अध्यायः 003

द्वारकायां नानोत्पातप्रादुर्भावः ॥ 1 ॥ तत्तद्दर्शनात्कृष्णेन गान्धारीशापदानानुस्मरणेन तस्य सत्यताचिकीर्षया भटैः सर्ववृष्ण्यादीनां तीर्थयात्रोद्घोषणम् ॥ 2 ॥

वैशम्पायन उवाच । 001
एवं प्रयतमानानां वृष्णीनामन्धकैः सह । 001a
कालो गृहाणि सर्वेषां परिचक्राम नित्यशः ॥ 001c
करालो विकटो मुण्डः पुरुषः कृष्णपिङ्गलः । 002a
गृहाण्यावेक्ष्य वृष्णीनां नादृश्यत पुनः क्वचित् ॥ 002c
तमघ्नन्त महेष्वासाः शरैः शतसहस्रशः । 003a
न चाशक्यत वेद्धुं स सर्वभूतात्ययस्तदा ॥ 003c
उत्पेदिरे महावाता दारुणाश्च दिनेदिने । 004a
वृष्ण्यन्धकविनाशाय बहवो रोमहर्षणाः ॥ 004c
विवृद्धमूषिका रथ्या विभिन्नमणिकास्तथा । 005a
केशा नखाश्च सुप्तानामद्यन्ते मूषिकैर्निशि ॥ 005c
चीचीकूचीति वाशन्ति शारिका वृष्णिवेश्मसु । 006a
नोपशाम्यति शब्दस्य सदिवारात्रमेव हि ॥ 006c
अन्वकुर्वन्नुलूकानां सारसा विरुतं तथा । 007a
अजाः शिवानां विरुतमन्वकुर्वत भारत ॥ 007c
पाण्डुरा रक्तपादाश्च विहगाः कालचोदिताः । 008a
वृष्ण्यन्धकानां गेहेषु कपोता व्यचरंस्तदा ॥ 008c
व्यजायन्त खरा गोषु करभाश्वतरीषु च । 009a
शुनीष्वपि बिडालाश्च मूषिका नकुलीषु च ॥ 009c
नापत्रपन्त पापानि कुर्वन्तो वृष्णयस्तदा । 010a
प्रार्दयन्ब्राह्मणांश्चापि पितॄन्देवांस्तथैव च ॥ 010c
गुरूंश्चाप्यवमन्यन्ते न तु रामजनार्दनौ । 011a
पत्न्यः पतीनुच्चरन्ति पत्नीश्च पतयस्तथा ॥ 011c
विभावसुः प्रज्वलितो वामं विपरिवर्तते । 012a
नीललोहितमञ्जिष्ठा विसृजन्नर्चिषः पृथक् ॥ 012c
उदयास्तमये नित्यं पुर्यां तस्यां दिवाकरः । 013a
व्यदृश्यतासकृत्पुम्भिः कबन्धैः परिवारितः ॥ 013c
महानसेषु सिद्धेषु संस्कृतेऽतीवि भारत । 014a
आहार्यमाणे कृमयो व्यदृश्यन्त सहस्रशः ॥ 014c
पुण्याहे वाच्यमाने तु जपत्सु च महात्मसु । 015a
अभिधावन्तः श्रूयन्ते न चादृश्यत कश्चन ॥ 015c
परस्परं च नक्षत्रं हन्यमानं पुनःपुनः ॥ 016a
ग्रहैरपश्यन्सर्वे ते नात्मनस्तु कथञ्चन ॥ 016c
नदन्तं पाञ्चिजन्यं च वृष्णन्धकनिवेशने । 017a
समन्तात्पर्यवाशन्त रासभा दारुणस्वराः ॥ 017c
एवं पश्यन्हृषीकेशः सम्प्राप्तं कालपर्ययम् । 018a
त्रयोदश्याममावास्यां तान्दृष्ट्वा प्राब्रवीदिदम् ॥ 018c
चतुर्दशी पञ्चदशी कृतेयं राहुणा पुनः । 019a
प्राप्ते वै भारते युद्धे प्राप्ता चाद्य क्षयाय नः ॥ 019c
विमृशन्नेव कालं तं परिचिन्त्य जनार्दनः । 020a
मेने प्राप्तं स षट्त्रिंशं वर्षं वै केशिसूदनः ॥ 020c
पुत्रशोकाभिसन्तप्ता गान्धारी हतबान्धवा । 021a
यदनुव्याजहारार्ता तदिदं समुपागमत् ॥ 021c
इदं च तदनुप्राप्तमब्रवीद्यद्युधिष्ठिरः । 022a
पुरा व्यूढेष्वनीकेषु दृष्ट्वोत्पातान्सुदारुणान् ॥ 022c
इत्युक्त्वा वासुदेवस्तु चिकीर्षुः सत्यमेव तत् । 023a
आज्ञापयामास तदा तीर्थयात्रामरिन्दमः ॥ 023c
अघोषयन्त पुरुषास्तत्र केशवशासनात् । 024a
तीर्थयात्रा समुद्रे वः कार्येति पुरुषर्षभाः ॥ ॥ 024c

इति श्रीमन्महाभारते मौसलपर्वणि तृतीयोऽध्यायः ॥

16-3-1 कालः कपोतोलूकादिरूपेण ॥ 16-3-2 स एव क्वचित्करालादिरूपोऽदृश्यत क्वचिन्न । आवेक्ष्य परिक्रामन्निति शेषः ॥ 16-3-3 सर्वभूतानां अत्ययो नाशो यस्मात् ॥ 16-3-5 मणिका मृत्पात्राणि ॥ 16-3-11 उच्चरन्ति वञ्चयन्ति ॥ 16-3-14 आहार्यमाणे अन्ने । 16-3-16 स्वनक्षत्रादर्शनमपि स्वमृत्युसूचकमित्यर्थः ॥ 16-3-18 एवमिति । त्रयोदशदिवसः कृष्णपक्षोऽभूदित्यर्थः ॥ 16-3-19 एवं सत्यग्रिमपक्षे वृद्ध्या भाव्यं तन्न जातं प्रत्युतैका तिथिः क्षीणा तत्र ग्रहणं च जातमित्याह चतुर्दशीति ॥