अध्यायः 035

धृतराष्ट्रयुधिष्ठिरादिभिर्व्यासप्रसादोज्जीवितैर्हतपूर्वबन्धुभिः सह सल्ँलापादिना यावद्रात्रिसुखविहरणम् ॥ 1 ॥

वैशम्पायन उवाच । 001
ततस्ते पुरषश्रेष्ठाः समाजग्मुः परस्परम् । 001a
विगतक्रोधमात्सर्याः सर्वे विगतकल्मषाः ॥ 001c
विधिं परममास्थाय ब्रह्मर्षिविहितं शुभम् । 002a
संहृष्टमनसः सर्वे देवलोक इवामराः ॥ 002c
पुत्रः पित्रा च मात्रा च भार्याश्च पतिभिः सह । 003a
भ्रात्रा भ्राता सखा चैव सख्या राजन्समागताः ॥ 003c
पाण्डवास्तु महेष्वासं कर्णं सौभद्रमेव च । 004a
सम्प्रहर्षात्समाजग्मुर्द्रौपदेयांश्च सर्वशः ॥ 004c
ततस्ते प्रीयमाणा वै कर्णेन सह पाण्डवाः । 005a
समेत्य पृथिवीपाल सौहृदे च स्थिताऽभवन् ॥ 005c
परस्परं समागम्य योधास्ते भरतर्षभ । 006a
मुनेः प्रसादात्ते ह्येवं क्षत्रिया नष्टमन्यवः ॥ 006c
असौहृदं परित्यज्य सौहृदे पर्यवस्थिताः । 007a
एवं समागताः सर्वे गुरुभिर्बान्धवैः सह ॥ 007c
पुत्रैश्च पुरुषव्याघ्राः कुरवोऽन्ये च पार्थिवाः । 008a
तां रात्रिमखिलामेवं विहृत्य प्रीतमानसाः ॥ 008c
मेनिरे परितोषेण नृपाः स्वर्गसदो यथा । 009a
नात्र शोको भयं त्रासो नारतिर्नायशोऽभवत् ॥ 009c
परस्परं समागम्य योधानां भरतर्षभ । 010a
समागतास्ताः पितृभिर्भ्रातृभिः पतिभिः सुतैः । 010c
मुदं परमिकां प्राप्य नार्यो दुःखमथात्यजन् ॥ 010e
'देवलोकं गता ये च ये च ब्रह्मसदो गताः । 011a
ये चापि वारुणं लोकं ये च गोलोकमाश्रिताः ॥ 011c
तथा वैवस्वतं लोकं ये च यक्षानुपागताः । 012a
राक्षसांश्च पिशाचांश्च कुरूंश्चापि तथोत्तरान् ॥ 012c
विचित्राश्च गतीरन्ये ये प्राप्ताः कर्मभिर्नराः । 013a
सर्वे ते तद्वयोरूपवेषास्तत्र समभ्ययुः ॥' 013c
एकां रात्रिं विहृत्यैवं ते वीरास्ताश्च योषितः । 014a
आमन्त्र्यान्योन्यमाश्लिष्य ततो जग्मुर्यथागतं ॥ 014c
ततो विसर्जयामास लोकांस्तान्मुनिपुङ्गवः । 015a
क्षणेनान्तर्हिताश्चैव प्रेक्षतामेव तेऽभवन् ॥ 015c
अवगाह्य महात्मानः पुण्यां भागीरथीं नदीम् । 016a
सरथाः सध्वजाश्चैव स्वानि वेश्मानि भेजिरे ॥ 016c
देवलोकं ययुः केचित्केचिद्ब्रह्मसदस्तथा । 017a
केचिच्च वारुणं लोकं केचित्कौबेरमाप्नुवन् ॥ 017c
ततो वैवस्वतं लोकं केचिच्चैवाप्नुवन्नृपाः । 018a
राक्षसानां पिशाचानां केचिच्चाप्युत्तरान्कुरून् ॥ 018c
विचित्रगतयः सर्वे यानवाप्यामरैः सह । 019a
आजग्मुस्ते महात्मानः सवाहाः सपदानुगाः ॥ 019c
गतेषु तेषु सर्वेषु सलिलस्थो महामुनिः । 020a
धर्मशीलो महातेजाः कुरूणां हितकृत्तदा । 020c
ततः प्रोवाच ताः सर्वाः क्षत्रिया निहतेश्वराः । 020e
यायाः पतिकृताल्ँलोकानिच्छन्ति परमस्त्रियः । 021a
ता जाह्नवीजलं क्षिप्रमवगाहन्त्वतन्द्रिताः ॥ 021c
ततस्तस्य वचः श्रुत्वा श्रद्दधाना वराङ्गनाः । 022a
श्वशुरं समनुज्ञाप्य विविशुर्जाह्नवीजलम् ॥ 022c
विमुक्ता मानुषैर्देहैस्ततस्ता भर्तृभिः सह । 023a
समाजग्मुस्तदा साध्व्यः सर्वा एव विशाम्पते ॥ 023c
एवं क्रमेण सर्वास्ताः शीलवत्यः पतिव्रताः । 024a
प्रविश्य तोयं निर्मुक्ता जग्मुर्भर्तृसलोकताम् ॥ 024c
दिव्यरूपसमायुक्ता दिव्याभरणभूषिताः । 025a
दिव्यमाल्याम्बरधरा यथाऽऽसां पतयस्तथा ॥ 025c
ताः शीलगुणसम्पन्ना विमानस्था गतक्लमाः । 026a
सर्वाः सर्वगुणोपेताः स्वस्थानं प्रतिपेदिरे ॥ 026c
यस्य यस्य तु यः कामस्तस्मिन्काले बभूव ह । 027a
तन्तं विसृष्टवान्व्यासो वरदो धर्मवत्सलः ॥ 027c
तच्छ्रुत्वा नरदेवानां पुनरागमनं नराः । 028a
जहृषुर्मुदिताश्चासन्नानादेशगता अपि ॥ 028c
'ते नष्टभयसङ्कल्पा नरा विगतकल्मषाः । 029a
बभूवुः पौरवाः सर्वे तद्दृष्ट्वाऽऽश्चर्यमुत्तमम् ॥' 029c
प्रियैः समागमं तेषां यः सम्यक् शृणुयान्नरः । 030a
प्रियाणि लभते नित्यमिह च प्रेत्य चैव सः । 030c
इष्टबान्धवसंयोगमनायासमनामयम् ॥ 030e
यश्चैतच्छ्रावयेद्विद्वान्विदुषो धर्मवित्तमः । 031a
स यशः प्राप्नुयाल्लोके परत्र च शुभां गतिम् ॥ 031c
स्वाध्याययुक्ता मनुजास्तपोयुक्ताश्च भारत । 032a
साध्वाचारा दमोपेता दाननिर्धूतकल्मषाः ॥ 032c
ऋजवः शुचयः शान्ता हिंसानृतविवर्जिताः । 033a
आस्तिकाः श्रद्दधानाश्च धृतिमन्तश्च मानवाः । 033c
श्रुत्वाऽऽश्चर्यमिदं पर्व ह्यवाप्स्यन्ति परां गतिम् ॥ 033e
'पुनस्ते दर्शनं प्राप्ताः पुनश्च परिकीर्तिताः । 034a
पुनःपुनः प्रयच्छन्ति शृण्वतामभयं सदा ॥' ॥ 034c

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि पुत्रदर्शनपर्वणि पञ्चत्रिंशोऽध्यायः ॥ 35 ॥