अध्यायः 032

कुन्त्या व्यासं प्रति स्वस्मिन्दुर्वासःप्रसादेन सूर्यात्कर्णस्योत्पत्तिकथनपूर्वकं स्वस्य तद्दिदृक्षानिवेदनम् ॥ 1 ॥ व्यासेन कुन्तीं प्रति हेतूपन्यासेन तत्प्रयुक्तदोषशङ्कानिरसनम् ॥ 2 ॥

कुन्त्युवाच । 001
भगवञ्श्वशुरो मेऽसि दैवतस्यापि दैवतम् । 001a
स मे देवातिदेवस्त्वं शृणु सत्यां गिरं मम ॥ 001c
तपस्वी कोपनो विप्रो दुर्वासा नाम मे पितुः । 002a
भिक्षामुपागतो भोक्तुं तमहं पर्यतोषयम् ॥ 002c
शौचन त्वागसस्त्यागैः शुद्धेन मनसा तथा । 003a
कोपस्थानेष्वपि महत्स्वकुप्यन्न कदाचन ॥ 003c
स प्रीतो वरदो मेऽभूत्कृतकृत्यो महामुनिः । 004a
अवश्यं ते ग्रहीतव्यमिति मां सोऽब्रवीद्वचः ॥ 004c
ततः शापभयाद्विप्रमवोचं पुनरेव तम् । 005a
एवमस्त्विति च प्राह पुनरेव स मे द्विजः ॥ 005c
धर्मस्य जननी भद्रे भवित्री त्वं शुभानने । 006a
वशे स्थास्यन्ति ते देवा यांस्त्वमावाहयिष्यसि ॥ 006c
इत्युक्त्वाऽन्तर्हितो विप्रस्ततोऽहं विस्मिताऽभवम् । 007a
न च सर्वास्ववस्थासु स्मृतिर्मे विप्रणश्यति ॥ 007c
अथ हर्म्यतलस्थाऽहं रविमुद्यन्तमीक्षती । 008a
संस्मृत्य तदृषेर्वाक्यं स्पृहयन्ती दिवाकरम् ॥ 008c
स्थिताऽहं बालभावेन तत्र दोषमबुद्ध्यती । 009a
अथ देवः सहस्रांशुर्मत्समीपगतोऽभवत् ॥ 009c
द्विधा कृत्वाऽऽत्मनो देहं भूमौ च गगनेऽपि च । 010a
तताप लोकानेकेन द्वितीयेनागमत्स माम् ॥ 010c
स मामुवाच वेपन्तीं वरं मत्तो वृणीष्व ह । 011a
गम्यतामिति तं चाहं प्रणम्य शिरसाऽवदम् ॥ 011c
स मामुवाच तिग्मांशुर्वृथाऽऽह्वानं न मे क्षमम् । 012a
धक्ष्यामि त्वां च विप्रं च येन दत्तो वरस्तव ॥ 012c
तमहं रक्षती विप्रं शापादनपकारिणम् । 013a
पुत्रो मे त्वत्समो देव भवेदिति ततोऽब्रवम् ॥ 013c
ततो मां तेजसाऽऽविश्य मोहयित्वा च भानुमान् । 014a
उवाच भविता पुत्रस्तवेत्यभ्यगमद्दिवम् ॥ 014c
ततोऽहमन्तर्भवने पितुश्चित्तानुरक्षिणी । 015a
गूढोत्पन्नं सुतं बालं जले कर्णमवासृजम् ॥ 015c
नूनं तस्यैव देवस्य प्रसादात्पुनरेव तु । 016a
कन्याऽहमभवं विप्र यथा प्राह स मामृषिः ॥ 016c
स मया मूढया पुत्रो ज्ञायमानोऽप्युपेक्षितः । 017a
तन्मां दहति विप्रर्षे यथा सुविदितं तव ॥ 017c
यदि पापमपापं वा यदेतद्विवृतं मया । 018a
तं द्रष्टुमिच्छामि भगवन्व्यपनेतुं त्वमर्हसि ॥ 018c
यच्चास्य राज्ञो विदितं हृदिस्थं भवतोऽनघ । 019a
तं चायं लभतां काममद्यैव मुनिसत्तम ॥ 019c
इत्युक्तः प्रत्युवाचेदं व्यासो वेदविदांवरः । 020a
साधु सर्वमिदं भाव्यमेवमेतद्यथाऽऽत्थ माम् ॥ 020c
अपराधश्च ते नास्ति कन्याभावं गता ह्यसि । 021a
देवाश्चैश्वर्यवन्तो वै शरीराण्याविशन्ति वै ॥ 021c
सन्ति देवनिकायाश्च सङ्कल्पाज्जनयन्ति ये । 022a
वाचा दृष्ट्या तथा स्पर्शात्सङ्घर्षेणेति पञ्चधा ॥ 022c
मनुष्यधर्मो दैवेन धर्मेण हि न दुष्यति । 023a
इति कुन्ति विजानीहि व्येतु ते मानसो ज्वरः ॥ 023c
सर्वं बलवतां पथ्यं सर्वं बलवतां शुचि । 024a
सर्वं बलवतां धर्मः सर्वं बलवतां स्वकम् ॥ ॥ 024c

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि पुत्रदर्शनपर्वणि द्वात्रिंशोऽध्यायः ॥ 32 ॥

15-32-3 आगसस्त्यागैरपराधत्यागैः ॥ 15-32-22 सङ्घर्षेण रत्या ॥