अध्यायः 028

धृतराष्ट्रयुधिष्ठिराभ्यां परस्परकुशलप्रश्नादिपूर्वकं सल्ँलापः ॥ 1 ॥ युधिष्ठिरेण धृतराष्ट्रं प्रति विदुरः क्वेति प्रश्ने तत्रत्येन केनचिद्यदृच्छया धृतराष्ट्रमुपसर्पतो जनावलोकनेन प्रतिनिवर्तमानस्य च तस्य प्रदर्शनम् ॥ 2 ॥ ततो युधिष्ठिरेणानुधावनेन तत्समीपगमनम् ॥ 3 ॥ ततो विदुरे योगात्स्वशरीरत्यागेन तच्छरीरप्रवेशः ॥ 4 ॥ युधिष्ठिरेण धृतराष्ट्रादिषु तदद्भुतनिवेदनम् ॥ 5 ॥

धृतराष्ट्र उवाच । 001
युधिष्ठिर महाबाहो कच्चित्त्वं कुशली ह्यसि । 001a
सहितो भ्रातृभिः सर्वैः पौरजानपदैस्तथा ॥ 001c
ये च त्वामनुजीवन्ति कच्चित्तेऽपि निरामयाः । 002a
सचिवा भृत्यवर्गाश्च गुरवश्चैव ते नृप ॥ 002c
कच्चित्तेऽपि निरातङ्का वसन्ति विषये तव । 003a
कच्चिद्वर्तसि पौराणीं वृत्तिं राजर्षिसेविताम् ॥ 003c
कच्चिन्न्यायाननुच्छिद्य कोशस्तेऽभिप्रपूर्यते । 004a
अरिमध्यस्थमित्रेषु वर्तसे चानुरूपतः । 004c
ब्राह्मणानग्रहारैर्वा यथावदनुपश्यसि ॥ 004e
कच्चित्ते परितुष्यन्ति शीलेन भरतर्षभ । 005a
शत्रवोऽपि कुतः पौरा भृत्या वा स्वजनोऽपि वा ॥ 005c
कच्चिद्यजसि राजेन्द्र श्रद्धावान्पितृदेवताः । 006a
अतिथीनन्नपानेन कच्चिदर्चसि भारत ॥ 006c
कच्चिन्नयपथे विप्राः स्वकर्मनिरतास्तव । 007a
क्षत्रिया वैश्यवर्णा वा शूद्रा वाऽपि कुटुम्बिनः ॥ 007c
कच्चित्स्त्रीबालवृद्धं ते न शोचति न याचते । 008a
जामयः पूजिताः कच्चित्तव गेहे नरर्षभ ॥ 008c
कच्चिद्राजर्षिवंशोऽयं त्वामासाद्य महीपतिम् । 009a
यथोचितं महाराज यशसा नावसीदति ॥ 009c
वैशम्पायन उवाच । 010
इत्येवंवादिनं तं स न्यायवित्प्रत्यभाषत । 010a
कुशलप्रश्नसंयुक्तं कुशलो वाक्यमब्रवीत् ॥ 010c
युधिष्ठिर उवाच । 011
अपि ते वर्धते राजंस्तपो मन्दः श्रमश्च ते ॥ 011a
अपि मे जननी चेयं शुश्रूषुर्विगतक्लमा । 012a
अथास्याः सफलो राजन्वनवासो भविष्यति ॥ 012c
इयं च माता ज्येष्ठा मे शीतवाताध्वकर्शिता । 013a
घोरेण तपसा युक्ता देवी कच्चिन्न शोचति ॥ 013c
हतान्पुत्रान्महावीर्यान्क्षत्रधर्मपरायणान् । 014a
नापध्यायति वा कच्चिदस्मान्पापकृतः सदा ॥ 014c
क्व चासौ विदुरो राजन्नेमं पश्यामहे वयम् । 015a
सञ्जयः कुशली चायं कच्चिन्नु तपसि स्थिरः ॥ 015c
वैशम्पायन उवाच । 016
इत्युक्तः प्रत्युवाचैनं धृतराष्ट्रो जनाधिपम् । 016a
कुशली विदुरः पुत्र तपो घोरं समाश्रितः ॥ 016c
वायुभक्षो निराहारः कृशो धमनिसन्ततः । 017a
कदाचिद्दृश्यते विप्रैः शून्येऽस्मिन्कानने क्वचित् ॥ 017c
इत्येवं ब्रुवतस्तस्य जटी वीटामुखः कृशः । 018a
दिग्वासा मलदिग्धाङ्गो वनरेणुसमुक्षितः ॥ 018c
दूरादालक्षितः क्षत्ता तत्राख्यातो महीपतेः । 019a
'विदुरस्त्वेष धर्मात्मा जनं दृष्ट्वा निवर्तते ॥' 019c
निवर्तमानं सहसा जनं दृष्ट्वाऽऽश्रमं प्रति । 020a
