अध्यायः 029
युधिष्ठिरेण धृतराष्ट्राभ्यनुज्ञया भ्रात्रादिभिः सह महर्षीणामाश्रमदर्शनम् ॥ 1 ॥ शतयूपादिभिः सशिष्येण व्यासेन च युधिष्ठिरादिभिः परिवृतस्य धृतराष्ट्रस्याश्रमं प्रत्यागमनम् ॥ 2 ॥
वैशम्पायन उवाच । 001
ततस्तु राजन्नेतेषामाश्रमे पुण्यकर्मणाम् । 001a
शिवा नक्षत्रसम्पन्ना सा व्यतीयाय शर्वरी ॥ 001c
ततस्तत्र कथाश्चासंस्तेषां धर्मार्थलक्षणाः । 002a
विचित्रपदसञ्चारा नानाश्रुतिभिरन्विताः ॥ 002c
पाण्डवास्त्वभितो मातुर्धरण्यां सुषुपुस्तदा । 003a
उत्सृज्य तु महार्हाणि शयनानि नराधिप ॥ 003c
यदाहारोऽभवद्राजा धृतराष्ट्रो महामनाः । 004a
तदाहारा नृवीरास्ते न्यवसंस्तां निशां तदा ॥ 004c
व्यतीतायां तु शर्वर्यां कृतपौर्वाह्णिकक्रियः । 005a
भ्रातृभिः सहितो राजा ददर्शाश्रममण्डलम् ॥ 005c
सान्तःपुरपरीवारः सभृत्यः सपुरोहितः । 006a
यथासुखं यथोद्देशं धृतराष्ट्राभ्यनुज्ञया ॥ 006c
ददर्श तत्र वेदीश्च सम्प्रज्वलितपावकाः । 007a
कृताभिषेकैर्मुनिभिर्हुताग्निभिरुपस्थिताः ॥ 007c
वानेयपुष्पनिकरैराज्यधूमोद्गमैरपि । 008a
ब्राह्मेण वपुषा युक्ता युक्ता मुनिगणस्य ताः ॥ 008c
मृगयूथैरनुद्विग्नैस्तत्रतत्र समाश्रितैः । 009a
अशङ्कितैः पक्षिगणैः प्रगीतैरिव च प्रभो ॥ 009c
केकाभिर्नीलकण्ठानां दात्यूहानां च कूजितैः । 010a
कोकिलानां कुहुरवैः सुखैः श्रुतिमनोहरैः ॥ 010c
प्राधीतद्विजघोषैश्च क्वचित्क्वचिदलङ्कृतम् । 011a
फलमूलसमाहारैर्महद्भिश्चोपशोभितम् ॥ 011c
ततः स राजा प्रददौ तापसार्थमुपाहृतान् । 012a
कलशान्काञ्चनान्राजंस्तथैवौदुम्बरानपि ॥ 012c
अजिनानि प्रवेणीश्च स्रुक्स्रुवं च महीपतिः । 013a
कमण्डलूंश्च स्थालीश्च पिठराणि च भारत ॥ 013c
भाजनानि च लौहानि पात्रीश्च विविधा नृप । 014a
यद्यदिच्छति यावच्च यदन्यदपि काङ्क्षितम् ॥ 014c
एवं स राजा धर्मात्मा परीत्याश्रममण्डलम् । 015a
वसु विश्राण्य तत्सर्वं पुनरायान्महीपतिः ॥ 015c
कृताह्निकं च राजानं धृतराष्ट्रं महीपतिम् । 016a
ददर्शासीनमव्यग्रं गान्धारीसहितं तदा ॥ 016c
मातरं चाविदूरस्थां शिष्यवत्प्रणतां स्थिताम् । 017a
कुन्तीं ददर्श धर्मात्मा शिष्टाचारसमन्विताम् ॥ 017c
स तमभ्यर्च्य राजानं नाम संश्राव्य चात्मनः । 018a
निषीदेत्यभ्यनुज्ञातो वृस्यामुपविवेश ह ॥ 018c
भीमसेनादयश्चैव पाण्डवा भरतर्षभ । 019a
अभिवाद्योपसङ्गृह्य निषेदुः पार्थिवाज्ञया ॥ 019c
स तैः परिवृतो राजा शुशुभेऽतीव कौरवः । 020a
बिभ्रद्ब्राह्मीं श्रियं दीप्तां देवैरिव बृहस्पतिः ॥ 020c
तथा तेषूपविष्टेषु समाजग्मुर्महर्षयः । 021a
शतयूपप्रभृतयः कुरुक्षेत्रनिवासिनः ॥ 021c
व्यासश्च भगवान्विप्रो देवर्षिगणसेवितः । 022a
वृतः शिष्यैर्महातेजा दर्शयामास पार्थिवम् ॥ 022c
ततः स राजा कौरव्यः कुन्तीपुत्रश्च धर्मराट् । 023a
भीमसेनादयश्चैव प्रत्युत्थायाभ्यवादयन् ॥ 023c
समागतस्ततो व्यासः शतयूपादिभिर्वृतः । 024a
धृतराष्ट्रं महीपालमास्यतामित्यभाषत ॥ 024c
वरं तु विष्टरं कौश्यं कृष्णाजिनकुशोत्तरम् । 025a
प्रतिपेदे तदा व्यासस्तदर्थमुपकल्पितम् ॥ 025c
ते च सर्वे द्विजश्रेष्ठा विष्टरेषु समन्ततः । 026a
द्वैपायनाभ्यनुज्ञाता निषेदुर्विपुलौजसः ॥ ॥ 026c
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि एकोनत्रिंशोऽध्यायः ॥ 29 ॥
15-29-8 मुनिगणस्य मुनिगणेन । ता वैदिक्यो लौकिक्यश्च ॥ 15-29-9 मृगयूथादिभिरलङ्कृतमाश्रमम् ॥ 15-29-12 औदुम्बरान् कलशान् ॥ 15-29-13 प्रवेणीः कुथाः ॥