अध्यायः 005
सर्वयादवेषु निहतेषु बभ्रुदारुकाभ्यां सह बलभद्रमन्वेषमाणेन कृष्णेन वने वृक्षाश्रितस्य तस्य दर्शनम् ॥ 1 ॥ ततः कृष्णेन पाण्डवान्प्रति दारुकप्रेषणम् ॥ 2 ॥ बलभद्रेण योगात्सर्पशरीरस्वीकारेण समुद्रप्रवेशः ॥ 3 ॥ कृष्णेन शरीरत्यागाय योगेन शयनम् ॥ 4 ॥ व्याधेन मृगबुद्ध्या कृष्णस्य पादतले सायकेन गाढवेधनम् ॥ 5 ॥ कृष्णेन पश्चात्समीपमेत्य पश्चात्तापेन प्रणमतो व्याधस्य देवैः स्वर्गप्रापणम् ॥ 6 ॥ ततः शरीरत्यागपूर्वकं दिवं गतेन कृष्णेन देवैः पुष्पवर्षणपूर्वकं स्तुत्या प्रत्युद्गम्यमानेन सता निजपरधामप्रवेशः ॥ 7 ॥
वैशम्पायन उवाच । 001
ततो ययुर्दारुकः केशवश्च बभ्रुश्च रामस्य पदं पतन्तः । 001a
अथापश्यन्राममनन्तवीर्यं वृक्षाश्रितं चिन्तयानं विविक्ते । 001c
ततः समासाद्य महानुभावः कृष्णस्तदा दारुकमन्वशासत् । 002a
गत्वा कुरून्सर्वमिमं महान्तं पार्थाय शंसस्व वधं यदूनाम् ॥ 002c
ततोऽर्जुनः क्षिप्रमिहोपयातु श्रुत्वा मृतान्यादवान्ब्रह्मशापात् । 003a
इत्येवमुक्तः स ययौ रथेन कुरूंस्तदा दारुको नष्टचेताः ॥ 003c
ततो गते दारुके केशवोऽथ दृष्ट्वाऽन्तिके बभ्रुमुवाच वाक्यम् । 004a
स्त्रियो भवान्रक्षितुं यातु शीघ्रं नैता हिंस्युर्दस्यवो वित्तलोभात् ॥ 004c
स प्रस्थितः केशवेनानुशिष्टो मदातुरो ज्ञातिवधार्दितश्च । 005a
तं वै यातं सन्निधौ केशवस्य त्वरन्तमेकं सहसैव बभ्रुम् । 005c
ब्रह्मानुशप्तमवधीन्महद्वै कूटे युक्तं मुसलं लुब्धकस्य ॥ 005e
ततो दृष्ट्वा निहतं बभ्रुमाह कृष्णोऽग्रजं भ्रातरमुग्रतेजाः । 006a
इहैव त्वं मां प्रतीक्षस्व राम यावत्स्त्रियो ज्ञातिवशाः करोमि ॥ 006c
ततः पुरीं द्वारवतीं प्रविश्य जनार्दनः पितरं प्राह वाक्यम् । 007a
सर्वं भवान्रक्षतु नः समग्रं धनञ्जयस्यागमनं प्रतीक्षन् ॥ 007c
रामो वनान्ते प्रतिपालयन्मामास्तेऽद्याहं तेन समागमिष्ये । 008a
दृष्टं मयेदं निधनं यदूनां राज्ञां च पूर्वं कुरुपुङ्गवानाम् ॥ 008c
नाहं विना यदुभिर्यादवानां पुरीमिमामशकं द्रष्टुमद्य । 009a
तपश्चरिष्यामि निबोध तन्मे रामेण सार्धं वनमभ्युपेत्य ॥ 009c
इतीदमुक्त्वा शिरसा च पादौ संस्पृश्य कृष्णस्त्वरितो जगाम । 010a
ततो महान्निनदः प्रादुरासीत्सस्त्रीकुमारस्य पुरस्य तस्य ॥ 010c
