अध्यायः 001

प्रजापालनेन निजनगरे भ्रातृभिः सह सुखनिवासिना युधिष्ठिरेण कदाचनाशुभसूचकोत्पातदर्शनम् ॥ 1 ॥ ततः कालन्तरे सबलकृष्णानां सर्वयादवानां परस्परं मौसलप्रहारेण निश्शेषनिधनश्रवणम् ॥ 2 ॥

श्रीवेदव्यासाय नमः । 000
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । 000a
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ 000c
वैशम्पायन उवाच । 001
षट्त्रिंशे त्वथ सम्प्राप्ते वर्षे कौरवन्दनः । 001a
ददर्श विपरीतानि निमित्तानि युधिष्टिरः ॥ 001c
ववुर्वाताश्च निर्घाता रूक्षाः शर्करवर्षिणः । 002a
अपसव्यानि शकुना मण्डलानि प्रचक्रिरे ॥ 002c
प्रत्यगूहुर्महानद्यो दिशो नीहारसंवृताः । 003a
उल्काश्चाङ्गारवर्षिण्यः प्रापतन्गगनाद्भुवि ॥ 003c
आदित्यो रजसा राजन्समवच्छन्नमण्डलः । 004a
विरश्मिरुदये नित्यं कबन्धैः समलङ्कृतः ॥ 004c
परिवेषाश्च दृश्यन्ते दारुणाश्चन्द्रसूर्ययोः । 005a
त्रिवर्णाः श्यामरुक्षान्तास्तथा भस्मारुणप्रभाः ॥ 005c
एते चान्ये च बहव उत्पाता भयशंसिनः । 006a
दृश्यन्ते जगतो नाथ दिवमारोढुमिच्छति ॥ 006c
'यस्य प्रसादाद्धर्मोऽयं कृते यद्वत्कलावपि । 007a
पाण्डवाश्च महाभाग युक्तास्तु यशसाऽनघ ॥' 007c
कस्य चित्त्वथ कालस्य कुरुराजो विशङ्कितः । 008a
शुश्राव वृष्णिचक्रस्य मुसलोत्सादनं कृतम् ॥ 008c
विमुक्तं वासुदेवं च श्रुत्वा रामं च पाण्डवः । 009a
समानीयाब्रवीद्भ्रातृन्कि करिष्याम इत्युत ॥ 009c
परस्परं समासाद्य ब्रह्मदण्डबलात्कृतान् । 010a
वृष्णीन्विनष्टांस्ते श्रुत्वा व्यथिताः पाण्डवा भृशम् ॥ 010c
निधनं वासुदेवस्य समुद्रस्येव शोषणम् । 011a
वीरा न श्रद्दधुस्तस्य विनाशं शार्ङ्गधन्वनः ॥ 011c
मौसलं ते समाश्रित्य दुःखशोकसमन्विताः । 012a
विष्ण्णा हतसङ्कल्पाः पाण्डवाः समुपाविशन् ॥ ॥ 012c

इति श्रीमन्महाभारते मौसलपर्वणि प्रथमोऽध्यायः ॥ 1 ॥

16-1-12 मौसलं मुसलकृतं कदनं समाश्रित्य मनसि धृत्वा ॥