंश्चित्पुण्ये नियममास्थितः । 023a
कालं काङ्क्षे सद्य एव रामेण सहितो वने ॥ 023c
एवमुक्त्वा हृषीकेशो मामचिन्त्यपराक्रमः । 024a
हित्वा मां बालकैः सार्धं दिशं कामप्यगात्प्रभुः ॥ 024c
सोऽहं तौ च महात्मानौ चिन्तयन्रामकेशवौ । 025a
घोरं ज्ञातिवधं चैव न भुञ्जे शोककर्शितः ॥ 025c
न मोक्ष्ये न च जीविष्ये दिष्ट्या प्राप्तोऽसि पाण्डव । 026a
यदुक्तं पार्थ कृष्णेन तत्सर्वमखिलं कुरु ॥ 026c
एतत्ते पार्थ राज्यं च स्त्रियो रत्नानि चैव हि । 027a
इष्टान्प्राणानहं हीमांस्त्यक्ष्यामि रिपुसूदन ॥ ॥ 027c

इति श्रीमन्महाभारते मौसलपर्वणि सप्तमोऽध्यायः ॥ 7 ॥

16-7-6 शिष्यौ प्रद्युम्नसात्यकी ॥ 16-7-11 काशिराजं पौण्ड्रकम् ॥