अध्यायः 033
व्यासेन गान्धारीं प्रति समरहतानां दुर्योधनादीनां सर्वेषां रात्रौ प्रदर्शनप्रतिज्ञानपूर्वकं धृतराष्ट्रादीनां विशिष्य गन्धर्वाद्यंशत्वकथनम् ॥ 1 ॥ धृतराष्ट्रादिभिर्व्यासवचनाद्गङ्गातीरमेत्य बन्धुदर्शनौत्कण्ठ्येन कृच्छ्रादहर्यापनम् । 2॥
व्यास उवाच । 001
भद्रे द्रक्ष्यसि गान्धारि पुत्रान्भ्रातॄन्स्वकान्गणान् । 001a
वधूश्च पतिभिः सार्धं निशि सुप्तोत्थिता इव ॥ 001c
कर्णं द्रक्ष्यति कुन्ती च सौभद्रं चापि यादवी । 002a
द्रौपदी पञ्चपुत्रांश्च पितॄन्भ्रातॄंस्तथैव च ॥ 002c
पूर्वमेवैष हृदये व्यवसायोऽभवन्मम । 003a
यदाऽस्मि चोदितो राज्ञा भवत्या पृथयैव च ॥ 003c
न ते शोच्या महात्मानः सर्व एव नरर्षभाः । 004a
क्षत्रधर्मपराः सन्तस्तथा हि निधनं गताः ॥ 004c
भवितव्यमवश्यं तत्सुरकार्यमनिन्दिते । 005a
अवतेरुस्ततः सर्वे देवा भागैर्महीतलम् ॥ 005c
गन्धर्वाप्सरसश्चैव पिशाचा गुह्यराक्षसाः । 006a
तथा पुण्यजनाश्चैव सिद्धा देवर्षयोऽपि च ॥ 006c
देवाश्च दानवाश्चैव तथा देवर्षयोऽमलाः । 007a
त एते निधनं प्राप्ताः कुरुक्षेत्रे रणाजिरे ॥ 007c
गन्धर्वराजो यो धीमान्धृतराष्ट्र इति श्रुतः । 008a
स एव मानुषे लोके धृतराष्ट्रः पतिस्तव ॥ 008c
पाण्डुं मरुद्गणाद्विद्धि विशिष्टतममच्युतम् । 009a
धर्मस्यांशोऽभवत्क्षत्ता राजा चैव युधिष्ठिरः ॥ 009c
कलिं दुर्योधनं विद्धि शकुनिं द्वापरं नृपम् । 010a
दुःशासनादीन्विद्धि त्वं राक्षसान्शुभदर्शने ॥ 010c
मरुद्गणाद्भीमसेनं बलवन्तमरिन्दमम् । 011a
विद्धिं त्वं तु नरमृषिमिमं पार्थं धनञ्जयम् । 011c
नारायणं हृषीकेशमश्विनौ यमजौ तथा ॥ 011e
द्विधा कृत्वाऽऽत्मनो देहमादित्यं तपतां वरम् । 012a
लोकांश्च तापयानं वै कर्णं विद्धि पृथासुतम् ॥ 012c
यः स वैरार्थमुद्भूतः सङ्घर्षजननस्तथा । 013a
तं कर्णं विद्धि कल्याणि भास्करं शुभदर्शने ॥ 013c
यश्च पाण्डवदायादो हतः षङ्मिर्महारथैः । 014a
स सोम इह सौभद्रो योगादेवाभवद्द्विधा ॥ 014c
द्रौपद्या सह सम्भूतं धृष्टद्युम्नं च पावकात् । 015a
अग्नेर्भागं शुभं विद्धि राक्षसं तु शिखण्डिनम् ॥ 015c
द्रोणं बृहस्पतेर्भागं विद्धि द्रौणिं च रुद्रजम् । 016a
गाङ्गेयो वसुवीर्येण देवो मानुषतां गतः ॥ 016c
एवमेते महाप्रज्ञे देवा मानुष्यमेत्य हि । 017a
ततः पुनर्गताः स्वर्गं कृते कर्मणि शोभने ॥ 017c
यच्च वै हृदि सर्वेषां दुःखमेतच्चिरं स्थितम् । 018a
तदद्य व्यपनेष्यामि परलोककृताद्भयात् ॥ 018c
सर्वे भवन्तो गच्छन्तु नदीं भागीरथीं प्रति । 019a
तत्र द्रक्ष्यथ तान्सर्वान्ये हतास्तत्र संयुगे ॥ 019c
वैशम्पायन उवाच । 020
इति व्यासस्य वचनं श्रुत्वा सर्वो जनस्तदा । 020a
महता सिंहनादेन गङ्गामभिमुखो ययौ ॥ 020c
धृतराष्ट्रश्च सामात्यः प्रययौ सह पाण्डवैः । 021a
सहितो मुनिशार्दूलैर्गन्धर्वैश्च समागतैः ॥ 021c
ततो गङ्गां समासाद्य क्रमेण स जनार्णवः । 022a
निवासमकरोत्सर्वो यथाप्रीति यथासुखम् ॥ 022c
राजा च पाण्डवैः सार्धमिष्टे देशे सहानुगः । 023a
निवासमकरोद्धीमान्सस्त्रीवृद्धपुरःसरः ॥ 023c
जगाम तदहश्चापि तेषां वर्षशतं यथा । 024a
निशां प्रतीक्षमाणानां दिदृक्षूणां मृतान्नृपान् ॥ 024c
अथ पुण्यं गिरिवरमस्तमभ्यगमद्रविः । 025a
ततः कृताभिषेकास्ते नैशं कर्म समाचरन् ॥ ॥ 025c
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि पुत्रदर्शनपर्वणि त्रयस्त्रिंशोऽध्यायः ॥ 33 ॥