अध्यायः 024
युधिष्ठिरेण वनस्थकुन्तीधृतराष्ट्रादिदिदृक्षया द्रौपद्यादिभिः पौरैर्भ्रातृभिश्च सह वनं प्रति प्रस्थानम् ॥ 1 ॥
001 वैशम्पायन उवाच ।
एवं ते पुरुषव्याघ्राः पाण्डवा मातृनन्दनाः । 001a
स्मरन्तो मातरं वीरा बभूवुर्भृशदुःखिताः ॥ 001c
ये राजकार्येषु पुरा व्यासक्ता नित्यशोऽभवन् । 002a
ते राजकार्याणि तदा नाकार्षुः सर्वतः पुरे ॥ 002c
प्रविष्टा इव शोकेन नाभ्यनन्दन्त किञ्चन । 003a
सम्भाष्यमाणा अपि ते न किञ्चित्प्रत्यपूजयन् ॥ 003c
ते स्म वीरा दुराधर्षा गाम्भीर्ये सागरोपमाः । 004a
शोकोपहतविज्ञाना नष्टसञ्ज्ञा इवाभवन् ॥ 004c
अचिन्तयंश्च जननीं ततस्ते पाण्डुनन्दनाः । 005a
कथं नु वृद्धमिथुनं वहत्यतिकृशा पृथा ॥ 005c
कथं च स महीपालो हतपुत्रो निराश्रयः । 006a
पत्न्या सह वसत्येको वने श्वापदसेविते ॥ 006c
सा च देवी महाभागा गान्धारी हतबान्धवा । 007a
पतिमन्धं कथं वृद्धमन्वेति विजने वने ॥ 007c
एवं तेषां कथयतामौत्सुक्यमभवत्तदा । 008a
गमने चाभवद्बुद्धिर्धृतराष्ट्रदिदृक्षया ॥ 008c
सहदेवस्तु राजानं प्रणिपत्येदमब्रवीत् । 009a
अहो मे भवतो दृष्टं हृदयं गमनं प्रति । 009c
न हि त्वां गौरवेणाहमशकं वक्तुमञ्जसा । 010a
गमनं प्रति राजेन्द्र तदिदं समुपस्थितम् ॥ 010c
दिष्ट्या द्रक्ष्यामि तां कुन्तीं वर्तयन्तीं तपस्विनीम् । 011a
जटिलां तापसीं वृद्धां कुशकाशपरिक्षताम् ॥ 011c
प्रासादहर्म्यसंवृद्धामत्यन्तसुखभागिनीम् । 012a
कदा नु जननीं श्रान्तां द्रक्ष्यामि भृशदुःखिताम् ॥ 012c
अनित्याः खलु मर्त्यानां गतयो भरतर्षभ । 013a
कुन्ती राजसुता यत्र वसत्यसुखिता वने ॥ 013c
सहदेववचः श्रुत्वा द्रौपदी योषितां वरा । 014a
उवाच देवी राजानमभिपूज्याभिनन्द्य च ॥ 014c
कदा द्रक्ष्यामि तां देवीं यदि जीवति सा पृथा । 015a
जीवन्त्या ह्यद्य मे प्रीतिर्भविष्यति जनाधिप ॥ 015c
एषा तेऽस्तु मतिर्नित्यं धर्मे ते रमतां मनः । 016a
योऽद्य त्वमस्मान्राजेन्द्र श्रेयसा योजयिष्यसि ॥ 016c
अग्रपादस्थितं चेमं विद्धि राजन्वधूजनम् । 017a
काङ्क्षन्तं दर्शनं कुन्त्या गान्धार्याः श्वशुरस्य च ॥ 017c
इत्युक्तः स नृपो देव्या द्रौपद्या भरतर्षभ । 018a
सेनाध्यक्षान्समानाय्य सर्वानिदमुवाच ह ॥ 018c
निर्यातयत मे सेनां प्रभूतरथकुञ्जराम् । 019a
द्रक्ष्यामि वनसंस्थं च धृतराष्ट्रं महीपतिम् ॥ 019c
स्त्र्यध्यक्षांश्चाब्रवीद्राजा यानानि विविधानि मे । 020a
सज्जीक्रियन्तां सर्वाणि शिबिकाश्च सहस्रशः ॥ 020c
शकटापणवेशाश्च कोशः शिल्पिन एव च । 021a
निर्यान्तु कोशपालाश्च कुरुक्षेत्राश्रमं प्रति ॥ 021c
यश्च पौरजनः कश्चिद्द्रष्टुमिच्छति पार्थिवम् । 022a
अनावृतः सुविहितः स च यातु सुरक्षितः ॥ 022c
सूदाः पौरोगवाश्चैव सर्वं चैव महानसम् । 024a
विविधं भक्ष्यभोज्यं च शकटैरुह्यतां मम ॥ 024c
प्रयाणं घुष्यतां चैव श्वोभूत इति माचिरम् । 024a
क्रियतां पथि चाप्यद्य वेश्मानि विविधानि च । 024c
एवमाज्ञाप्य राजा स भ्रातृभिः सह पाण्डवः । 025a
श्वोभूते निर्ययौ राजन्सस्त्रीवृद्धपुरःसरः ॥ 025c
स बहिर्दिवसानेव जनौघं परिपालयन् । 026a
न्यवसन्नृपतिः पञ्च ततोऽगच्छद्वनं प्रति ॥ ॥ 026c
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि चतुर्विंशोऽध्यायः ॥ 24 ॥
15-24-17 अग्रपादस्थितं प्रयाणार्थं पुरस्कृतेनैव पादेन स्थितम् । अत्यन्तमुत्सुकमित्यर्थः ॥