अध्यायः 027

सञ्जयेन तापसान्प्रति युधिष्ठिरादीनां द्रौपद्यादिस्त्रीणां चाङ्गुलिनिर्देशेन नामनिर्देशः ॥ 1 ॥

वैशम्पायन उवाच । 001
स तैः सह नरव्याघ्रैर्भ्रातृभिर्भरतर्षभ । 001a
राजा रुचिरपद्माक्षैरासाञ्चक्रे तदाश्रमे ॥ 001c
तापसैश्च महाभागैर्नानादेशसमागतैः । 002a
द्रष्टुं कुरुपतेः पुत्रान्पाण्डवान्पृथुवक्षसः ॥ 002c
ते ब्रुवञ्ज्ञातुमिच्छामः कतमोऽत्र युधिष्ठिरः । 003a
भीमार्जुनौ यमौ चैव द्रौपदी च यशस्विनी ॥ 003c
तानाचख्यौ तदा सूतस्तेषां नाम प्रधानतः । 004a
सञ्जयो द्रौपदीं चैव सर्वाश्चान्या कुरुस्त्रियः ॥ 004c
सञ्जय उवाच । 005
य एष जाम्बूनदशुद्धगौरस्तनुर्महासिंह इव प्रवृद्धः । 005a
प्रचण्डघोणः पृथुदीर्घनेत्रस्ताम्रायताक्षः कुरुराज एषः ॥ 005c
अयं पुनर्मत्तगजेन्द्रगामी प्रतप्तचामीकरशुद्धगौरः । 006a
पृथ्वायतांसः पृथुदीर्घबाहुर्वृकोदरः पश्यत पश्यतेमम् ॥ 006c
यस्त्वेष पार्श्वेऽस्य महाधनुष्माञ्श्यामो युवा वारणयूथपाभः । 007a
सिंहोन्नतांसो गजखेलगामी पद्मायताक्षोऽर्जुन एष वीरः ॥ 007c
कुन्तीसमीपे पुरुषोत्तमौ तु यमाविमौ विष्णुमहेन्द्रकल्पौ । 008a
मनुष्यलोके सकले समोऽस्ति ययोर्न रूपे न बले न शीले ॥ 008c
इयं पुनः पद्मदलायताक्षी मध्यं वयः किञ्चिदिव स्पृशन्ती । 009a
नीलोत्पलाभा पुरदेवतेव कृष्णा स्थिता मूर्तिमतीव लक्ष्मीः ॥ 009c
अस्यास्तु पार्श्वे कनकोपमत्वगेषा स्थिता मूर्तिमतीव गौरी । 010a
सत्ये स्थिता सा भगिनी द्विजाग्र्याश्चक्रायुधस्याप्रतिमस्य तस्य ॥ 010c
इयं च जाम्बूनदशुद्धगौरी पार्थस्य भार्या भुजगेन्द्रकन्या । 011a
चित्राङ्गदा चैव नरेन्द्रकन्या यैषा सवर्णार्द्रमधूकपुष्पैः ॥ 011c
इयं स्वसा राजचमूपतेश्च प्रवृद्धनीलोत्पलदामवर्णा । 012a
पस्पर्ध कृष्णेन सदा नृपो यो वृकोदरस्यैष परिग्रहोऽग्र्यः ॥ 012c
इयं च राज्ञो मगधाधिपस्य सुता जरासन्ध इति श्रुतस्य । 013a
यवीयसो माद्रवतीसुतस्य भार्या मता चम्पकदामगौरी ॥ 013c
इन्दीवरश्यामतनुः स्थिता तु यैषा पराऽऽसन्नतरोर्लतेव । 014a
भार्या मता माद्रवतीसुतस्य ज्येष्ठस्य सेयं कमलायताक्षी ॥ 014c
इयं तु निष्टप्तसुवर्णगौरी राज्ञो विराटस्य सुता सपुत्रा । 015a
भार्याऽभिमन्योर्निहतो रणे यो द्रोणादिभिस्तैर्विरथो रथस्थैः ॥ 015c
एतास्तु सीमन्तशिरोरुहा याः शुक्लोत्तरीया नरराजपत्न्यः । 016a
राज्ञोस्य वृद्धस्य परंशताख्याः स्नुषा नृवीराहतपुत्रनाथाः ॥ 016c
एता यथामुख्यमुदाहृता वो ब्राह्मण्यभावादृजुबुद्धिसत्वात् । 017a
सर्वा भवद्भिः परिपृच्छ्यमाना नरेन्द्रपत्न्यः सुविशुद्धसत्वाः । 017c
'सर्वे भवन्तोऽपि तपोबलाग्र्याः क्षान्ताश्च दान्ताश्च कुलोद्भवाश्च ॥' 017e
वैशम्पायन उवाच । 018
एवं स राजा कुरुवृद्धवर्यःसमागतस्तैर्नरदेवपुत्रैः । 018a
पप्रच्छ सर्वं कुशलं तदानीं गतेषु सर्वेष्वथ तापसेषु ॥ 018c
योधेषु चाप्याश्रममण्डलं तन्मत्वा निविष्टेषु विमुच्य पत्रम् । 019a
स्त्रीवृद्धबाले च सुसन्निविष्टे यथार्हतस्तान्कुशलान्यपृच्छत् ॥ ॥ 019c

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि सप्तविंशोऽध्यायः ॥ 27 ॥

15-27-12 परिग्रहो भार्या ॥ 15-27-14 यासौ विशुद्धाम्बुजपद्मनेत्रा इति क.थ.पाठः ॥ 15-27-16 सीमन्तमात्रेण उपलक्षिता । नत्वलङ्कारादिना तादृशाः शिरोरुहाः केशा यासां ताः सीमन्तशिरोरुहाः । असीमन्तेति पाठो युक्तः । शुक्लोत्तरीया नरराजकन्या इति क.थ.पाठः ॥ 15-27-19 पत्रं वाहनम् ॥