अध्यायः 039
कदाचन हास्तिनपुरमुपागतेन नारदेन पाण्डवान्प्रति धृतराष्ट्रादीनां स्वर्गप्राप्तिनिवेदनम् ॥ धृतराष्ट्रे गान्धारीकुन्तीसञ्जयैः सह गङ्गायामाप्लुत्य स्वाश्रममागच्छति सति मध्येमार्गं दावाग्निना तत्परीवेष्टनम् ॥2॥ धृतराष्ट्रेण सञ्जयं प्रत्यग्नितो दूरापसरणप्रेरणापूर्वकं कुन्तीगान्धारीभ्यां सह वन्हौ प्रवेशनम् ॥ 3 ॥ ततः सञ्जयेन हिमवत्पर्वतं प्रति गमनम् ॥ 4 ॥
वैशम्पायन उवाच । 001
तेषु चोपनिवृत्तेषु पाण्डवेषु यदृच्छया । 001a
देवर्षिर्नारदो राजन्नाजगाम युधिष्ठिरम् ॥ 001c
तमभ्यर्च्य महाबाहुः कुरुराजो युधिष्ठिरः । 002a
आसीनं परिविश्वस्तं प्रोवाच वदतांवरः ॥ 002c
चिरात्तु नानुपश्यामि भगवन्तमुपस्थितम् । 003a
कच्चित्ते कुशलं विप्र शुभं वा प्रत्युपस्थितम् ॥ 003c
के देशाः परिदृष्टास्ते किं च कार्यं करोमि ते । 004a
तद्ब्रूहि द्विजमुख्यस्त्वं ह्यस्माकं च प्रियोऽतिथिः ॥ 004c
नारद उवाच । 005
चिरदृष्टोऽसि मेऽत्येवमागतोऽहं तपोवनात् । 005a
परिदृष्टानि तीर्थानि गङ्गा चैव मया नृप ॥ 005c
युधिष्ठिर उवाच । 006
वदन्ति पुरुषा मेऽद्य गङ्गातीरनिवासिनः । 006a
धृतराष्ट्रं महात्मानमास्थितं परमं तपः ॥ 006c
अपि दृष्टस्त्वया तत्र कुशली स कुरूद्वहः । 007a
गान्धारी च पृथा चैव सूतपुत्रश्च सञ्जयः ॥ 007c
कथं च वर्तते चाद्य पिता मम स पार्थिवः । 008a
श्रोतुमिच्छामि भगवन्यदि दृष्टस्त्वया नृपः ॥ 008c
नारद उवाच । 009
स्थिरीभूय महाराज शृणु वृत्तं यथातथम् । 009a
यथाश्रुतं च दृष्टं च मया तस्मिंस्तपोवने ॥ 009c
वनवासनिवृत्तेषु भवत्सु कुरुनन्दन । 010a
कुरुक्षेत्रात्पिता तुभ्यं गङ्गाद्वारं ययौ नृप ॥ 010c
गान्धार्या सहितो धीमान्वध्वा कुन्त्या समन्वितः । 011a
सञ्जयेन च सूतेन साग्निहोत्रः सयाजकः ॥ 011c
आतस्थे स तपस्तीव्रं पिता तव तपोधनः । 012a
अग्निं मुखे समाधाय वायुभक्षोऽभवन्मुनिः ॥ 012c
वने स मुनिभिः सर्वैः पूज्यमानो महातपाः । 013a
त्वगस्थिमात्रशेषः स षण्मासानभवन्नृपः ॥ 013c
गान्धारी तु जलाहारी कुन्ती मासोपवासिनी । 014a
सञ्जयः षष्ठभुक्तेन वर्तयामास भारत ॥ 014c
अग्नींस्तु याजकास्तत्र जुहुवुर्विधिवत्प्रभो । 015a
दृश्यतोऽदृश्यतश्चैव वने तस्मिन्नृपस्य वै ॥ 015c
अनिकेतोऽथ राजा स बभूव वनगोचरः । 016a
ते चापि सहिते देव्यौ सञ्जयश्च तमन्वयुः ॥ 016c
सञ्जयो नृपतेर्नेता समेषु विषमेषु च । 017a
गान्धार्याश्च पृथा चैव चक्षुरासीदनिन्दिता ॥ 017c
ततः कदाचिद्गङ्गायाः कच्छे स नृपसत्तमः । 018a
गङ्गायामाप्लुतो धीमानाश्रमाभिमुखो ययौ ॥ 018c
अथ वायुः समुद्भूतो दावाग्निरभवन्महान् । 019a
ददाह तद्वनं सर्वं परिगृह्य समन्ततः ॥ 019c
दह्यत्सु मृगयूथेषु द्विजिह्वेषु समन्ततः । 020a
वराहाणां च यूथेषु संश्रयत्सु जलाशयान् ॥ 020c
सम्प्रदीप्ते वने तस्मिन्प्राप्ते व्यसन उत्तमे । 021a
निराहारतया राजा मन्दप्राणविचेष्टितः । 021c
असमर्थोऽपसरणे सुकृशे मातरौ च ते ॥ 021e
ततः स नृपतिर्दृष्ट्वा वह्निमायान्तमन्तिकात् । 022a
इदमाह ततः सूतं सञ्जयं जयतांवरः ॥ 022c
गच्छ सञ्जय यत्राग्निर्न त्वां दहति कर्हिचित् । 023a
