अध्यायः 037

जनमेजयेन परिक्षित्प्रदर्शने प्रार्थिते व्यासेन परिक्षितः शमीकमहर्षेः शृङ्गिणश्च प्रदर्शनम् ॥ 1 ॥ जनमेजयेनावभृथस्नानानन्तरमास्तिकपूजनपूर्वकं वैशम्पायनं प्रति कथावशेषकथनप्रार्थना ॥ 2 ॥

वैशम्पायन उवाच । 001
अदृष्ट्वा तु नृपः पुत्रान्दर्शनं प्रतिलब्धवान् । 001a
ऋषेः प्रसादात्पुत्राणां स्वरूपाणां कुरूद्वह ॥ 001c
स राजा राजधर्मांश्च ब्रह्मोपनिषदं तथा । 002a
अवाप्तवान्नरश्रेष्ठो बुद्धिनिश्चयमेव च ॥ 002c
विदुरश्च महाप्राज्ञो ययौ सिद्धिं तपोबलात् । 003a
धृतराष्ट्रः समासाद्य व्यासं चैव तपस्विनम् ॥ 003c
जनमेजय उवाच । 004
ममापि वरदो व्यासो दर्शयेत्पितरं यदि । 004a
तद्रूपवेषवयसं श्रद्दध्यां सर्वमेव तत् ॥ 004c
प्रियं मे स्यात्कृतार्थश्च स्यामहं कृतनिश्चयः । 005a
प्रसादादृषिमुख्यस्य मम कामः समृद्ध्यताम् ॥ 005c
सौतिरुवाच । 006
इत्युक्तवचने तस्मिन्नृपे व्यासः प्रतापवान् । 006a
प्रसादमकरोद्धीमानानयच्च परिक्षितम् ॥ 006c
ततस्तद्रूपवयसमागतं नृपतिं दिवः । 007a
श्रीमन्तं पितरं राजा ददर्श स परीक्षितम् ॥ 007c
शमीकं च महात्मानं पुत्रं तं चास्य शृङ्गिणम् । 008a
अमात्या ये च निहता राज्ञस्तांश्च ददर्श ह ॥ 008c
ततः सोऽवभृथे राजा मुदितो जनमेजयः । 009a
पितरं स्नापयामास स्वयं सस्नौ च पार्थिवः ॥ 009c
'परीक्षिदपि तत्रैव बभूव स तिरोहितः ।' 010a
स्नात्वा स नृपतिर्विप्रमास्तीकमिदमब्रवीत् । 010c
यायावरकुलोत्पन्नं जरत्कारुसुतं तदा ॥ 010e
आस्तीक विविधाश्चर्यो यज्ञोऽयमिति मे मतिः । 011a
यदद्यायं पिता प्राप्तो मम शोकप्रणाशनः ॥ 011c
आस्तीक उवाच । 012
ऋषिर्द्वैपायनो यत्र पुराणस्तपसो निधिः । 012a
यज्ञे कुरुकुलश्रेष्ठ तस्य लोकावुभौ जितौ ॥ 012c
श्रुतं विचित्रमाख्यानं त्वया पाण्डवनन्दन । 013a
सर्पाश्च भस्मसान्नीता गताश्च पदवीं पितुः ॥ 013c
कथञ्चित्तक्षको मुक्तः सत्यत्वात्तव पार्थिव । 014a
ऋषयः पूजिताः सर्वे गतिर्दृष्टा महात्मनः ॥ 014c
प्राप्तः सुविपुलो धर्मः श्रुत्वा पापविनाशनम् । 015a
विमुक्तो हृदयग्रन्थिरुदारजनदर्शनात् ॥ 015c
ये च पक्षधरा धर्मे सद्वृत्तरुचयश्च ये । 016a
यान्दृष्ट्वा हीयते पापं तेभ्यः कार्या नमस्क्रिया ॥ 016c
सौतिरुवाच । 017
एतच्छ्रुत्वा द्विजश्रेष्ठात्स राजा जनमेजयः । 017a
पूजयामास तमृषिमनुमान्य पुनःपुनः ॥ 017c
पप्रच्छ तमृषिं चापि वैशम्पायनमच्युतम् । 018a
कथावशेषं धर्मज्ञो वनवासस्य सत्तम ॥ ॥ 018c

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि पुत्रदर्शनपर्वणि सप्तत्रिंशोऽध्यायः ॥ 37 ॥

15-37-2 स धृतराष्ट्रो राजा विदुरश्च सिद्धिं ययौ इति द्वयोः सम्बन्धः । तत्रापि विदुरस्तपोबलात् । धृतराष्ट्रो व्यासं समासाद्येति सम्बन्धः ॥15-37-15 पापविनाशनं इतिहासमिति शेषः ॥15-37-16 पक्षधराः पक्षस्थापकाः ॥