अध्यायः 004
द्वारकायां वृष्ण्यन्धकादिभिरनर्थसूचकदुस्स्वप्नानुभवः ॥ 1 ॥ ततः कृष्णाज्ञया सस्त्रीबालवृद्धैः प्रभासक्षेत्रगमनम् ॥ 2 ॥ तत्र नृत्तगानादिमहोत्सवानुभवपूर्वकं मद्यादिपानम् ॥ 3 ॥ तत्र सभायां सात्यकिना स्यमन्तकमणिहरणादिमर्मोद्घाटनपूर्वकं कृतवर्मगर्हणम् ॥ 4 ॥ मणिवृत्तान्तश्रवणखिन्नसत्यभामामनःप्रसादनाय सात्यकिना खड्गेन कृतवर्मणः शिरश्छेदनम् ॥ 5 ॥ ततः कृतवर्मसात्यकिपक्षीयैर्मौसलतृणैः परस्परप्रहारेण परस्परमारणम् ॥ 6 ॥
वैशम्पायन उवाच । 001
काली स्त्री पाण्डुरैर्दन्तैः प्रविश्य हसती निशि । 001a
स्त्रियः स्वप्नेषु मुष्णन्ती द्वारकां परिधावति ॥ 001c
अग्निहोत्रनिकेतेषु वास्तुमध्येषु वेश्मसु । 002a
वृष्ण्यन्धकानखादन्त स्वप्ने गृध्रा भयानकाः ॥ 002c
अलङ्काराश्च च्छत्रं च ध्वजाश्च कवचानि च । 003a
ह्रियमाणान्यदृश्यन्त रक्षोभिः सुभयानकैः ॥ 003c
तच्चाग्निदत्तं कृष्णस्य वज्रनाभमयोमयम् । 004a
दिवमाचक्रमे चक्रं वृष्णीनां पश्यतां तदा ॥ 004c
युक्तं रथं दिव्यमादित्यवर्णं हयाऽहरन्पश्यतो दारुकस्य । 005a
ते सागरस्योपरिष्टादगच्छन्मनोजवाश्चतुरो वाजिमुख्याः ॥ 005c
तालः सुपर्णश्च महाध्वजौ तौ सुपूजितौ रामजनार्धनाभ्याम् । 006a
उच्चैर्जह्रुरप्सरसश्च दिव्या देवा ऊचुर्गम्यतां तीर्थयात्राः ॥ 006c
'भगवद्दर्शनस्पर्शस्नेहैर्विततभोगिनः । 007a
दिवः प्रवेशानार्थं ते विमानैर्दिवमाययुः ॥' 007c
ततो जिगमिषन्तस्ते वृष्ण्यन्धकमहारथाः । 008a
सान्तःपुरास्तदा तीर्थयात्रामैच्छन्नरर्षभाः ॥ 008c
ततो मनोहरा हृष्टाः पेयं मांसं मधूनि च । 009a
बहु नानाविधं चक्रुस्त्वरिताः कालचोदिताः ॥ 009c
ततः सीधुषु सक्ताश्च निर्ययुर्नगराद्बहिः । 010a
यानैरश्वैर्गजैश्चैव श्रीमन्तस्तिग्मतेजसः ॥ 010c
ततः प्रभासे न्यवसन्यथोद्दिष्टं यथागृहम् । 011a
प्रभूतभक्ष्यपेयास्ते सदारा यादवास्तदा ॥ 011c
निविष्टांस्तान्निशाम्याथ समुद्रान्ते स योगवित् । 012a
जगामामन्त्र्य तान्वीरानुद्धवोऽर्थविशारदः ॥ 012c
तं प्रस्थितं महात्मानमभिवाद्य कृताञ्जलिम् । 013a
जानन्विनाशं वृष्णीनां नैच्छद्वारयितुं हरिः ॥ 013c
ततः कालपरीतास्ते वृष्ण्यन्धकमहारथाः । 014a
अपश्यन्नुद्धवं यान्तं तेजसाऽऽवृत्य रोदसी ॥ 014c
ब्राह्मणार्थेषु यत्सिद्धमन्नं तेषां महात्मनाम् । 015a
तद्वानरेभ्यः प्रददुः सुरागन्धसमन्वितम् ॥ 015c
ततस्तूर्यशताकीर्णं नटनर्तकसङ्कुलम् । 016a
अवर्तत महापानं प्रभासे तिग्मतेजसाम् ॥ 016c
कृष्णस्य सन्निधौ रामः सहितः कृतवर्मणा । 017a
अपिबद्युयुधानश्च गदो बभ्रुस्तथैव च ॥ 017c
ततः परिषदो मध्ये युयुधानो मदोत्कटः । 018a
अब्रवीत्कृतवर्माणमवहास्यावमत्य च ॥ 018c
कः क्षत्रियो हन्यमानः सुप्तान्हन्यान्मृतानिव । 019a
तन्न मृष्यन्ति हार्दिक्य यादवा यत्त्वया कृतम् ॥ 019c
इत्युक्ते युयुधानेन पूजयामास तद्वचः । 020a
प्रद्युम्नो रथिनांश्रेष्ठो हार्दिक्यमवमत्य व ॥ 020c
ततः परमसङ्क्रुद्धः कृतवर्मा तमब्रवीत् । 021a
निर्दिशन्निव सावज्ञं तदा सव्येन पाणिना ॥ 021c
भूरिश्रवाश्छिन्नबाहुर्युर्द्धे प्रायगतस्त्वया । 022a
वधेन सुनृशंसेन कथं वीरेण पातितः ॥ 022c
इति तस्य वचः श्रुत्वा केशवः परवीरहा । 023a
तिर्यक्सरोषया दृष्ट्या वीक्षाञ्चक्रे स मन्युमान् ॥ 023c
