अध्यायः 038

धृतराष्ट्रेण पुत्रदर्शनानन्तरं युधिष्ठिरादिभिः सह पुनः स्वाश्रमं प्रत्यागमनम् ॥ 1 ॥ व्यासेन धृतराष्ट्रं प्रति युधिष्ठिरादीनां नगरप्रस्थापनचोदना ॥ 2 ॥ नगरं प्रति पुनरागमनमनिच्छताऽपि युधिष्ठिरेण धृतराष्ट्रस्य कुन्तीगान्धार्योश्च निदेशनिर्बन्धेन पुनः सर्वैः सह हास्तिनपुरं प्रत्यागमनम् ॥ 3 ॥

जनमेजय उवाच । 001
दृष्ट्वा पुत्रांस्तथा पौत्रान्सानुबन्धाञ्जनाधिपः । 001a
धृतराष्ट्रः किमकरोद्राजा चैव युधिष्ठिरः ॥ 001c
वैशम्पायन उवाच । 002
तद्दृष्ट्वा महदाश्चर्यं पुत्राणां दर्शनं पुनः । 002a
वीतशोकः स राजर्षिः पुनराश्रममागमत् ॥ 002c
इतरस्तु जनः सर्वस्ते चैव परमर्षयः । 003a
प्रतिजग्मुर्यथाकामं धृतराष्ट्राभ्यनुज्ञया ॥ 003c
पाण्डवास्तु महात्मानो लघुभूयिष्ठसैनिकाः । 004a
अनुजग्मुर्महात्मानं सदारास्तं महीपतिम् ॥ 004c
तमाश्रमगतं धीमान्ब्रह्मर्षिर्लोकपूजितः । 005a
द्वैपायनोऽभ्युपागम्य राजानमिदमब्रवीत् ॥ 005c
धृतराष्ट्र महाबाहो शृणु कौरवनन्दन । 006a
श्रुतास्ते ज्ञानवृद्धानामृषीणां पुण्यकर्मणाम् ॥ 006c
अद्धाभिजनवृद्धानां वेदवेदाङ्गवेदिनाम् । 007a
धर्मज्ञानां पुराणानां वदतां विविधाः कथाः ॥ 007c
मा स्म शोके मनः कार्षीर्दिष्टे न व्यथते बुधः । 008a
श्रुतं देवरहस्यं ते नारदाद्देवदर्शनात् ॥ 008c
गतास्ते क्षत्रधर्मेण शस्त्रपूतां गतिं शुभाम् । 009a
यथा दृष्टास्त्वया पुत्रास्तथा कामविहारिणः ॥ 009c
युधिष्ठिरः स्वयं धीमान्भवन्तमनुरुध्यते । 010a
सहितो भ्रातृभिः सर्वैः सदारः ससुहृज्जनः ॥ 010c
विसर्जयैनं यात्वेष स्वराज्यमनुशासताम् । 011a
मासः समधिकस्तेषामतीतो वसतां वने ॥ 011c
एतद्धि नित्यं यत्नेन पदं रक्ष्यं नराधिप । 012a
बहुप्रत्यर्थिकं ह्येतद्राज्यं नाम कुरूद्वह ॥ 012c
इत्युक्तः कौरवो राजा व्यासेनामितबुद्धिना । 013a
युधिष्ठिरमथाहूय वाग्मी वचनमब्रवीत् ॥ 013c
अजातशत्रो भद्रं ते शृणु मे भ्रातृभिः सह । 014a
त्वत्प्रसादान्महीपाल शोको नास्मान्प्रबाधते ॥ 014c
रमे चाहं त्वया पुत्र पुरेव गजसाह्वये । 015a
नाथेनानुगतो विद्वन्प्रियेषु परिवर्तिना ॥ 015c
प्राप्तं पुत्रफलं त्वत्तः प्रीतिर्मे परमा त्वयि । 016a
न मे मन्युर्महाबाहो गम्यतां मा चिरं कृथाः ॥ 016c
भवन्तं चेह सम्प्रेक्ष्य तपो मे परिहीयते । 017a
उपयुक्तं शरीरं च त्वां दृष्ट्वा धारितं पुनः ॥ 017c
मातरौ ते तथैवेमे शीर्णपर्णकृताशने । 018a
