अध्यायः 026

युधिष्ठिरादिभिः शतयूपाश्रमे धृतराष्ट्रादीनुपेत्य स्वस्वनामकीर्तनपूर्वकं तत्पादाभिवादनम् ॥ 1 ॥ धृतराष्ट्रेण स्वावस्थादर्शनेन शोचतां तेषां समाश्वासनम् ॥ 2 ॥

वैशम्पायन उवाच । 001
ततस्ते पाण्डवा दूरादवतीर्य पदातयः । 001a
अभिजग्मुर्नरपतेराश्रमं विनयानताः ॥ 001c
स च योधजनः सर्वो ये च राष्ट्रनिवासिनः । 002a
स्त्रियश्च कुरुमुख्यानां पद्भिरेवान्वयुस्तदा ॥ 002c
आश्रमं ते ततो जग्मुर्धृतराष्ट्रस्य पाण्डवाः । 003a
शून्यं मृगगणाकीर्णं कदलीवनशोभितम् ॥ 003c
ततस्तत्र समाजग्मुस्तापसा नियतव्रताः । 004a
पाण्डवानागतान्द्रष्टुं कौतूहलसमन्विताः ॥ 004c
तानपृच्छत्ततो राजा क्वासौ कौरववंशभृत् । 005a
पिता ज्येष्ठो गतोऽस्माकमिति बाष्पपरिप्लुतः ॥ 005c
ते तमूचुस्ततो वाक्यं यमुनामवगाहितुम् । 006a
पुष्पाणामुदकुम्भस्य चार्थे गत इति प्रभो ॥ 006c
तैराख्यातेन मार्गेण ततस्ते जग्मुरञ्जसा । 007a
ददृशुश्चाविदूरे तान्सर्वानथ पदातयः ॥ 007c
ततस्ते सत्वरा जग्मुः पितुर्दर्शनकाङ्क्षिणः । 008a
सहदेवस्तु वेगेन प्राधावद्यत्र सा पृथा ॥ 008c
सुस्वरं रुरुदे धीमान्मातुः पादावुपस्पृशन् । 009a
सा च बाष्पाकुलमुखी ददर्श दयितं सुतम् ॥ 009c
बाहुभ्यां सम्परिष्वज्य समुन्नाम्य च पुत्रकम् । 010a
गान्धार्याः कथयामास सहदेवमुपस्थितम् ॥ 010c
अनन्तरं च राजानं भीमसेनमथार्जुनम् । 011a
नकुलं च पृथा दृष्ट्वा त्वरमाणोपचक्रमे ॥ 011c
सा ह्यग्रे गच्छति तयोर्दम्पत्योर्हतपुत्रयोः । 012a
कर्षन्ती तौ ततस्ते तां दृष्ट्वा सन्न्यपतन्भुवि । 012c
'तयोस्तु पादयो राजन्न्यपतन्हतपुत्रयोः ॥' 012e
राजा तान्स्वरयोगेन स्पर्शेन च महामनाः । 013a
प्रत्यभिज्ञाय मेधावी समाश्वासयत प्रभुः ॥ 013c
ततस्ते बाष्पमुत्सृज्य गान्धारीसहितं नृपम् । 014a
उपतस्थुर्महात्मानो मातरं च यथाविधि ॥ 014c
सर्वेषां तोयकलशाञ्जगृहुस्ते स्वयं तदा । 015a
पाण्डवा लब्धसञ्ज्ञास्ते मात्रा चाश्वासिताः पुनः ॥ 015c
तथा नार्यो नृसिंहानां सोऽवरोधजनस्तदा । 016a
पौरजानपदाश्चैव ददृशुस्तं जनाधिपम् ॥ 016c
निवेदयामास तदा जनं तन्नामगोत्रतः । 017a
युधिष्ठिरो नरपतिः स चैनं प्रत्यपूजयत् ॥ 017c
स तैः परिवृतो मेने हर्षबाष्पाविलेक्षणः । 018a
राजाऽऽत्मानं गृहगतं पुरेव गजसाह्वये ॥ 018c
अभिवादितो वधूभिश्च कृष्णाद्याभिः स पार्थिवः । 019a
गान्धार्या सहितो धीमान्कुन्त्या च प्रत्यनन्दत ॥ 019c
ततश्चाश्रममागच्छत्सिद्धचारणसेवितम् । 020a
दिदृक्षुभिः समाकीर्णं नभस्तारागणैरिव ॥ ॥ 020c

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि षड्विंशोऽध्यायः ॥ 26 ॥