मणिः स्यमन्तकश्चैव यः स सत्राजितोऽभवत् । 024a
तां कथां श्रावयामास सात्यकिर्मधुसूदनम् ॥ 024c
तच्छ्रुत्वा केशवस्याङ्कमगमद्रुदती तदा । 025a
सत्यभामा प्रकुपिता कोपयन्ती जनार्दनम् ॥ 025c
तत उत्थाय सक्रोधः सात्यकिर्वाक्यमब्रवीत् । 026ac
पञ्चानां द्रौपदेयानां धृष्टद्युम्नशिखण्डिनोः । 027a
एष गच्छामि पदवीं सत्येन च तथा शपे ॥ 027c
सौप्तिके ये च निहताः सुप्ता येन दुरात्मना । 028a
द्रोणपुत्रसहायेन पापेन कृतवर्मणा ॥ 028c
समाप्तमायुरस्याद्य यशश्चैव सुमध्यमे । 029a
इत्येवमुक्त्वा खड्गेन केशवस्य समीपतः । 029c
अभिद्रुत्य शिरः क्रुद्धश्चिच्छेद कृतवर्मणः ॥ 029e
तथाऽन्यानपि निघ्नन्तं युयुधानं समन्ततः । 030a
अभ्यधावद्धृषीकेशो विनिवारयितुं तदा ॥ 030c
एकीभूतास्ततः सर्वे कालपर्यायचोदिताः । 031a
भोजान्धका महाराज शैनेयं पर्यवारयन् ॥ 031c
तान्दृष्ट्वा पततस्तूर्णमभिक्रुद्धाञ्जनार्दनः । 032a
न चुक्रोध महातेजा जानन्कालस्य पर्ययम् ॥ 032c
ते तु पानमदाविष्टाश्चोदिताः कालधर्मणा । 033a
युयुधानमथाभ्यघ्नन्नुच्छिष्टैर्भाजनैस्तदा ॥ 033c
हन्यमाने तु शैनेये क्रुद्धो रुक्मिणिनन्दनः । 034a
तदनन्तरमागच्छन्मोचयिष्यञ्शिनेः सुतम् ॥ 034c
स भोजैः सह संयुक्तः सात्यकिश्चान्धकैः सह । 035a
व्यायच्छमानौ तौ वीरौ बाहुद्रविणशालिनौ । 035c
बहुत्वान्निहतौ तत्र उभौ कुष्णस्य पश्यतः ॥ 035e
हतं दृष्ट्वा च शैनेयं पुत्रं च यदुनन्दनः । 036a
एरकाणां ततो मुष्टिं कोपाज्जग्राह केशवः ॥ 036c
तदभून्मुसलं घोरं वज्रकल्पमयोमयम् । 037a
जघान कुष्णस्तांस्तेनि येये प्रमुखतोऽभवन् ॥ 037c
ततोऽन्धकाश्च भोजाश्च शैनेया वृष्णयस्तथा । 038a
जघ्नुरन्योन्यमाक्रन्दे मुसलैः कालचोदिताः ॥ 038c
यस्तेषामेरकां कश्चिज्जग्राह कुपितो नृपः । 039a
वज्रभूतेव सा राजन्नदृश्यत तदा विभो ॥ 039c
तृणं च मुसलीभूतमपि तत्र व्यदृश्यत । 040a
ब्रह्मदण्डकृतं सर्वमिति तद्विद्धि पार्थिव ॥ 040c
आविध्याविध्य ते राजन्प्रहरन्ति स्म तैस्तृणैः । 041a
तद्वज्रभूतं मुसलं व्यदृश्यत तदा दृढम् ॥ 041c
अवधीत्पितरं पुत्रः पिता पुत्रं च भारत । 042a
मत्ताः परिपतन्ति स्म योधयन्तः परस्परम् ॥ 042c
पतङ्गा इव चाग्नौ ते निपेतुः कुकुरान्धकाः । 043a
नासीत्पलायने बुद्धिर्वधअयमानस्य कस्यचित् ॥ 043c
तत्रापश्यन्महाबाहुर्जानन्कालस्य पर्ययम् । 044a
मुसलं समवष्टभ्य तस्थौ स मधुसूदनः ॥ 044c
साम्बं च निहतं दृष्ट्वा चारुदेष्णं च माधवः । 045a
प्रद्युम्नं चानिरुद्धं च ततश्चुक्रोध भारत ॥ 045c
गदं वीक्ष्य शयानं च भृशं कोपसमन्वितः । 046a
स निःशेषं तदा चक्रे शार्ङ्गचक्रगदाधरः ॥ 046c
तं निघ्नन्तं महातेजा बभ्रुः परपुरञ्जयः । 047a
दारुकश्चैव दाशार्हमूचतुर्यन्निबोध तत् ॥ 047c
भगवन्निहताः सर्वे त्वया भूयिष्ठशो नराः । 048a
रामस्य पदमन्विच्छ तत्र गच्छाम यत्र सः ॥ ॥ 048c
इति श्रीमन्महाभारते मौसलपर्वणि चतुर्थोऽध्यायः ॥
16-4-1 मुष्णन्ती स्त्रीणां मङ्गलसूत्रादिकं चोरयन्ती ॥ 16-4-12 निशाम्य दृष्ट्वा । अर्थविशारदः मोक्षपण्डितः ॥ 16-4-15 ब्राह्मणार्थद्रव्यस्यान्यत्र विनियोजनमायुःक्षयकरमित्यर्थः ॥ 16-4-41 आविध्य विद्ध्वा ॥ 16-4-44 तत्र यन्मुसलमपश्यत्तदेवावष्टभ्य तस्थावित्यन्वयः ॥