अथाब्रवीत्केशवः सन्निवर्त्य शब्दं श्रुत्वा योषितां क्रोशतीनाम् । 011a
पुरीमिमामेष्यति सव्यसाची स वो दुःखान्मोचयिता नराग्र्यः ॥ 011c
ततो गत्वा केशवस्तं ददर्श रामं वने स्थितमेकं विविक्ते ॥ 012ac
अथापश्यद्योगयुक्तस्य तस्य नागं मुखान्निस्सरन्तं महान्तम् । 013a
श्वेतं ययौ सततः प्रेक्षमाणो महार्णवो येन महानुभावः । 013c
सहस्रशीर्षः पर्वताभोगवर्ष्मा रक्ताननः स्वां तनुं तां विमुच्य ॥ 013e
सन्दृश्यन्तं सागरान्तं विशन्तं सम्यक्तदा सागरः प्रत्यगृह्णात् । 014a
नागा दिव्याः सरितश्चैव पुण्याः कर्कोटको वासुकिस्तक्षकश्च ॥ 014c
पृथुश्रवा अरुणः कुञ्जरश्च मिश्री शङ्खः कुमुदः पुण्डरीकः । 015a
तथा नागो धृतराष्ट्रो महात्मा ह्रादः क्राथः शितिपृष्ठो निकेतुः ॥ 015c
तथा नागौ चक्रमन्दातिषण्डौ नागश्रेष्ठो दुर्मखश्चाम्बरीषः । 016a
स्वयं राजा वरुणश्चापि राजन्प्रत्युद्गम्य स्वागतेनाभ्यनन्दन् । 016c
तेऽपूजयंश्चार्घ्यपाद्यक्रियाभिः सङ्कर्षणं भूधरं शुद्धबुद्धिम् ॥ 016e
ततो गते भ्रातरि वासुदेवो जानन्सर्वा गतयो दिव्यदृष्टिः । 017a
वने शून्ये विचरंश्चिन्तयानो भूमौ चाथ संविवेशाग्र्यतेजाः ॥ 017c
सर्वं तेन प्राक्तदा वित्तमासीद्गान्धार्या यद्वाक्यमुक्तं स्वधर्मात् । 018a
दुर्वाससा पारसोच्छिष्टलिप्ते यच्चाप्युक्तं तच्च सस्मार कृष्णः ॥ 018c
'कुलस्त्रीणां संवृतानां गवां च द्विजेन्द्राणां बलमादाय धर्मे । 019a
योनिर्देवानां वरदो ब्रह्मदेवो गोविन्दाख्यो वासुदेवोऽथ नित्यः ॥ 019c
सञ्चिन्तयन्नन्धकवृष्णिनाशं कुरुक्षयं चैव महानुभावः । 020a
मेने ततः सङ्क्रमणस्य कालं ततश्चकारेन्द्रियसन्निरोधम् ॥ 020c
यथा च लोकत्रयपालनार्थं दुर्वासवाक्यप्रतिपालनाय । 021a
देवोऽपि सन्देहविमोक्षहेतोर्निमित्तमैच्छत्सकलार्थतत्त्ववित् ॥ 021c
स सन्निरुद्धेन्द्रियवाङ्मनास्तु शिश्ये महायोगमुपेत्य कृष्णः । 022a
जरोथ तं देशमुपाजगाम लुब्धस्तदानीं मृगलिप्सुरुग्रः ॥ 022c
स केशवं योगयुक्तं शयानं मृगासक्तो लुब्धकः सायकेन । 023a
जरोऽविध्यत्पादतले त्वरावांस्तं चाभितस्तज्जिघृक्षुर्जगाम ॥ 023c
अथापश्यत्पुरुषं योगयुक्तं पीताम्बरं लुब्धकोऽनेकबाहुम् । 024a
