अध्यायः 002

वैशम्पायनेन जनमेजयम्पति यादवानां मौसलेन निधनप्रकारकथनारम्भः ॥ 1 ॥ कदाचन विश्वामित्राकदिमहर्षिषु द्वारकः मागतेषु कैश्चन यादवैः साम्बस्य स्त्रीवेषपरिकल्पनेन मुनीन्प्रति गर्भिणीयं किंरूपमपत्यं प्रसविष्यतीति प्रश्नः ॥ 2 ॥ ततो रुष्टैर्महर्षिभिः स्वकुलविनाशकमायसं मुसलं प्रसविष्यतीति शापदानम् ॥ 3 ॥ ततः परेथुः सांवेन मुसले प्रसूते भीतैस्तै राजाज्ञया तस्य चूर्णकरणेन समुद्र प्रक्षेपणम् ॥ 4 ॥

जनमेजय उवाच । 001
कथं विनष्टा भगवन्नन्धका वृष्णिभिः सह । 001a
पश्यतो वासुदेवस्य भोजाश्चैव महारथाः ॥ 001c
वैशम्पायन उवाच । 002
षट्त्रिंशेऽथ ततो वर्षे वृष्णीनामनयो महान् । 002a
अन्योन्यं मुसलैस्ते तु निजघ्नुः कालचोदिताः ॥ 002c
जनमेजय उवाच । 003
केनानुशप्तास्ते वीराः क्षयं वृष्ण्यन्धका गताः । 003a
भोजाश्च द्विजवर्य त्वं विस्तरेण वदस्व मे ॥ 003c
वैशम्पायन उवाच । 004
विश्वामित्रं च कण्वं च नारदं च तपोधनम् । 004a
सारणप्रमुखा वीरा ददृशुर्द्वारकां गतान् ॥ 004c
ते वै साम्बं पुरस्कृत्य भूषयित्वा स्त्रियं यथा । 005a
अब्रुवन्नुपसङ्गम्य दैवदण्डनिपीडिताः ॥ 005c
इयं स्त्री पुत्रकामस्य बभ्रोरमिततेजसः । 006a
ऋषयः साधु जानीत किमियं जनयिष्यति ॥ 006c
इत्युक्तास्ते तदा राजन्विप्रलम्भप्रधर्षिताः । 007a
प्रत्यब्रुवंस्तान्मुनयो यत्तच्छृणु नराधिप ॥ 007c
वृष्ण्यन्धकविनाशाय मुसलं घोरमायसम् । 008a
वासुदेवस्य दायादः साम्बोऽयं जनयिष्यति ॥ 008c
येन यूयं सुदुर्वृत्ता नृशंसा जातमन्यवः । 009a
उच्छेत्तारः कुलं कृत्स्नमृते रामजनार्दनौ ॥ 009c
समुद्रं यास्यति श्रीमांस्त्यक्त्वा देहं हलायुधः । 010a
जरः कृष्णं महात्मानं शयानं भुवि भेत्स्यति ॥ 010c
इत्यब्रुवंस्ततो राजन्प्रलब्धास्तैर्दुरात्मभिः । 011a
मुनयः क्रोधरक्ताक्षाः समीक्ष्याथ परस्परम् । 011c
तथोक्त्वा मुनयस्ते तु यथागतमथो ययुः ॥ 011e
अथाब्रवीत्तदा वृष्णीञ्श्रुत्वैतन्मधुसूदनः । 012a
अन्तज्ञो मतिमांस्तस्य भवितव्यं तथेति तान् ॥ 012c
एवमुक्त्वा हृषीकेशः प्रविवेश पुरं तदा । 013a
कृतान्तमन्यथा नैच्छत्कर्तुं स जगतः प्रभुः ॥ 013c
श्वोभूतेऽथ ततः साम्बो मुसलं तदसूत वै । 014a
येन वृष्ण्यन्धककुले पुरुषा भस्मसात्कृताः ॥ 014c
वृष्ण्यन्धकविनाशाय किङ्करप्रतिमं महत् । 015a
असूत शापजं घोरं तच्च राज्ञे न्यवेदयन् ॥ 015c
विषण्णरूपस्तद्राजा सूक्ष्मं चूर्णमकारयत् । 016a
तच्चूर्णं सागरे चापि प्राक्षिपन्पुरुषा नृप ॥ 016c
अघोषयंश्च नगरे वचनादाहुकस्य ते । 017a
जनार्दनस्य रामस्य बभ्रोश्चैव महात्मनः ॥ 017c
अद्यप्रभृति सर्वेषु वृष्ण्यन्धककुलेष्विह । 018a
सुरासवो न कर्तव्यः सर्वैर्नगरवासिभिः ॥ 018c
यश्च नो विदितं कुर्यात्पेयं कश्चिन्नरः क्वचित् । 019a
जीवन्स शूलमारोहेत्स्वयं कृत्वा सबान्धवः ॥ 019c
ततो राजभयात्सर्वे नियमं चक्रिरे तदा । 020a
नराः शासनमाज्ञाय तस्य राज्ञो महात्मनः ॥ ॥ 020c

इति श्रीमन्महाभारते मौसलपर्वणि द्वितीयोऽध्यायः ॥ 2 ॥

16-2-2 मुसलैरेरकालग्नैर्मुसलकणैः ॥ 16-2-10 जरा कृष्णमिति झ.पाठः । जरानामा कश्चित्कैवर्तः ॥ 16-2-15 किङ्करो यमदूतस्तत्तुल्यम् ॥ 16-2-19 स्वयङ्कृत्वा स्वयङ्कर्ता ॥