वयमत्राग्निना युक्ता गमिष्यामः परां गतिम् ॥ 023c
तमुवाच किलोद्विग्नः सञ्जयो वदतांवरः । 024a
राजन्मृत्युरनिष्टोऽयं भविता ते वृथाऽग्निना ॥ 024c
न चोपायं प्रपश्यामि मोक्षणे जातवेदसः । 025a
यदत्रानन्तरं कार्यं तद्भवान्वक्तुमर्हति ॥ 025c
इत्युक्तः सञ्जयेनेदं पुनराह स पार्थिवः । 026a
नैष मृत्युरनिष्टो नो निःसृतानां गृहात्स्वयम् ॥ 026c
जलमग्निस्तथा वायुरथवाऽपि विकर्षणम् । 027a
तापसानां प्रशस्यं ते गच्छ सञ्जय माचिरम् ॥ 027c
इत्युक्त्वा सञ्जयं राजा समाधाय मनस्तथा । 028a
प्राङ्मुखः सह गान्धार्या कुन्त्या चोपाविशत्तदा ॥ 028c
सञ्जयस्तं तथा दृष्ट्वा प्रदक्षिणमथाकरोत् । 029a
उवाच चैनं मेधावी युङ्क्ष्वात्मानमिति प्रभो ॥ 029c
ऋषिपुत्रो मनीषी स राजा चक्रेऽस्य तद्वचः । 030a
सन्निरुध्येन्द्रियग्राममासीत्काष्ठोपमस्तदा ॥ 030c
गान्धारी च महाभागा जननी च पृथा तव । 031a
दावाग्निना समायुक्ते स च राजा पिता तव ॥ 031c
सञ्जयस्तु महाप्राज्ञस्तस्माद्दावादमुच्यत । 032a
गङ्गाकूले मया दृष्टस्तापसैः परिवारितः ॥ 032c
स तानामन्त्र्य तेजस्वी निवेद्यैतच्च सर्वशः । 033a
प्रययौ सञ्जयो धीमान्हिमवन्तं महीधरम् ॥ 033c
एवं स निधनं प्राप्तः कुरुराजो महामनाः । 034a
गान्धारी च पृथा चैव जनन्यौ ते विशाम्पते ॥ 034c
यदृच्छयाऽनुव्रजता मया राज्ञः कलेवरम् । 035a
तयोश्च देव्योरुभयोर्मया दृष्टानि भारत ॥ 035c
ततस्तपोवने तस्मिन्समाजग्मुस्तपोधनाः । 036a
श्रुत्वा राज्ञस्तदा निष्ठां न त्वशोचन्गतीश्च ते ॥ 036c
तत्राश्रौषमहं सर्वमेतत्पुरुषसत्तम । 037a
यथा च नृपतिर्दग्धो देव्यौ ते चेति पाण्डव ॥ 037c
न शोचितव्यं राजेन्द्र स्वर्गस्थः पृथिवीपतिः । 038a
प्राप्तवानग्निसंयोगं गान्धारी जननी च ते ॥ 038c
वैशम्पायन उवाच । 039
एतच्छ्रुत्वा च सर्वेषां पाण्डवानां महात्मनाम् । 039a
निर्याणं धृतराष्ट्रस्य शोकः समभवन्महान् ॥ 039c
अन्तःपुराणां च तदा महानार्तस्वरोऽभवत् । 040a
पौराणां च महाराज श्रुत्वा राज्ञस्तदा गतिम् ॥ 040c
अहो धिगिति राजा तु विक्रुश्य भृशदुःखितः । 041a
ऊर्ध्वबाहुः स्मरन्मातुः प्ररुरोद युधिष्ठिरः ॥ 041c
भीमसेनपुरोगाश्च भ्रातरः सर्व एव ते । 042a
'रुरुदुर्दुःखसन्तप्ता वर्णयन्तः पृथां तदा ॥ 042c
अन्तःपुरेषु च तदा सुमहान्रुदितस्वनः । 043a
प्रादुरासीन्महाराज पृथां श्रुत्वा तथागताम् ॥ 043c
तं च वृद्धं तथा दग्धं हतपुत्रं नराधिपम् । 044a
अन्वशोचन्त ते सर्वे गान्धारीं च तपस्विनीम् ॥ 044c
तस्मिन्नुपरते शब्दे मुहूर्तादिव भारत । 045a
निगृह्य बाष्पं धैर्येण धर्मराजोऽब्रवीदिदम् ॥ ॥ 045c
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि नारदागमनपर्वणि एकोनचत्वारिंशोऽध्यायः ॥ 39 ॥
15-39-1 द्विवर्षोपनिवृत्तेष्विति झ.पाठः ॥ 15-39-5 मे मयाऽतिचिरं दृष्टोऽसीत्यर्थः ॥ 15-39-12 मुखे पिण्डान्समाधायेति क.ट.पाठः । वीटां मुखे समाधायेति झ.पाठः ॥ 15-39-15 दृश्यतोऽदृश्यत इति । पश्यन्तमपश्यन्तं चानादृत्येत्यर्थः । नियमेन सान्निध्याभावात् ॥ 15-39-27 विकर्षणम् अनशनम् ॥ 15-39-30 ऋषिपुत्रो व्यासपुत्र इति योगसमार्थ्यं सूचितम् ॥