मत्वाऽऽत्मानं त्वपराद्धं स तस्य पादौ जरो जगृहे शङ्कितात्मा ॥ 024c
आश्वासितः पुण्यफलेन भक्त्या तथाऽनुतापात्कर्मणो जन्मनश्च । 025a
दृष्ट्वा तथा देवमनन्तवीर्यं देवैस्स्वर्गं प्रापितस्त्यक्तदेहः ॥ 025c
गणैर्मुनीनां पूजितस्तत्र कृष्णो गच्छन्नूर्ध्वं व्याप्य लोकान्स लक्ष्म्या ॥ 026ac
दिवं प्राप्तं वासवोऽथाश्विनौ च रुद्रादित्या वसवश्चाथ विश्वे । 027a
प्रत्युद्ययुर्मुनयश्चापि सिद्धा गन्धर्वमुख्याश्च सहाप्सरोभिः ॥ 027c
ततो राजन्भगवानुग्रतेजा नारायणः प्रभवश्चाव्ययश्च । 028a
योगाचार्यो रोदसी व्याप्य लक्ष्म्या स्थानं प्राप स्वं महात्माऽप्रमेयम् ॥ 028c
ततो देवैर्ऋषिभिश्चापि कृष्णः समागतश्चारणैश्चैव राजन् । 029a
गन्धर्वाग्र्यैरप्सरोभिर्वराभिः सिद्धैः साध्यैश्चानतैः पूज्यमानः ॥ 029c
तं वै देवाः प्रत्यनन्दन्त राजन्मुनिश्रेष्ठा ऋग्भिरानर्चुरीशम् । 030a
तं गन्धर्वाश्चापि तस्थुः स्तुवन्तः प्रीत्य चैनं पुरुहूतोऽभ्यनन्दत् ॥ 030c
'नमोनमस्ते भगवञ्शार्ङ्गधन्वन्धर्मस्थित्या प्रादुरासीर्धरायाम् । 031a
कंसाख्यादीन्देवशत्रूंश्च सर्वान्हत्वा भूमिः स्थापिता भारतप्ता ॥ 031c
दिव्यं स्थानमजरं चाप्रमेयं दुर्विज्ञेयं चागमैर्गम्यमग्र्यम् । 032a
गच्छ प्रभो रक्ष चार्तिं प्रपन्नान्कल्पेकल्पे जायमानांश्च मर्त्यान् ॥ 032c
इत्येवमुक्त्वा देवसङ्घोऽनुगम्य श्रिया युक्तं पुष्पवृष्ट्या ववर्ष । 033a
वाणी चासीत्संश्रिता रूपिणी सा भानोर्मध्ये प्रविश त्वं तु राजन् ॥ 033c
भुजैश्चतुर्भिः समुपेतं ममेदं रूपं विशिष्टं जीवितं संस्थितं च । 034a
भूमौ गतं पूजयता प्रमेयं सदा हि तस्मिन्निवसामीति देवाः ॥ 034c
देवा निवृत्तास्तत्पदं नाप्नुवन्तो बुद्ध्या देवं संस्मरन्तः प्रतीताः । 035a
ब्रह्माद्यास्ते तद्गुणान्कीर्तयन्तः शुभाल्ँलोकान्स्वान्प्रपेदुः सुरेन्द्राः ॥ ॥ 035c
इति श्रीमन्महाभारते मौसलपर्वणि पञ्चमोऽध्यायः ॥ 5 ॥
16-5-1 पतन्तः शीघ्रं गच्छन्तः ॥ 16-5-2 वधं मधूनामिति क.ठ. पाठः ॥ 16-5-4 वित्तभावात् इति ट.पाठः ॥ 16-5-5 कूटे लोहमुद्गरे युक्तं बद्धं भुसलं ब्राह्मणशप्तं बभ्रुं स्वयमेव निपत्यावधीत् ॥ 16-5-7 स्त्रियो भवान्रक्षत्विति झ.पाठः ॥ 16-5-13 महार्णवे येन इति क.ट.पाठः ॥