अध्यायः 031

धृतराष्ट्राश्रमे भ्रात्रादिभिः सैन्येन च सह मासमेकं निवसति युधिष्ठिरे कदाचन व्यासधृतराष्ट्रौ परिवार्य नारदादिभिर्गान्धार्यादिभिः पाण्डवैश्च समुपवेशनम् ॥ 1 ॥ तत्र गान्धार्या व्यासं प्रति धृतराष्ट्रस्य पुत्रदिदृक्षानिवेदने व्यासेन कुन्तीं प्रति तदभीष्टनिवेदनचोदना ॥ 2 ॥

जनमेजय उवाच । 001
वनवासं गते विप्र धृतराष्ट्रे महीपतौ । 001a
सभार्ये नृपशार्दूले वध्वा कुन्त्या समन्विते ॥ 001c
विदुरे चापि धर्मज्ञे धर्मराजं व्यपाश्रिते । 002a
वसत्सु पाण्डुपुत्रेषु सर्वेष्वाश्रममण्डले ॥ 002c
यत्तदाश्चर्यमिति वै करिष्यामीत्युवाच ह । 003a
व्यासः परमतेजस्वी महर्षिस्तद्वदस्व मे ॥ 003c
वनवासे च कौरव्यः कियन्तं कालमच्युतः । 004a
युधिष्ठिरो नरपतिर्न्यवसत्सजनस्तदा ॥ 004c
किमाहाराश्च ते तत्र ससैन्या न्यवसन्प्रभो । 005a
सान्तःपुरा महात्मान एतदिच्छामि वेदितुम् ॥ 005c
वैशम्पायन उवाच । 006
'वनवासगतं राजन्धृतराष्ट्रं महीपतिम् । 006a
युधिष्ठिरोऽभ्ययाद्द्रष्टुं ससैन्यो भ्रातृभिः सह ॥ 006c
प्रथमे दिवसे चैषामापो मूलं फलं तथा । 007a
भोजनं भूमिशय्या च तत्रासीद्भरतर्षभ ॥ 007c
तेऽनुज्ञातास्तदा राजन्कुरुराजेन पाण्डवाः । 008a
विविधान्यन्नपानानि शय्याश्चैवाभजन्वने ॥ 008c
मासमेकं विजह्रुस्ते ससैन्यान्तःपुरो वने । 009a
अथ तत्रागमद्व्यासो यथोक्तं ते मयाऽनघ ॥ 009c
तथा च तेषां सर्वेषां कथाभिर्नृपसन्निधौ । 010a
व्यासमन्वास्य तं राजन्नाजग्मुर्मुनयोऽपरे ॥ 010c
नारदः पर्वतश्चैव देवलश्च महातपाः । 011a
विश्वावसुस्तुम्बुरुश्च चित्रसेनश्च भारत ॥ 011c
तेषामपि यथान्यायं पूजां चक्रे महातपाः । 012a
धृतराष्ट्राभ्यनुज्ञातः कुरुराजो युधिष्ठिरः ॥ 012c
निषेदुस्ते ततः सर्वे पूजां प्राप्य युधिष्ठिरात् । 013a
आसनेषु च पुण्येषु बर्हिणेषु वरेषु च ॥ 013c
तेषु तत्रोपविष्टेषु स तु राजा महामतिः । 014a
पाण्डुपुत्रैः परिवृतो निषसाद कुरूद्वह ॥ 014c
गान्धारी चैव कुन्ती च द्रौपदी सात्वती तथा । 015a
स्त्रियश्चान्यास्तथाऽन्याभिः सहोपविविशुस्ततः ॥ 015c
तेषां तत्र कथा दिव्या धर्मिष्ठाश्चाभवन्नृप । 016a
राजर्षीणां पुराणानां देवासुरविमिश्रिताः ॥ 016c
ततः कथान्ते व्यासस्तं प्रज्ञाचक्षुषमीश्वरम् । 017a
प्रोवाच वदतांश्रेष्ठः पुनरेव स तद्वचः ॥ 017c
प्रीयमाणो महातेजाः सर्ववेदविदांवरः । 018a
