अध्यायः 030

व्यासेन धृतराष्ट्रं प्रति कुशलादिप्रश्नपूर्वकं विदुरस्य निजस्वरूपादिप्रतिपादनम् ॥ 1 ॥ तथा इतरमहर्षिदुष्करतदभीष्टाश्चर्यकर्मकरणप्रतिज्ञानम् ॥ 2 ॥

वैशम्पायन उवाच । 001
ततः समुपविष्टेषु पाण्डवेषु महात्मसु । 001a
व्यासः सत्यवतीपुत्रः प्रोवाचामन्त्र्य पार्थिवम् ॥ 001c
धृतराष्ट्र महाबाहो कच्चित्ते वर्तते तपः । 002a
कच्चिन्मनस्ते प्रीणाति वनवासे नराधिप ॥ 002c
कच्चिद्धृदि न ते शोको राजन्पुत्रविनाशजः । 003a
कच्चिज्ज्ञानानि सर्वाणि सुप्रसन्नानि तेऽनघ ॥ 003c
कच्चिद्बुद्धिं दृढां कृत्वा चरस्यारण्यकं विधिम् । 004a
कच्चिद्वधूश्च गान्धारी न शोकेनाभिभूयते ॥ 004c
महाप्रज्ञा बुद्धिमती देवी धर्मार्थदर्शिनी । 005a
आगमापायतत्त्वज्ञा कच्चिदेषा न शोचति ॥ 005c
कच्चित्कुन्ती च राजंस्त्वां शुश्रूषत्यनहङ्कृता । 006a
या परित्यज्य स्वं पुत्रं गुरुशुश्रूषणे रता ॥ 006c
कच्चिद्धर्मसुतो राजा त्वया प्रत्यभिनन्दितः । 007a
भीमार्जुनयमाश्चैव कच्चिदेतेऽपि सान्त्विताः ॥ 007c
कच्चिन्नन्दसि दृष्ट्वैतान्कच्चिते निर्मलं मनः । 008a
कच्चिच्च शुद्धभावोऽसि जातज्ञानो नराधिप ॥ 008c
एतद्धि त्रितयं श्रेष्ठं सर्वभूतेषु भारत । 009a
निर्वैरता महाराज सत्यमक्रोध एव च ॥ 009c
कच्चित्ते न च मोहोऽस्ति वनवासेन भारत । 010a
स्वदत्ते वन्यमन्नं वा उपवासोऽपि वा भवेत् ॥ 010c
विदितं चापि राजेन्द्र विदुरस्य महात्मनः । 011a
गमनं विधिनाऽनेन धर्मस्य सुमहात्मनः ॥ 011c
माण्डव्यशापाद्धि स वै धर्मो विदुरतां गतः । 012a
महाबुद्धिर्महायोगी महात्मा सुमहामनाः ॥ 012c
बृहस्पतिर्वा देवेषु शुक्रो वाऽप्यसुरेषु च । 013a
न तथा बुद्धिसम्पन्नो यथा स पुरुषर्षभः ॥ 013c
तपोबलव्ययं कृत्वा सुचिरात्सम्भृतं तदा । 014a
माण्डव्येनर्षिणा धर्मो ह्यभिभूतः सनातनः ॥ 014c
नियोगाद्ब्रह्मणः पूर्वं मया स्वेन बलेन च । 015a
वैचित्रवीर्यके क्षेत्रे जातः स सुमहामतिः ॥ 015c
भ्राता तव महाराज देवदेवः सनातनः । 016a
धारणान्मनसा ध्यानाद्यं धर्मं कवयो विदुः ॥ 016c
सत्येन संवर्धयति यो दमेन शमेन च । 017a
अहिंसया च दानेन तपसा च सनातनः ॥ 017c
येन योगबलाज्जातः कुरुराजो युधिष्ठिरः । 018a
धर्म इत्येष नृपते प्राज्ञेनामितबुद्धिना ॥ 018c
यथा वह्निर्यथा वायुर्यथाऽऽपः पृथिवी यथा । 019a
यथाऽऽकाशं तथा धर्म इह चामुत्र च स्थितः ॥ 019c
सर्वगश्चैव राजेन्द्र सर्वं व्याप्य चराचरम् । 020a
दृश्यते देवदेवैः स सिद्धैर्निर्मुक्तकल्मषैः ॥ 020c
यो हि धर्मः स विदुरो विदुरो यः स पाण्डवः । 021a
स एष राजन्दृश्यस्ते पाण्डवः प्रेष्यवत्स्थितः ॥ 021c
प्रविष्टः स महात्मानं भ्राता ते बुद्धिसम्मतः । 022a
दृष्ट्वा महात्मा कौन्तेयं महायोगबलान्वितः ॥ 022c
त्वां चापि श्रेयसा योक्ष्ये नचिराद्भरतर्षभ । 023a
संशयच्छेदनार्थाय प्राप्तं मां विद्धि पुत्रक ॥ 023c
न कृतं यैः पुरा कैश्चित्कर्म लोके महर्षिभिः । 024a
आश्चर्यभूतं तपसः फलं तद्दर्शयामि वः ॥ 024c
किमिच्छसि महीपाल मत्तः प्राप्तुमभीप्सितम् । 025a
द्रष्टुं स्प्रष्टुमथ श्रोतुं तत्कर्ताऽस्मि तवानघ ॥ ॥ 025c

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि त्रिंशोऽध्यायः ॥ 30 ॥

15-30-6 या परित्यज्य राज्यं स्वमिति क.थ.पाठः ॥