मम तुल्यव्रते पुत्र न चिरं वर्तयिष्यतः ॥ 018c
दुर्योधनप्रभृतयो दृष्टा लोकान्तरं गताः । 019a
व्यासस्य तपसो वीर्याद्भवतश्च समागमात् ॥ 019c
प्रयोजनं चिरं वृत्तं जीवितस्य ममानघ । 020a
उग्रं तपः समास्थास्ये त्वमनुज्ञातुमर्हसि ॥ 020c
त्वय्यद्य पिण्डः कीर्तिश्च कुलं चेदं प्रतिष्ठितम् । 021a
श्वो वाऽद्य वा महाबाहो गम्यतां माचिरं कृथाः ॥ 021c
राजनीतिः सुबहुशः श्रुता ते भरतर्षभ । 022a
सन्देष्टव्यं न पश्यामि कृतमेतावता विभो ॥ 022c
वैशम्पायन उवाच । 023
इत्युक्तवचनं तं तु नृपो राजानमब्रवीत् । 023a
न मामर्हसि धर्मज्ञ परित्यक्तुमनागसम् ॥ 023c
कामं गच्छन्तु मे सर्वे भ्रातरोऽनुचरास्तथा । 024a
भवन्तमहमन्विष्ये मातरौ च यतव्रतः ॥ 024c
तमुवाचाथ गान्धारी मैवं पुत्र शृणुष्व च । 025a
त्वय्यधीनं कुरुकुलं पिण्डश्च श्वशुरस्य मे ॥ 025c
गम्यतां पुत्र पर्याप्तमेतावत्पूजिता वयम् । 026a
राजा यदाह तत्कार्यं त्वया पुत्र पितुर्वचः ॥ 026c
वैशम्पायन उवाच । 027
इत्युक्तः स तु गान्धार्या कुन्तीमिदमभाषत । 027a
स्नेहबाष्पाकुले नेत्रे परिमृज्य विनीतवत् ॥ 027c
विसर्जयति मां राजा गान्धारी च यशस्विनी । 028a
भवत्यां बद्धचित्तस्तु कथं यास्यामि दुःखितः ॥ 028c
न चोत्सहे तपोविघ्नं कर्तुं ते धर्मचारिणि । 029a
तपसो हि परं नास्ति तपसा विन्दते महत् ॥ 029c
ममापि न तथा राज्ञि राज्ये बुद्धिर्यथा पुरा । 030a
तपस्येवानुरक्तं मे मनः सर्वात्मना तथा ॥ 030c
शून्येयं च मही कृत्स्ना न मे प्रीतिकरी शुभे । 031a
बान्धवा नः परिक्षीणा बलं नो न यथा पुरा ॥ 031c
पाञ्चालाः सुभृशं क्षीणाः कन्यामात्रावशेषिताः । 032a
न तेषां कुलकर्तारं कञ्चित्पश्याम्यहं शुभे ॥ 032c
सर्वे हि भस्मासान्नीतास्ते द्रोणेन रणाजिरे । 033a
अवशिष्टाश्च निहता द्रोणपुत्रेण वै निशि । 033c
चेदयश्चैव मत्स्याश्च दृष्टपूर्वास्तथैव नः॥ 033e
केवलं वृष्णिचक्रं च वासुदेवपरिग्रहात् । 034a
यद्दृष्ट्वा स्थातुमिच्छामि धर्मार्थं नार्थहेतुतः ॥ 034c
शिवेन पश्य नः सर्वान्दुर्लभं तव दर्शनम् । 035a
भविष्यत्यम्ब राजा हि तीव्रं चारप्स्यते तपः ॥ 035c
एतच्छ्रुत्वा महाबाहुः सहदेवो युधाम्पतिः । 036a
युधिष्ठिरमुवाचेदं बाष्पव्याकुललोचनः ॥ 036c
नोत्सहेऽहं परित्यक्तुं मातरं भरतर्षभ । 037a
प्रतियातु भवान्क्षिप्रं तपस्तप्स्याम्यहं वने ॥ 037c
इहैव शोषयिष्यामि तपसेदं कलेवरम् । 038a
