अध्यायः 006
दारुकेण हास्तिनपुरमेत्य पाण्डवेषु सर्वयादवक्षयनिवेदनम् ॥ 1 ॥ अर्जुनेन द्वारकामेत्य रुक्मिण्यादिपरिसान्त्वनपूर्वकं वसुदेवगृहं प्रति गमनम् ॥ 2 ॥
वैशम्पायन उवाच । 001
दारुकोऽपि कुरून्गत्वा दृष्ट्वा पार्थान्महारथान् । 001a
आचष्ट मौसले वृष्णीनन्योन्येनोपसंहृतान् ॥ 001c
श्रुत्वा विनष्टान्वार्ष्णेयान्सभोजान्धककौकुरान् । 002a
पाण्डवाः शोकसन्तप्ता वित्रस्तमनसोऽभवन् ॥ 002c
ततोऽर्जुनस्तानामन्त्र्य केशवस्य प्रियः सखा । 003a
प्रययौ मातुलं द्रष्टुं नेदमस्तीति चाब्रवीत् ॥ 003c
स वृष्णिनिलयं गत्वा दारुकेण सह प्रभो । 004a
ददर्श द्वारकां वीरो मृतनाथामिव स्त्रियम् ॥ 004c
याः स्म ता लोकनाथेन नाथवत्यः पुराऽभवन् । 005a
तास्त्वनाथास्तदा नाथं पार्थं दृष्ट्वा विचुक्रुशुः ॥ 005c
षोडश स्त्रीसहस्राणि वासुदेवपरिग्रहाः । 006a
तासामासीन्महान्नादो दृष्ट्वैवार्जुनमागतम् ॥ 006c
तास्तु दृष्ट्वैव कौरव्यो बाष्पेणापिहितेक्षणः । 007a
हीनाः कृष्णेन पुत्रैश्च नाशकत्सोऽभिवीक्षितुम् ॥ 007c
स तां वृष्ण्यन्धकजलां हयमीनां रथोडुपाम् । 008a
वादित्ररथघोषौघां वेश्मतीर्थमहाग्रहाम् ॥ 008c
रत्नशैवलसङ्घातां वज्रप्राकारमालिनीम् । 009a
रथ्यास्रोतोजलावर्तां चत्वरस्तिमितह्रदाम् ॥ 009c
रामकृष्णमहाग्राहां द्वारकां सरितं तदा । 010a
कालपाशग्रहां भीमां नदीं वैतरणीमिव ॥ 010c
ददर्श वासविर्धीमान्विहीनां वृष्णिपुङ्गवैः । 011a
गतश्रियं निरानन्दां पद्मिनीं शिशिरे यथा । 011c
तां दृष्ट्वा द्वारकां पार्थस्ताश्च कृष्णस्य योषितः । 012a
सस्वनं बाष्पमुत्सृज्य निपपात महीतले ॥ 012c
सात्राजिती ततः सत्या रुक्मिणी च विशाम्पते । 013a
अभिपत्य प्ररुरुदुः परिवार्य धनञ्जयम् ॥ 013c
ततस्तं काञ्चने पीठे समुत्ताप्योपवेश्य च । 014a
अभिनन्द्य महात्मानं परिवार्योपतस्थिरे ॥ 014c
ततः संस्तूय गोविन्दं कथयित्वा च पाण्डवः । 015a
आश्वास्य ताः स्त्रियश्चापि मातुलं द्रष्टुमभ्यगात् ॥ ॥ 015c
इति श्रीमन्महाभारते मौसलपर्वणि षष्ठोऽध्यायः ॥ 6 ॥
16-6-14 अब्रुवन्त्यो महात्मानमिति झ.पाठः ॥