विदितं मम राजेन्द्र यत्ते हृदि विवक्षितम् ॥ 018c
दह्यमानस्य शोकेन तव पुत्रकृतेन वै । 019a
गान्धार्याश्चैव यद्दुःखं हृदि तिष्ठति नित्यदा ॥ 019c
कुन्त्याश्च यन्महाराज द्रौपद्याश्च हृदि स्थितम् । 020a
यच्च धारयते तीव्रं दुःखं पुत्रविनाशजम् । 020c
सुभद्रा कृष्णभगिनी तच्चापि विदितं मम ॥ 020e
श्रुत्वा समागममिमं सर्वेषां वस्ततो नृप । 021a
संशयच्छेदनार्थाय प्राप्तः कौरवनन्दन ॥ 021c
इमे च देवगन्धर्वाः सर्वे चेमे महर्षयः । 022a
पश्यन्तु तपसो वीर्यमद्य मे चिरसम्भृतम् ॥ 022c
तदुच्यतां महाप्राज्ञ कं कामं प्रददामि ते । 023a
प्रवणोऽस्मि वरं दातुं पश्य मे तपसो बलम् ॥ 023c
एवमुक्तः स राजेन्द्रो व्यासेनामितबुद्धिना । 024a
मुहूर्तमिव सञ्चिन्त्य वचनायोपचक्रमे ॥ 024c
धन्योऽस्म्यनुगृहीतश्च सफलं जीवितं च मे । 025a
यन्मे समागमोऽद्येह भवद्भिः सह साधुभिः ॥ 025c
अद्य चाप्यवगच्छामि गतिमिष्टामिहात्मनः । 026a
ब्रह्मकल्पैर्भवद्भिर्यत्समेतोऽहं तपोधनाः ॥ 026c
दर्शनादेव भवतां पूतोऽहं नात्र संशयः । 027a
विद्यते न भयं चापि परलोके ममानघाः ॥ 027c
किन्तु तस्य सुदुर्बुद्धेर्मन्दस्यापनयैर्भृशम् । 028a
दूयते मे मनो नित्यं स्मरतः पुत्रगृद्धिनः ॥ 028c
अपापाः पाण्डवा येन निकृताः पापबुद्धिना । 029a
घातिता पृथिवी येन सहया सनरद्विपा ॥ 029c
राजानश्च महात्मानो नानाजनपदेश्वराः । 030a
आगम्य मम पुत्रार्थे सर्वे मृत्युवशं गताः ॥ 030c
ये ते पितॄंश्च दारांश्च प्राणांश्च मनसः प्रियान् । 031a
परित्यज्य गताः शूराः प्रेतराजनिवेशनम् ॥ 031c
का नु तेषां गतिर्ब्रह्मन्मित्रार्थे ये हता मृधे । 032a
तथैव पुत्रपौत्राणां मम ये निहता युधि ॥ 032c
दूयते मे मनोऽभीक्ष्णं घातयित्वा महाबलम् । 033a
भीष्मं शान्तनवं वृद्धं द्रोणं च द्विजसत्तमम् ॥ 033c
मम पुत्रेण मूढेन पापेनाकृतबुद्धिना । 034a
क्षयं नीतं कुलं दीप्तं पृथिवीराज्यमिच्छता ॥ 034c
'एते मदर्थे पुत्रांश्च दारांश्च मनसः प्रियान् । 035a
भोगांश्च विविधांस्तात इष्टापुर्तांस्तथैव च । 035c
परित्यज्य गताः शूराः प्रेतराजनिवेशनम् ॥' 035e
एतत्सर्वमनुस्मृत्य दह्यमानो दिवानिशम् । 036a
न शान्तिमधिगच्छामि दुःखशोकसमाहतः ॥ 036c
इति मे चिन्तयानस्य पितः शान्तिर्न विद्यते ॥ 037a
वैशम्पायन उवाच । 038
तच्छ्रुत्वा विविधं तस्य राजर्षेः परिदेवितम् । 038a