पादशुश्रूषणे रक्तो राज्ञो मात्रोस्तथाऽनयोः ॥ 038c
तमुवाच ततः कुन्ती परिष्वज्य महाभुजम् । 039a
गम्यतां पुत्र मैवं त्वं वोचः कुरु वचो मम ॥ 039c
आगमा वः शिवाः सन्तु स्वस्था भवत पुत्रकाः । 040a
उपरोधो भवेदेवमस्माकं तपसः कृते ॥ 040c
त्वत्स्नेहपाशबद्धा च हीयेयं तपसः परात् । 041a
तस्मात्पुत्रक गच्छ त्वं शिष्टमल्पं च नः प्रभो ॥ 041c
एवं संस्तम्भितं वाक्यैः कुन्त्या बहुविधैर्मनः । 042a
सहदेवस्य राजेन्द्र राज्ञश्चैव विशेषतः ॥ 042c
ते मात्रा समनुज्ञाता राज्ञा च कुरुपुङ्गवाः । 043a
अभिवाद्य कुरुश्रेष्ठमामन्त्रयितुमारभन् ॥ 043c
युधिष्ठिर उवाच । 044
राज्यं प्रति गमिष्यामः शिवेन प्रतिनन्दिताः । 044a
अनुज्ञातास्त्वया राजन्गमिष्यामो विकल्मषाः ॥ 044c
एवमुक्तः स राजर्षिर्धर्मराज्ञा महात्मना । 045a
अनुजज्ञे जयाशीर्भिः पूजयित्वा युधिष्ठिरम् ॥ 045c
भीमं च बलिनां श्रेष्ठं सान्त्वयामास पार्थिवः । 046a
स चास्य सम्यङ्मेधावी प्रत्यपद्यत वीर्यवान् ॥ 046c
अर्जुनं च समाश्लिष्य यमौ च भरतर्षभौ । 047a
अनुजज्ञे स कौरव्यः परिष्वज्याभिनन्द्य च ॥ 047c
गान्धार्या चाभ्यनुज्ञाताः कृतपादाभिवादनाः । 048a
जनन्या समुपाघ्राताः परिष्वक्ताश्च ते नृपम् ॥ 048c
चक्रुः प्रदक्षिणं सर्वे वत्सा इव निवारणे । 049a
पुनः पुनर्निरीक्षन्तः प्रचक्रुस्ते प्रदक्षिणम् ॥ 049c
द्रौपदीप्रमुखाश्चैव सर्वाः कौरवयोषितः । 050a
न्यायतः श्वशुरे वृत्तिं प्रयुज्य प्रययुस्ततः ॥ 050c
श्वश्रूभ्यां समनुज्ञाताः परिष्वज्याभिनन्दिताः ॥ 051a
सन्दिष्टाश्चेतिकर्तव्यं प्रययुर्भर्तृभिः सह ॥ 051c
ततः प्रजज्ञे निनदः सूतानां युज्यतामिति । 052a
उष्ट्राणां क्रोशतां चापि हयानां हेषतामपि ॥ 052c
ततो युधिष्ठिरो राजा सदारः सहसैनिकः । 053a
नगरं हास्तिनपुरं पुनरायात्सबान्धवः ॥ ॥ 053c

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि पुत्रदर्शनपर्वणि अष्टत्रिंशोऽध्यायः ॥ 38 ॥ ॥ समाप्तं चेदं पुत्रदर्शनपर्व ॥ 2 ॥

15-38-12 बहवः प्रत्यर्थिनः प्रार्थयानाः शत्रवो यत्र तत् ॥15-38-15 नाथेन त्वया ॥15-38-24 अन्विष्ये सेविष्ये ॥15-38-32 कथामात्रावशेषिता इति झ.पाठः ॥ 15-38-35 अविषह्यं च राजा हीति झ.पाठः ॥ 15-38-41 श्रेयसः परादिति क.ट.पाठः । शिष्टमायुरिति शेषः ॥ 15-38-49 निवारणे स्तनपानादिति शेषः ॥ 15-38-50 तथैव द्रौपदी भद्रा पाण्ड्यजा भुजगेन्द्रजेति क.ट.थ.पाठः ॥