अध्यायः 036

त्यक्तदेहानामपि कुरुपाण्डवपक्षीयाणां कथं पुनरागमनमिति जनमेजयप्रश्नस्य सोपपत्तिकमुत्तरदानम् ॥ 1 ॥

सौतिरुवाच । 001
एतच्छ्रुत्वा नृपो विद्वान्हृष्टोऽभूज्जनमेजयः । 001a
पितामहानां सर्वेषां गमनागमनं तदा ॥ 001c
अब्रवीच्च मुदा युक्तः पुनरागमनं प्रति । 002a
कथं नु त्यक्तदेहानां पुनस्तद्रूपदर्शनम् ॥ 002c
इत्युक्तः स द्विजश्रेष्ठो व्यासशिष्यः प्रतापवान् । 003a
प्रोवाच वदतांश्रेष्ठस्तं नृपं जनमेजयम् ॥ 003c
वैशम्पायन उवाच । 004
अविप्रणाशः सर्वेषां कर्मणामिति निश्चयः । 004a
कर्मजानि शरीराणि शरीराकृतयस्तथा ॥ 004c
महाभूतानि नित्यानि भूताधिपतिसंश्रयात् । 005a
तेषां च नित्यसंवासो न विनाशो वियुज्यताम् ॥ 005c
अनाशया कृतं कर्म तस्य चेष्टः फलागमः । 006a
आत्मा चैभिः समायुक्तः सुखदुःखमुपाश्नुते ॥ 006c
अविनाश्यस्तथा नित्यं क्षेत्रज्ञ इति निश्चयः । 007a
भूतानामात्मभावो यो ध्रुवोऽसौ संविजानताम् ॥ 007c
यावन्न क्षीयते कर्म तावत्तस्य स्वरूपता । 008a
क्षीणकर्मा नरो लोके रूपान्यत्वमुपाश्नुते ॥ 008c
नानाभूतास्तथैकत्वं शरीरं प्राप्य संहताः । 009a
भवन्ति ते तथा नित्याः पृथग्भावं विजानताम् ॥ 009c
अश्वमेधश्रुतिश्चेयमश्वसञ्ज्ञपनं प्रति । 010a
लोकान्तरगता नित्यं प्राणा नित्या हि वाजिनः ॥ 010c
अहं हितं वदाम्येतत्प्रियं चेत्तव पार्थिव । 011a
देवयाना हि पन्थानः श्रुतास्ते यज्ञसंस्तरे ॥ 011c
सुकृतो यत्र यज्ञस्ते तत्र देवा हितास्तव । 012a
यदा समन्विता देवाः पशूनां गमनेश्वराः ॥ 012c
गतिमन्तश्च तेनेष्ट्वा नान्ये नित्या भवन्त्युत । 013a
नित्येऽस्मिन्पञ्चके वर्गे नित्ये चात्मनि पूरुषः ॥ 013c
अस्य नाशं समायोगं यः पश्यति वृथामतिः । 014a
वियोगे शोचतेऽत्यर्थं स बाल इति मे मतिः ॥ 014c
वियोगे दोषदर्शी यः संयोगं स विसर्जयेत् । 015a
असङ्गे सङ्गमो नास्ति दुःखं भावि वियोगजम ॥ 015c
परापरज्ञस्त्वपरो नाभिमानादुदीक्षितः । 016a
अपरज्ञः परां बुद्धिं स्पृष्ट्वा मोहाद्विमुच्यते ॥ 016c
अदर्शनादापतितः पुनश्चादर्शनं गतः । 017a
नाहं तं वेद्मि नासौ मां न च मेऽस्ति विरागता ॥ 017c
येनयेन शरीरेण करोत्ययमनीश्वरः । 018a
तेनतेन शरीरेण तदवश्यमुपाश्नुते । 018c
मानसं मनसाऽऽप्नोति शरीरं च शरीरवान् ॥ ॥ 018e

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि पुत्रदर्शनपर्वणि षट्त्रिंशोऽध्यायः ॥ 36 ॥

15-36-10 सञ्ज्ञपनं मारणम् ॥ 15-36-11 नासौ मानादहङ्कारान्न च वेत्ति विरागतामिति क.पाठः ॥