अध्यायः 040

युधिष्ठिरेण धृतराष्ट्रादिनिधनश्रवणेन भ्रातृभिः सह सकरुणं परिदेवनपूर्वकं सति संस्कृताग्नौ तेषां वृथाग्निना दाहं प्रत्यनुशोचनम् ॥ 1 ॥

युधिष्ठिर उवाच । 001
तथा महात्मनस्तस्य तपस्युग्रे च तस्थुषः । 001a
अनाथस्येव निधनं तिष्ठत्स्वस्मासु बन्धुषु ॥ 001c
दुर्विज्ञेया गतिर्ब्रह्मन्पुरुषाणां मतिर्मम । 002a
यत्र वैचित्रवीर्योऽसौ दग्ध एवं वनाग्निना ॥ 002c
यस्य पुत्रशतं श्रीमदभवद्बाहुशालिनः । 003a
नागायुतबलो राजा स दग्धो हि दवाग्निना ॥ 003c
यं पुरा पर्यवीजन्त तालवृन्तैर्वरस्त्रियः । 004a
तं गृध्राः पर्यवीजन्त दावाग्निपरिकालितम् ॥ 004c
सूतमागधसङ्घैश्च शयानो यः प्रबोध्यते । 005a
धरण्यां स नृपः शेते विकृष्टो गृध्रवायसैः ॥ 005c
न च शोचामि गान्धारीं हतपुत्रां यशस्विनीम् । 006a
पतिलोकमनुप्राप्तां तथा भर्तृव्रते स्थिताम् ॥ 006c
पृथामेव च शोचामि या पुत्रैश्वर्यमृद्धिमत् । 007a
उत्सृज्य सुमहद्दीप्तं वनवासमरोचयत् ॥ 007c
धिग्राज्यमिदमस्माकं धिग्बलं धिक्पराक्रमम् । 008a
क्षत्रधर्मं च धिग्यस्मान्मृता जीवामहे वयम् ॥ 008c
सुसूक्ष्मा किल लोकस्य गतिर्द्विजवरोत्तम । 009a
यत्समुत्सृज्य राज्यं सा वनवासमरोचयत् ॥ 009c
युधिष्ठिरस्य जननी भीमस्य विजयस्य च । 010a
अनाथवत्कथं दग्धा इति मुह्यामि चिन्तयन् ॥ 010c
वृथा सन्तर्पितो वह्निः खाण्डवे सव्यसाचिना । 011a
उपकारमजानन्स कृतघ्न इति मे मतिः ॥ 011c
यत्रादहत्स भगवान्मातरं सव्यसाचिनः । 012a
कृत्वा यो ब्राह्मणच्छद्म भिक्षार्थी समुपागतः ॥ 012c
धिगग्निं धिक् च पार्थस्य विश्रुतां सत्यसन्धताम् । 013a
इदं कष्टतरं चान्यद्भगवन्प्रतिभाति मे ॥ 013c
वृथाऽग्निना समायोगो यदभूत्पृथिवीपतेः । 014a
तथा तपस्विनस्तस्य राजर्षेः कौरवस्य ह ॥ 014c
कथमेवंविधो मृत्युः प्रशास्य पृथिवीमिमाम् ॥ 015ac
तिष्ठत्सु मन्त्रपूतेषु तस्याग्निषु महावने । 016a
वृथाऽग्निना समायुक्तो निष्ठां प्राप्तः पिता मम ॥ 016c
मन्ये पृथा वेपमाना कृशा धमनिसन्तता । 017a
हा तात धर्मराजेति मामाक्रन्दन्महाभये ॥ 017c
भीम पर्याप्नुहि भयादिति चैवाभिवाशती । 018a
समन्ततः परिक्षिप्ता माताऽभून्मे दवाग्निना ॥ 018c
सहदेवः प्रियस्तस्याः पुत्रेभ्योऽधिक एव तु । 019a
न चैनां मोक्षयामास वीरो माद्रवतीसुतः ॥ 019c
तच्छ्रुत्वा रुरुदुः सर्वे समालिङ्ग्य परस्परम् । 020a
पाण्डवाः पञ्च दुःखार्ता भूतानीव युगक्षये ॥ 020c
तेषां तु पुरुषेन्द्राणां रुदतां रुदितस्वनः । 021a
प्रासादाभोगसंरुद्धे अन्वरौत्सीत्स रोदसी ॥ ॥ 021c

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि नारदागमनपर्वणि चत्वारिंशोऽध्यायः ॥ 40 ॥