अध्यायः 025

युधिष्ठिरेण नानायानारूढैः पौरैर्भ्रातृभिश्च सह धृतराष्ट्रादिदिदृक्षया शतयूपाश्रमवनप्रवेशः ॥ 1 ॥

वैशम्पायन उवाच । 001
आज्ञापयामास ततः सेनां भरतसत्तमः । 001a
अर्जुनप्रमुखैर्गुप्तां लोकपालोपमैर्नरैः ॥ 001c
योगोयोग इति प्रीत्या ततः शब्दो महानभूत् । 002a
क्रोशतां सादिनां तत्र युज्यतां युज्यतामिति ॥ 002c
केचिद्यानैर्नरा जग्मुः केचिदश्वैर्महाजवैः । 003a
काञ्चनैश्च रथैः केचिज्ज्वलितज्वलनोपमैः ॥ 003c
गजेन्द्रैश्च तथैवान्ये केचिदुष्ट्रैर्नराधिप । 004a
पदातयस्तथैवान्ये नखरप्रासयोधिनः ॥ 004c
पौरजानपदाश्चैव यानैर्बहुविधैस्तथा । 005a
अन्वयुः कुरुराजानं धृतराष्ट्रं दिदृक्षवः ॥ 005c
स चापि राजवचनादाचार्यो गौतमः कृपः । 006a
सेनामादाय सेनानीः प्रययावाश्रमं प्रति ॥ 006c
ततो द्विजैः परिवृतः कुरुराजो युधिष्ठिरः । 007a
संस्तूयमानो बहुभिः सूतमागधबन्दिभिः ॥ 007c
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि । 008a
रथानीकेन महता निर्जगाम कुरूद्वहः ॥ 008c
गजैश्चाचलसङ्काशैर्भीमकर्मा वृकोदरः । 009a
सज्जयन्त्रायुधोपेतैः प्रययौ पवनात्मजः ॥ 009c
माद्रीपुत्रावपि तथा हयारोहौ सुसंवृतौ । 010a
जग्मतुः शीघ्रगमनौ सन्नद्धकवचध्वजौ ॥ 010c
अर्जुनश्च महातेजा रथेनादित्यवर्चसा । 011a
वशी श्वेतैर्हयैर्युक्तैर्दिव्येनान्वगमन्नृपम् ॥ 011c
द्रौपदीप्रमुखाश्चापि स्त्रीसङ्घाः शिबिकागताः । 012a
स्त्र्यध्यक्षगुप्ताः प्रययुर्विसृजन्तोऽमितं वसु ॥ 012c
समृद्धरथहस्त्यश्वं वेणुवीणानुनादितम् । 013a
शुशुभे पाण्डवं सैन्यं तत्तदा भरतर्षभ ॥ 013c
नदीतीरेषु रम्येषु सरःसु च विशाम्पते । 014a
वासान्कृत्वा क्रमेणाथ जग्मुस्ते कुरुपुङ्गवाः ॥ 014c
युयुत्सुश्च महातेजा धौम्यश्चैव पुरोहितः । 015a
युधिष्ठिरस्य वचनात्पुरगुप्तिं प्रचक्रतुः ॥ 015c
ततो युधिष्ठिरो राजा कुरुक्षेत्रमवातरत् । 016a
क्रमोणोत्तीर्य यमुनां नदीं परमपाविनीम् ॥ 016c
स ददर्शाश्रमं दूराद्राजर्षेस्तस्य धीमतः । 017a
शतयूपस्य कौरव्य धृतराष्ट्रस्य चैव ह ॥ 017c
ततः प्रमुदितः सर्वो जनस्तद्वनमञ्जसा । 018a
विवेश सुमहानादैरापूर्य भरतर्षभ ॥ ॥ 018c

इति श्रीमन्महाभारते आश्रमिवासिकपर्वणि आश्रमिवासपर्वणि पञ्चविंशोऽध्यायः ॥ 25 ॥

15-25-3 यानैर्मनुष्यवाह्यैः ॥ 15-25-4 नखरप्रासः व्याघ्रनखवत्पराचीनफलककुक्षिर्यः ॥