पुनर्नवीकृतः शोको गान्धार्या जनमेजय ॥ 038c
कुन्त्या द्रुपदपुत्र्याश्च सुभद्रायास्तथैव च । 039a
तासां च वरनारीणां वधूनां कौरवस्य ह ॥ 039c
पुत्रशोकसमाविष्टा गान्धारी त्विदमब्रवीत् । 040a
श्वशुरं बद्धनयना देवी प्राञ्जलिरुत्थिता ॥ 040c
'लोकान्तरगतान्पुत्रानयं काङ्क्षति मानद । 041a
तच्चास्य मानसं ज्ञातं भगवंस्तपसा त्वया ॥' 041c
षोडशेमानि वर्षाणि गतानि मुनिपुङ्गव । 042a
अस्य राज्ञो हतान्पुत्राञ्शोचतो न शमो विभो ॥ 042c
पुत्रशोकसमाविष्टो निःश्वसन्ह्येष भूमिपः । 043a
न शेते वसतीः सर्वा धृतराष्ट्रो महामुने ॥ 043c
लोकानन्यान्समर्थोऽसि स्रष्टुं सर्वांस्तपोबलात् । 044a
किमु लोकान्तरगतान्राज्ञो दर्शयितुं सुतान् ॥ 044c
इयं च द्रौपदी कृष्णा हतज्ञातिसुता भृशम् । 045a
शोचत्यतीव सर्वासां स्नुषाणां दयिता स्नुषा ॥ 045c
तथा कृष्णस्य भगिनी सुभद्रा भद्रभाषिणी । 046a
सौभद्रवधसन्तप्ता भृशं शोचति भामिनी ॥ 046c
इयं च भूरिश्रवसो भार्या परमसम्मता । 047a
भर्तृव्यसनशोकार्ता भृशं शोचति भामिनी ॥ 047c
यस्यास्तु श्वशुरो धीमान्बाह्लिकः स कुरूद्वहः । 048a
निहतः सोमदत्तश्च पित्रा सह महारणे ॥ 048c
श्रीमतोऽस्य महाबुद्धेः सङ्ग्रामेष्वपलायिनः । 049a
पुत्रस्य ते पुत्रशतं निहतं यद्रणाजिरे ॥ 049c
तस्य भार्याशतमिदं दुःखशोकसमाहतम् । 050a
पुनःपुनर्वर्धयानं शोकं राज्ञो ममैव च । 050c
हताहारेण महता मामुपास्ते महामुने ॥ 050e
ये च शूरा महात्मानः श्वशुरा मे महारथाः । 051a
सोमदत्तप्रभृतयः का नु तेषां गतिः प्रभो ॥ 051c
तव प्रसादाद्भगवन्विशोकोऽयं महीपतिः । 052a
कुर्यात्कालमहं चेयं वधूस्तव महामुने ॥ 052c
इत्युक्तवत्यां गान्धार्यां कुन्ती व्रतकृशानना । 053a
प्रच्छन्नजातं पुत्रं तं सस्मारादित्यसन्निभम् ॥ 053c
तामृषिर्वरदो व्यासो दूरश्रवणदर्शनः । 054a
अपश्यद्दुःखितां देवीं मातरं सव्यसाचिनः ॥ 054c
तामुवाच ततो व्यासो यत्ते कार्यं विवक्षितम् । 055a
तद्ब्रूहि त्वं महाभागे यत्ते मनसि वर्तते ॥ 055c
श्वशुराय ततः कुन्ती प्रणम्य शिरसा तदा । 056a
उवाच वाक्यं सव्रीडा विवृण्वाना पुरातनम् ॥ ॥ 056c

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि पुत्रदर्शनपर्वणि एकत्रिंशोऽध्यायः ॥ 31 ॥

15-31-13 बर्हिणेषु पक्षिबर्हजतूलिकामयेषु ॥ 15-31-50 मामुपास्ते भार्याशतं रोदनं कुर्वत् मामेव परिवार्य तिष्ठतीत्यर्थः