तमन्वधावन्नृपतिरेक एव युधिष्ठिरः । 020c
प्रविशन्तं वनं घोरं लक्ष्यालक्ष्यं क्वचित्क्वचित् ॥ 020e
भोभो विदुर राजाऽहं दयितस्ते युधिष्ठिरः । 021a
इति ब्रुवन्नरपतिस्तं यत्नादभ्यधावत ॥ 021c
ततो विविक्त एकान्ते तस्थौ बुद्धिमतां वरः । 022a
विदुरो वृक्षमाश्रित्य कञ्चित्तत्र वनान्तरे ॥ 022c
तं राजा क्षीणभूयिष्ठमाकृतीमात्रसूचितम् । 023a
अभिजज्ञे महाबुद्धिं महाबुद्धिर्युधिष्ठिरः ॥ 023c
युधिष्ठिरोऽहमस्मीति वाक्यमुक्त्वाऽग्रतः स्थितः । 024a
विदुरस्याश्रमे राजा स च प्रत्याह सञ्ज्ञया ॥ 024c
ततः सोऽनिमिषो भूत्वा राजानं तमुदैक्षत । 025a
संयोज्य विदुरस्तस्मिन्दृष्टिं दृष्ट्या समाहितः ॥ 025c
विवेश विदुरो धीमान्गात्रैर्गात्राणि चैव ह । 026a
प्राणान्प्राणेषु च दधदिन्द्रियाणीन्द्रियेषु च ॥ 026c
स योगबलमास्थाय विवेश नृपतेस्तनुम् । 027a
विदुरो धर्मराजस्य तेजसा प्रज्वलन्निव ॥ 027c
विदुरस्य शरीरं तु तथैव स्तब्धलोचनम् । 028a
वृक्षाश्रितं तदा राजा ददर्श गतचेतनम् ॥ 028c
बलवन्तं तथाऽऽत्मानं मेने बहुगुणं तदा । 029a
धर्मराजो महातेजास्तच्च सस्मार पाण्डवः ॥ 029c
पौराणामात्मनः सर्वं भविष्यं च विशाम्पते । 030a
योगधर्मं महातेजा व्यासेन कथितं यथा ॥ 030c
धर्मराजश्च तत्रैनं सञ्चस्कारयिषुस्तदा । 031a
दग्धुकामोऽभवद्विद्वानथ वागभ्यभाषत ॥ 031c
भोभो राजन्न दग्धव्यमेतद्विदुरसञ्ज्ञकम् । 032a
कलेबरमिहैवं ते धर्म एष सनातनः ॥ 032c
लोको वैकर्तनो नाम भविष्यत्यस्य भारत । 033a
यतिधर्ममवाप्तोऽसौ नैष शोच्यः परन्तप ॥ 033c
इत्युक्तो धर्मराजः स विनिवृत्य ततः पुनः । 034a
राज्ञो वैचित्रवीर्यस्य तत्सर्वं प्रत्यवेदयत् ॥ 034c
ततः स राजा धृतिमान्स च सर्वो जनस्तदा । 035a
भीमसेनादयश्चैव परं विस्मयमागताः ॥ 035c
तच्छ्रुत्वा प्रीतिमान्राजा भूत्वा धर्मजमब्रवीत् । 036a
आपो मूलं फलं चैव ममेदं प्रतिगृह्यताम् ॥ 036c
यदन्नो हि नरो राजंस्तदन्नोऽस्यातिथिः स्मृतः । 037a
इत्युक्तः स तथेत्येवं प्राह धर्मात्मजो नृपम् ॥ 037c
फलं मूलं च बुभुजे राज्ञा दत्तं सहानुजः । 038a
ततस्ते वृक्षमूलेषु कृतवासपरिग्रहाः । 038c
तां रात्रिमवसन्सर्वे फलमूलजलाशनाः ॥ ॥ 038e

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि अष्टाविंशोऽध्यायः ॥ 28 ॥

15-28-4 कच्चिदायाननुच्छिद्येति क.पाठः ॥ 15-28-8 जामयः सौभाग्यवत्यः ॥ 15-28-18 वीटा पाषाणकवलः । वनदिग्धाङ्गो वानरैरुपलक्षित इति थ.पाठः ॥ 15-28-29 तच्च स्वस्य विदुरस्य च एकस्यैव धर्मस्यांशाज्जातत्वं सस्मार ॥ 15-28-30 योगधर्मं सस्मारेत्यनुषज्यते ॥ 15-28-31 सञ्चस्कारयिषुः संस्कारं लम्भयितुमिच्छुः ॥ 15-28-33 लोकास्सान्तानिकानाम भविष्यन्त्यस्येति झ.पाठः । यतिधर्मो दाहाद्ययोग्यत्वम् ॥