अध्यायः 041
नारदेन युधिष्ठिरं प्रति धृतराष्ट्रादिदाहकाग्नेर्मन्त्रपूतत्वकथनम् ॥ 1 ॥ युधिष्ठिरेण युयुत्सुपुरस्कारेण गान्धारीधृतराष्ट्रयोरुदकदानपूर्वकं कुन्त्याश्च विधिवच्छ्राद्धदानम् ॥ 2 ॥ ततो नारदगमनानन्तरं प्रजापालनेन निजनगरे भ्रात्रादिभिः सह सुखविहारः ॥ 3 ॥
नारद उवाच । 001
नासौ वृथाऽग्निना दग्धो यथा तत्र श्रुतं मया । 001a
वैचित्रवीर्यो नृपतिर्न ते शोच्यो नराधिप ॥ 001c
वनं प्रविशतानेन वायुभक्षेण धीमता । 002a
अग्नयः कारयित्वेष्टिमुत्सृष्टा इति नः श्रुतम् ॥ 002c
याजकास्तु ततस्तस्य तानग्नीन्निर्जने वने । 003a
समुत्सृज्य यथाकामं जग्मुर्भरतसत्तम ॥ 003c
स विवृद्धस्तदा वह्निर्वने तस्मिन्नभूत्किल । 004a
तेन तद्वनमादीप्तमिति ते तापसाऽब्रुवन् ॥ 004c
स राजा जाह्नवीतीरे यथा ते कथितं मया । 005a
तेनाग्निना समायुक्तः स्वेनैव भरतर्षभ ॥ 005c
एवमावेदयामासुर्मुनयस्ते ममानघ । 006a
ये ते भागीरथीतीरे मया दृष्टा युधिष्ठिर ॥ 006c
एवं स्वेनाग्निना राजा समायुक्तो महीपते । 007a
मा शोचिथास्त्वं नृपतिं गतः स परमां गतिम् ॥ 007c
गुरुशुश्रूषया चैव जननी ते जनाधिप । 008a
प्राप्ता सुमहतीं सिद्धिमिति मे नात्र संशयः ॥ 008c
कर्तुमर्हसि राजेन्द्र तेषां त्वमुदकक्रियाम् । 009a
भ्रातृभिः सहितः सर्वैरेतदत्र विधीयताम् ॥ 009c
वैशम्पायन उवाच । 010
ततः स पृथिवीपालः पाण्डवानां धुरन्धरः । 010a
निर्ययौ सहसोदर्यः सदारश्च नरर्षभः ॥ 010c
पौरजानपदाश्चैव राजभक्तिपुरस्कृताः । 011a
गङ्गां प्रजग्मुरभितो वाससैकेन संवृताः ॥ 011c
ततोऽवगाह्य सलिले सर्वे तु कुरुपुङ्गवाः । 012a
युयुत्सुमग्रतः कृत्वा ददुस्तोयं महात्मने ॥ 012c
गान्धार्याश्च पृथायाश्च विधिवन्नामगोत्रतः । 013a
शौचं निवर्तयन्तस्ते तत्रोषुर्नगराद्बहिः ॥ 013c
प्रेषयामास स नरान्विधिज्ञानाप्तकारिणः । 014a
गङ्गाद्वारं कुरुश्रेष्ठो यत्र दग्धोऽभवन्नृपः । 014c
तत्रैव तेषां तुल्यानि गङ्गाद्वारेऽन्वशात्तदा । 015a
कर्तव्यानीति पुरुषान्दत्तदेयान्महीपतिः ॥ 015c
द्वादशेऽहनि तेभ्यः स कृतशौचो नराधिपः । 016a
ददौ श्राद्धानि विधिवद्दक्षिणावन्ति पाण्डवः ॥ 016c
धृतराष्ट्रं समुद्दिश्य ददौ स पृथिवीपतिः । 017a
सुवर्णं रजतं गाश्च शय्याश्च सुमहाधनाः ॥ 017c
गान्धार्याश्चैव तेजस्वी पृथायाश्च पृथक्पृथक् । 018a
सङ्कीर्त्य नामनी राजा ददौ दानमनुत्तमम् ॥ 018c
यो यदिच्छति यावच्च तावत्स लभते द्विजः । 019a
शयनं भोजनं यानं मणिरत्नमथो धनम् ॥ 019c
यानमाच्छादनं भोगान्दासीश्च समलङ्कृताः । 020a
ददौ राजा समुद्दिश्य तयोर्मात्रोर्महीपतिः ॥ 020c
ततः स पृथिवीपालो दत्त्वा श्राद्धान्यनेकशः। 021a
प्रविवेश पुनर्धीमान्नगरं वारणाह्वयम् ॥ 021c
ते चापि राजवचनात्पुरुषा ये गताऽभवन् । 022a
सङ्कल्प्य तेषां कुल्यानि पुनः प्रत्यागमंस्ततः ॥ 022c
माल्यैर्गन्धैश्च विविधैरर्चयित्वा यथाविधि । 023a
कुल्यानि तेषां संयोज्य तदाचख्युर्महीपतेः ॥ 023c
समाश्वास्य तु राजानं धर्मात्मानं युधिष्ठिरम् । 024a
नारदोऽप्यगमत्प्रीतः परमर्षिर्यथेप्सितम् ॥ 024c
एवं वर्षाण्यतीतानि धृतराष्ट्रस्य धीमतः । 025a
वनवासे तथा त्रीणि नगरे दशपञ्च च ॥ 025c
हतपुत्रस्य सङ्ग्रामे दानानि ददतः सदा । 026a
ज्ञातिसम्बन्धिमित्राणां भ्रातॄणां स्वजनस्य च ॥ 026c
युधिष्ठिरस्तु नृपतिर्नातिप्रीतमनास्तदा । 027a
धारयामास तद्राज्यं निहतज्ञातिबान्धवः ॥ ॥ 027c
इति श्रीमन्महाभारते शतसाहस्र्यां संहितायां वैयासिक्यां आश्रमिवासिकपर्वणि नारदागमनपर्वणि एकचत्वारिंशोऽध्यायः ॥ ॥ समाप्तं नारदागमनपर्व ॥ 3 ॥ आश्रमवासिकपर्व च ॥ 15 ॥ अस्यानन्तरं मौसलपर्व भविष्यति । तस्यायमाद्यः श्लोकः । वैशम्पायन उवाच । षट्त्रिंशे त्वथ सम्प्राप्ते वर्षे कौरवनन्दनः । ददर्श विपरीतानि निमित्तानि युधिष्ठिरः ॥ इदमाश्रमवासिकपर्व कुम्भघोणस्थेन टी.आर्. कृष्णाचार्येण टी.आर्.व्यासाचार्येण च मुम्बय्यां निर्णयसागरमुद्रायन्त्रे मुद्रापितम् । शकाब्दाः 1832 सन 1910.
16-41-15 तत्रैव तेषां कृत्यानीति झ.पाठः ॥ 16-41-22 सङ्कल्प्य एकीकुत्य कुल्यानि अस्थीनि प्रत्यागमन् गङ्गामिति शेषः ॥ 16-41-23 संयोज्य गङ्गयेति शेषः ॥